२०

विंशः सर्गः २०

पुण्य उवाच ।

कः पिता किं च वा मित्रं का माता के च बान्धवाः ।
स्वबुद्ध्यैवावधूयन्ते वात्यया जनपांसवः ॥ १ ॥

नानायोनिषु जन्मानि पावनस्यात्मनस्तथा ।
इह पुण्येन कीर्त्यन्ते शोकमोहापनुत्तये ॥ १ ॥

शोकस्य मोहमूलकत्वान्मोहापनयनेनैवास्य शोकोऽपनेय इति मन्यमानः
पुण्यस्तद्विषयाणां पित्रादीनामनिर्वचनीयत्वान्मिथ्यात्वं प्रतिज्ञाय
ज्ञानापनोद्यतामाह - कः पितेति । कः किंस्वरूपः । तत्त्वतो
निर्वक्तुमशक्याः सर्वेऽपीत्यर्थः । स्वबुद्ध्या स्वभ्रान्त्यैवावधूयन्ते
उत्थाप्यन्ते । अथवा स्वविवेकबुद्धिलक्षणया वात्यया
स्वजनपांसवोऽवधूयन्ते निरस्यन्ते ॥ १ ॥

बन्धुमित्रसुतस्नेहद्वेषमोहदशामयः ।
स्वसञ्ज्ञामात्रकेणैव प्रपञ्चोऽयं वितन्यते ॥ २ ॥

स्नेहद्वेषमोहदशालक्षण आमयो रोगः । स्वसञ्ज्ञा स्वकृतः
सङ्केतस्तन्मात्रकेणैव ॥ २ ॥

बन्धुत्वे भावितो बन्धुः परत्वे भावितः परः ।
विषामृतदशेवेह स्थितिर्भावनिबन्धनी ॥ ३ ॥

उक्तमुपपादयति - बन्धुत्वे इति । भावितो दृढभावनया सङ्केतितः ।
परत्वे शत्रुत्वे । यथा विषकृतिभिर्विषस्य जीवनहेतुत्वेन
दृढभावनात्तान्प्रति अमृतदृशा अन्यस्तद्विपरीतभावनाद्विषदशा चेति
भावनिबन्धनी स्थितिस्तद्वदित्यर्थः ॥ ३ ॥

एकत्वे विद्यमानस्य सर्वगस्य किलात्मनः ।
अयं बन्धुः परश्चायमित्यसौ कलना कुतः ॥ ४ ॥

आस्तां बन्धुतत्त्वचिन्ता तदनुशोचिनस्तव स्वतत्त्वविमर्शमात्रेण ते निरसितुं
शक्या इत्याशयेनाह - एकत्वे इति । सर्वदेहेष्वेकत्वे अभिन्नत्वे ॥ ४ ॥

रक्तमांसास्थिसङ्घाताद्देहादेवास्थिपञ्जरात् ।
कोऽहं स्यामिति चेत्तेन स्वयं पुत्र विचारय ॥ ५ ॥

नन्वहं कथं सर्वदेहेष्वेक इति चेदहं प्रत्ययवेद्यमेव कोऽसाविति
विमृशेत्याह - रक्तेति । रक्तादिजडसङ्घाताद्देहादन्यश्चेतनस्वभावः
कोऽहं स्यामिति विचारयेत्यर्थः ॥ ५ ॥

दृष्ट्या तु पारमार्थिक्या न कश्चित्त्वं न वास्म्यहम् ।
मिथ्याज्ञानमिदं पुण्यः पावनश्चेति वल्गति ॥ ६ ॥

त्वं पावनशब्दवाच्यो देहादिर्न कश्चित् । अहं पुण्यशब्दवाच्यः ।
मिथ्याज्ञानं देहात्मताभ्रम एव वल्गति प्रथते ॥ ६ ॥

कस्ते पिता कश्च सुहृत्का माता कश्च वा परः ।
खस्यानन्तविलासस्य किमत्वं किं स्वमुच्यताम् ॥ ७ ॥

एवं पित्रादिशरीरमपि विमर्शे भ्रान्तिरेवेत्याह - क इति । यदि तु
देहाद्युपाधिनिष्कृष्टं चिदाकाशमेवाहं त्वं पित्रादयश्चेति मन्यसे तदा
मम पिता मम भ्रातेत्यादिभेदघटितः स्वत्वादिसम्बन्धो न घटत एवेत्याह

  • खस्येति । खस्य चिदाकाशस्य ॥ ७ ॥

असि चेत्त्वं तदन्येषु यातेषु बहुजन्मसु ।
ये बन्धवो ये विभवाः किं तानपि न शोचसि ॥ ८ ॥

लिङ्गशरीराण्येवाहं मद्बान्धवाश्चेति चेत्तत्राह - असि चेदिति । त्वं
मद्व्यावृत्तलिङ्गात्मा असि चेत्तत्तदा यातेष्वतीतेषु किं किमर्थं न शोचसि ॥ ८ ॥

बभूवुस्ते सुपुष्पासु स्थलीषु मृगयोनिषु ।
बहवो बन्धवो मार्गास्तान्कथं नानुशोचसि ॥ ९ ॥

जन्मान्तरबन्धून्प्रपञ्चयति - बभूवुरित्यादिना । मार्गाः मृगयोनिजा
जीवाः ॥ ९ ॥

बभूवुस्ते सपद्मासु तटीष्वम्भोजिनीषु ते ।
हंसस्य बन्धवो हंसास्तान्कथं नानुशोचसि ॥ १० ॥

अम्भोजिनीषु पद्मवनीषु नद्यादितटीषु हंसस्य ते ते तत्कालप्रसिद्धा हंसा
बन्धवो बभूवुः । तटीष्वम्भोधियोषिताम् इति पाठे नदीनां तटीष्वित्यर्थः ॥
१० ॥

बभूवुस्तेऽलमन्यत्र चित्रासु वनराजिषु ।
बहवो बन्धवो वृक्षास्तान्कथं नानुशोचसि ॥ ११ ॥

अन्यत्रान्येषु जन्मसु । अलमत्यन्तं बन्धवो बभूवुः ॥ ११ ॥

बभूवुस्ते महोग्रेषु शिखरेषु महीभृताम् ।
बहवो बान्धवाः सिंहास्तान्कथं नानुशोचसि ॥ १२ ॥

बभूवुस्ते स्रवन्तीषु सरःस्वम्भोजिनीषु च ।
बहवो बन्धवो मत्स्यास्तान्कथं नानुशोचसि ॥ १३ ॥

स्रवन्तीषु नदीषु ॥ १३ ॥

बभूविथ दशार्णेषु कपिलो वनवानरः ।
राजपुत्रस्तुषारेषु पुण्ड्रेषु वनवायसः ॥ १४ ॥

इदानीं भ्रातुर्जन्मभेदान्योगबलेन दृष्टान्विशिष्य स्मारयन्नाह -
बभूविथेति । दशार्णतुषारपुण्ड्रादयो देशविशेषाः ॥ १४ ॥

हैहयेषु च मातङ्गस्त्रिगर्तेषु च गर्दभः ।
शाल्वेषु सरमापुत्रः पतत्री सरलद्रुमे ॥ १५ ॥

सरमा शुनी तस्याः पुत्रः । पतत्री पक्षी अर्थाच्छाल्वेष्वेव ॥ १५ ॥

विन्ध्याद्रौ पिप्पलो भूत्वा घुणो भूत्वा महावटे ।
मन्दरे कुक्कुटो भूत्वा विप्रो जातोऽसि कन्दरे ॥ १६ ॥

घुणः काष्ठकीटकः अर्थान्मन्दरस्यैव कन्दरे दरीप्रदेशे ॥ १६ ॥

कोसलेषु द्विजो भूत्वा भूत्वा वङ्गेषु तित्तिरिः ।
अश्वो भूत्वा तुषारेषु जातस्त्वं ब्रह्मणोऽध्वरे ॥ १७ ॥

पुष्करेषु प्रसिद्धे ब्रह्मणः प्रजापतेरध्वरे जातः पशुरिति शेषः । यातः इति
वा पाठः ॥ १७ ॥

यः कीटस्तालकन्दान्तर्मशको य उदुम्बरे ।
यः प्राग्बको विन्ध्यवने स त्वं पुत्र ममानुजः ॥ १८ ॥

तालतरोः कन्दो मूलं तदन्तः । त्रीण्यपि जन्मानि विन्ध्यवने ॥ १८ ॥

हिमवत्कन्दरे भूर्जतनुत्वग्ग्रन्थिकोटरे ।
पिपीलिको यः षण्मासान्सोऽयं त्वमनुजो मम ॥ १९ ॥

भूर्जवृक्षस्य तन्वी मृदुला या त्वक् तद्ग्रन्थिप्रभवे कोटरे बिले ॥ १९ ॥

स्थितः सीमान्तकुग्रामगोमये यश्च वृश्चिकः ।
सार्धसंवत्सरं साधो सोऽयं त्वमनुजो मम ॥ २० ॥

अर्थात्स्वदेशसीमाया अन्ते यः कुग्रामस्तत्रत्ये शुष्कगोमयोत्करे ॥ २० ॥

पुलिन्दीस्तनपीठेषु निलीनं येन कानने ।
षट्पदेनेव पद्मेषु सोऽयं त्वमनुजो मम ॥ २१ ॥

लीनं अर्थात्पुलिन्दीशिशुज्न्म प्राप्येति गम्यते ॥ २१ ॥

एतास्वन्यासु बह्वीषु जनयोनिषु पुत्रक ।
जातोऽसि जम्बूद्वीपेऽस्मिन्पुरा शतसहस्रशः ॥ २२ ॥

इत्थं तवात्मनश्चैव प्राक्तनं वासनाक्रमम् ।
पश्यामि सूक्ष्मया बुद्ध्या सम्यग्दर्शनशुद्धया ॥ २३ ॥

ममापि बह्व्यो बहुधा योनयो मोहमन्थराः ।
समतीताः स्मराम्यद्य ता ज्ञानोदितया दृशा ॥ २४ ॥

भ्रातृजन्मोक्तीरुपसंहृत्य स्वजन्मभेदान्वक्तुमारभते - ममापीति ।
मोहमन्थरा अज्ञानजडाः ॥ २४ …

त्रिगर्तेषु शुको भूत्वा भेको भूत्वा सरित्तटे ।
वनेषु लावको भूत्वा जातोऽहमिह कानने ॥ २५ ॥

लावकः क्षुद्रपक्षिविशेषः ॥ २५ ॥

भुक्त्वा पुलिन्दतां विन्ध्ये कृत्वा वङ्गेषु वृक्षताम् ।
उष्ट्रत्वमपि विन्ध्याद्रौ जातोऽहमिह कानने ॥ २६ ॥

वृक्षतां कृत्वा वृक्षजन्म भुक्त्वेत्यर्थः । उष्ट्रत्वमुष्ट्रजन्म ।
न्युब्जत्वम् इति पाठेऽपि न्युब्जपृष्ठमुष्ट्रत्वमेव भुक्त्वेह जात इत्यर्थः ॥ २६

यश्चातको हिमगिरौ यो राजा पौण्ड्रमण्डले ।
व्याघ्रो यः सह्यकुञ्जेषु स एवाहं [स एवेह इति पाठः]
तवाग्रजः ॥ २७ ॥

यो गृध्रो दशवर्षाणि यो ग्राहो मासपञ्चकम् ।
यः समानां सिंहः स एवेह तवाग्रजः ॥ २८ ॥

इहास्मिञ्जन्मनि ॥ २८ ॥

आन्ध्रग्रामचकोरेण तुषारनृपराजिना ।
श्रीशैलाचार्यपुत्रेण दम्भवत्कथ्यते मया ॥ २९ ॥

तुषारेषु हिमवत्प्रदेशेषु नृपवद्विराजनशीलेन माण्डलिकेनेत्यर्थः ।
अपुण्यस्य स्वस्य लोकवञ्चनाय पुण्यनाम्ना प्रख्यापनं
दम्भस्तद्वत्स्थितेन मयेत्युत्प्रेक्षा । मयेदं कथ्यते तव इति पाठे तु स्पष्टम्
॥ २९ ॥

सर्वे विविधसंसारा विविधाचारचेष्टिताः ।
विलासा जन्मनो भ्रान्ते स्मर्यन्ते प्राक्तना मया ॥ ३० ॥

जन्मनः जन्मभेदरूपाया भ्रान्तेर्विलासाः ॥ ३० ॥

एवं स्थिते जगज्जाता बान्धवाः शतशो गताः ।
पितरो मातरश्चैव भ्रातरः सुहृदस्तथा ॥ ३१ ॥

उपसंहृत्य प्रकृते योजयति - एवं स्थिते इति ॥ ३१ ॥

कांस्तान्समनुशोचावो न शोचावश्च कानपि ।
बन्धूनिहातिशोचाव ईदृश्येव जगद्गतिः ॥ ३२ ॥

तान् प्राक्तनान्बन्धून्कान् शोचावः । तान्बन्धूनतिक्रम्य इह कान् शोचावः । न
कांश्चिदपि शोचावः । यत ईदृश्येव जगद्गतिरित्यर्थः ॥ ३२ ॥

अनन्ताः पितरो यान्ति यान्त्यनन्ताश्च मातरः ।
इह संसारिणां पुंसां वनपादपपर्णवत् ॥ ३३ ॥

किं प्रमाणमतः पुत्र दुःखस्यात्र सुखस्य च ।
तस्मात्सर्वं परित्यज्य तिष्ठावः स्वच्छतां गतौ ॥ ३४ ॥

किं प्रमाणमवधिः । सर्वं शोकं दृश्यमात्रं वा ॥ ३४ ॥

प्रपञ्चभावनां त्यक्त्वा मनस्यहमिति स्थिताम् ।
तां गतिं गच्छ भद्रं ते यां यान्ति गतिकोविदाः ॥ ३५ ॥

गतिकोविदा आत्मावगतिकुशलाः ॥ ३५ ॥

इहाजवं जवीभावं पतनोत्पतनात्मकम् ।
न [नानुशोचन्ति इति पाठः] च शोचन्ति सुधियश्चिरं वल्गन्ति
केवलम् ॥ ३६ ॥

पतनमधोगतिरुत्पतनमूर्ध्वगतिस्तदात्मकं आजवं
जवीभावमविश्रान्तभ्रमणम् । केवलं निरभिमानतया वल्गन्ति व्यवहरन्ति ॥
३६ ॥

भावाभावविनिर्मुक्तं जरामरणवर्जितम् ।
संस्मरत्मानमव्यग्रो मा विमूढमना भव ॥ ३७ ॥

न ते दुःखं न ते जन्म न ते माता न ते पिता ।
आत्मैवसि न सद्बुद्धे त्वमन्यः कश्चिदेव हि ॥ ३८ ॥

त्वमात्मैवासि नान्यः अनात्मभूतदेहादिः कश्चित्त्वमसीत्यर्थः ॥ ३८ ॥

अस्यां संसारयात्रायां नानाभिनयदायिनः ।
अज्ञा एव नराः साधुरसभावसमन्विताः ॥ ३९ ॥

नर्तकवन्नानाभिनया अभिनिवेशचेष्टास्तद्दायिनस्तत्कारिणोऽज्ञामूढा एव
नराः साधुरसभावः पुरुषार्थसारताबुद्धिस्तत्समन्विता इत्यर्थः ॥ ३९ ॥

मध्यस्थदृष्टयः स्वस्था यथाप्राप्तार्थदर्शिनः ।
तज्ज्ञास्तु प्रेक्षका एव साक्षिधर्मे व्यवस्थिताः ॥ ४० ॥

तज्ज्ञास्तत्त्वज्ञास्तु तटस्थदृष्टय उदासीनाः प्रेक्षका एव । अत एव
साक्षिधर्मे व्यवस्थिता ॥ ४० ॥

कर्तारोऽपि न कर्तारो यथा दीपा निशागमे ।
आलोककर्मणामेवं तज्ज्ञा लोकस्थिताविह ॥ ४१ ॥

निशाया आगमे आगमने सति आलोककर्मणां प्रकाशनक्रियाणां यथा दीपाः
सन्निधिमात्रेण कर्तारोऽपि अव्याप्रियमाणत्वादकर्तार एवं तज्ज्ञा
लोकव्यवहारस्थितावित्यर्थः ॥ ४१ ॥

प्रतिबिम्बे न दृश्यन्ते स्वात्मबिम्बगतैरपि ।
यथा दर्पणरत्नाद्यास्तथा कार्ये महाधियः ॥ ४२ ॥

दृष्टान्तान्तरमाह - प्रतिबिम्बे इति । यथा करादिगतदर्पणा रत्नाद्याः
प्रतिबिम्बोपाधयः स्वात्मनो बिम्बभूतसर्वदेहगतैः सर्वैर्धर्मैः सहापि
स्वात्मनि कृते प्रतिबिम्बे बिम्बधर्मान्तरवत्स्वयं निविष्टा न दृश्यन्ते
तद्वत्स्वात्मन्यध्यस्ते कार्ये कर्तारोऽपि मधाधियः स्वयमभिनिविष्टा न
भवन्तीत्यर्थः ॥ ४२ ॥

सर्वैषणामयकलङ्कविवर्जितेन
स्वस्थात्मभावकलितेन हृदब्जमध्ये ।
पुत्रात्मनात्मनि महामुनिनामुनैव
सन्त्यज्य सम्भ्रममलं परितोषमेहि ॥ ४३ ॥

हे पुत्र सर्वैरेषणामयकलङ्कैर्विवर्जितेन अत एव मुनिना मननशीलेन
आत्मना स्वेनैव हृदब्जमध्ये स्वस्थात्मस्वभावेन कलितेन साक्षात्कृतेन
संसारसम्भ्रमं अलं निःशेषं त्यक्त्वा अमुना परिशिष्टेनात्मनैव
परितोषमेहीत्यर्थः ॥ ४३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु
उपशमप्रकरणे पावनबोधो नाम विंशः सर्गः ॥ २० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे पावनबोधो
नाम विंशः सर्गः ॥ २० ॥