एकोनविंशः सर्गः १९
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
भ्रात्रोस्त्रिपथगातीरे संवादं मुनिपुत्रयोः ॥ १ ॥
इहोक्तसिद्धये पुण्यपावनाख्यानमुच्यते ।
पुण्यो यत्पितृशोकार्तं पावनं समबोधयत् ॥ १ ॥
अत्र उक्तार्थविषये ॥ १ ॥
अयं बन्धुरयं नेति कथाप्रस्तावतः स्मृतम् ।
इतिहासमिमं पुण्यमाश्चर्यं शृणु राघव ॥ २ ॥
अस्त्यस्य जम्बूद्वीपस्य कस्मिंश्चिद्गिरिकुञ्जके ।
वनव्यूहमहोत्तंसं महेन्द्रो नाम पर्वतः ॥ ३ ॥
मध्ये । निर्धारणे सप्तमी । पुञ्जके इति पाठः स्पष्टः ॥ ३ ॥
कल्पद्रुमवनच्छायाविश्रान्तमुनिकिन्नरः ।
शृङ्गैराततमाकाशं जितवान्यः समुन्नतैः ॥ ४ ॥
आततं विस्तीर्णमप्याकाशं शृङ्गैर्जितवान् व्याप्तवान् ॥ ४ ॥
ब्रह्मलोकान्तरप्राप्तशृङ्गकन्दरचारिभिः ।
सामवेदप्रतिध्वानघुङ्घुमैर्गायतीव यः ॥ ५ ॥
ब्रह्मलोकेत्यतिशयोक्तिः ॥ ५ ॥
यः पयोमेदुरैर्मेघैर्लसितैः शृङ्गकोटिषु ।
लताकुसुमसम्प्रोतैः कुन्तलैरिव राजते ॥ ६ ॥
पयोमेदुरैर्नीलैरिति यावत् । लसितैर्विद्युद्भिर्विराजमानैः । कुन्तलैः केशैः ॥ ६ ॥
यस्तदोड्डयनोत्कानां [यस्तटोड्डयनोत्कानां इति टीकाकृत्सम्मतः
पाठः] शरभाणां विजृम्भितैः ।
विस्फूर्जति गुहावक्रैः कल्पाभ्राणि हसन्निव ॥ ७ ॥
तटेषु उड्डयने उत्कानां सोत्कण्ठानां शरभाणामष्टापदानां
विजृम्भितैर्विस्फूर्जति गर्जति [गर्जति इति क्वचिन्न पठ्यते] ॥ ७ ॥
येन निर्झरनिर्ह्रादैः कन्दरान्तरचारिभिः ।
समुद्रजलकल्लोलविलासो विजितोऽभितः ॥ ८ ॥
कन्दरान्तरेषु चारिभिः प्रतिध्वनितैरिति यावत् । कल्लोलानां विलासः
सगर्जितनृत्यम् ॥ ८ ॥
तस्यैकदेशे वितते रत्नसानौ मनोरमे ।
मुनिभिः स्नानपानार्थं व्योमगङ्गावतारिता ॥ ९ ॥
रत्नमये सानौ प्रस्थदेशे व्योमगङ्गा मन्दाकिनी ॥ ९ ॥
तस्यास्त्रिपथगायास्तु तीरे विकसितद्रुमे ।
रत्नाद्रितटविद्योते कचत्कनकपिञ्जरे ॥ १० ॥
रत्नाद्रेर्मेरोस्तटमिव विद्योतमाने ॥ १० ॥
आसीदभ्युदितज्ञानस्तपोराशिरुदारधीः ।
मुनिदीर्घतपा नाम तपो मूर्तमिवापरम् ॥ ११ ॥
अभ्युदितं ज्ञानं परमात्मबोधो यस्य । मूर्त धृतशरीरम् ॥ ११ ॥
मुनेर्बभूवतुस्तस्य पुत्रौ द्वाविन्दुसुन्दरौ ।
पुण्यपावननामानौ द्वौ कचाविव वाक्पतेः ॥ १२ ॥
द्वौ कचाविवेत्यभूतोपमा । वाक्पतेर्बृहस्पतेः ॥ १२ ॥
स ताभ्यां सह पुत्राभ्यां भार्यया च सहैकया ।
उवास सरितस्तीरे तस्मिन्सफलपादपे ॥ १३ ॥
अथ काले तयोस्तस्य पुत्रयोर्ज्ञानवानभूत् ।
पुण्यो नाम च यो ज्येष्ठो गुणज्येष्ठश्च राघव ॥ १४ ॥
ज्ञानवान् तत्त्ववित् ॥ १४ ॥
पावनोर्धप्रबुद्धोऽभूत्पूर्वसन्ध्याम्बुजं यथा ।
मौर्ख्यादधिगतो नाप्तः पदे दोलायितः स्थितः ॥ १५ ॥
अर्धप्रबुद्ध इत्यस्य विवरणं मौर्ख्यादधिगतो निर्गतः । पदे
परमात्मवस्तुनि चानाप्तः । अन्तराले दोलायितः स्थितः ॥ १५ ॥
ततो वहत्यकलिते काले कलितकारणे ।
संवत्सरशते जीर्णदीर्घदेहलतायुषि ॥ १६ ॥
अकलिते प्राणिभिरायुःक्षयत्वेनालक्षिते । संवत्सरशतात्मके । देहलता च
आयुश्च देहलतायुषी जीर्णे देहलतायुषी येन तथाविधे काले वहत्यतिक्रामति सति
मुनिर्देहं जहाविति व्यवहितेन सम्बन्धः ॥ १६ ॥
अस्माद्भङ्गुरभूताढ्याद्वृत्तान्तशतभीषणात् ।
रतिमुत्सृज्य संसाराज्जराजर्जरजीवितः ॥ १७ ॥
जन्मजरामरणस्वर्गपातनरकादिवृत्तान्तशतैर्भीषणात्संसाराद्रति##-
१७ ॥
कलनापक्षिणी नीडं देहं दीर्घतपा मुनिः ।
जहौ गिरिगुहागेहे भारं वैवधिको यथा ॥ १८ ॥
यथा वैवधिको वीवधवाहको गेहे वीवधभारं जहाति तथेत्यर्थः ।
विवधवीवधशब्दावुभयतो बद्धशिक्ये स्कन्दवाह्ये काष्ठविशेषे वर्तेते ॥
१८ ॥
प्रशान्तकलनारम्भं चेत्यरिक्तचिदास्पदम् ।
पदं जगाम नीरागं पुष्पगन्ध इवाम्बरम् ॥ १९ ॥
प्रशान्ताः कलनारम्भा यत्र । चेत्यै रिक्ता रहिता याश्चितस्तत्तज्जीवचैतन्यानि
तेषामास्पदं प्रतिष्ठाभूतं परमपदम् । यथा
पुष्पगन्धोऽम्बरमाकाशं गच्छति तद्वत् ॥ १९ ॥
अथ भार्या मुनेर्देहं प्राणापानविवर्जितम् ।
दृष्ट्वा विलुलितं भूमौ विनालमिव पङ्कजम् ॥ २० ॥
चिरमभ्यस्तया योगयुक्त्या पतिवितीर्णया ।
तत्याज तनुमम्लानां षट्पदी पद्मिनीमिव ॥ २१ ॥
पत्या वितीर्णया उपदिष्टया योगयुक्त्या । अम्लानां रोगजरादिम्लानिरहितामपि
तनुं तत्याज ॥ २१ ॥
भर्तारमेवानुययौ जनस्यादृष्टतां गता ।
प्रभागगनकोशस्थमस्तं यातमिवोडुपम् ॥ २२ ॥
ब्रह्मीभूतं भर्तारमेव अनुययौ स्वयमपि ब्रह्मीभावं प्रापेति यावत् । नहि
ब्रह्मविदां देशान्तरे गतिरस्ति । न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते
इति श्रुतेः ॥ २२ ॥
मातापित्रोस्तु गतयोरौर्ध्वदेहिककर्मणि ।
पुण्य एव स्थितोऽव्यग्रः पावनो दुःखमाययौ ॥ २३ ॥
अव्यग्रो विशोकः ॥ २३ ॥
शोकोपहृतचित्तोऽसौ भ्रमन्काननवीथिषु ।
ज्यायांसमनवेक्ष्यैव पावनो विललाप ह ॥ २४ ॥
ज्यायांसं ज्येष्ठभ्रातरं अनवेक्ष्य । तद्वद्धैर्यमनाल्म्ब्येति यावत् ॥ २४ ॥
अथौर्ध्वदेहिकं कृत्वा मातापित्रोरुदारधीः ।
आययौ विपिने पुण्यः पावनः शोकलालसम् ॥ २५ ॥
पुण्य उवाच ।
किं पुत्र घनतां शोकं नयस्यान्ध्यैककारणम् ।
बाष्पधाराधरं घोरं प्रावट्काल इवाम्बुजम् ॥ २६ ॥
पितृसमो ज्येष्ठ इति शास्त्रात्पुत्रेति सम्बोधनम् । शोकं दुःखमूष्माणं च
। घनतां निबिडतां मेघतां च । अत एव
बाष्पधाराधरमान्ध्यैककारणमिति च श्लेषात् साधारणे विशेषणे ।
आम्बुजं अम्बुजसम्बन्धिनमम्बुजसदृशनेत्रसम्बन्धिनं च ॥ २६ ॥
पिता तव महाप्राज्ञ गतः सार्धं त्वदम्बया ।
स्वामेव परमात्मात्मपदवीं मोक्षनामिकाम् ॥ २७ ॥
तत्स्थानं सर्वजन्तूनां तद्रूपं विजितात्मनाम् ।
स्वभावमभिसम्पन्ने किं पितर्यनुशोचसि ॥ २८ ॥
स्थानं उत्पत्त्यादिकालत्रयेऽप्याधारभूतम् । जन्तूनां जननधर्मिणां
प्राणिनाम् । विजितात्मनां ब्रह्मविदाम् । रूपं स्वरूपम् । अत एव न पितुः
शोच्यतेत्याह - स्वभावमिति ॥ २८ ॥
ईदृशी तु त्वया बद्धा भावनेह विमोहजा ।
संसारे यदशोच्योऽपि त्वया तातोनुशोच्यते ॥ २९ ॥
ईदृशी इयमेव मम माता अयमेव मम पितेत्येवंरूपा । यत् यया भावनया
॥ २९ ॥
न सैव भवतो माता नासावेव पिता तव ।
न भवानेष तनयस्तयोर्निःसङ्ख्यपुत्रयोः ॥ ३० ॥
निःसङ्क्याः सङ्ख्यातुमशक्याः पुत्रा ययोः ॥ ३० ॥
मातापितृसहस्राणि समतीतानि ते सुत ।
बहून्यम्बुप्रवाहस्य निम्नानीव वने वने ॥ ३१ ॥
निम्नानि गम्भीरस्थानानीव ॥ ३१ ॥
असङ्ख्यपुत्रयोर्नैव भवानेव सुतस्तयोः ।
सरित्तरङ्गवत्पुत्र गताः पुत्रगणा नृणाम् ॥ ३२ ॥
हे पुत्र नृणामन्येषामपि ॥ ३२ ॥
अस्मत्पित्रोरतीतानि पुत्रलक्षाण्यनेकशः ।
पत्रकोरकवृन्तानि लताविटपयोरिव ॥ ३३ ॥
विटपग्रहणेन विटपी लक्ष्यते । विटपिनोरिवेति वा पाठः ॥ ३३ ॥
मित्रबान्धववृन्दानि जन्तोर्जन्मनि जन्मनि ।
ऋतावृतावतीतानि फलानीव महातरोः ॥ ३४ ॥
शोचनीया यदि स्नेहान्मातापितृसुताः सुत ।
तदतीता न शोच्यन्ते किमजस्रं सहस्रशः ॥ ३५ ॥
न शोच्यन्ते त्वयेति शेषः ॥ ३५ ॥
प्रपञ्चोऽयं महाभाग दृश्यते जागते भ्रमे ।
परमार्थेन ते प्राज्ञ नास्ति मित्रं न बान्धवाः ॥ ३६ ॥
जागते जगत्कल्पनानिमित्ते भ्रमे मोहे सत्येव दृश्यते । परमार्थेन
परमार्थतस्तु ते तव न । तथाचोक्तं वार्तिके -
अविद्यास्तीत्यविद्यायामेवासित्वा प्रकल्प्यते । ब्रह्मदृष्ट्या त्वविद्येयं न
कथञ्चन युज्यते इति ॥ ३६ ॥
न नाश इव हि भ्रातः परमार्थेन विद्यते ।
महत्यपि चिरातप्ते मराविव पयोलवाः ॥ ३७ ॥
परमार्थेन परमार्थदृष्ट्या मरोर्मरुत्वादेव पयोलवा न सन्ति तत्र
चिरातप्ते सुतराम् । तथा ब्रह्मस्वाभाव्यादेव नाशो नास्ति तत्र तत्त्वबोधे
सुतरामिति द्योतनायापिशब्दः ॥ ३७ ॥
एता याः प्रेक्षसे लक्ष्मीश्छत्रचामरचञ्चलाः ।
स्वप्न एव महाबुद्धे दिनानि त्रीणि पञ्च वा ॥ ३८ ॥
लक्ष्मीः राज्यादिसम्पदः । स्वप्न एव ता इति शेषः ॥ ३८ ॥
दृष्ट्या तु पारमार्थिक्या पुत्रं सत्यं विचारय ।
नैव त्वं न वयं चैव भ्रान्तिमन्तः परित्यज ॥ ३९ ॥
अयं गतो मृतश्चायमिति दुर्दृष्टयः पुरः ।
स्वसङ्कल्पोपतापोत्था दृश्यन्ते नतु सत्यतः ॥ ४० ॥
स्वसङ्कल्पलक्षणो य उपतापः सन्निपातभ्रमस्तदुत्थाः पुरो दृश्यन्ते ॥ ४०
॥
अज्ञानविस्तीर्णमरौ विलोलं
शुभाशुभस्यन्दमयैस्तरङ्गैः ।
सवासनानाममरीचिवारि
परिस्फुरत्येतदनन्तरूपम् ॥ ४१ ॥
अज्ञानलक्षणेनातपेन विस्तीर्णे आच्छन्ने मरौ मरुभूमिसदृशे आत्मनि ।
स्वसङ्कल्पवासनानामकं मरीचिवारि मृगतृष्णोदकम् ॥ ४१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये
मोक्षोपायेषुपशमप्रकरणे पावनबोधनं नामैकोनविंशः सर्गः
॥ १९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
पावनबोधनं नामैकोनविंशः सर्गः ॥ १९ ॥