अष्टादशः सर्गः १८
श्रीवसिष्ठ उवाच ।
युक्ताशयानां महतामहतानां कुदृष्टिभिः ।
स्वभावोऽयं महाबाहो लीलया चरतामिह ॥ १ ॥
यया स्थित्या स्थितो विद्वान्संसारे नावसीदति ।
सा स्थितिर्विस्तरेणात्र राघवायोपदिश्यते ॥ १ ॥
युक्ताशयानां समाहितमनसाम् ।
कामलोभादिकुदृष्टिभिरहतानामदूषितानामयं वक्ष्यमाणप्रकारः
स्वभावः स्थितिः श्रूयतामिति शेषः ॥ १ ॥
विहरन्नपि संसारे जीवन्मुक्तमना मुनिः ।
आदिमध्यान्तविरसा विहसेज्जागतीर्गतीः ॥ २ ॥
आदौ जन्मादिदुःखैर्मध्ये आध्यात्मिकादिदुःखैरन्ते
मृत्युनरकादिदुःखैर्विरसाः । विहसेत् हासयोग्यतया तुच्छीकृत्य पश्येत् ॥ २
॥
सर्वप्रकृतकार्यस्थो मध्यस्थः सर्वदृष्टिषु ।
ध्येयं तं वासनात्यागमवलम्ब्य व्यवस्थितः ॥ ३ ॥
सर्वेषु प्रकृतेषु तत्तत्कालप्रसक्तेषु कार्येषूचिताचरणेषु तिष्ठतीति स्थः
सर्वासु शत्रुमित्रादिदृष्टिषु मध्यस्थः समः तं ज्ञेयो ध्येयश्चेति द्विधा
वर्णितवासनात्यागयोर्मध्ये ध्येयं वासनात्यागमवलम्ब्येत्यर्थः ॥ ३ ॥
सर्वत्र विगतोद्वेगः सर्वार्थपरिपोषकः ।
विवेकोद्द्योतदृष्टात्मा प्रबोधोपवनस्थितिः ॥ ४ ॥
सर्वेषामर्थस्याभिमतस्य परिपोषको न कस्यचिद्विप्रियकारी । प्रबोधलक्षणे
उपवने स्थितिर्यस्य ॥ ४ ॥
सर्वातीतपदालम्बी पूर्णेन्दुशिशिराराशयः ।
नोद्वेगी नच तुष्टात्मा संसारे नावसीदति ॥ ५ ॥
सर्वशत्रुषु मध्यस्थो दयादाक्षिण्यसंयुतः ।
प्राप्तकर्मकरोऽग्र्याणां संसारे नावसीदति ॥ ६ ॥
समः [मूलस्थितपाठे सर्वशत्रुषु मध्यस्थपदमहिम्ना मित्रेषु च
मध्यस्थः उभयत्र रागद्वेषशून्यत्वात्सम इत्यर्थः] शत्रौ च मित्रे चेति
पाठः स्पष्टः । अग्र्यणां गुरुप्रभृतीनां
समयोचितप्राप्तसेवापरिपालनादिकर्मकरः ॥ ६ ॥
नाभिनन्दति न द्वेष्टि न शोचति न काङ्क्षति ।
मौनस्थः प्रकृतारम्भी संसारे नावसीदति ॥ ७ ॥
मौनस्थो मितभाषी । प्रकृतारम्भी आवश्यककार्येष्वनलसः ॥ ७ ॥
पृष्टः सन्प्रकृतं वक्ति न पृष्टः स्थाणुवत्स्थितः ।
ईहितानीहितैर्मुक्तः संसारे नावसीदति ॥ ८ ॥
तदेवाह - पृष्ट इति ॥ ८ ॥
सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् ।
आशयज्ञश्च भूतानां संसारे नावसीदति ॥ ९ ॥
अभिमतं प्रियं वक्ता । चोदित आक्षिप्तः पेशलोक्तिमान् चतुरं समाधाता ॥ ९ ॥
युक्तायुक्तदृशा ग्रस्तमाशोपहतचेष्टितम् ।
जानाति लोकदृष्टान्तं करकोटरबिल्वत् ॥ १० ॥
इदं युक्तमिदमयुक्तमिति वैषम्यदृशा । जानाति अपक्षपातितया पश्यति । अत
एव करकोटरः करतलगर्तस्तत्प्रतिष्ठितबिल्वफलवत्स्पष्टमित्युक्तम् ।
एकतरपक्षपाते तु तत्पक्षदोषा अपरपक्षगतगुणाश्च रागद्वेषपिहितत्वाना
स्पष्टं भासन्त इति ॥ १० ॥
परं पदमुपारूढो भङ्गुरां जागतीं स्थितिम् ।
अन्तःशीतलया बुद्ध्या हसन्निव निरीक्षते ॥ ११ ॥
अत एव वैषम्यदर्शनादेः फलमपि जनानां हसन्निव ताटस्थ्येनैव
पश्यतीत्याह - परमिति ॥ ११ ॥
जितचित्ता महात्मानो ये हि दृष्टपरावराः ।
स्वभाव ईदृशस्तेषां कथितस्तव राघव ॥ १२ ॥
उपसंहरति - जितेति ॥ १२ ॥
वयं तु वक्तुं मूर्खाणामजितात्मीयचेतसाम् ।
भोगकर्दममग्नानां न विद्मोऽभिमतं मतम् ॥ १३ ॥
मुक्तस्थितिरिव बद्धस्थितिरपि तदाशयोद्घाटनेन वर्ण्यतामिति
चेन्मूर्खमनोरथभ्रान्तीनां तत्प्रयुक्तदुश्चेष्टानां
तत्फलदुःखवचित्र्याणां चानन्त्यान्न सा वर्णयितुं शक्येत्याशयेनाह ##-
तेषामभिमता नार्यो भावाभावविभूषिताः ।
ज्वालानरकवह्नीनां यास्ताः कनकरोचिषः ॥ १४ ॥
तेषां मूर्खाणां नार्यः स्त्रियोऽभिमता अभिलषिता याः भावानां
विवेकबुद्धीनामत्यन्ताभावैः पूर्वसञ्चितसुकृतानां प्रध्वंसाभावैः
सम्भावितसुकृततपःसंयमादीनां प्रागभावपरिपालनैश्च विभूषिता
आपादमस्तकमलङ्कृताः । अत एव नरकवह्नीनां कनकसमानरोचिषो ज्वाला
एव ता इत्यर्थः ॥ १४ ॥
अनर्थगहनाश्चार्था व्यर्थानर्थकदर्थनाः ।
दिशन्तो दुःखसंरम्भमभितः प्रहितापदः ॥ १५ ॥
तथा मूर्खाणामभिलषिता अर्था धनानि ते च अनर्थगहना अर्जने पालने व्यये
नाशे च बह्वायासाधर्मराशिनिमित्तभूताः । व्यर्था
अनर्थप्रयोजककलहवैरादिकदर्थनाश्च येभ्यस्तथाविधाश्चेत्यर्थः ॥ १५ ॥
फलसन्धीनि कर्माणि नानाचारमयानि च ।
सुखदुःखावपूर्णानि तानि वक्तुं न शक्नुमः ॥ १६ ॥
ननु तेषां तादृशैरप्यर्थैर्यज्ञादिसत्कर्माचरणसिद्धेर्निस्तारः
स्यान्नेत्याह - फलसन्धीनीति । यानि मूर्खाणां यज्ञादिकर्माणि तान्यपि
फलाभिसन्धियुक्तान्येव न निरभिसन्धीनि ।
नानाविधैर्दम्भमानमदमात्सर्याद्याचारैर्दुराचारैश्च प्रचुराणि अत एव
पुनर्जन्मादिप्रयुक्तसुखदुःखैरवपूर्णानीति मूर्खाणां किञ्चिदपि
निस्तारनिमित्तं वक्तुं न शक्नुम इत्यर्थः ॥ १६ ॥
पूर्णां दृष्टिमवष्टभ्य ध्येयत्यागविलासिनीम् ।
जीवन्मुक्ततया स्वस्थो लोके विहर राघव ॥ १७ ॥
अतस्त्वमपि विद्वच्चरित्रेणैव विहर नान्येनेत्याह - पूर्णामित्यादिना ॥ १७ ॥
अन्तः सन्त्यक्तसर्वाशो वीतरागो विवासनः ।
बहिः सर्वसमाचारो लोके विहर राघव ॥ १८ ॥
उदारः पेशलाचारः सर्वाचारानुवृत्तिमान् ।
अन्तः सर्वपरित्यागी लोके विहर राघव ॥ १९ ॥
सर्वेषामज्ञानामपि कर्माद्याचारेषु अनुवृत्तिमान् । न बुद्धिभेदं
जनयेदज्ञानां कर्मसङ्गिनाम् इति भगवद्वचनादिति भावः ॥ १९ ॥
प्रविचार्य दशाः सर्वा यदतुच्छं परं पदम् ।
तदेव भावेनालम्ब्य लोके विहर राघव ॥ २० ॥
सर्वाः संसारदशाः परमार्थस्वरूपावस्थितिभूमिकाभेददशाश्च ॥ २० ॥
अन्तर्नैराश्यमादाय बहिराशोन्मुखेहितः ।
बहिस्तप्तोऽन्तराशीतो लोके विहर राघव ॥ २१ ॥
आशोन्मुखानामिव ईहितानि चेष्टा यस्य । सर्वात्मना नैराश्यप्रकटने
धनमित्रादिसङ्ग्रहायोगाद्राज्यपरिपालनानिर्वाहादिति भावः । अत एव
धनादिनाशे बहिस्तप्त इव तप्तः । अन्तस्तु आशीतः सर्वतः शीतलः ॥ २१ ॥
बहिः कृत्रिमसंरम्भो हृदि संरम्भवर्जितः ।
कर्ता बहिरकर्तान्तर्लोके विहर राघव ॥ २२ ॥
ज्ञातवानसि सर्वेषां भावानां सम्यगन्तरम् ।
यथेच्छसि तथा दृष्ट्या लोके विहर राघव ॥ २३ ॥
अन्तरं व्यवहारतः परमार्थतश्च सारासारतारतम्यम् । अतः सद्व्यवहारे
अतिसर्गस्तवेत्याह - यथेच्छसीति ॥ २३ ॥
कृत्रिमोल्लासहर्षस्थः कृत्रिमोद्वेगगर्हणः ।
कृत्रिमारम्भसंरम्भो लोके विहर राघव ॥ २४ ॥
त्यक्ताहङ्कृतिराश्वस्तमतिराकाशशोभनः ।
अगृहीतकलङ्काङ्को लोके विहर राघव ॥ २५ ॥
चन्द्रस्तु रात्रावहमेव प्रकाशक इति गृहीताहङ्कृतिः
क्षयरोगित्वादनाश्वस्तमतिर्गृहीतकलङ्कलाञ्छनश्च त्वं तु न तथेति
व्यतिरेकः ॥ २५ ॥
आशापाशशतोन्मुक्तः समः सर्वासु वृत्तिषु ।
बहिः प्रकृतिकार्यस्थो लोके विहर राघव ॥ २६ ॥
प्रकृतिस्तत्तद्वर्णाश्रमस्वभावस्तदुचितकार्यस्थः प्रजाहितकार्यस्थो वा ॥ २६
॥
न बन्धोऽस्ति न मोक्षोऽस्ति देहिनः परमार्थतः ।
मिथ्येयमिन्द्रजालश्रीः संसारपरिवर्तिनी ॥ २७ ॥
समः सर्वासु वृत्तिष्विति यदुक्तं
तद्बन्धमोक्षादिवैषम्यप्रतिषेधेनोपपादयति - न बन्ध इत्यादिना ॥ २७ ॥
भ्रान्तिमात्रमिदं मोहाज्जगद्राघव दृश्यते ।
जनितप्रत्ययं स्फारं जलं तीव्रातपे यथा ॥ २८ ॥
जलं मृगतृणोदकम् ॥ २८ ॥
अबद्धस्यैकरूपस्य सर्वगस्यात्मनः कथम् ।
बन्धः स्यात्तदभावे तु मोक्षः कस्य विधीयते ॥ २९ ॥
कुतो न बन्धोऽस्ति तत्र युक्तिमाह - अबद्धस्येति । असङ्गस्येत्यर्थः । विधीयते
यत्नेन सम्पाद्यते ॥ २९ ॥
अतत्त्वज्ञानजातेयं संसारभ्रान्तिरातता ।
तत्त्वज्ञानात्क्षयं याति रज्ज्वामिव भुजङ्गधीः ॥ ३० ॥
तर्हि किं तत्त्वज्ञानं व्यर्थं नेत्याह - अतत्त्वेति ॥ ३० ॥
ज्ञातवानसि तत्त्वं स्वमेकया सूक्ष्मया धिया ।
जातोऽसि निरहङ्कारो व्योमवत्तिष्ठ निर्मलः ॥ ३१ ॥
ज्ञोऽसि त्वित्थं तदखिलाः सुहृद्बान्धववासनाः ।
सन्त्यजासत्स्वभावस्य का नाम किल भावना ॥ ३२ ॥
ज्ञः साक्ष्यसि तत्तस्मात्सुहृद्बान्धवविषया ममतावासनाः ।
असत्स्वभावस्य अविद्यमानस्वरूपस्य सुहृदादेर्भावना चिन्तना का नाम । न
युक्तेत्यर्थः ॥ ३२ ॥
अपि चेत्थं तदन्यस्त्वं सत्त्ववाननुमीयसे ।
इदं प्रथमतः प्राप्तं परमादपि कारणात् ॥ ३३ ॥
अपि च इत्थं मदुक्तप्रकारेण वासनात्यागे ताभ्योऽन्यः परिशिष्टः साक्षी त्वं
परमार्थसत्त्ववान्परिशेषादनुमीयते । प्रथमतः वासनात्यागात्पूर्वं ते
परमात्कारणाद्ब्रह्मणः प्रलयसुषुप्त्योर्नित्यप्राप्तादपि इदं
परिच्छिन्नासत्यरूपमेव प्राप्तं न परमार्थसत्यरूपमिति वासनात्याग एव
तत्प्राप्तिहेतुर्नान्य इत्यर्थः । अथवा अपि चेति समुच्चये ।
तदन्यस्तस्मादसत्स्वभावादन्यः परमार्थसत्स्वभावस्त्वं
स्वभावेनैवासत्स्वभावेभ्योऽविद्यातत्कार्येभ्यः सत्त्ववान् बलवाननुमीयसे ।
अतः परमादाद्यादविद्यालक्षणात्कारणादपि इदं प्रथमतः
अनादिकालात्प्राप्तं बन्धमपि इत्थं वासनावदेव सन्त्यजेत्यनुषज्यते ॥ ३३ ॥
भोगबन्धुजगद्भावैः कर्मभिश्च शुभाशुभैः ।
आत्मनो नास्ति सम्बन्धः किमेताननुशोचसि ॥ ३४ ॥
भोगैस्तत्साधकैर्बन्धुभिर्जगद्भावैः स्रक्चन्दनादिभिस्तत्प्राप्तिनिमित्तैः
शुभाशुभैः कर्मभिश्च ॥ ३४ ॥
आत्मतत्त्विकसारोऽहमिति जातधियो भयैः ।
न ते रामास्ति सम्बन्धः किं बिभेषि जगद्भ्रमात् ॥ ३५ ॥
आत्मतत्त्वमेवैकः सारः सत्यः परमानन्दो यस्य तथाविधोऽहमिति जाता
धीर्यस्य । भयैर्भयहेतुभिः ॥ ३५ ॥
अजातस्य सतो बन्धोर्बन्धुदुःखसुखभ्रमैः ।
कस्ते राघव सम्बन्धो यदेताननुशोचसि ॥ ३६ ॥
मम तत्त्वविदः स्वतो दुःखं माभूत् बन्धूनामज्ञत्वेन
दुःखित्वात्तद्दुःखसमागमैर्दुःखं तु दुर्वारमिति चेत्तत्राह - अजातस्येति
। मिथ्यात्वाद्बन्धौ अजाते सतीत्यर्थः । षष्ठी चानादरे इति षष्ठी । अथवा
बन्धोः सम्बन्धितयाऽजातस्य तवेति योज्यम् ॥ ३६ ॥
त्वं चेद्बभूविथ पुरा तथेदानीं भविष्यसि ।
अद्य चेह स्थितोऽसीति ज्ञातवानसि निश्चयम् ॥ ३७ ॥
एवमात्मनोऽसङ्गत्वाद्वितीयत्वदर्शने शोकासम्भव उक्तः इदानीमस्त्वात्मा
सङ्गी तथापि स किं नित्य उत क्षणिक उत प्रागभाववद्घटादिवद्वा कालान्तरे
नश्वरः सर्वेष्वपि पक्षेषु बन्धुशोको न युक्त इति प्रौढ्या समाधित्सुराद्ये
कल्पे तावदाह - त्वं चेदिति । पुरा पूर्वजन्मसु बभूविथ तथा
भाविजन्मसु भविष्यसि । अद्येदानीमिह जन्मनि च
स्थितोऽसीत्येवंस्वभावमात्मानं यदि निश्चयं दृढं ज्ञातवानसि तदा
अनन्तरगान्वर्तमानान्निकटस्थितान्सन्निहितान्बन्धून्
प्राणादीनिवेत्यध्याहारः । अनन्तजन्मस्वतीतान्सुबहून् कस्मान्नानुशोचसि ।
विनिगमनाविरहात्सर्वशोकाशक्तेश्च न क्वापि शोको युक्त इति भावः ॥ ३७ ॥
तदानन्तरगानन्यान्प्राणादीन्निकटस्थितान् ।
बन्धूनतीतान्सुबहून्कस्मात्त्वं नानुशोचसि ॥ ३८ ॥
पूर्वमन्यस्तथेदानीं बभूविथ भविष्यसि ।
यदि राम तथापि त्वं सद्रूपं किं विमुह्यसि ॥ ३९ ॥
द्वितीयेऽप्याह - पूर्वमिति । इदानीमन्यः अग्रेऽप्यन्यो भविष्यसि इति
क्षणिकमात्मानं यदि जानासि तथापि त्वं किं सद्रूपमालम्ब्य विमुह्यसि
शोचसि । द्वितीयक्षणे शोच्यस्य शोचितुश्चासत्त्वेन शोकावसराभावादित्यर्थः ॥
३९ ॥
पुरा भूत्वाद्य भूत्वा च भूयश्चेन्न भविष्यसि ।
तथापि क्षीणसंसारः किमर्थमनुशोचसि ॥ ४० ॥
तृतीयेऽप्याह - पुरेति । तथाप्यात्मनाशादेव क्षीणसंसारः ॥ ४० ॥
तस्मान्न दुःखिता युक्ता प्राकृते जागते क्रमे ।
तथैव मुदिता युक्ता युक्तं कार्यानुवर्तनम् ॥ ४१ ॥
यदा आत्मनो जन्मादिसङ्गित्वेऽपि शोको न युक्तस्तदा किं
वाच्यमसङ्गोदासीननित्यकूटस्थस्वप्रकाशपूर्णानन्दैकरसत्वे स न युक्त
इतीत्याशयेनोपसंहरति - तस्मादिति । मुदिता सहजसन्तोषवृत्तिः ॥ ४१ ॥
मा गच्छ दुःखितां राम सुखितामपि मा व्रज ।
समतामेहि सर्वत्र परमात्मा हि सर्वगः ॥ ४२ ॥
अनन्तः सत्स्वरूपस्त्वं खमिवातिततान्तरम् ।
प्रकाशो नित्यशुद्धस्त्वं ज्वालनामिव कोटरम् ॥ ४३ ॥
यथा ज्वालानां कोटरे सर्वतः प्रभाव्याप्ते तमसो नावकाशस्तद्वत्त्वय्यपि
तमोदुःखादेरिति भावः ॥ ४३ ॥
जागतानां पदार्थानामदृष्टात्मतनुस्तनुः ।
हृत्स्थोऽसि हारमुक्तानामेकस्तन्तुरिवाततः ॥ ४४ ॥
त्वमेव सर्वान्तर इत्याह - जागतानामिति । न दृष्टा आत्मनस्तनुः
स्वरूपं यस्य । तनुः सूक्ष्मः हारभूतमुक्ताफलानां
तन्तुरिवाततोऽनुस्यूतः ॥ ४४ ॥
संसारस्थितिरेवेयं यद्भूत्वा भूयते पुनः ।
अज्ञेनैव न तज्ज्ञेन ज्ञोऽसि राम सुखी भव ॥ ४५ ॥
पुनर्जन्मशङ्कां वारयति - संसारेति । भूत्वा उत्पद्य पुनर्भूयते ॥ ४५ ॥
स्वरूपमिदमस्यास्तु संसृतेः सतताधिमत् ।
अज्ञानात्स्फारतामेति ज्ञातवानसि सन्मते ॥ ४६ ॥
स्वरूपं स्वभावः । सततमाधिमत् दुःखबहुलम् ॥ ४६ ॥
रूपं किमन्यद्भवतु भ्रममात्रादृते भ्रमे ।
स्वप्नमात्रादृते स्वप्ने भवत्यन्यो हि कः क्रमः ॥ ४७ ॥
स्वरूपं तत्त्वमिति न मन्तव्यमित्याह - रूपमिति । भ्रान्त्यन्तरेषु
तत्त्वाप्रसिद्धेरत्रापि न तत्त्वमस्तीत्यर्थः ॥ ४७ ॥
सर्वशक्तेरियं शक्तिर्भ्रममात्रमयं तथा ।
राम दृश्यत एवेदमाभानमतिभास्वरम् ॥ ४८ ॥
ननु निस्तत्त्वं कथं सदिति दृश्यते तत्राह - सर्वेति । आभानं
जगदाकारभानम् । अतिभास्वरं व्यक्तम् ॥ ४८ ॥
सुबन्धुः कस्यचित्कः स्यादिह नो कश्चिदप्यरिः ।
सदा सर्वे स सर्वस्य सर्वं सर्वेश्वरेच्छया ॥ ४९ ॥
जगतो भ्रान्तिमात्रताप्रदर्शनायानियतस्वभावतां दर्शयति -
सुबन्धुरित्यादिना । सर्वस्य सर्वेऽपि सर्वे अरयो मित्राणि उदासीनाश्चेत्यर्थः ॥ ४९ ॥
आलूनशीर्णमखिलमिदमन्योन्यसंश्रितम् ।
अनारतं याति जगत्तरङ्गौध इवाम्भसः ॥ ५० ॥
अन्योन्यसंश्रितं परस्परनिमित्तम् ॥ ५० ॥
अध ऊर्ध्वत्वमायाति यात्यूर्ध्वत्वमधस्तथा ।
संसारस्य चलस्यास्य चक्रनेमिरिवाभितः ॥ ५१ ॥
अध इति । प्रत्यक्षं चेदं ज्योतिश्चक्रभागानां भूमेश्चेति भावः ॥ ५१ ॥
स्वर्गस्था नरकं यान्ति नारकाश्च त्रिविष्टपम् ।
योनेयोन्यन्तरं यान्ति द्वीपाद्द्विपान्तरं जनाः ॥ ५२ ॥
एवमुत्कर्षापकर्षावप्यनियतावेवेत्याह - स्वर्गस्था इति ॥ ५२ ॥
धीराः कार्पण्यमायान्ति कृपणा यान्ति धीरताम् ।
परिस्फुरन्ति भूतानि पातोत्पातशतभ्रमैः ॥ ५३ ॥
धीरा अप्रार्थनशीलाः ॥ ५३ ॥
एकरूपस्थिरं चक्रं स्वच्छं सन्तापवर्जितम् ।
नेह सम्प्राप्यते किञ्चिदग्नौ हिमकणो यथा ॥ ५४ ॥
उपसंहरति - एकरूपेति । चक्रं पदार्थमण्डलम् ॥ ५४ ॥
ये ये नाम महाभागा बहवो बान्धवास्तथा ।
विनष्टा एव दृश्यन्ते ते ते कतिपयैर्दिनैः ॥ ५५ ॥
विनाशस्तु सर्वत्र नियत इत्याह - ये ये इति ॥ ५५ ॥
परतात्मीयतान्यत्वत्वत्वमत्त्वादिभावना ।
नेह सत्या महाबाहो द्विचन्द्रादिदृशो यथा ॥ ५६ ॥
अस्त्वनियतता किं ततस्तत्राह - परतेति ॥ ५६ ॥
अयं बन्धुः परश्चायमयं चाहमयं भवान् ।
इति मिथ्यादृशो राम विगलन्तु तवाधुना ॥ ५७ ॥
विगलन्तु विशीर्यन्ताम् ॥ ५७ ॥
क्रीडार्थं व्यवहारस्थ एताभिर्हतदृष्टिभिः ।
आमूलमन्तश्छिन्नाभिर्बहिर्विहर हेलया ॥ ५८ ॥
हतदृष्टिभिर्बाधितानुवृत्तिदृष्टिभिः । आमूलमज्ञानवासनाभ्यां सह
अन्तश्छिन्नाभिः ॥ ५८ ॥
संसारसरणावस्यां तथा विहर सुव्रत ।
न यथैव श्रमश्रान्तो वासनाभारवानिव ॥ ५९ ॥
वासनाभारवान् अज्ञ इव श्रमश्रान्तो यथा न भवस्येव तथा अस्यां
संसारसरणौ विहर ॥ ५९ ॥
यथा यथैषा कार्याणि वासनाक्षयकारिणी ।
विचारणा तवोदेति संशाम्यन्ति तथा तथा ॥ ६० ॥
कदा तर्हि मम व्यवहारोपरमो भविष्यति तत्राह - यथा यथेति ।
वासनाक्षयकारिणी विचारणा यथा यथोदेति तथा तथा कार्याणि व्यवहाराः
प्रशाम्यन्ति उपरंस्यन्त इत्यर्थः ॥ ६० ॥
अयं बन्धुरयं नेति गणना लघुचेतसाम् ।
उदारचरितानां तु विगतावरणैव धीः ॥ ६१ ॥
विगतं अयमेव बन्धुरिति परिच्छेदलक्षणं आवरणं यस्यास्तादृश्येव
सर्वत्र समतादर्शिनीत्यर्थः ॥ ६१ ॥
न तदस्ति न यत्राहं न तदस्ति न यन्मम ।
इति निर्णीय धीराणां विगतावरणैव धीः ॥ ६२ ॥
उक्तमेवार्थ कारणोपन्यासेन विवृणोति - न तदिति ॥ ६२ ॥
नास्तमेति न चोदेति यश्चिदाकाशवन्महान् ।
सर्वं सम्पश्यति स्वस्थः स्वस्थो भूमितलं यथा ॥ ६३ ॥
स्वस्थः स्वरूपप्रतिष्ठितो विक्षेपदुःखोपशमस्वास्थ्यवान्वा ॥ ६३ ॥
सर्वा एव हि ते भूतजातयो राम बन्धवः ।
अत्यन्तासंयुता एतास्तव राम न काश्चन ॥ ६४ ॥
सर्वा इति । अनादौ संसारे सर्वयोनिषु स्वस्य बहुशो जन्मानुभवादित्यर्थः ।
बन्धुत्वेनात्यन्तमसंयुताः काश्चन काश्चिदपि न पर्यायेण सर्वैः सह
सम्बन्धादित्यर्थः । अथवा देहद्वारकपरम्परासम्बन्धापेक्षया
सर्वजीवैः सह साक्षादैकात्म्यसम्बन्धस्यान्तरङ्गत्वात्तेन
सम्बन्धेनात्यन्तासंयुता न काश्चनेत्यर्थः ॥ ६४ ॥
विविधजन्मशताहितसम्भ्रमे
जगति बन्धुरबन्धुरितीक्षणम् ।
भ्रमदशैव विवल्गति वस्तुत-
स्त्रिभुवनं चिरबन्धुरबन्ध्वपि ॥ ६५ ॥
उक्तमेवार्थ सङ्क्षिप्य विवृण्वन्नुपसंहरति - विविधेति ।
विविधैर्नानायोनिविचित्रैर्जन्मशतैराहिताः सम्भ्रमा यस्मिंस्तथाविधे जगति
अयं बन्धुरयमबन्धुरिति ईक्षणं भेददर्शनं भ्रमदशैव विवल्गति
विजृम्भते । वस्तुतस्तु जीवभावदृष्टौ त्रिभुवनं त्रिभुवनस्थं जीवजातं
निजबन्धुर्ब्रह्मभावदृष्टौ तु स्वयमेव सर्वमित्यबन्ध्वपि तदेवेत्यर्थः ॥
६५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये
मोक्षोपायेषूपशमप्रकरणे जीवन्मुक्तवर्णनं नामाष्टादशः
सर्गः ॥ १८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
जीवन्मुक्तवर्णनं नामाऽष्टादशः सर्गः ॥ १८ ॥