सप्तदशः सर्गः १७
श्रीवसिष्ठ उवाच ।
विदेहमुक्ता ये राम ते गिरामिह गोचरे ।
नैव तिष्ठन्ति तस्मात्त्वं जीवन्मुक्तिमिमां शृणु ॥ १ ॥
यादृशैर्निश्चयैर्युक्तो जीवन्मुक्तो न बध्यते ।
अज्ञश्च बध्यते भूयस्तद्विभागोऽत्र वर्ण्यते ॥ १ ॥
रामस्येङ्गितैर्विदेहमुक्तलक्षणजिज्ञासां प्रतिलक्ष्य तस्यैकरूप्येण
लक्षणाद्यभावाद्वाचां कुण्ठीभावोक्त्यैव
निरतिशयस्वप्रकाशभूमानन्दमात्रपरिशेषस्तत्स्वरूपलक्षणमिति सूचयन्
जीवन्मुक्तिलक्षणेष्वेवावश्योपादेयान्विशेषान्वक्तुं प्रतिजानीते -
वेदेहमुक्ता इति ॥ १ ॥
प्राकृतान्येव कर्माणि [कार्याणीति पाठः] यया
वर्जितवाञ्छया ।
क्रियन्ते तृष्णयेमानि तां जीवन्मुक्ततां विदुः ॥ २ ॥
ननु तर्हि जीवन्मुक्तानां तत्तद्वर्णाश्रमोचितकर्मफलतृष्णा यद्यस्ति तर्हि
अज्ञवदेव तद्भोगाय पुनर्देहबन्धोऽपि स्यात् । यदि नास्ति तर्हि प्रवृत्तिरेव न
स्यात् प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति न्यायादिति दोषं परिहर्तुं
ज्ञाज्ञयोः
प्रवर्तकशुद्धाशुद्धतृष्णावैलक्षण्यमुपपादयितुमुपक्रमते -
प्राकृतान्येवेत्यादिना । प्राकृतानि तत्तद्वर्णाश्रमस्वभावप्रापितानि ।
वाञ्छा विषयास्वादनोत्साह ॥ २ ॥
या स्थितिस्तृष्णया जन्तोर्बाह्यार्थे बद्धभावया ।
तं बन्धमाहुराचार्याः संसारनिगडं दृढम् ॥ ३ ॥
बद्ध उत्साहदृढीकृतो भावः संसारसत्यताबुद्ध्या भोगोत्साहो यया ॥ ३
॥
नूनमुज्झितसङ्कल्पा हृदि बाह्ये विहारिणी ।
वासना योदिता सेह जीवन्मुक्तशरीरिणी ॥ ४ ॥
भोग्यवर्गाणामनृतत्वनिश्चयेन हृदि उज्झितभोगसङ्कल्पा बाह्ये
लोकसङ्ग्रहमात्रप्रयोजनेन विहारिणी वासना तृष्णा जीवन्मुक्तानां
शरीरमात्राश्रितेत्यर्थः ॥ ४ ॥
बाह्यार्थव्यसनोच्छूना तृष्णा बद्धेति राघव ।
सर्वार्थव्यसनोन्मुक्ता तृष्णा मुक्तेति कथ्यते ॥ ५ ॥
उक्तलक्षणे एव तृष्णे प्रपञ्चयिष्यन् पिण्डीकृत्याह - बाह्येति । व्यसनं
लाम्पट्यम् ॥ ५ ॥
पूर्वं यस्यास्तु तृष्णाया वर्तमानेऽपि शाश्वती ।
निर्दुःखता निष्कलता सा मुक्तेति बुधैः स्मृता ॥ ६ ॥
पूर्वं विषयप्राप्तेः प्राक्काले । विषयनाशोत्तरकालस्याप्युपलक्षणमेतत् ।
निर्दुःखता रागविरहादिप्रयुक्तदुःखशून्यता । विषयप्राप्तिकालेऽपि निष्कलता
निरुच्छूनता ॥ ६ ॥
इदमस्तु ममेत्यन्तर्यैषा राघव भावना ।
तां तृष्णां शृङ्खलां विद्धि कलनां च महामते ॥ ७ ॥
तामेतां सर्वभावेषु सत्स्वसत्सु च सर्वदा ।
सन्त्यज्य परमोदारः परमेति महामनाः ॥ ८ ॥
परं जीवन्मुक्तिपदम् ॥ ८ ॥
बन्धाशामथ मोक्षाशां सुखदुःखदशामपि ।
त्यक्त्वा सदसदाशां च तिष्ठाक्षुब्धमहाब्धिवत् ॥ ९ ॥
बध्नन्तीति बन्धा देहादयस्तदाशाम् । मोक्षस्तन्निवृत्तिस्तदाशाम् ।
बन्धमिथ्यात्वनिश्चये तन्निवृत्तेरनाशास्यत्वान्नहि जागरूकः
स्वाप्ननिगडबन्धमोक्षमाशास्त इति भावः । सुखदुःखदशानामपि
मिथ्यात्वनिश्चय एवात्र त्यागः ॥ ९ ॥
अजरामरमात्मानं बुद्ध्वा बुद्धिमतां वर ।
जरामरणशङ्काभिर्मा मनः कलुषं कृथाः ॥ १० ॥
पदार्थ तत्त्वं नेदं ते नायं त्वमसि राघव ।
किञ्चित्तदन्यदेवेदमन्य एवासि राघव ॥ ११ ॥
आशात्यागे उपायमाह - पदार्थेति । इदं दृश्यं पदार्थतत्त्वं
पदार्थरूपं ते तव न । त्वमपि न । तत्तस्मात्परमार्थसत्यादन्यदेव
किञ्चित्तुच्छमित्यर्थः ॥ ११ ॥
असदभ्युदिते विश्वे सतीवासति संस्थिते ।
त्वयि तत्तामतिगते तृष्णायाः सम्भवः कुतः ॥ १२ ॥
अन्यच्च राम मनसि पुरुषस्य विचारिणः ।
जायते निश्चयः साधो स्फाराकारश्चतुर्विधः ॥ १३ ॥
हे राम अन्यच्च वक्ष्यमाणं चतुर्विधनिश्चयभेदं शृण्विति शेषः ।
तमेवाह - मनसीति ॥ १३ ॥
आपादमस्तकमहं मातापितृविनिर्मितः ।
इत्येको निश्चयो राम बन्धायासद्विलोकनात् ॥ १४ ॥
अतीतः सर्वभावेभ्यो वालाग्रादप्यहं तनुः ।
इति द्वितीयो मोक्षाय निश्चयो जायते सताम् ॥ १५ ॥
सर्वेभ्यो देहेन्द्रियादिभेदेभ्योऽतीतोऽतिरिक्तः । तनुः सूक्ष्मः स्थौल्यरहित इति
यावत् । त्वम्पदार्थशोधनविधयास्य मोक्षहेतुत्वम् ॥ १५ ॥
जगज्जालपदार्थात्मा सर्वमेवाहमक्षयः ।
तृतीयो निश्चयश्चेत्थं मोक्षायैव रघूद्वह ॥ १६ ॥
तृतीय इति । अस्याप्याध्यात्मिकपरिच्छिन्नात्मताभ्रमनिवृत्त्या तत्पदार्थेन
सहैव शोधनसम्भवान्मोक्षोपयोगः ॥ १६ ॥
अहं जगद्वा सकलं शून्यं व्योमसमं सदा ।
एवमेष चतुर्थोऽन्यो निश्चयो मोक्षसिद्धये ॥ १७ ॥
अहमित्याध्यात्मिकपरिच्छेदोपाधिः जगदिति आधिदैविकाद्युपाधिः । सदा
कालत्रयेऽपि । एषः सर्वदृश्यबाधात्मनिश्चयः ॥ १७ ॥
निश्चयेषु चतुर्ष्वेषु बन्धाय प्रथमः स्मृतः ।
त्रयो मोक्षाय कथिताः शुद्धभावनयोत्थिताः ॥ १८ ॥
एतेषां प्रथमः प्रोक्तस्तृष्णाया बन्धयोग्यता ।
शुद्धतृष्णास्त्रयः स्वच्छा जीवन्मुक्तविलासिनः ॥ १९ ॥
तृष्णाभेदनिरूपणेऽस्य विभागस्य का प्रसक्तिस्तत्राह - एतेषामिति ।
अस्मिन्सत्येव तृष्णाया बन्धकत्वादयमेव बन्धहेतुरित्यर्थः । शुद्धा
निर्दोषा तृष्णा येषु ते शुद्धतृष्णाः उत्तरे त्रयो निश्चयाः ॥ १९ ॥
सर्वमात्माहमेवेति निश्चयो यो महामते ।
तमादाय विषादाय न भूयो याति मे मतिः ॥ २० ॥
तत्र तृतीयस्य प्रयोजनमाह - सर्वमिति ॥ २० ॥
तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमात्मनः ।
सर्वमात्मेति तेनान्तर्निश्चयेन न बध्यते ॥ २१ ॥
शून्यं तत्प्रकृतिर्माया ब्रह्मविज्ञानमित्यपि ।
शिवः पुरुष ईशानो नित्य आत्मैव कथ्यते ॥ २२ ॥
चतुर्थस्य शून्यवादिमतप्रविष्टतां वारयन्नाह - शून्यमिति ।
परिशिष्टात्मैव वादिभिः शून्यादिशब्दैः कथ्यते नावस्त्वित्यर्थः ॥ २२ ॥
सदा सर्वं सदेवेदं नेह द्वित्वान्यते क्वचित् ।
विद्येते विद्यया व्याप्तं जगन्नेतरया धिया ॥ २३ ॥
विद्यया परमार्थस्वरूपदृष्ट्या जगद्व्याप्तं ग्रस्तम् । इतरया
पूर्ववद्भ्रान्तिधिया न ॥ २३ ॥
आपातलमनन्तात्मा पूरितोऽम्भोधिरम्बुधिः ।
आब्रह्मस्तम्बपर्यन्तं जगदापूर्णमात्मना ॥ २४ ॥
यथा अनन्तात्मा अपरिच्छेद्यपरिणाहोऽम्भोधिरापातालमम्बुभिः
पूरितस्तथेत्यर्थः ॥ २४ ॥
अतः सत्यमृतं नित्यं नानृतं विद्यते क्वचित् ।
वार्येव सकलाम्भोधिर्न तरङ्गादयः क्वचित् ॥ २५ ॥
अस्त्वापूर्णं किं ततस्तत्राह - अत इति । अतः ऋतं प्रमाणबोधितं
ब्रह्मैक्यमेव नित्यं सत्यम् । तद्व्यतिरेकेणामृतं जगद्रूपं न विद्यत इति
सिद्धमित्यर्थः ॥ २५ ॥
पृथक्कटककेयूरनूपुरादि न काञ्चनात् ।
भिन्नास्तरुतृणाकारकोटयश्चैव नात्मनः ॥ २६ ॥
काञ्चनान्न पृथक् । आत्मनः पृथिव्यात्मनः सकाशान्न भिन्नाः ॥ २६ ॥
द्वैताद्वैतसमुद्भेदैर्जगन्निर्माणलीलया ।
परमात्ममयी शक्तिरद्वैतैव विजृम्भते ॥ २७ ॥
कथं तर्हि जलसमुद्रादौ जगति भेदाभेदप्रत्ययस्तत्राह - द्वैताद्वैतेति ।
अद्वैता परमात्मयी शक्तिर्ब्रह्मसत्तैवाज्ञान्प्रति
द्वैताद्वैतसमुद्भेदैर्विजृम्भत इत्यर्थः ॥ २७ ॥
आत्मीये परकीये च सर्वस्मिन्नेव सर्वदा ।
नष्टे वोपचिते कार्ये सुखदुःखे गृहाण मा ॥ २८ ॥
अस्त्वेवं किं ततस्त्राह - आत्मीये इति । स्वीये परकीये वा पुत्रमित्रादौ सर्वस्मिन्
जगति च उपचिते नष्टे वा सुखदुःखे अभिज्ञस्त्वं मा गृहाणेत्यर्थः ॥ २८ ॥
भावाद्वैतमुपाश्रित्य सत्ताद्वितमयात्मकः ।
कर्माद्वैतमनादृत्य द्वैताद्वैतमयो भव ॥ २९ ॥
कथं तर्हि मया व्यवहर्तव्यमिति चेद्ब्रह्मवद्द्वैताद्वैतालम्बनेनैवेति
तद्विभज्याह - भावाद्वैतमिति । ब्रह्मवदेव त्वं परमार्थतः
सत्ताद्वैतमयात्मक एव सन् व्यवहारकालेऽपि भावनया अद्वैतमेवोपाश्रित्य
तत्तत्प्राणिकर्मफलदाने ब्रह्मेव वर्णाश्रमधर्मव्यवस्थापनकर्मविषये
अद्वैतं सर्वथैवानादृत्य व्यवहरन् यथोचितं द्वैताद्वैतोभयपरो
भवेत्यर्थः । अद्वैते कर्मणामेवासिद्धेरैकरूप्येण सर्वत्र
कथञ्चिदद्वैताचरणे जगद्व्यवस्थाधर्मशास्त्रादिबाधप्रसङ्गाच्च तत्र
द्वैताश्रयणमेवोचितमिति भावः ॥ २९ ॥
भवभूमिषु भीमासु भावभावनवात्यया ।
मा पतोत्पातपूर्णासु दरीष्वन्तः करी यथा ॥ ३० ॥
भावेऽपि द्वैताश्रयणे का क्षतिस्तत्राह - भवेति । उत्पातैरशुभनिमित्तैः
पूर्णासु । दरीग्रहणेन गर्तो लक्ष्यते । तथाच संसारगर्तपात एव तत्र क्षतिरिति
भावः ॥ ३० ॥
द्वैतं न सम्भवति चित्तमयं महात्म-
न्नात्मन्यथैक्यमपि न द्वितयोदितात्म ।
अद्वैतमैक्यरहितं सततोदितं स-
त्सर्वं न किञ्चिदपि चाहुरतः स्वरूपम् ॥ ३१ ॥
सत्तद्वैतमुक्तमुपपादयति - द्वैतमिति । द्वैतं परमार्थसन्न सम्भवति
। यतस्तच्चित्तमयं चित्तकल्पितमेव न वस्तुस्पर्शि
परैरप्यपेक्षाबुद्धिजन्यत्वाभ्युपगमात्तन्नाशे नाशाभ्युपगमाच्च ।
एवमात्मन्यैक्यमेकत्वाख्यसङ्ख्यागुणोऽपि न सम्भवति यतस्तदपि
द्वित्वादिव्यावर्तकत्वेनैव कल्पितत्वाद्द्वितयादेवोदित आत्मा स्वरूपं यस्य
तथाभूतम् । अतः अद्वैतमैक्येन च रहितं
स्वसिद्धवप्यन्यनिरपेक्षत्वात्सततोदितं सत्सन्मात्रं ब्रह्म ऐक्यनिरासात्सर्व
द्वैतनिरासान्न किञ्चिदपीति च । तस्मात्तत्सर्वमभवत् नेह नानास्ति किञ्चन
इत्यादिश्रुतयस्तदनुभविनश्च लक्षणया आहुरित्यर्थः ॥ ३१ ॥
नैवाहमस्ति नच नाम जगन्ति सन्ति
सर्वं च विद्यत इदं ननु निर्विकारम् ।
विज्ञानमात्रमवभासत एव शान्तं
नासन्न सज्जगदिदं च सदेति विद्धि ॥ ३२ ॥
अहमिति युष्मदात्मप्रविभक्तरूपं नैवास्ति अस्मदर्थप्रविभक्तरूपाणि
युष्मदादिजगन्ति च न सन्ति किन्तु सर्वमिदं निर्विकारं विज्ञानमात्रमेव
विद्यते । तदवभासतस्तत्साक्षात्कारमात्रतः शान्तमिदं तु जगत्सदा नासत् न
सच्चेति विद्धित्यर्थः ॥ ३२ ॥
परममृतमनाद्यं भासनं सर्वभासा-
मजरमजमचिन्त्यं निष्कलं निर्विकारम् ।
विगतकरणजालं जीवनं जीवशक्तेः
सकलकलनहीनं कारणं कारणानाम् ॥ ३३ ॥
पुनस्तन्निश्चयमेव दृढमाशिषापि सम्पादयति - परमिति द्वाभ्याम् ।
जीवशक्तेः प्राणस्य जीवनं प्राणनव्यवहारनिमित्तम् । प्राणस्य प्राणम्
इत्यादिश्रुतेः ॥ ३३ ॥
सततमुदितमीशं व्यातते चित्प्रकाशे
स्थितमनुभवबीजं स्वात्मभावोपदेश्यम् ।
स्वदनमनुचितोऽन्तर्ब्रह्म सर्वं सदैव
त्वमहमपि जगच्चेत्यस्तु ते निश्चयोन्तः ॥ ३४ ॥
अनुभवानां चाक्षुषादीनां बीजं मूलभूतम् । स्वात्मभावः
स्वस्वरूपावस्थितिस्तेन दशमस्त्वमसीतिवच्छब्दापरोक्षापादनेनोपदेश्यं
अन्तःस्वदनमान्तरानन्दैकरसं ब्रह्मैव त्वमहं जगच्च न
ततोऽन्यदस्तीत्यनुसृत्य चित उपचितो निश्चयस्तेऽन्तरस्त्वित्याशीरुपदेशश्च ॥ ३४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपाये
उपशमप्रकरणे तृष्णाविच्छेदोपदेशो नाम सप्तदशः सर्गः ॥ १७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
तृष्णाविच्छेदोपदेशो नाम सप्तदशः सर्गः ॥ १७ ॥