षोडशः सर्गः १६
श्रीराम उवाच ।
स्वभावगम्भीरमेतद्भगवन्वचनं तव ।
यदहङ्कारतृष्णां त्वं मा गृहाणेति वक्षि माम् ॥ १ ॥
वर्ण्यते वासनात्यागो ध्येयज्ञेयविभागतः ।
तेनात्र जीवन्मुक्तानां विदेहानां च लक्षणम् ॥ १ ॥
जीवता देहेऽहम्भावस्य त्यक्तुमशक्यत्वाच्छिष्यमरणे
गुरोस्तात्पर्यायोगादेतामहम्भावमयीं तृष्णां
चित्त्वेत्याद्युक्तेस्तात्पर्यमनवधारयन् रामः पृच्छति - स्वभावेत्यादिना
॥ १ ॥
यद्यहङ्कारसन्त्यागं करोमि तदिदं प्रभो ।
त्यजामि देहनामानं सन्निवेशमशेषतः ॥ २ ॥
अशेषत इति ।
प्राणाहङ्कारयोरेकतापत्तेस्त्वयैवोक्तत्वात्प्राणान्परिशेष्याहङ्कारत्यागासं
भवात्प्राणानामप्यनवशेषणेनेत्यर्थः ॥ २ ॥
जानुस्तम्भेन महता धार्यते सुतरुर्यथा ।
अहङ्कारेण देहोऽयं तथैव किल धार्यते ॥ ३ ॥
जानुस्तम्भेन जानुवत्प्रसृतमूलबन्धविष्टम्भेन ॥ ३ ॥
अहङ्कारक्षये देहः किलावश्यं विनश्यति ।
मूले क्रकचसंलूने सुमहानिव पादपः ॥ ४ ॥
तदेव व्यतिरेकेण द्रढयति - अहङ्कारेति ॥ ४ ॥
तत्कथं सन्त्यजाम्येन जीवामि च कथं मुने ।
एनमर्थं विनिश्चित्य वद मे वदतां वर ॥ ५ ॥
श्रीवसिष्ठ उवाच ।
सर्वत्र वासनात्यागो राम राजीवलोचन ।
द्विविधः कथ्यते तज्ज्ञैर्ज्ञेयो ध्येयश्च मानद ॥ ६ ॥
ज्ञेयो विदुषां समाधिकाले विदेहकैवल्ये च ज्ञानबाधितः ।
अधिष्ठानमात्रपरिशेषात्मा ध्येयः । व्युत्थानकाले
वाक्यजन्याखण्डाकारवृत्त्या सवासनस्याज्ञानस्य बाधेऽपि
जीवन्मुक्तिशास्त्रानुरोधात्प्रारब्धफलभोगशेषाच्च तन्निर्वाहाय
बाधितानुवृत्तेरविद्यालेशपरिशेषस्य विक्षेपांशाबाधस्य
वाभ्युपगमादनध्यस्ताहम्भावेन देहेन
भोगहेतुव्यवहारासिद्धेस्तात्कालिकाहङ्काराभासानुवृत्तेर्विद्वदनुभव##-
ध्यानप्रायत्वाद्ध्येय इव ध्येय इति द्विविध इत्यर्थः ॥ ६ ॥
अहमेषां पदार्थानामेते च मम जीवितम् ।
नाहमेभिर्विना कश्चिन्न मयैते विना किल ॥ ७ ॥
तत्र द्वितीयमुपपादयति - अहमिति । विवेकिदृशात्र द्वावहम्प्रत्ययगोचरौ
प्रतीयेते । एको देहेन्द्रियबुद्धिमनःसापेक्षः सङ्घातात्मा
पुत्रमित्रकलत्रधनादिममतानिरूपकः ।
अपरोऽखण्डैकस्वभावोऽवस्थात्रयमरणमूर्च्छाजन्मान्तरसाधारणश्चिन्म्
आत्रस्वभावो विवेकपरिशिष्टः । तत्राद्यस्य स्वरूपं प्रथमं विचार्य
निर्धार्यमित्याह - अहमिति । एषां देहेन्द्रियादीनां बाह्यान्नपानादीनां
चोपभुक्तानां पदार्थानां सङ्घातात्मेत्यर्थः । एते देहादयोऽन्नादयश्च
मम जीवितं स्वरूपसिद्धिनिमित्तम् । अत एवैभिर्विनाऽहं न कश्चिद्व्यवहारपदे
प्रसिद्धोऽस्मीत्यन्तःप्रथमस्याहम्पदार्थस्य निश्चयं कृत्वा मनसा सह
पृथक्करणे सङ्घातात्मानमत्यन्तासद्रूपमेव विचार्य द्वितीये
परिशिष्टचिद्रूपेणाहम्पदार्थस्य न मे एते पदार्था इति निष्कृष्टबोधेन
तथैव भाविते सति यो भावनात्मा वासनात्यागः स ध्येय इति मया कीर्तित इति
त्रयाणामर्थः ॥ ७ ॥
इत्यन्तर्निश्चयं कृत्वा विचार्य मनसा सह ।
नाहं पदार्थस्य न मे पदार्थ इति भाविते ॥ ८ ॥
अन्तःशीतलया बुद्ध्या कुर्वत्या लीलया क्रियाम् ।
यो नूनं वासनात्यागो ध्येयो राम स कीर्तितः ॥ ९ ॥
सर्वं समतया बुद्ध्वा यं कृत्वा वासनाक्षयम् ।
जहाति निर्ममो देहं ज्ञेयोऽसौ वासनाक्षयः ॥ १० ॥
प्रथमं वासनाक्षयमुपपादयति - सर्वमिति । सर्वं जगत्समतया
समं ब्रह्म तद्भावेन बुद्ध्वा साक्षात्कृत्य भूमिकाभ्यासक्रमेण यं
वासनाक्षयं कृत्वा निर्ममो निरहङ्कारश्च निर्विकल्पकसमाधिस्थः
प्रारभ्दक्षयेण वा यत्सर्वथा देहं जहाति असौ ज्ञेयो वासनाक्षय इत्यर्थः ॥
१० ॥
अहङ्कारमयीं त्यक्त्वा वासनां लीलयैव यः ।
तिष्ठति ध्येयसन्त्यागी जीवन्मुक्तः स उच्यते ॥ ११ ॥
तत्र द्वितीयमुदाहरति - अहङ्कारेति । लीलया लोकसम्प्रहोचितव्यवहारेण
यस्तिष्ठति स ध्येयसन्त्यागी ध्येयवासनात्यागवान् ॥ ११ ॥
निर्मूलकलनां त्यक्त्वा वासनां यः शमं गतः ।
ज्ञेयत्यागमयं विद्धि मुक्तं तं रघुनन्दन ॥ १२ ॥
आद्यमुदाहरति - निर्मूलेति । मूलाज्ञानेन सह कलनां त्यक्त्वेत्यर्थः ।
ज्ञेयत्यागमयं ज्ञानबाधितसवासनाज्ञानपरिशिष्टचिन्मात्रप्रधानम् ॥
१२ ॥
ध्येयं तं वासनात्यागं कृत्वा तिष्ठन्ति लीलया ।
जीवन्मुक्ता महात्मानः सुजना जनकादयः ॥ १३ ॥
उक्तमेव प्रपञ्चयति - ध्येयमित्यादिना । लीलया व्यवहारेण ॥ १३ ॥
ज्ञेयं तु वासनात्यागं कृत्वोपशममागताः ।
विदेहमुक्तास्तिष्ठन्ति ब्रह्मण्येव परावरे ॥ १४ ॥
द्वावेव राघव त्यागौ समौ मुक्तपदे स्थितौ ।
द्वावेतौ ब्रह्मतां यातौ द्वावेव विगतज्वरौ ॥ १५ ॥
अप्यर्थे एवकारः ॥ १५ ॥
युक्तायुक्तमती स्वासे केवलं विमलेऽनघ ।
एकः स्थितः स्फुरद्देहः शान्तदेहः स्थितोऽपरः ॥ १६ ॥
युक्तमतिः समाध्यारूढः । अयुक्तमतिर्व्युत्थानव्यवहारवान् । एतौ
युक्तायुक्तमती द्वावपि सुखेन आस्यते विश्रम्यते अस्मिन्निति स्वासे विमले
अविद्यामलनिर्मुक्ते ब्रह्मण्येव केवलं स्थितौ । कस्तर्हि विशेषस्तमाह -
एक इति । एको व्युत्थितः । अपरः समाहितः ॥ १६ ॥
एकः सदेहो निर्मुक्तस्तिष्ठत्यपगतज्वरः ।
त्यक्तदेहो विमुक्तोऽन्यो वर्ततेऽज्ञेयवासनः ॥ १७ ॥
अज्ञेयवासन इति च्छेदः ॥ १७ ॥
आपतत्सु यथाकालं सुखदुःखेष्वनारतम् ।
न हृष्यति ग्लायति यः स मुक्त इति होच्यते ॥ १८ ॥
व्यवहरतो मुक्तस्य लक्षणान्याह - आपतत्स्वित्यादिना ॥ १८ ॥
ईप्सितानीप्सिते न स्तो यस्येष्टानिष्टवस्तुषु ।
सुषुप्तवच्चरति यः स मुक्त इति कथ्यते ॥ १९ ॥
ईप्सितानीप्सिते इच्छाद्वेषौ । अज्ञदृशा इष्टानिष्टत्वेन सम्मतेषु वस्तुषु
सुषुप्तवदनासक्त इति यावत् ॥ १९ ॥
हेयोपादेयकलने ममेत्यहमिहेति च ।
यस्यान्तः सम्परिक्षीणे स जीवन्मुक्त उच्यते ॥ २० ॥
इह देहे तत्सम्बन्धिनि च अहमिति ममेति च कलने इति योजना ॥ २० ॥
हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः ।
न परामृश्यते योऽन्तः स जीवन्मुक्त उच्यते ॥ २१ ॥
सुषुप्तवत्प्रशमितभाववृत्तिना
स्थितं सदा जाग्रति येन चेतसा ।
कलान्वितो विधुरिव यः सदा मुदा
निषेव्यते मुक्त इतीह स स्मृतः ॥ २२ ॥
येन पुंसा सुषुप्तवत्प्रशमिता भाववृत्तयः पदार्थेष्वास्था यस्य
तथाविधेन चेतसोपलक्षितेन जाग्रति जागरेपि सदा स्थितम् । भावे क्तः । यश्च
सदा मुदा स्वाभाविकहर्षेण कलान्वितः पूर्णकलो विधुश्चन्द्र इव प्रसादेन
निषेव्यते स इह जगति मुक्तो जीवन्मुक्त इति स्मृत इत्यर्थः ॥ २२ ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायन्तनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ॥ २३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे तृष्णाचिकित्सा नाम षोडशः सर्गः ॥ १६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
तृष्णाचिकित्सा नाम षोडशः सर्गः ॥ १६ ॥
एकादशो दिवसः ॥