पञ्चदशः सर्गः १५
श्रीवसिष्ठ उवाच ।
एतामनुसरन्राम चित्तसत्तामपावनीम् ।
संसारबीजकणिकां जीवबन्धनवागुराम् ॥ १ ॥
आत्मा मनस्त्वमापन्नो बध्यते संसृतौ यया ।
सा तृष्णाऽनर्थबीजानां सुविचित्रोपवर्ण्यते ॥ १ ॥
चित्तनाशने परमपुरुषार्थप्राप्तिरुक्ता इदानीं चित्तानुसरणे
तृष्णाभिवृद्ध्या अनर्थपरम्पराप्राप्तिरिति दर्शयितुं भूमिकां रचयति
- एतमित्यादिना । आत्मा एतां चित्तसत्तामनुसरन्
संस्त्यक्तस्वीयब्रह्मात्मरूपाभो भूत्वा
मलिनामविद्यापिहितामिन्द्रियवृत्त्यधीनाभिव्यक्तिकां दृशं
ज्ञानमापतच्चित्तमेवानुरुद्ध्य चित्तकल्पितदेहादिसङ्घातमात्रोऽहमिति
सन्धत्ते चित्तोपनीतनानाविषयकलनाप्रयुक्तं रागद्वेषवासनामलं च धत्ते
इति द्वयोरन्वय ॥ १ ॥
आत्मा त्यक्तात्मरूपाभो मलिनामाप् तद्दृशम् ।
चित्तं समनुसन्धत्ते धत्ते च कलनामलम् ॥ २ ॥
वर्धमानमहामोहदायिनी भयकारिणी ।
तृष्णा विषलतारूपा मूर्च्छामेव प्रयच्छति ॥ ३ ॥
धत्तां नाम किं ततस्तत्राह - वर्धमानेति ।
मरणमूर्च्छाभ्रान्तिसहस्रहेतुत्वाद्विषलतारूपा तृष्णा अस्मै
कलनामलधारिणे आत्मने मूर्च्छामेव प्रयच्छति न सुखलेशमपीत्यर्थः ॥
३ ॥
यदा यदोदेति तदा महामोहप्रदायिनी ।
तृष्णा कृष्णानिशेवेयमनन्तात्मविकारिणी ॥ ४ ॥
वर्धमानमहामोहदायिनीत्येतद्विवृणोति - यदेति । कृष्णानिशा
वार्षिकीतमिस्रा । सापि हि अनन्तात्मन्याकाशे
मेघविस्फूर्जितवृष्ठ्याद्यनेकविकारिणी ॥ ४ ॥
कल्पानलशिखादाहं सोढुं शक्ता हरादयः ।
तृष्णानलशिखादाहं सोढुं शक्ता न केचन ॥ ५ ॥
भयकारिणीत्येतदपि विवृणोति - कल्पानलेति । न केचन धीरा इति शेषः ॥ ५ ॥
तीक्ष्णा कृष्णा सुदीर्घा च वहत्यङ्गं सदा निजम् ।
शीतलैवासुखोदर्का घोरा तृष्णाकृपाणिका ॥ ६ ॥
कृपाणिका असिः । तीक्ष्णेत्याद्यसित्वोपपादनम् । निजमङ्गं सदा वहति
कृन्ततीति यावत् । असुखः उदर्कः फलकालो यस्याः ॥ ६ ॥
यान्येतानि दुरन्तानि दुर्जराण्युन्नतानि च ।
तृष्णावल्ल्याः फलानीह तानि दुःखानि राघव ॥ ७ ॥
विषलतेत्येतद्विशदयति - यानीति । दुर्जराणि रजयितुमशक्यानि । दुर्निवाराणीति
यावत् ॥ ७ ॥
अदृश्यैवात्ति मांसास्थिरुधिरादि शरीरकात् ।
मनोबिलविलीनैषा तृष्णावनशुनी नृणाम् ॥ ८ ॥
वनशुनी वृकी ॥ ८ ॥
क्षणमुल्लासमायाति क्षणमायाति शून्यताम् ।
जडा विदलयत्याशु तृष्णाप्रावृट्तरङ्गिणी ॥ ९ ॥
क्षणमुल्लासं वृद्धिम् । विशेषणान्युभयत्र योज्यानि । जडा शीतला मलिना च
। विदलयति शिलाकण्टकारण्यादिप्रवेशं नीत्वा खण्डयति । प्रावृट्तरङ्गिणी
वर्षाभिवृद्धनदी ॥ ९ ॥
दृष्टदैन्यो हतस्वान्तो हतौजा याति नीचताम् ।
मुह्यते रौति पतति तृष्णयाभिहतो जनः ॥ १० ॥
मूर्च्छामेव प्रयच्छतीत्येतद्विवृणोति - दृष्टदैन्य इति ॥ १० ॥
न स्थिता कोटरे यस्य तृष्णाकृष्णभुजङ्गमी ।
तस्य प्राणानिलाः स्वस्थाः पुंसो हृदयरन्ध्रगाः ॥ ११ ॥
तृष्णाक्षये सर्वदुःखहानिः सर्वपुण्योदयश्च सिद्ध्यतीत्याह - न
स्थितेत्यादिना ॥ ११ ॥
नूनमस्तङ्गतो यत्र तृष्णाकृष्णनिशाक्रमः ।
पुण्यानि तत्र वर्धन्ते शुक्लपक्ष इवेन्दवः ॥ १२ ॥
यो न तृष्णाघुणावल्ल्या क्षतः पुरुषपादपः ।
पुण्यप्रसूनैः स सदा दशां याति विकासिनीम् ॥ १३ ॥
अनन्ताकुलकल्लोला विवर्तावर्तसङ्कुला ।
प्रवहत्याशयारण्ये तृष्णान्धानां नदी नृणाम् ॥ १४ ॥
अन्धानां विवेकदृष्टिहीनानां नृणामाशयश्चित्तं तल्लक्षणेऽरण्ये
अनन्तव्याकुलतालक्षणकल्लोलवती भ्रान्तिलक्षणैरावर्तैश्च सङ्कुला
तृष्णानदी नूनं वहति प्रवहति ॥ १४ ॥
तृष्णयेमे जनाः सर्वे सूत्रयन्त्रपतत्रिवत् ।
भ्राम्यन्ते प्रविशीर्यन्ते संह्रियन्ते च भूरिशः ॥ १५ ॥
सूत्रेण यन्त्र्यते बध्यते इति सूत्रयन्त्रः पतत्री पक्षी तद्वत् । प्रथमं
वित्तस्यार्जनाय भ्राम्यन्ते ततो रक्षणव्ययक्षयचिन्ताशोकैः पक्षलुञ्चनैरिव
प्रविशीर्यन्ते अन्ते च संह्रियन्ते मार्यन्ते ॥ १५ ॥
मूलान्यपि सुसूक्ष्माणि कठिनाशयकर्कशा ।
तृष्णा परशुधारेव वल्गन्ती विनिकृन्तति ॥ १६ ॥
धर्मज्ञानमूलानि दयाविवेकादीनि सुसूक्ष्माणि ईषदङ्कुरितान्यपि कठिनेन
निर्दयेनाशयेन कर्कशा । वल्गन्ती तत्कालं निपतन्ती ॥ १६ ॥
निपतत्यवटे मूढस्तृष्णामनुसरज्जनः ।
नीलामनुपतञ्छ्वभ्रतृणशाखां यथैणकः ॥ १७ ॥
अवटे नरकान्धकूपे । नीलां हरिताम् । श्वभ्रस्य कूपस्य मुखे रूढस्य
तृणस्य शाखामनुपतन् एणको हरिण इव ॥ १७ ॥
नोन्मत्तपि जरा चक्षुस्तथा जरयति क्षणात् ।
यथा जरयति क्षामा तृष्णा हृदयरूपिका ॥ १८ ॥
उन्मत्ता प्ररूढतमापि जरा चक्षुर्जरयत्यन्धयति । हृदयस्था रूपिका
पिशाची ॥ १८ ॥
तृष्णयाशयकौशिक्या हृद्यमङ्गलभूतया ।
रूढया भगवानेष विष्णुर्वामनतां गतः ॥ १९ ॥
अमङ्गलभूतया हृदि रूढया कृतनीडया ॥ १९ ॥
कयाचिदेव दैविक्या हृदि ग्रथितयानया ।
तृष्णया भ्राम्यते व्योम्नि रज्ज्वेवार्कोऽन्वहं किल ॥ २० ॥
दैविक्या देवेनेश्वरेण प्रयुक्तया देवभोग्यसुखवविषयया वा तृष्णया
रज्ज्वेव बद्ध इति शेषः ॥ २० ॥
सर्वदुःखमयाकारां जगतीजीवनच्छिदम् ।
तृष्णां परिहरेत्क्रूरामुरगीमिव दूरगः ॥ २१ ॥
जगतीपदेन जगतीस्थाः सर्वप्राणिनो लक्ष्यन्ते ॥ २१ ॥
तृष्णया वायवो वान्ति शैलास्तिष्ठन्ति तृष्णया ।
तृष्णयैव धरा धात्री त्रैलोक्यं तृष्णया धृतम् ॥ २२ ॥
सर्वसंसारस्थितिस्तृष्णावशादेवेत्याशयेनाह - तृष्णयेति ॥ २२ ॥
सर्वैव लोकयात्रेयं प्रोता तृष्णावरत्रया ।
रज्जुबन्धाद्विमुच्यन्ते तृष्णाबन्धान्न केचन ॥ २३ ॥
वरत्रा चर्ममयी रज्जुः ॥ २३ ॥
तस्माद्राघव तृष्णां त्वं त्यज सङ्कल्पवर्जनात् ।
मनस्त्वकल्पनं नास्ति निर्णीतमिति युक्तितः ॥ २४ ॥
सङ्कल्पवर्जनमात्रेण कथं तृष्णात्यागसिद्धिस्तत्राह - मन इति ।
अकल्पनं सङ्कल्परहितं मनो नास्ति । मनसोऽभावे कुतस्तृष्णाप्रसक्तिरिति
भावः ॥ २४ ॥
अयं त्वमहमित्येव प्रथमं तावदाशये ।
मां दुराशां महाबाहो सङ्कल्पय तमोमयीम् ॥ २५ ॥
त्वं अयं देहोऽहमिति दुराशां सर्वदुराशानिमित्तमभिमानं मा सङ्कल्पय
॥ २५ ॥
एतां दुःखप्रसविनीमनात्मन्यात्मभावनाम् ।
न भावयसि चेद्राम तदा तज्ज्ञेषु गण्यसे ॥ २६ ॥
एतामहम्भावमयीमपुण्यां
छित्त्वानहम्भावशलाकयैव ।
स्वभावनां भव्य भवान्तभूमौ
भवाभिभूताखिलभूतभीतिः ॥ २७ ॥
अनहम्भावलक्षणया शलाकया कर्तर्या अहम्भावमयीमेतां तृष्णां
छित्त्वा हे भव्य भवस्यान्तो बाधस्तद्भूमौ ब्रह्मणि सप्तमभूमिकाभेदे
वा भव आस्स्वेत्यर्थः ॥ २७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये
मोक्षोपायेषूपशमप्रकरणे तृष्णावर्णनं नाम पञ्चदशः
सर्गः ॥ १५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
तृष्णावर्णनं नाम पञ्चदशः सर्गः ॥ १५ ॥