१४

चतुर्दशः सर्गः १४

श्रीवसिष्ठ उवाच ।

संसारसागरासारकल्लोलैरुह्यमानया ।
मतेर्मानद मूकत्वं यया जनतयार्जितम् ॥ १ ॥

उपेक्ष्यानुपदेशार्हान्नानायोनिषु दुःखिनः ।
मनोनिर्मार्जनोपायस्तदर्हेभ्योऽत्र वर्ण्यते ॥ १ ॥

तत्रादौ मन एवासदुत्थितम् । यः शक्तो न वशीकर्तुं नासौ रामोपदिश्यते इति
प्राक्प्रस्तुतानुपदेशानधिकारिजनानेवोपेक्षणीयतया वर्णयति -
संसारेत्यादिना । संसारसागरस्य
असारकल्लोलभूतैर्विषयसुखाभिलाषैरुह्यमानया निरन्तरं प्रवर्त्यमानया
यया जनतया मनोनिग्रहविवेकवैराग्यादिविषये अपेक्षाभावाद्विदुषः
प्राप्यापि प्रश्नप्रार्थनाद्यकरणान्मतेर्मूकत्वमेवाश्रितं सा जनता मया
आत्मलाभोपायप्रचुरोत्कृष्टकलाशालिभिर्विचारोक्तिभिरिह जगत्यस्मिन् शास्त्रे
नोपदिश्यते इति द्वयोरन्वयः ॥ १ ॥

आत्मलाभमयोदारकलाभिरिह सा मया ।
विचारोक्तिभिरेताभिः शास्त्रेऽस्मिन्नोपदिश्यते ॥ २ ॥

न पश्यत्येव योऽत्यर्थं [यो नित्यं इति पाठः] तस्य कः खलु
दुर्मतिः ।
विचित्रमञ्जरी चित्रं सन्दर्शयति काननम् ॥ ३ ॥

योऽन्ध इत्येव वक्तव्ये नित्यं न पश्यतीत्युक्तिश्चक्षुष्मानपि यो
दुरदृष्टद्वेषादिना न पश्यति तस्यापि तत्प्रदर्शनमनुचितमिति सूचनार्थम् ॥
३ ॥

कः कुष्ठघर्घरघ्राणं नानामोदविचारणे ।
मूर्खमात्मोपदेशेन प्रमाणीकुरुतेऽमतिः ॥ ४ ॥

कुष्ठरोगविशीर्णघर्घरस्वननादिघ्राणं यस्य तं पुरुषं
कोऽमतिर्निर्बुद्धिर्नानामोदानां विचारणे परीक्षणे प्रमाणीकुरुते
आमोदतत्त्वनिर्णेतृत्वेनाश्रयतीत्यर्थः ॥ ४ ॥

विपर्यस्तेन्द्रियं मत्तं मदिराघूर्णितेक्षणम् ।
धर्मनिर्णयसाक्षित्वे कः प्रमाणीकरोत्यधीः ॥ ५ ॥

कः शवं वा श्मशानस्थं समवायकथाशतम् ।
परिपृच्छति सन्देहे कश्च मूर्खं प्रशास्ति च ॥ ६ ॥

समवाया जनसमूहास्तत्रत्यं कथाशतम् ॥ ६ ॥

येनाशयबिलस्थोऽपि मूकोन्धोऽपि न निर्जितः ।
मनोव्यालः स दुर्बुद्धिः कथं नामोपदिश्यते ॥ ७ ॥

आशेते अस्मिन्नित्याशयो हृदयं तद्बिलस्थः ॥ ७ ॥

जितमेव मनो विद्धि वस्तुतो यन्न विद्यते ।
निकटात्सा चिरास्तैव या शिला नैव विद्यते ॥ ८ ॥

तर्हि किं विवेकिनोऽपि मनोजयोऽशक्यो नेत्याह - जितमेवेति ।
निकटात्स्वसन्निधेः अस्ता दूरनिरस्तैव ॥ ८ ॥

मनो न विजितं राम येनासदपि दुर्धिया ।
तेनाग्रस्तविषेणैव म्रियते विषमूर्च्छया ॥ ९ ॥

अग्रस्तविषेणेति सर्पदंशाद्यभावस्याप्युपलक्षणम् ॥ ९ ॥

ज्ञः पश्यति सदैवात्मा स्पन्दने प्राणशक्तयः ।
इन्द्रियाणि स्वधर्मेषु मनो राम किमुच्यते ॥ १० ॥

वस्तुतो यन्न विद्यते इत्येतदुपपादयति - ज्ञ इति । किमर्थप्रथार्थं मन उत
स्पन्दार्थमुत ज्ञानकर्मेन्द्रियप्रयोजनसिद्धये । तत्त्रयमपि
प्राणप्रेरितैरिन्द्रियरुपनीतानामर्थानां साक्षिणैव प्रथासम्भवान्न
मनसः कृत्यमस्तीति भावः ॥ १० ॥

प्राणानां स्पन्दनी शक्तिर्ज्ञानशक्तिः परात्मनः ।
इन्द्रियाणां निजा शक्तिरेकः कोऽत्र निबध्यते ॥ ११ ॥

ननु सर्वशक्तिभिर्निबद्धं मनः किं न स्यादिति चेन्न इयमुक्तिर्विवेके घटते
वीणामधुरध्वनिवत्समाजेनापि समुदितव्यवहारसिद्धेरित्याशयेनाह -
प्राणानामिति । तथाच यथा तैर्थिकसमाजस्नानदानगानस्तवनादिव्यवहारो न
सर्वशक्तिमदेकप्रयुक्तस्तद्वदयमपीत्यर्थः ॥ ११ ॥

सर्वास्तदंशवस्तस्य [सर्वास्ता अंशव इति पाठः] सर्वशक्तेः
किलात्मनः ।
पृथक्ता वाच्यता चेयं कुतो नाम तवोत्थिता ॥ १२ ॥

यदि कश्चिद्ब्रूयात्सङ्घातस्य संहन्तृपरार्थत्वनियमादत्रापि
कश्चिदपेक्षित इति तर्ह्यस्यापि सङ्घातस्य जगत्सङ्घातान्तःपातात्सर्वेषां
सर्वा व्यवहारशक्तयः सर्वनिर्मातुरीश्वरस्यात्मन एवांशव इति
तादर्थ्यमेवास्यापि सिद्ध्येन्नाचेतनमनोर्थत्वमिति न प्रतिशरीरभिन्ना
चेतनमनःसिद्धिरित्याशयेनाह - सर्वा इति । वाच्यता मन आदिशब्दवाच्यता
॥ १२ ॥

किं नाम जीव इत्युक्तं येनेहान्धीकृतं जगत् ।
चित्तं चैवासदेव त्वं विद्धि का तस्य शक्तता ॥ १३ ॥

तर्ह्यस्तु जीवश्चेतनोऽस्याधिष्ठाता स च न चित्ताख्य मनःप्रग्रहेण विना
इन्द्रियाश्वानधिष्ठातुं शक्नोतीति चित्तमपि सिद्धमेवेति चेत्तत्राह - किं
नामेति । जीव इति चित्तमेव चेति यत्त्वयोक्तं तदुभयं किं नाम । किमात्मातिरिक्तं
चेतनान्तरमुताचेतनम् । नाद्यः नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता इति श्रुत्या
ब्रह्मातिरिक्तचेतनान्तरस्य प्रतिषेधात् । द्वितीये त्वाह - का तस्य शक्ततेति ।
अचेतनस्य चेतनार्थत्वावश्यकतया इन्द्रियेभ्यो
विशेषाभावात्तदधिष्ठानशक्त्यभावात् । अतस्त्वं तदुभयमसदेव
विद्धित्यर्थः ॥ १३ ॥

मनोनिर्दघ्ददृष्टीनां दृष्ट्वा दुःखपरम्पराम् ।
मतिर्मे करुणाक्रान्ता राम मुग्धेव तप्यते ॥ १४ ॥

स्वकल्पितेन मनसा निर्दग्धा परमार्थदृष्टिर्येषाम् ।
तद्दुःखनिवारणोपायस्यान्वेषणे वर्षकोटिभिरप्यलाभान्मुग्धा
व्यामोहमिवापन्ना ॥ १४ ॥

कः किलात्र कुतः खेदो यन्मूर्खः परितप्यते ।
दुःखायैव हि जायन्ते करभाः प्राकृतास्तथा ॥ १५ ॥

सनिमित्तकं हि दुःखं निमित्तनिवारणेन वारयितुं शक्यम् मूर्खाणां तु
निर्निमित्तमेव दुःखमतो दुर्वारमेवेत्याशयेनाह - कः किलेति । करभा
गर्दभाः प्रकृता मूर्खाश्च अतः शोच्या एवेत्यर्थः । अथवा नैते शोच्याः
ईदृशां मूढयोनीनामसङ्ख्यातानां दर्शनेन
तद्वदेवोपेक्षार्हत्वादित्याशयेन इयमुक्तिः ॥ १५ ॥

विनाशायैव जायन्ते जडा देहेष्वबुद्धयः ।
अनारतोदयाः पापा बुद्बुदा जलधेरिव ॥ १६ ॥

उक्ताथविवरणाय नानायोनिभेददुःखिन उदाहर्तुं पीठिकां रचयति -
विनाशायैवेति । पापाः यतः पापकारिण इत्यर्थः ॥ १६ ॥

कियन्तः पश्य पशवः प्रत्यहं प्रतिमण्डलम् ।
सूनावद्भिर्निहन्यन्ते कैवात्र परिदेवना ॥ १७ ॥

अज्ञानां योनिभेदेषु दुःखवैचित्र्याणि वैराग्यदार्ढ्यायोदाहरति -
कियन्त इत्यादिना । प्रतिमण्डलं प्रतिदेशम् । सूना पशुहिंसास्थानं
तद्बद्भिस्तदधिष्ठितैः पुरुषैः ॥ १७ ॥

अर्बुदान्यनिलो हन्ति क्षमाजातेषु चान्वहम् ।
दंशानां मशकानां च कैवात्र परिदेवना ॥ १८ ॥

क्षमाजातेषु भूम्युद्भवजन्तुषु मध्ये अनिलो दंशानां मशकानां
चार्बुदान्यसङ्ख्यातानि हन्ति ॥ १८ ॥

दिशं प्रति गिरीन्द्रेषु पुलिन्दाद्या वने वने ।
निघ्नन्ति मृगलक्षाणि कैवात्र परिदेवना ॥ १९ ॥

दिशं प्रति प्रतिदिशम् । वीप्सायां
द्विर्वचनस्याव्ययीभावारम्भसामर्थ्याद्विकल्पितत्वेऽप्यन्यतरस्यावश्यकत्वा
दुभयाभावश्छान्दसः ॥ १९ ॥

जले जलचरव्यूहान्सूक्ष्मान्स्थूलो निकृन्तति ।
ग्रासार्थं निर्दयो मत्स्यः कैवात्र परिदेवना ॥ २० ॥

लिक्षामणुकणक्षामां क्षुधा खादति मक्षिका ।
तां कोशकारः क्षुधितो दंशस्तमपि चञ्चलम् ॥ २१ ॥

इदानीं दुर्बलानां प्रबलैः पीडनं परम्परयोपपादयति - लिक्षेत्यादिना
। अणुकणवत्क्षामां लिक्षां वस्त्रयूकां मक्षिका क्षुधा बुभुक्षया खादति
। कोशकार ऊर्णनाभिः कीटविशेषो वा । दंशो वनमक्षिका ॥ २१ ॥

तं दंशं दर्दुरो भुङ्क्ते व्यालस्तमपि दर्दुरम् ।
सर्पमुग्रं खगो हन्ति बभ्रुश्चैनं निकृन्तति ॥ २२ ॥

दर्दुरो भेकः । खगो गरुडादिः । बभ्रुर्नकुलश्चैनं सर्पम् ॥ २२ ॥

बभ्रुं हिनस्ति मार्जारो मार्जारं श्वा निकृन्तति ।
ऋक्षः कौलेयकं हन्ति ऋक्षं व्याघ्रो निकृन्तति ॥ २३ ॥

ऋक्षो भल्लूकः । रिच्छ इति पाठे श्वापदविशेषः ॥ २३ ॥

सिंहोऽभिभवति व्याघ्रं शरभः सिंहमत्ति च ।
शरभो नाशमायाति मत्तमेघविलङ्घने ॥ २४ ॥

मत्तस्य गर्जतो मेघस्य विलङ्घने स्वोपरिभागे गमने प्रसक्ते
तदसहनेनोत्पत्त्य शिलातले निपातान्नाशमायातीति प्रसिद्धमित्यर्थः ॥ २४ ॥

मेघा वातैर्विधूयन्ते वायवो गिरिभिर्जिताः ।
गिरयो वज्रनिष्पिष्टाः शक्रस्य वशगः पविः ॥ २५ ॥

वज्रेण निष्पिष्टाः खण्डिताः । पविर्वज्रोऽपि शक्रस्य वशगः । शक्रेण
बलाद्वशीकृत इति यावत् ॥ २५ ॥

विष्णुना क्रियते शक्रो विष्णुर्गच्छति जन्तुताम् ।
सुखदुःखदशामेतां जरामरणपालिताम् ॥ २६ ॥

क्रियते वशग इत्यनुवर्तते । जन्तुतां मत्स्यकूर्मवराहादितिर्यग्जन्त्ववतारान् ।
अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति सङ्कल्प्य जीवात्मना
विष्णोरेव प्रवेशाज्जीवभावेन सर्वजन्तुशरीरित्वात्सर्वजन्त्वात्मकतां वा । अत
एव विशिनष्टि - सुखदुःखेति जरामरणाभ्यां स्वभोज्यमन्नमिव
यावदायुःपालिताम् ॥ २६ ॥

जन्तवोऽपि महाकाया अपि विद्यायुधान्विताः ।
लिक्षाभिरङ्गलग्नाभिरुपजीव्यन्त एव हि ॥ २७ ॥

लिक्षाग्रहणं मशकमत्कुणमक्षिकाक्रव्यादाद्युपलक्षणम् । उपजीव्यन्ते
भक्ष्यन्ते ॥ २७ ॥

अजस्रमेवमालूनविशीर्णं भूतजङ्गलम् ।
परस्परमलं मोहादद्यते रक्ष्यतेऽपि च ॥ २८ ॥

आधिभौतिकैरालूनं आध्यात्मिकैराधिदैविकैश्च दुःखैर्विशीर्णं
भूतजङ्गलं प्राणिवृन्दम् । अद्यते भक्ष्यते उत्तरकाले भक्षणायेदानीं
रक्ष्यते । अपिशब्दादर्धं भक्षयित्वार्धं रक्ष्यते ॥ २८ ॥

अनारतं विनश्यन्ति विविधा भूतजातयः ।
अनारतं च जायन्ते लिक्षायूकापिपीलिकाः ॥ २९ ॥

अनारतं सन्ततम् । यूकाः शिरोरुहजाः । लिक्षायूकापिपीलिका इति क्षुद्रजन्तवः
इत्येकवद्भावाकरणं छान्दसम् । नच सर्वो द्वन्द्वो विभाषैकवद्भवति इति
तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् इत्यत्र
बहुवचनग्रहणेन ज्ञापनात्सिद्धमिति युक्तम् । ज्ञापकस्य सजातीयापेक्षत्वेन
तस्याप्राप्तविभाषात्वादन्यथा प्राणितूर्याद्यङ्गद्वन्द्वेऽपि विभाषापत्तेरिति ॥
२९ ॥

जलकोशेषु जायन्ते मत्स्येभमकरादयः ।
भूमावन्तः प्रजायन्ते कीटौघा वृश्चिकादयः ॥ ३० ॥

बाधकपरम्परां समाप्य प्रकृतमनुवर्तते - जलकोशेष्विति ।
जलकोशेषु जलाशयेषु । इभा इभाकारा जलजन्तुविशेषाः ॥ ३० ॥

अन्तरिक्षेऽपि जायन्ते आकाशविहगादयः ।
वनवीथिषु जायन्ते सिंहव्याघ्रमृगादयः ॥ ३१ ॥

आकाशविहगाः क्षुद्रपक्षिविशेषास्ते हि सदा भ्रमन्तोऽन्तरिक्ष एव प्रसूयन्ते
प्रसूतं चाण्डमधःपातात्प्रागेव भित्त्वा निर्गताः शावकाः सद्यः
सञ्जातपक्षा अन्तरिक्षमेवोत्पत्त्य भ्रमन्तीति लोकप्रवादप्रसिद्धम् ।
आदिपदात्पिशाचा भूतवेतालादयो ग्राह्याः ॥ ३१ ॥

प्राण्यङ्गेष्वपि जायन्ते विचित्राः ककुभं प्रति ।
स्थावरेष्वपि जायन्ते घुणा जघनकादयः ॥ ३२ ॥

प्राण्यङ्गेषु कृमियूकादयः । ककुभं प्रति प्रतिदिशम् । घुणाः
काष्ठकृमयः जघनका भ्रमरिकाकाराः काष्ठकीटाः ।
आदिपदात्पत्रफलपुष्पाद्युद्भवाः कृमिमशकभेदा गृह्यन्ते ॥ ३२ ॥

शिलान्तरेषु जायन्ते कीटभेकघुणादयः ।
विष्ठायामपि जायन्ते नानाकीटगणास्तथा ॥ ३३ ॥

एवमेतेष्वसङ्ख्येषु जन्मस्वपचयेषु च ।
अजस्रं करुणावन्तो नन्दन्तु प्ररुदन्तु वा ॥ ३४ ॥

उपसंहृत्य प्रस्तुते योजयति - एवमिति । नन्दन्तु प्ररुदन्तु वेति
द्वेषाभावात्परपीडाभिनन्दनमिव
स्नेहाभावाद्रोदनमप्यनुचितमित्युपेक्षैव युक्तेति भावः ॥ ३४ ॥

अनारतमृतावस्मिन्ननारतसमुद्भवे ।
संसारसम्भ्रमे युक्ता न तुष्टिर्न च दुःखिता ॥ ३५ ॥

उक्तमेव स्पष्टमाह - अनारतेति ॥ ३५ ॥

पङ्क्तयस्त्वेवमेवेमा वृक्षपर्णगणैः समाः ।
उत्पत्त्योत्पत्त्य लीयन्ते भूतानां भूरिसम्भवाः ॥ ३६ ॥

भूतानां पङ्क्तयः समूहाः । एवमेव वृथैवेत्यर्थः ॥ ३६ ॥

यः प्रवृत्तः कुबुद्धीनां दयावान्दुःखमार्जने ।
स्वगतच्छत्रनिर्मृष्टसूर्यांशु खिद्यते नभः ॥ ३७ ॥

यः दयावान्सन्कुबुद्धीनां दुःखमार्जने प्रवृत्तः सः नभः
कृत्स्नमाकाशं स्वगतेन च्छत्रेण निर्मृष्टसूर्यांशु निवारितातपं
कर्तुं खिद्यते श्राम्यतीत्यर्थः । खिद्यते न सः इति पाठे तु किं न खिद्यते इति
काक्वा योज्यम् ॥ ३७ ॥

न तिर्यक्समधर्माण उपदेश्या नरा भुवि ।
कथार्थकथनेनार्थः कः स्थाणुनिकटे वने ॥ ३८ ॥

किं किल स्फारमनसां पशूनां च विशेषणम् ।
कृष्यन्ते पशवो रज्ज्वा मनसा मूढचेतसः ॥ ३९ ॥

स्फारमनसां विषयविस्तारितमनसाम् । विशेषणं विशेषः ॥ ३९ ॥

स्वचित्तपङ्कमग्नानां स्वनाशारब्धकर्मणाम् ।
मूर्खाणामापदं दृष्ट्वा प्ररुदन्त्युपला अपि ॥ ४० ॥

उपलाः पाषाणा अपि प्ररुदन्ति किं पुनः सचेतना इत्यतिशयोक्तिः ॥ ४० ॥

अनिर्जितात्मचित्तानां समन्ताद्दुःखदा दशाः ।
तन्मार्जनं कृतप्रज्ञो नाऽतः सम्प्रतिपद्यते ॥ ४१ ॥

समन्तात्सर्वदेशेषु सर्वदा च दुःखदा दशाः पूर्णाः सन्तीति शेषः । अतः
कृत्स्नभूमिपांसुसम्मार्जनवदशक्यत्वान्न सम्प्रतिपद्यत इत्यर्थः ॥ ४१ ॥

विनिर्जितात्मचित्तानां दुःखानि रघुनन्दन ।
सुविचार्याणि तेनात्र ज्ञातज्ञेयः प्रवर्तताम् ॥ ४२ ॥

सुविचार्याणि रलयोरभेदासुविचाल्यानि । सुखनिरस्यानीत्यर्थः तेन हेतुना । अत्र
तन्मार्जने । ज्ञातज्ञेयस्तत्त्ववित् ॥ ४२ ॥

मनो नास्ति महाबाहो मा मुधोप प्रकल्पय ।
अनेन कल्पितेन त्वं वेतालेनेव हन्यसे ॥ ४३ ॥

प्रासङ्गिकीमधिकारिचिन्तां समाप्य प्रस्तुतमेवानुवर्तमान आह - मन इति
॥ ४३ ॥

यावद्विस्मृतवानात्मतत्त्वं मूढो भवद्भवान् ।
तावत्तव मनोव्यालो बभूवाभ्युदितस्ततः ॥ ४४ ॥

यदि नास्ति तर्हि प्रतियोग्यप्रसिद्धौ निषेधानवकाशमाशङ्क्याह -
यावदिति । तथाच प्राक्तनीमज्ञदशामादाय प्रसिद्धिरुपपन्नेत्यर्थः ॥ ४४ ॥

इदानीं भवता ज्ञातं यथाभूतमरिन्दम् ।
सङ्कल्पाद्वर्धते चित्तं तदेवाशु परित्यज ॥ ४५ ॥

यथाभूतं परमार्थात्मरूपम् ॥ ४५ ॥

दृश्यमाश्रयसीदं चेत्तत्सचित्तोऽसि बान्धवान् ।
दृश्यं सन्त्यजसीदं चेत्तत्सचित्तोसि मोक्षवान् ॥ ४६ ॥

बन्धमोक्षरहस्यमाह - दृश्यमिति ॥ ४६ ॥

अयं गुणसमाहारो बन्धायैव समाश्रितः ।
सन्त्यक्तो भव मोक्षाय यथेच्छसि तथा कुरु ॥ ४७ ॥

किं तर्हि दृश्यतत्त्वं तदाह - अयमिति । त्रिगुणात्मकमायामय इत्यर्थः ॥
४७ ॥

नाहं नेदमिति ध्यायंस्तिष्ठ त्वमचलाचलः ।
अनन्ताकाशसङ्काशहृदयो हृदयेश्वरः ॥ ४८ ॥

अहमित्यान्तरं दृश्यं इदमिति बाह्यं च नस्त्येवेति ध्यायन् । अचलः पर्वत
इवाचलः स्थिरः । हृदयेश्वर आत्मा ॥ ४८ ॥

आत्मनो जगतश्चास्य त्वमङ्ग कलनामलम् ।
राम द्वित्वमयीं त्यक्त्वाशेषस्थः सुस्थिरो भव ॥ ४९ ॥

अहमिदमिति द्वित्वमयीं कलनां अलं सर्वात्मना त्यक्त्वेत्यर्थः ॥ ४९ ॥

आत्मनो जगतश्चान्तर्द्रष्टृदृश्यदशान्तरे ।
दर्शनाख्ये स्वमात्मानं सर्वदा भावयन्भव ॥ ५० ॥

ननु तदुभयकलनात्यागे किमवशिष्यते यत्र स्थितिरुपदिश्यते तदाह -
आत्मन इति । द्रष्टृदृश्यदशयोरन्तरे अन्तराले इत्येतावत्युक्ते
वृत्तिज्ञानस्याप्यान्तरालिकत्वाद्ग्रहणं स्यात्तन्माभूदित्यात्मनो
जगतश्चान्तरिति । तथाच त्रिपुट्यनुस्यूतसन्मात्ररूपे दर्शनाख्ये
त्रिपुटीसाक्षिस्वभावे स्थितं स्वमात्मानं भावयन् भव आस्व ॥ ५० ॥

स्वाद्यस्वादकसन्त्यकं स्वाद्यस्वादकमध्यगम् ।
स्वादनं केवलं ध्यायन्नित्यमात्ममयो भव ॥ ५१ ॥

चाक्षुषत्रिपुटीवद्रासनादित्रिपुटीष्वपि स एव तत्साक्षी परिचेय इत्याशयेनाह ##-

रामानुभवनीयस्य तथानुभवितुः स्वयम् ।
अवलम्ब्य निरालम्बं मध्यं मध्ये स्थिरो भव ॥ ५२ ॥

अनुमित्याद्यनुभवान्तरेष्वप्येवं बोध्यमित्याशयेनाह - रामेति ।
निरालम्बं आलम्बो विषयभूतस्त्रिपुट्यंशस्तद्व्यतिरिक्तं मध्यं तदान्तरं
हृदयमध्ये अवलम्ब्य स्थिरो भवेत्यर्थः ॥ ५२ ॥

भवभावनया हीनं भावाभावदशोज्झितम् ।
भावयन्नेवमात्मानमात्मसंस्थः स्वयं भव ॥ ५३ ॥

भवस्य भावना संस्कारवशाद्दर्शनं स्वप्नदशेति यावत् । भावदशा
जाग्रत् । अभावदशा सुप्तिः । भावाभावदृशोज्झितम् इति पाठे
तदुभयदर्शनोज्झितमित्यर्थः ॥ ५३ ॥

आत्मसत्तां त्यजन्नेतां चेत्यं भावयसि स्वयम् ।
यदा राम तदा यासि चित्ततामतिदुःखदाम् ॥ ५४ ॥

एतां शुद्धचिन्मात्रस्वभावामात्मसत्तां प्रमादात्त्यजन् यदा चेत्यं
तदतिरिक्तं भावयसि तदा चित्ततां यासीत्यन्वयः ॥ ५४ ॥

चित्ततां शृङ्खलामेतां स्वरूपज्ञानयुक्तितः ।
बिलाच्चित्तान्महाबाहो स्वात्मसिंहं विमोचय ॥ ५५ ॥

स्वरूपज्ञानयुक्तितो भङ्क्त्वेति शेषः । चित्ताच्चितलक्षणाद्बिलात्पञ्जरात् ।
बलादिति पाठे तु मननादिकृतज्ञानदार्ढ्यबलात् ॥ ५५ ॥

परमात्मदशां त्यक्त्वा चेत्यं परिपतन्नलम् ।
यदा गच्छसि सङ्कल्पं चेत्यं स्म्पश्यसे तदा ॥ ५६ ॥

सम्पश्यसे पश्यसि । पदव्यत्ययश्छान्दसः ॥ ५६ ॥

आत्मनो व्यतिरिक्तं सच्चित्तमित्यङ्ग संविदा ।
मनः सम्पद्यए दुःखि क्षीयते त्यक्तया तया ॥ ५७ ॥

कथं चेत्यपरिपतनं तेन च कथं सङ्कल्पगमनं कथं वा
तत्क्षयस्तदाह - आत्मन इति । हे अङ्ग यदा चित्तं
पूर्वानुभवजनितदृश्यसंस्कारोद्बोधे सति चिदेव किञ्चित्स्थौल्यमिवापन्नं
चित्तमिति संविदा आत्मनो व्यतिरिक्तं सत् सिद्धं भवति तदैव
पुनःपुनर्मननाद्दृढीभूतं सङ्कल्पसमर्थं सन्मनः सम्पद्यते
तदेव दुःखि । तया स्वव्यतिरिक्तसत्तासंविदा त्यक्तया तु क्षीयते ॥ ५७ ॥

आत्मैवेदं जगत्सर्वमित्यन्तः संविदोदये ।
क्व चेता क्व च वा चित्तं किं चेत्यं चेतनं च किम् ॥ ५८ ॥

एतदेव स्पष्टमाह - आत्मैवेदमिति । संविदेव संविदा । भागुरिमतेन
हलन्ताट्टाप् । तस्या उदये सति चेता चेतिता उपहितः चित्तमुपाधिः चेत्यं
तद्वृत्तिव्याप्यम् । चेतनं वृत्तिरिति चतुष्कमपि किं । न किञ्चिदवशिष्यत
इत्यर्थः ॥ ५८ ॥

अहमात्मेति जीवोऽस्मीत्येतावच्चित्तकं विदुः ।
अनेनेत्थमनाद्यन्तं दुःखं राघव तन्यते ॥ ५९ ॥

इति एवमनुभूयमानदेहेन्द्रियादिशाली जीवोऽस्मि ॥ ५९ ॥

अहमात्मा न जीवाख्याः सत्ताः सन्तीतराः क्वचित् ।
इत्येव चित्तोपशमः परमं सुखमुच्यते ॥ ६० ॥

आत्मा ब्रह्मैव न जीवाख्या ब्रह्मेतराः सत्तः परमार्थसत्याः सन्ति ॥ ६० ॥

आत्मैवेदं जगदिति जाते राघव निश्चये ।
असत्ता चेतसो जाता भवत्येव न संशयः ॥ ६१ ॥

सर्वस्य जगतो ब्रह्मभावे तदन्तर्गतचित्तस्याप्यसत्ता अर्थात्सम्पन्ना
भवत्येवेत्याह - आत्मैवेदमिति ॥ ६१ ॥

एवं सत्यावबोधेन स्वात्मैवेदमिति स्थित्ः ।
मनः सुगलितं विद्धि सूर्यभासा तमो यथा ॥ ६२ ॥

मनोनाशोपायमुक्तमुपसंहरति - एवमिति ॥ ६२ ॥

मनःसर्प शरीरस्थो यावत्तावन्महद्भयम् ।
तस्मिन्नुत्सारिते योगाद्भयस्यावसरः कुतः ॥ ६३ ॥

अथ तत्फलान्याह - मनःसर्प इत्यादिना । योगात्समाधेः प्रतीचो
ब्रह्मैक्यलक्षणमिलनाद्वा । ह्येवैष
एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ
सोऽभयं गतो भवति । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन
इत्यादिश्रुतेरिति भावः ॥ ६३ ॥

भ्रान्तिमात्रोत्थितश्चित्ते वेतालोऽतिबलोऽनघ ।
सम्यग्ज्ञानेन मन्त्रेण प्रसभं विनिपात्यताम् ॥ ६४ ॥

देहगेहाद्गते चित्तयक्षे बलवतां वरे ।
निराधिर्विगतोद्वेगस्तिष्ठ नास्ति भयं तव ॥ ६५ ॥

आधिग्रहणं सर्वदुःखोपलक्षणम् । उद्वेगो दुःखासहिष्णुतया व्याकुलता ॥
६५ ॥

नीराग एव निरुपार्जन एव चास्मी-
त्येतावतैव गलिता तव चित्तसत्ता ।
निर्दुःखमुत्तमपदं परमं गतोऽसि
तिष्ठोपशान्तपरमैषण एवमन्तः ॥ ६६ ॥

आत्मलाभेनावाप्तसर्वकामत्वान्निरागोऽत एव निरुपार्जनो
बाह्यसुखसाधनोपार्जनशून्यः । एवञ्च मुमुक्षापि न परिशिष्टेति न
तदर्थमपि प्रवृत्तिप्रसक्तिरित्याशयेनाह - उपशान्तपरमैषण इति ॥ ६६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु
उपशमप्रकरणे स्वचित्तनिरूपणं नाम चतुर्दशः सर्गः ॥ १४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
स्वचित्तनिरूपणं नाम चतुर्दशः सर्गः ॥ १४ ॥