त्रयोदशः सर्गः १३
श्रीवसिष्ठ उवाच ।
एवं जनकवद्राम विचार्यात्मानमात्मना ।
पदं विदितवेद्यानामविघ्नेनाधिगच्छसि ॥ १ ॥
जनकस्य विचारं तं दृष्टान्तीकृत्य विस्तरात् ।
चित्तप्रशमनोपायाः कीर्त्यन्त इह युक्तिभिः ॥ १ ॥
अविघ्नेन असम्भावनादिप्रतिबन्धकनिरासेन ॥ १ ॥
ये हि पाश्चात्यजन्मानः प्राज्ञा राजससात्त्विकाः ।
प्राप्नुवन्ति स्वयं प्राप्यं ते जना जनका इव ॥ २ ॥
रजसा पुरुषप्रयत्नसम्भवात्सत्त्वेन च चित्तप्रसादोपचयाद्राजससात्त्विका एव
स्वविवेकेनाकाशफलपातवज्ज्ञानप्राप्तावप्यधिकारिण इति भावः ॥ २ ॥
तावत्तावद्विजित्यारीनिन्द्रियाख्यान्पुनःपुनः ।
यावदात्मात्मनैवायमात्मन्येव प्रसीदति ॥ ३ ॥
ते कथं प्राप्नुवन्ति तदाह - तावत्तावदिति । सत्त्वोपचयाद्यावदात्मा आत्मनि
प्रसीदति तावत्तावद्रजसो विष्टम्भशक्त्या इन्द्रियारीन्पुनःपुनर्विजित्येत्यर्थः ॥ ३
॥
प्रसन्ने सर्वगे देवे देवेशे परमात्मनि ।
स्वयमालोकिते सर्वाः क्षीयन्ते दुःस्वदृष्टयः ॥ ४ ॥
अध्यात्माधिकारात्सर्वेषां देवानामिन्द्रियाणामीशे वशिनि देवे परमात्मनि
स्वयमालोकिते सति ॥ ४ ॥
मुष्टयो मोहबीजानां वृष्टयो विविधापदाम् ।
कुदृष्टयः क्षयं यान्ति दृष्टे तस्मिन्परावरे ॥ ५ ॥
मोहबीजानां दुर्वासनानां मुष्टयो मुष्टिवदन्तर्दृढं
सङ्ग्राहकाश्चित्तक्षेत्रे उप्यमानाश्च
विविधानामाध्यात्मिकादिभिन्नानामापदां दुःखानां वृष्टयो
वृष्टिवदकस्मात्सर्वतः क्षारयित्र्यः ।
कुदृष्टयोऽहम्ममतादिप्रत्ययलक्षणा हृदयग्रन्थयः । परा
मानुषानन्दादिहैरण्यगर्भानन्दान्ताः सुखोत्कर्षा अवरा न्यूना
यस्मात्तथाविधे । तथाच श्रुतिः - भिद्यते हृदयग्रन्थिश्छिद्यन्ते
सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इति ॥ ५ ॥
सदा जनकवद्राम सर्वारम्भवदात्मना ।
प्रज्ञयात्मानमालक्ष्य लक्ष्मीवानुत्तमो भव ॥ ६ ॥
प्रज्ञया विवेकबुद्ध्या आत्मानं स्वं
सर्वारम्भवत्सर्वजगदुत्पत्त्याद्यधिष्ठानं ब्रह्म तदात्मना आलक्ष्य
साक्षादनुभूय परमपुरुषार्थलक्ष्मीवानुत्तमः सर्वोत्कृष्टो भवेत्यर्थः
॥ ६ ॥
नित्यमन्तर्विचारस्य पश्यतश्चञ्चलं जगत् ।
जनकस्येव कालेन स्वयमात्मा प्रसीदति ॥ ७ ॥
इदानीमात्मप्रसादोपाये विचार एव मुख्य इत्याह - नित्यमिति ।
चञ्चलमनित्यं भ्रमणस्वभावं च ॥ ७ ॥
न दैवं नच कर्माणि न धनानि न बान्धवाः ।
शरणं भवबीतानां स्वप्रयत्नादृते नृणाम् ॥ ८ ॥
विचारस्यापि मूलं पुरुषप्रयत्न एवेत्याशयेनाह - नेति ॥ ८ ॥
ये दैवनिष्ठाः कृत्यादौ कुविकल्पपरायणाः ।
तेषां मन्दा मतिस्तात नानुगम्या विनाशनी ॥ ९ ॥
ननु दैववशात्स्वयमेव कालेन ज्ञानं भविष्यति किमस्मत्प्रयत्नेनेति ये
मन्यन्ते तन्निन्दति - य इति । कृतिर्यत्नः ।
आदिपदाद्विवेकवैराग्यविचारादयस्तेषु । दैवे प्रतिकूले किं स्वप्रयत्नसहस्रेण
सेत्स्यति बहूनां यतमानानां दैवोपहतानां
काममन्युभिर्भ्रंशदर्शनादित्यादिकुविकल्पपरायणाः ॥ ९ ॥
विवेकं परमाश्रित्य विलोक्यात्मानमात्मना ।
धिया विरागोद्धुरया संसारजलधिं तरेत् ॥ १० ॥
एषा सा कथिता राम नभःफलनिपातवत् ।
सुखदा ज्ञानसम्प्राप्तिरज्ञानतरुशातनी ॥ ११ ॥
एषा जनकाख्यायिकोदाहरणप्रपञ्चिता ॥ ११ ॥
जनकस्येव सद्बुद्धेः स्वयमेव विलोकिनः ।
विकासमेत्ययं देही देवः प्रातरिवाम्बुजम् ॥ १२ ॥
देही देहान्तर्हृदि स्थितो देवः परमात्मा ॥ १२ ॥
संसारमननं चित्रं विचारेण विलीयते ।
गलद्वशीकृतस्पर्शमातपेन हिमं यथा ॥ १३ ॥
संसारस्य मननं विकल्पनं चिन्तनं वा ।
वशीकृतस्पर्शमपहृतशैत्यम् ॥ १३ ॥
अयमेवाहमित्यस्या निशाया उदिते क्षये ।
स्वयं सर्वगतः स्फारः स्वालोकः सम्प्रवर्तते ॥ १४ ॥
देहाहम्भावत्याग एव पूर्णात्मदर्शने मुख्यं साधनमित्याह -
अयमिति ॥ १४ ॥
अयमेवाहमित्यस्मिन्सङ्कोचे विलयं गते ।
अनन्तभुवनव्यापी विस्तार उपजायते ॥ १५ ॥
जनकेन परित्यक्ता यथाहङ्कारवासना ।
तथा त्वमपि सद्बुद्धे विचार्यान्तः परित्यज ॥ १६ ॥
अहङ्काराम्बुदे क्षीणे चिद्व्योम्नि विमले तते ।
नूनं सम्प्रौढतामेति स्वालोको भास्करः परः ॥ १७ ॥
नूनं निश्चयेन अवश्यमिति यावत् । स्वालोकात्मा भास्करः सूर्यः
सम्प्रौढतां शरदीव स्फुटप्रकाशताम् ॥ १७ ॥
एतावदेवातितमो यदहम्भावभावनम् ।
तस्मिंश्च शममानीते प्रकाश उपजायते ॥ १८ ॥
अतितमः तमसो मुख्यं बलमिति यावत् ॥ १८ ॥
नाहमस्ति न चान्योस्ति नच नास्तीति भावितम् ।
मनः प्रशान्तिमायातं नोपादेयेषु मज्जति ॥ १९ ॥
अहमहन्ता नास्ति । अस्मच्छब्दार्थस्याप्यहङ्कारस्याप्रत्यक्त्वविवक्षणान्न
तदभिधानायोत्तमपुरुषः कृतः । अहमर्थस्य तदन्यस्य च निषेधे
शून्यताप्रसक्तिमाशङ्क्योक्तं नच नास्तीति । उभयसाक्षिणः सत्त्वादिति भावः
। उपादेयेषु उपादानार्हेषु विषयेषु ॥ १९ ॥
उपादेयानुपतनं हेयैकान्तविवर्जनम् ।
यदेतन्मनसो राम तद्बन्धं विद्धि नेतरत् ॥ २० ॥
उपादेयेषु रागो हेयेषु द्वेषश्च मानसः पुरुषस्य बन्धो नान्य इत्याह -
उपादेयेति ॥ २० ॥
मा खेदं भज हेयेषु नोपादेयपरो भव ।
हेयादेयदृशौ त्यक्त्वा शेषस्थः स्वच्छतां व्रज ॥ २१ ॥
हेयादेयदृशौ रागद्वेषात्मकवृत्ती । शेषस्तत्साक्षी तत्स्थस्तदेकनिष्ठः सन्
स्वच्छतां विक्षेपकालुष्यशून्यताम् ॥ २१ ॥
येषामिदमुपादेयमिदं हेयमिति स्थितिः ।
विलीना ते न वाञ्छन्ति त त्यजन्तीह किञ्चन ॥ २२ ॥
इति स्थितिरेवंरूपा व्यवस्था येषां
सर्वत्रहेयानुपादेयात्ममात्रतादर्शनाद्विलीना ते पुरुषाः ॥ २२ ॥
हेयोपादेयकलने क्षीणे यावन्न चेतसः ।
न तावत्समता भाति साभ्रे व्योम्नीव चन्द्रिका ॥ २३ ॥
समता अविषमब्रह्मात्मता ॥ २३ ॥
अवस्त्विदमिदं वस्तु यस्येति लुलितं मनः ।
तस्मिन्नोदेति समता शाखोट इव मञ्जरी ॥ २४ ॥
अवस्तु अप्रशस्तं वस्तु अतो हेयं वस्तु प्रशस्तं वस्तु अत उपादेयमिति यस्य
मनः अन्तर्लुलितं लोलतां गतमित्यर्थः । शाखोटो वृक्षविशेषः
महापुष्पफलपल्लवोऽनुपजीव्यच्छायः प्रसिद्धः ॥ २४ ॥
युक्तायुक्तैषणा यत्र लाभालाभविलासिनी ।
समता स्वच्छता तत्र कुतो वैराग्यभासिनी ॥ २५ ॥
युक्तमनुकूलमत इदं मे भूयादित्येषणालाभविलासिनी । अयुक्तं
प्रतिकूलमिदमतो मे कदापि माभूदित्यरागविलासिनी एषणा इच्छा द्वेषश्च यत्र
यस्मिन्पुरुषे ॥ २५ ॥
एकस्मिन्ब्रह्मतत्त्वेऽस्मिन्विद्यमाने निरामये ।
नानाऽनानातया नित्यं किमयुक्तं क्व युक्तता ॥ २६ ॥
तत्र समतास्वच्छतयोः सम्भावने को विरोधस्तमाह - एकस्मिन्निति ।
नानाऽनानातया भेदाभेदविकल्पनया । यद्यसङ्गाद्वितीयानन्दा अभिन्नास्तर्हि
आत्मत्वादेव सर्वेऽप्यनुकूला एव । यदि भिन्नास्तथाप्यात्मास्पर्शान्नानुकूला न
वा प्रतिकूला इति न तदापि तयोरवकाश इति भावः ॥ २६ ॥
ईप्सितानीप्सिताशङ्के मर्कट्यौ चित्तपादपे ।
चञ्चले स्फुरतो यस्मिन्कुतस्तस्येह सौम्यता ॥ २७ ॥
तस्य चित्तपादपस्य । सौम्यता निष्कम्पता ॥ २७ ॥
निराशता निर्भयता नित्यता समता ज्ञता ।
निरीहता निष्क्रियता सौम्यता निर्विकल्पता ॥ २८ ॥
इदानीं जीवन्मुक्तलक्षणभूतान्पञ्चदशगुणानाह - निराशतेति
द्वाभ्याम् । निरीहता मनश्चापलाभावः । निष्क्रियता
शारीरकर्तृत्वाभिनिवेशाभावः । सौम्यता सदाप्रसन्नता ॥ २८ ॥
धृतिर्मैत्री मतिस्तुष्टिर्मृदुता मृदुभाषिता ।
हेयोपादेयनिर्मुक्ते ज्ञे तिष्ठन्त्यपवासनम् ॥ २९ ॥
मैत्री सर्वभूतसुहृत्त्वम् । मतिर्मननशीलता । यदि गुणास्तिष्ठन्ति तर्हि
तद्वासनयैव तस्य बन्धः स्यादित्याशङ्क्याह - अपवासनमिति ।
वासनाबीजस्याज्ञानस्य नष्टत्वादिति भावः ॥ २९ ॥
धावमानमधोभागे चित्तं प्रत्याहरेद्बलात् ।
प्रत्याहारेण पतितमधो वारीव सेतुना ॥ ३० ॥
इदानीं रामस्य तद्गुणार्जने उपायमाह - धावमानमित्यादिना ।
अधोभागे निकृष्टेषु विषयेषु । प्रत्याहारेण विषयेभ्यः
सर्वबाह्येन्द्रियाणां परावर्तनेन । अधःपतितं प्रवाहोन्मुखं वारि
सेतुनेव ॥ ३० ॥
बाह्यानर्थानिमांस्त्यक्त्वा तिष्ठन्गच्छन्स्वपन्श्वसन् ।
सर्वथा सर्वदा सर्वानान्तरांश्च विचारय ॥ ३१ ॥
बाह्येष्वर्थेष्वात्मताभ्रान्त्यप्रसक्तेस्त्याग एवोपायः । आन्तरेषु तु तत्प्रसक्तेः ।
सर्वदा सर्वप्रकारेण तत्र रत्नतत्त्वपरीक्षावद्विचारः कार्य इत्याह-
बाह्यानिति । तथाचाहुर्वृद्धाः - गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि
वा । न विचारपरं चेतो यस्यासौ मृत उच्यत इति ॥ ३१ ॥
गृहीततृष्णाशफरि वासनाजालमाविलम् ।
संसारवारिप्रसृतं चिन्तातन्तुभिराततम् ॥ ३२ ॥
अनया मदुपदिष्टया बुद्धिलक्षणया शलाकया कर्तर्या वासनालक्षणं
जालमानायं छिन्धीति परेणान्वयः । गृहीतास्तृष्णाशफर्यो येन
मोहशैवालैराविलं मलिनम् । संसारलक्षणे वारिणि प्रसृतं प्रसारितम् ।
चिन्तालक्षणैस्तन्तुभिराततं निर्मितम् ॥ ३२ ॥
अनया तीक्ष्णया तात च्छिन्धि बुद्धिशलाकया ।
वात्ययेवाम्बुदं काले वहन्त्या वितते पदे ॥ ३३ ॥
वितते विस्तीर्णतरे पदे आकाशे ब्रह्मणि च वहन्त्येति वात्याशलाकयोर्विशेषणम् ॥
३३ ॥
अस्य संसारवृक्षस्य मूलं दोषाङ्कुरास्पदम् ।
भव्यधीरेण धैर्येण प्रोद्धरोद्धुरया धिया ॥ ३४ ॥
हे भव्य धीरेण चिराभ्यासदृढीकृतेनैकात्मस्थैर्यलक्षणेन
चित्तधैर्येण सम्पन्नया अत एवोद्धुरया
अनादिकालनिमग्नात्मोद्धारसमर्थया अपरोक्षसाक्षात्कारधिया
संसारवृक्षस्य मूलं सवासनमज्ञानं छिन्धीत्यर्थः ॥ ३४ ॥
मनसैव मनश्छित्त्व कुठारेणेव पादपम् ।
पदं पावनमासाद्य सद्य एव स्थिरो भव ॥ ३५ ॥
ननु सति विक्षेपहेतौ मनसि कथं मूलच्छेदस्तत्राह - मनसैवेति । यथा
अग्रनिविष्टलोहेन पादपावयवकाष्ठात्मना कुठारेण पादपश्छिद्यते
तद्वदग्रनिवेशितवृत्तिद्धब्रह्मचैतन्येन मनसैव मनश्च्छित्त्वेत्यर्थः ॥
३५ ॥
मनसैव मनच्छित्त्वा विस्मृत्या चरमं मनः ।
वर्तमानमपि च्छित्त्वा च्छिन्नसंसारतां व्रज ॥ ३६ ॥
ननु पूर्वसिद्धमनस उक्तोपायेन च्छेदनेपि भाविमनोवृत्तीनां
वर्तमानब्रह्माकारमनोवृत्तेर्वा कथं छेदनं तत्राह - विस्मृत्येति
। विस्मृतिर्वासनोच्छेदस्तया चरममुत्तरकालप्रसक्तं वृत्तिरूपम् । असत्यां
वासनायामग्रेऽपि वृत्त्यनुदयात् । वर्तमानं कतकरेणुन्यायेन स्वेनैव
स्वस्य निरासाच्छित्त्वा ॥ ३६ ॥
मोहो विस्मृत्य संसारं न भूयः परिरोहति ।
चित्तं विस्मृत्य संसारो न भूयः परिरोहति ॥ ३७ ॥
नन्वेवमपि तत्त्वविदो जीवनसिद्धये तदुपादानभूताविद्याख्यो
मोहोऽवश्यमभ्युपगन्तव्यः स एव पुनः संसारं
प्ररोहयिष्यतीत्याशङ्क्याह - मोह इति । परिरोहति प्ररोहति ।
वासनाक्षयलक्षणे विस्मरणे सति तस्य बीजशक्त्यभावादिति भावः । तर्हि
संसारस्तस्मिन्मोहक्षेत्रे स्वयमेव प्ररोहतु तत्राह - चित्तमिति ।
चित्तसंस्कारोच्छेदलक्षणे चित्तविस्मरणे सति न चेत्यस्य प्ररोहः सम्भवति ।
चित्तसंस्कारस्यापि चेत्यारोपबीजत्वादिति भावः ॥ ३७ ॥
तिष्थन्गच्छन्स्वपञ्जाग्रन्निवसन्नुत्पतन्पतन् ।
असदेवेदमित्यन्तर्निश्चित्यास्थां परित्यज ॥ ३८ ॥
चित्तचेत्योभयविस्मरणे तदास्थात्याग एवोपाय इत्याह - तिष्ठन्निति ॥ ३८ ॥
समतामलमाश्रित्य सम्प्राप्तं कार्यमाहरन् ।
अचिन्तयंस्तथाऽप्राप्तं विहरेह हि राघव ॥ ३९ ॥
आस्थापरित्यागे समतापि सिद्ध्यतीत्याशयेनाह - समतामिति । तथा
अप्राप्तमिति च्छेदः ॥ ३९ ॥
यथा शर्वोऽपि लिङ्गानि न बिभर्ति बिभर्ति च ।
त्वमेवमिह कार्याणि कुरु मा कुरु चानघ ॥ ४० ॥
यथा शर्वो महेश्वरः क्षित्याद्यष्टमूर्तिलक्षणानि लिङ्गानि
शुद्धचिन्मात्रदृशा न बिभर्ति
जगदाकारविवर्तमायाधिष्ठानत्वात्सन्निधिमात्रेण बिभर्ति च तेन सर्वकर्ता
च भवति एवं त्वमपि राज्यादिकार्याण्यनास्थया सन्निधिमात्रेण कुरु
अकर्त्रात्मनिश्चयान्मा कुरु चेत्यर्थः ॥ ४० ॥
त्वमेव वेत्ता त्वमजस्त्वमात्मा त्वं महेश्वरः ।
आत्मनोऽव्यतिरिक्तः संस्त्वयेत्थमिदमाततम् ॥ ४१ ॥
किञ्च नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता इत्यादिश्रुतेः सर्व शरीरेषु त्वमेव
वेत्ता वेदिता । इड भावश्छान्दसः । सत्तार्थाद्विद्यतेर्वा तृच् ।
परमार्थसन्नित्यर्थः । अजो जन्मादिविक्रियाशून्यः । सर्वस्यात्मा प्रत्यक्चिद्रसः
प्रागुक्तो महेश्वरश्च त्वमेव । आत्मनः स्वस्वभावादव्यतिरिक्तः
अप्रच्युतस्वभाव एव सन् । एवम्भूतेन त्वया स्वमोहादित्थमिदमाततं
विस्तारितं नान्येनेत्यर्थः ॥ ४१ ॥
येनात्मदृश्यसद्भावादभितो भावनोज्झिता ।
स न सङ्गृह्यते दोषैर्हर्षामर्षविषादजैः ॥ ४२ ॥
यदि मयैवेदमाततं तर्हि कथं ममात्र हर्षामर्षदोषोदयस्तत्राह -
येनेति । येन तत्त्वविदा आत्मदृश्यस्य
सद्भावात्परमार्थसन्मात्रताभावनादभितोऽन्यदिति भावना उज्झिता त्यक्ता स
न दोषैः सङ्गृह्यते अतस्त्वमप्युज्झेत्यर्थः ॥ ४२ ॥
रागद्वेषविनिर्मुक्तः समलोष्टाश्मकाञ्चनः ।
युक्त इत्युच्यते योगी त्यक्तसंसारवासनः ॥ ४३ ॥
स यत्करोति यद्भुङ्क्ते यद्ददाति निहन्ति यत् ।
तत्र मुक्तधियस्तस्य समता सुखदुःखयोः ॥ ४४ ॥
प्राप्तं कर्तव्यमेवेति त्यक्तेष्टानिष्टभावनः ।
प्रवर्तते यः कार्येषु न स मज्जति कुत्रचित् ॥ ४५ ॥
चित्सत्तामात्रमेवेदमिति निश्चयवन्मनः ।
त्यक्तभोगाभिमननं शममेति महामते ॥ ४६ ॥
इदं जगत् स्वयं च । भोगाभिमननं भोगचिन्ता सा त्यक्ता येन ॥ ४६ ॥
मनः प्रकृत्यैव जडं चित्तत्त्वमनुधावति ।
मांसगर्धेन मार्जारो वने मृगपतिं यथा ॥ ४७ ॥
चित्सत्तामात्रमेवेदमिति यदुक्तं तदुपपादयति - मन इत्यादिना । यतो जडं
अतः स्वतः सेद्धुं परं साधयितुं चासमर्थत्वात्स्वसिद्धये
स्वविषयसिद्धये च स्वसाक्षिभूतं स्वप्रकाशचिद्रूपं तत्त्वं पारमार्थिकं
वस्तु अनुधावत्यनुसरति । यथा स्वजीवनाय स्वपुत्रादिभरणाय च मार्जारः
सिंहमनुसरति तद्वदित्यर्थः ॥ ४७ ॥
सिंहवीर्यवशाल्लब्धं मांसं भुङ्क्तेऽनुगो हरेः ।
चिद्वीर्यवशतः प्राप्तं दृश्यमाश्रयते मनः ॥ ४८ ॥
दृश्यं स्वं स्वविषयं च आश्रयते उपजीवति ॥ ४८ ॥
मन एवमसत्कल्पं चित्प्रसादेन जीवति ।
भावयन्विश्वमेवैकं चिन्तामेत्य चिदप्युत ॥ ४९ ॥
अस्त्वेवं किं ततस्तत्राह - मन इति । एवञ्च सति मनः असत्कल्पं
शून्यप्रायं मिथ्येति सिद्धमित्यर्थः । कथं जीवति तदाह - भावयन्निति ।
एकमद्वितीयमात्मानं विस्मृत्य विश्वं जगदाकारमेव भावयन् । छान्दसो
लिङ्गव्यत्ययः । कल्पयत्सज्जगदाकारं भूत्वा जीवतीत्यर्थः । अत एव
चिन्तामात्मस्मृतिमेत्य प्राप्य उत पुनश्चिदपि भवति मनस्त्वं जहातीत्यर्थः
॥ ४९ ॥
जडं यत्किल निर्हीनं चिता दीपिकयौजसा ।
तन्मनः शवसङ्काशमचिदुत्तिष्ठते कथम् ॥ ५० ॥
मनसः प्रकाशशक्तिरिव स्पन्दशक्तिरपि चिदधीनैवेत्याह - जडमिति ।
चिल्लक्षणया दीपिकया ओजसा बलेन च विना । उत्तिष्ठते स्पन्दते ॥ ५० ॥
चित्स्वभावपरामृष्टा स्पन्दशक्तिरसन्मयी ।
कल्पना चित्तमित्युक्त्या कथ्यते शास्त्रदृष्टिभिः ॥ ५१ ॥
अत एव चिति स्पन्दकल्पनैव मन इति विद्वत्प्रवादोऽप्यस्तीत्याह - चित्स्वभावेति ॥
५१ ॥
यश्चित्तफणिफूत्कारः सैवेयं कलनोच्यते ।
चिदेवाहमिति ज्ञात्वा सा चित्तामेव गच्छति ॥ ५२ ॥
स्पन्दशक्तेरेव विलासश्चित्तं तद्वृत्तयश्चेत्याह - य इति ।
फूत्कारग्रहणं विषस्याप्युपलक्षणम् । तथाच चित्तादित्रिपुटी
दृश्याकारतैव कलनेत्यर्थः । चित्तां शुद्धचिन्मात्रताम् ॥ ५२ ॥
चेत्येन रहिता यैषा चित्तद्ब्रह्म सनातनम् ।
चेत्येन सहिता यैषा चित्सेयं कलनोच्यते ॥ ५३ ॥
तथाच चितश्चेत्यत्याग एव ब्रह्मता पर्यवसन्नेत्याह - चेत्येनेति ॥ ५३ ॥
किञ्चिदामृष्टरूपं यद्ब्रह्म तच्च स्थिरं मनः ।
कल्पना सत्सदैवैतत्सदिवोपस्थिता हृदि ॥ ५४ ॥
कलनैव मननान्मनो भवतीत्याह - किञ्चिदिति । तद्ब्रह्मैव
किञ्चिदामृष्टरूपं कलना सत् सदैव हृदि सदिव उपस्थिता
सङ्कल्पविकल्पकल्पना भूत्वा स्थिरं एतत्प्रसिद्धं मनो भवतीत्यर्थः ॥ ५४ ॥
चित्तमित्येव रूढेयं यदैव कलनोदिता ।
तदैव चित्त्वं विस्मृत्य सा जडेव व्यवस्थिता ॥ ५५ ॥
नित्यानुभवस्वभावस्य स्वरूपविस्मरणे कलनैव स्मृतित्वमापन्नचित्ततां
गच्छतीत्याह - चित्तमिति । तदा परोक्षतापत्तियोग्या जडताप्यस्याः
सम्पन्नेत्याह - जडेवेति ॥ ५५ ॥
सम्पन्ना कलनानाम्नी सङ्कल्पानुविधायिनी ।
अवच्छेदवती वाग्रा हेयोपादेयधर्मिणी ॥ ५६ ॥
अतीतविषयाकारकल्पनेन चित्ततामिव अनागतविषयाकारकल्पनेन
सङ्कल्पविकल्पानुविधानान्मनस्तामपि सा प्राप्तेत्याशयेनाह - सम्पन्नेति
। एवमवच्छेदवती द्विधा परिच्छिन्ना सती
प्राक्तनेष्टानिष्टसाधनसाजात्यमध्यवस्य भावीष्टानिष्टसाधनतां
सङ्कल्प्य हेयोपादेयधर्मिणी अग्रा मुख्या चिदेव सम्पन्नेत्यर्थः ॥ ५६ ॥
सैषा चिदेव जगतामागतेव स्वशक्तितः ।
न सम्प्रबोधिता यावद्रूपं तावन्न बुध्यते ॥ ५७ ॥
मनः प्रकृत्यैवेत्यादिनोपपादितं चित्सत्तामात्रमेवेदमित्यंशं
पिण्डीकृत्योपसंहरति - सैषैति । स्वशक्तितः स्वीयमायाशक्तिवशात् ।
गुरुशास्त्रस्वविचारैर्यावन्न सम्प्रबोधिता तावद्वास्तवं
पूर्णानन्दाद्वयरूपं न बुध्यत इत्यर्थः ॥ ५७ ॥
अतः शास्त्रविचारेण वैराग्येण परेण च ।
निग्रहेणेन्द्रियाणां च बोधयेत्कलनां स्वयम् ॥ ५८ ॥
बोधयेज्जडाकारकलनालक्षणादवस्थात्रयस्वप्नाद्व्यावर्तयेदित्यर्थः ॥ ५८ ॥
कलना सर्वजन्तूनां विज्ञानेन शमेन च ।
प्रबुद्धा ब्रह्मतामेति भ्रमतीतरथा जगत् ॥ ५९ ॥
विज्ञानेन शास्त्रजन्यज्ञानेन । शमेन विज्ञानशमाभ्यामप्रबोधने ॥ ५९ ॥
व्यामोहमदिरामत्तं लुठितां विषयावटे ।
आत्मावेदनसंसुप्तां कलनामेव बोधयेत् ॥ ६० ॥
व्यामोहो रागः । आत्मनः अवेदनमज्ञानं निद्रा तेन संसुप्ताम् ॥ ६० ॥
अप्रबुद्धा यदा ह्येषा न किञ्चिदवबुध्यते ।
सङ्कल्पकलनेवान्तर्दृश्यमानाप्यसन्मयी ॥ ६१ ॥
ननु कलना यदि सुप्ता कथं जगदवबुध्यते अवबोधे वा तस्याः
प्रसिद्धचित्स्वभावात्कोऽतिशयस्तत्राह - अप्रबुद्धेति । यन्मन्यसे
जगदवबुध्यत इति तन्न किञ्चिदवबुध्यते । जगतोऽनवबोधमात्रविलसितत्वात् ।
यतो दृश्यमानापि जगत्स्थितिः साङ्कल्पिकप्रासादकलनेव असन्मयीत्यर्थः ॥ ६१
॥
तया परमया दृष्ट्या कलनैषान्तरस्थया ।
मञ्जरी गन्धशक्त्येव पदार्थेषु विराजते ॥ ६२ ॥
विषयांशपरित्यागेऽवशिष्टा कलनैवात्मेत्युक्ते वृत्तिज्ञानमेवायमात्मेति
मा ग्राहीति तत्साक्षिणीं तदान्तरीं शुद्धचितं विविच्य दर्शयति -
तयेत्यादिना । एषा चित्तवृत्तिरूपा कलना अन्तरस्थया तया सर्वसाक्षिण्या
परमया दृष्ट्या व्याप्ता सती पदार्थेषु स्वस्वविषयेषु विराजते
प्रकाशनसमर्था भवति न स्वत इत्यर्थः ॥ ६२ ॥
तनुः सङ्कल्पिता यैषा कलनेति जगत्त्रये ।
सा हि किञ्चिद्विजानाति नित्यं ज्ञानैकधर्मिणी ॥ ६३ ॥
यदि सा सर्वसाक्षिणीं कुतस्तत्तदन्तःकरणधर्मानेव प्रकाशयति न सर्व
तत्राह - तनुःसङ्कल्पितेति । या एषा ज्ञानैकधर्मिणी नित्यबोधस्वभावा
साक्षिचित्सा परिच्छिन्नवृत्तिकलनोपाधिवशात्तनुरल्पैवेति जगत्त्रयेऽपि तैस्तैः
प्राणिभिः सङ्कल्पिता अतः किञ्चिदल्पमेव तत्तदन्तःकरणादि विजानातीत्यर्थः ॥
६३ ॥
चेतनेन जडा राम कलनोपलरूपिणी ।
पद्मिनीवातपेनासौ परेणैव प्रबोध्यते ॥ ६४ ॥
वृत्तिरूपा तु कलना विवेके उपलरूपिणी पाषाणकल्पा जडैव । अत एव चेतनेन
साक्षिणा प्रबोध्यते ॥ ६४ ॥
यथा शिलामयी कन्या चोदितापि न नृत्यति ।
तथेयं कलना देहे न किञ्चिदवबुध्यते ॥ ६५ ॥
ये तु नैयायिकप्रभृतयो नित्यसाक्षिणमजानानाः
परप्रकाशस्यैवानित्यज्ञानस्य अर्थप्रकाशतां मन्यन्ते
तान्बहुभिर्दृष्टान्तैरुपहसति - यथेत्यादिना ॥ ६५ ॥
लिपिकर्मनृपैर्युद्धं क्व कृतं घर्घरारवम् ।
क्वचिन्न चन्द्रकिरणैरोषध्यः प्रतिबोधिताः ॥ ६६ ॥
अचेतनस्यान्तःकरणतद्वृत्त्यादेर्नित्यचित्सन्निधानाभावे
विषयोन्मुखप्रवृत्तिरेव दुर्लभा दूरे तत्प्रकाशकतेत्याशयेनाह -
लिपिकर्मेति । लिपिकर्मभिश्चित्रलिखितैर्नृपैः । प्रतिबोधिता आप्यायिताः ॥ ६६ ॥
असृगालिप्तगात्रैश्च शवैः क्व परिवल्गितम् ।
क्व गीतं मधुरध्वानं वनपाषाणखण्डकैः ॥ ६७ ॥
परिवल्गितं धावितम् ॥ ६७ ॥
क्व पुंसा विहितैरर्कैः क्षपितं यामिनीतमः ।
क्व सङ्कल्पमयैश्छाया क्रियते व्योमकाननैः ॥ ६८ ॥
पुंसा विहितैः शिलादिना निर्मितैः ॥ ६८ ॥
क्व जडैरुपलाकारैर्मिथ्याभ्रमभरोत्थितैः ।
मृगतृष्णामयैरेभिर्मनोभिः क्रियते क्रिया ॥ ६९ ॥
यथातपे क्षते स्फारे मृगतृष्णातरङ्गिणी ।
कलना तद्वदेवेयं स्फुरत्यात्मनि सत्यलम् ॥ ७० ॥
नित्यचिदात्मानभ्युपगमे कलनाद्यध्यास एव न सिध्येदित्याशयेनाह -
यथेति ॥ ७० ॥
यदेतत्स्पन्दितं नाम तन्मनोऽधिगतं शठैः ।
मरुतां विद्धि तां शक्तिमन्तः प्राणशरीरिणीम् ॥ ७१ ॥
चितः परिच्छेदस्पन्दकल्पनैव मन इत्युक्तम् इदानीं सैव चिदचिदंशविवेके
चिदंशस्यात्ममात्रत्वाज्जडाम्श एव परिशिष्यते तथाविधा तु स्पन्दशक्तिः
प्राण एवेति तन्निरोधे कृते न मनो नाम पृथङ्निरोध्यमस्तीति वक्तुं
भूमिकां रचयति - यदेतदिति । शठैः स्ववञ्चकैरज्ञैः ।
अन्नमयान्तःप्राणशरीरिणीं प्राणमयकोशात्मिकाम् ॥ ७१ ॥
येषां संविदनाक्रान्ता सङ्कल्पलवनिश्चयैः ।
अनाक्षिप्तरसाकारा प्रभैषा पारमात्मिकी ॥ ७२ ॥
सा प्राणशक्तिः सङ्कल्पादुत्थिता निःसङ्कल्पानां योगिनां चिदात्मैव सा
पृथगस्तीत्याह - येषामिति । न आक्षिप्तः कल्पितः रस्यन्त इति रसा
विषयास्तदाकारो यया ॥ ७२ ॥
अयं सोऽहमिदं तन्म इति या कलनाविला ।
प्राणात्मतत्त्वयोस्तस्याः सञ्ज्ञा जीवेति कथ्यते ॥ ७३ ॥
सैव अहम्ममेत्याक्षिप्तरसाकारा यदा तदा विना स्पन्दं
तदाक्षेपायोगात्स्पन्दात्मकप्राणतत्त्वस्य चिदात्मकस्यात्मतत्त्वस्य च
पृथगिव सञ्जातस्याविवेकात्पुनरैक्याध्यासेनाविला जडसंवलितचिद्रूपा
कलना जीव प्राणधारण इति धात्वर्थानुगमाज्जीवतीति जीवेति सञ्ज्ञा कथ्यत
इत्यर्थः ॥ ७३ ॥
धीश्चित्तं जीव इत्येताः सङ्कल्पस्यासतो मताः ।
सञ्ज्ञाः सङ्कल्पितास्तज्ज्ञैर्न राम परमार्थतः ॥ ७४ ॥
एवमन्या अपि सञ्ज्ञास्तस्याः प्रसिद्धा इत्याह - धीरिति ॥ ७४ ॥
मनो नो न मतिर्नापि धीरेषा न शरीरकम् ।
अस्तीह परमार्थेन स्वात्मैवेहास्ति सर्वदा ॥ ७५ ॥
कुतो न परमार्थतस्तत्राह - मन इति । यतः परमार्थेन मनश्चित्तं
बुद्धिः शरीरमित्येतदुपलक्षितं दृश्यमात्रमिहात्मनि नास्ति अप्राणो
ह्यमनाः शुभ्रः अकायमव्रणमस्नाविरम् अस्थूलमनणु इत्यादिश्रुतिशतेन
विद्वदनुभवैर्युक्तिभिश्च बाधितत्वादिति भावः ॥ ७५ ॥
आत्मैवेदं जगत्सर्वमात्मा कालक्रमस्तथा ।
स चाकाशादच्छतरो नास्तीवास्त्येव चामलः ॥ ७६ ॥
यद्यात्मैवास्ति तर्हि स कुतो न भाति जगद्रूपेण वा को भाति तत्राह -
आत्मैवेति ॥ ७६ ॥
अच्छत्वादसदाभासः संविद्रूपतया तु सत् ।
आत्मा सर्वपदातीतः स्वानुभूत्यानुभूयते ॥ ७७ ॥
कुतो नास्तीव कुतश्चास्त्येवेति निश्चयस्तत्राह - अच्छत्वादिति ।
अछत्वाच्चक्षुरादियोग्यताप्रयोजकस्थौल्यनैल्याद्यभावादसन्निवाभासत
इत्यसदाभासः । चिद्रूपतया स्वपरप्रथानिर्वाहकत्वात्तु सत् । अत एव
स्वानुभूत्यैवानुभूयते न करणैरित्यर्थः ॥ ७७ ॥
मनस्तत्र परिक्षीणं यत्र संवित्परात्मनः ।
अन्धकारक्षयस्तत्र यत्रालोकः प्रवर्तते ॥ ७८ ॥
स्थौल्याद्यभावात्करणान्तराणि तत्र न प्रवर्तन्तां मनस्तु
सूक्ष्मतयार्थनिर्णयनिमित्तत्वेन प्रसिद्धं कुतो नप्रवर्तते तत्राह - मन
इति । सत्यं तत्र मनः प्रवर्तेत यदि तद्दर्शनकाले स्वयं न नश्येत्
मनसस्त्वज्ञानकार्यत्वात्तद्दर्शनवृत्त्युदयसमकालमेवाविद्यया सह
क्षयान्न तद्दर्शनशक्ततेत्यर्थः ॥ ७८ ॥
यत्रात्मसंविदोऽच्छायाः सङ्कल्पोत्थतया मताः ।
तत्रात्मनो विस्मरणं स्मरणं चित्तजन्मनः ॥ ७९ ॥
क्व तर्हि मनसः प्रवृत्तिशक्तिस्तदाह - यत्रेति । यत्र यस्यां
दशायामच्छायाः स्वच्छतराया आत्मरूपायाः संविदः
सङ्कल्पवशाद्बाह्यविषयाकारोत्थतया बाह्यार्थाः
प्रकाश्यत्वेनाभिमतास्तत्र पारमार्थिकस्यात्मनो विस्मरणं चित्तजन्मनो
मिथ्यार्थस्य स्मरणं दर्शनमित्यादिप्रसिद्धमित्यर्थः ॥ ७९ ॥
परस्य पुंसः सङ्कल्पमयत्वं चित्तमुच्यते ।
अचित्तत्वमसङ्कल्पान्मोक्षस्तेनाभिजायते ॥ ८० ॥
स्वोद्भवप्रतिकूलत्वादपि न मनस आत्मदर्शनशक्तिरस्तीत्याह - परस्येति ।
सङ्कल्पमयत्वाधीनोद्भवं मनः सर्वसङ्कल्पक्षयोपलक्षिते मोक्षात्मनि
कथं प्रवर्तेतेति भावः ॥ ८० ॥
एतावच्चेतसो जन्म बीजं संसारभूतये ।
सङ्कल्पोन्मुखतां यातः संविदो वा किलात्मनः ॥ ८१ ॥
अत एव सङ्कल्पचित्तजन्मबीजमित्यसकृदा वेदितमित्याह - एतावदिति ।
सङ्कल्पोन्मुखतां यातो गच्छत आत्मनो यत् संविदश्चित्स्वभावाद्वा
विकल्पनमीषदन्यथाभावलक्षणमेतावदेव चेतसो जन्म किलेत्यन्वयः ॥ ८१ ॥
निर्विकल्पाच्चितः सत्ता सङ्कल्पाङ्ककलङ्किता ।
कलनेत्युच्यते तेन पुंस्त्ववद्बुद्ध्यते मनः ॥ ८२ ॥
उक्तमेव स्फुटीकृत्याह - निर्विकल्पादिति । निर्विकल्पात्प्रच्युतेति शेषः । यथा
स्त्र्यादिसङ्कल्पकलनया पुंस्त्वं पुंव्यञ्जनं बुद्ध्यते
प्रजाप्रसवार्थमाविर्भवति तथा मनोऽपि जगत्प्रसवार्थमित्यर्थः । तथाच
बादरायणस्यापि सूत्रम् पुंस्त्वादिवदपि हि लोके इति ॥ ८२ ॥
प्राणशक्तौ निरुद्धायां मनो राम विलीयते ।
द्रव्यच्छायानु तद्द्रव्यं प्राणरूपं हि मानसम् ॥ ८३ ॥
यदेतत्स्पन्दितं नामेत्यादिना यत् प्रस्तुतं तस्य प्रयोजनमाह -
प्राणशक्ताविति । यथा द्रव्यस्य दर्पणादेः सम्बन्धिनी छाया प्रतिच्छाया
तस्मिन्द्रव्ये विलीने तद्द्रव्यमनु विलीयते तद्वत् । तत्कुतः । यतो यथा प्रतिबिम्बं
दर्पणस्यैव कल्पितं रूपं तथा मानसं मनोऽपि प्राणस्यैव रूपमित्यर्थः
॥ ८३ ॥
देशान्तरानुभवनं प्राणो वेत्ति हृदि स्थितम् ।
स्पन्दवेदनतो यत्तन्मन इत्यभिधीयते ॥ ८४ ॥
प्राणरूपं मानसमिति कुतो ज्ञातं तत्राह - देशान्तरेति । यतः प्राणो
जीवन्पुरुषो दूरदेशान्तरस्यानुभवनं मानसानुभवं हृदि स्थितं वेत्ति
हृदि मे तस्य देशस्यानुभवोऽस्तीत्यनुभवति । तत्र देशान्तरसम्बन्धस्य
स्पन्दमन्तरेणासिद्धेर्वेदनांशस्य
चित्संवलनमन्तरेणायोगात्स्पन्दवेदनोभयशक्तियोगात्प्राण एव मन
इत्यभिधीयत इत्यर्थः ॥ ८४ ॥
वैराग्यात्कारणाभ्यासाद्युक्तितो व्यसनक्षयात् ।
परमार्थावबोधाच्च रोध्यन्ते प्राणवायवः ॥ ८५ ॥
इत्थं प्राणनिरोधेन मनोनिरोधसिद्धये तयोरैक्यं व्युत्पाद्येदानीं
निरोधोपायमाह - वैराग्यादिति । कारणं प्राणायामस्तस्याभ्यासात् । योगो
युक्तिः समाधिस्तस्मात् । चित्तस्य बाह्यविषयोपसर्पणदुरभ्यासो व्यसनं तस्य
क्षयात् ॥ ८५ ॥
दृषदो विद्यते शक्तिः कदाचिच्चलनैधसाम् ।
न पुनर्मनसामस्ति शक्तिः स्पन्दावबोधने ॥ ८६ ॥
इदानीं अन्नमयं हि सोम्य मन आपोमयः प्राणः इति श्रुत्या
भिन्नोपादानकयोः प्राणमनसोर्भेद इति पक्षेऽपि मनसः
स्वतःस्पन्दशक्तेश्चिच्छक्तेश्चाभावात्प्राणचिदात्माधीने एव ते इति
प्राणनिरोधे निरोधोपपत्तिरित्याशयेनाह - दृषद इति । एधःशब्देन
काष्ठवाचिना तत्कार्यज्वलनशक्तिर्लक्ष्यते । दृषदः शिलाया अपि
कदाचिच्चलनशक्तिर्ज्वलनशक्तिश्च विद्यते सम्भवेत् नतु मनसां स्पन्दविषये
अवबोधविषये वा शक्तिरस्तीत्यर्थः ॥ ८६ ॥
स्पन्दः प्राणमरुच्छक्तिश्चलद्रूपैव सा जडा ।
चिच्छक्तिः स्वात्मनः स्वच्छा सर्वदा सर्वगैव सा ॥ ८७ ॥
कयोस्तर्हि ते शक्ती तावाह - स्पन्द इति ॥ ८७ ॥
चिच्छक्तेः स्पन्दशक्तेश्च सम्बन्धः कल्प्यते मनः ।
मिथ्यैव तत्समुत्पन्नं मिथ्या ज्ञानं तदुच्यते ॥ ८८ ॥
किं तर्हि मनस्तदाह - चिच्छक्तेरिति ॥ ८८ ॥
एषा ह्यविद्या कथिता मायैषा सा निगद्यते ।
परमेतत्तदज्ञानं संसारादिविषप्रदम् ॥ ८९ ॥
अविद्या कार्याविद्या । माया विक्षेपशक्तिः । एतन्मन
एवाज्ञानसर्वस्वनिर्वाहकत्वादज्ञानम् ॥ ८९ ॥
चिच्छक्तेः स्पन्दशक्तेश्च सङ्गे सङ्कल्पकल्पनम् ।
न कृतं चेत्परिक्षीणास्तदिमा भवभीतयः ॥ ९० ॥
सङ्कल्पकल्पनं सङ्कल्पकल्पननिमित्तमिति यावत् । अत एव निमित्ताजनने
नैमित्तिकापायसिद्धिरित्याह - न कृतं चेदिति ॥ ९० ॥
वायुतः स्पन्दशक्तिर्या सा चिता चेत्यते यदा ।
सचेत्या चित्तदैवान्तः सङ्कल्पाद्याति चित्तताम् ॥ ९१ ॥
वायोरिति वायुतः । षष्ठ्यन्तात्सार्वविभक्तिकस्तसिः ॥ ९१ ॥
चित्ततैषा चितो मिथ्या कल्पिता बालयक्षवत् ।
अखण्डमण्डलाकारस्पन्दरूपा चिदेव यत् ॥ ९२ ॥
न विद्यन्तेऽखण्डमण्डलाकारस्पन्दरूपाणि यस्यां तथाविधा चिदेव
यद्यस्मात्परमार्थ इत्यर्थः ॥ ९२ ॥
सैषा चित्ता तदन्येन केन सम्बाध्यते किल ।
अखण्डशक्तेरिन्द्रस्य केन स्यात्सह सङ्गरः ॥ ९३ ॥
सा उक्ताखण्डपूर्णतालक्षणा चित्ता चित्स्वभावता तदन्येन केन सम्बाध्यते
खण्ड्यते । किलेति तदसम्भावनाद्योतनार्थः । किं तदधीनसिद्धिकेन उतान्येन
अन्यस्याप्रसिद्धेः । चिदधीनसिद्धिकस्य चिद्बाधनाशक्तेर्बाधस्यापि
सिद्धेश्चित्सत्ताधीनत्वाच्चित्खण्डनमन्तरेण चिदन्तराले अचित्सिद्ध्ययोगाच्चेति
भावः । तद्विदन्ते इति पाठे तु तां तादृशीं चित्स्वभावतां स्वस्य वेत्तिति तद्वित्
अन्ते सकार्याविद्यानाशे सति केन सम्बाध्यते इति योज्यम् । इन्द्रस्य देवराजस्य
परमेश्वरस्य वा ॥ ९३ ॥
अतः सम्बन्धिनोऽभावात्सम्बन्धोऽत्र न विद्यते ।
सम्बन्धेन विना कस्य सिद्धं तत्कीदृशं मनः ॥ ९४ ॥
अतोऽचितश्चिदविरोधायोगाद्विरोधे चित्सत्ताबाधितस्थितिकत्वाच्च कीदृशं मनः ।
यदि जडमपि स्वसत्तायामन्यनिरपेक्सं स्वतःसिद्धमुच्येत तथापि
तदनुभवितुस्तत्सम्बन्धिनश्चेतनस्यान्यस्याभावाच्चित्सम्बन्धेन विना
तन्मनः कस्य सिद्धं कीदृशं वा तत्स्यात् । अनुभवानारोहे अलीकस्य तस्य च
विशेषासिद्धेरिति भावः ॥ ९४ ॥
चित्स्पन्दयोरेकतायां किं नाम मन उच्यते ।
का सेना हयमातङ्गसङ्गसङ्घट्टनं विना ॥ ९५ ॥
इत्थं चित्स्पन्दयोर्भेदपक्षे मनसोऽलीकतामुक्त्वा एकतापक्षे तु सुतरां
तथेत्याह - चित्स्पन्दयोरिति । चित्स्पन्दयोरेकता चिदपलापेन तावदशक्या
वक्तुम् । स्पन्दसाधकाभावप्रसङ्गात् । परिशेषात्स्पन्दापलापेनैकत्वोक्तौ
राजातिरिक्तगजतुरगाद्यपलापे सेनास्वरूपासिद्धिवन्मनसः
सुतरामसिद्धिरित्यर्थः ॥ ९५ ॥
तस्मान्नास्त्येव दुष्टात्म चित्तं राम जगत्त्रये ।
सैषा सम्यक्परिज्ञानाच्चेतसो जायते क्षतिः ॥ ९६ ॥
तस्मात्पक्षद्वयेऽप्यसम्भवाच्चित्तं मनो नास्त्येव तत्त्वज्ञानान्नास्तीति
निश्चय एव मनोनाश इत्यर्थः ॥ ९६ ॥
मुधा मैवमनर्थाय मनः सङ्कल्पयानघ ।
मनो मिथ्यासमुदितं नास्त्यत्र परमार्थतः ॥ ९७ ॥
मा त्वमन्तः क्वचित्किञ्चित्सङ्कल्पय महामते ।
मनः सङ्कल्पकं राम यस्मान्नास्तीह कुत्रचित् ॥ ९८ ॥
असम्यग्ज्ञानसम्भूता कल्पना मृगतृष्णिका ।
हृन्मरौ तव संशान्ता सम्यगालोकनान्मुने ॥ ९९ ॥
हृत्पदेन हृदयान्तस्थप्रत्यगात्मोच्यते । तल्लक्षणे मरौ । असम्यग्ज्ञानेन
सम्भूता । मुने इति रामसम्बोधनं मननप्रवणताविधानार्थम् ॥ ९९ ॥
जडत्वान्निःस्वरूपत्वात्सर्वदैव मृतं मनः ।
मृतेन मार्यते लोकश्चित्रेयं मौर्ख्यचक्रिका ॥ १०० ॥
मरणं यदि चैतन्यनिवृत्तिर्यदि वा निःस्वरूपतापत्तिस्तदुभयमपि
मनस्यस्तीति नित्यमृतम् । मौर्ख्यचक्रिका चक्रवत्परिवर्तमाना
मौर्ख्यपरम्परा ॥ १०० ॥
यस्य नात्मा न देहोऽस्ति नाधारो नापि चाकृतिः ।
तेनेदं भक्ष्यते सर्वं चित्रेयं मौर्ख्यवागुरा ॥ १०१ ॥
आत्मा स्वरूपम् । आकृतिरवयवसंस्थानं जातिर्वा ॥ १०१ ॥
सर्वसामग्र्यहीनेन हन्यते मनसापि यः ।
नीलोत्पलदलाघातैर्मन्ये दलितमस्तकम् ॥ १०२ ॥
सामग्र्यं शस्त्रास्त्रदेहहस्तपादादियुद्धसामग्री तेन हीनेन । दलितमस्तकं
तं इति शेषः ॥ १०२ ॥
जडेन मूकेनान्धेन निहतो मनसापि यः ।
मन्ये स दह्यते मूढः पूर्णचन्द्रमरीचिभिः ॥ १०३ ॥
विद्यमानोऽपि यः शूरो लोकस्तेनाभिभूयते ।
अविद्यमानमेवेदं हन्यते मुग्धतोदिता ॥ १०४ ॥
तेन अविद्यमानेन मनसा विद्यमानः । शूरः
शत्रुजयसर्वसामग्रीसम्पन्नोऽपि लोको मूढजनोऽभिभूयते । विवेकिभिश्च
वैराग्यादिभिर्महाप्रयत्नसम्पाद्यैः साधनैर्महता
योगध्यानसमाध्यभ्याससाक्षात्कारोपायेनाविद्यमानमेव हन्यते इतीयं
सर्वा विकल्पना मुग्धतैवोदिता न पारमार्थिकीत्यर्थः । तथाचाहुः स्वामिनः
समसरमिति निरविदमिति समतरमिति चेह सहजसान्द्रसुखे । केवलचिद्गगने मयि
केयमहो विफलबहुविकल्पलता ॥ इति ॥ १०४ ॥
मिथ्यासङ्कल्पकलितं मिथ्यावस्थितिमागतम् ।
अन्विष्टमपि नो दृष्टं का तस्य किल शक्तता ॥ १०५ ॥
शक्तता अभिभवितुमिति शेषः ॥ १०५ ॥
अहो नु खलु चित्रेयं मायामयविधायिनी ।
चेतसाप्यतिलोलेन लोकोऽयमभिभूयते ॥ १०६ ॥
महामायावित्वेन प्रसिद्धस्य मयस्यापि विधायिनी निर्मात्री ॥ १०६ ॥
मौर्ख्यं यदापदान्विष्टः का हि नापदजानतः ।
पश्य मौर्ख्यादियं सृष्टिरज्ञानेनैव जन्यते ॥ १०७ ॥
यदा मौर्ख्य तदा स पुरुषः सर्वेणाप्यापदा [अत्र सर्वयाप्यापदा ।
सर्वेणापि प्रकारेणेत्यर्थ इति युक्तम्] अन्विष्टः परिमृग्य आश्रितो नात्र
विप्रतिपत्तिः । हि यस्मादजानतो मूर्खस्य का आपन्नास्ति सर्वाप्यस्त्येवेत्यर्थः ।
न विद्यते ज्ञानं यस्य सः अज्ञानः मूर्खात्मा तेन
मौर्ख्याद्दुष्कर्मादिद्वारा इयं सर्वापन्निधिभूता सृष्टिः । आपदां
निष्ठेति पाठे तु स्पष्टम् ॥ १०७ ॥
हा कष्टमपि दुर्बुद्धेः सृष्टिर्मौर्क्यवशं गता ।
असतैव यदेतेन जीवेनाप्युपपाद्यते ॥ १०८ ॥
इयं सृष्टिर्मनोदेहादिदुर्बुद्धेर्निमित्तान्मौर्ख्यस्य वशं गता मौर्ख्येण
पीड्यमानाप्येतेन प्रसिद्धेन जीवेनाप्यसता
असन्मार्गानुवर्तनेनैवोत्तरोत्तरदुःखायोपपाद्यते । तथाचान्धस्येव जडस्य
मन आदेः स्वाभाविकमौर्ख्यात्पीडितस्य पुनस्तद्दुःखाभिज्ञेन जीवेनापि
पीडनं कष्टात्कष्टतरमनुचितमित्यर्थः ॥ १०८ ॥
मन्ये मौर्ख्यमयी सृष्टिरियमत्यन्तपेलवा ।
वास्तरङ्गप्रवाहेण कणशः परिशीर्यते ॥ १०९ ॥
अत्यन्तपेलवा अविचारमात्रसिद्धत्वाद्विचारमात्रेण बाधितुं शक्येति यावत् । तत्र
तादृशान्विचारमात्रनिरस्यान्दृष्टान्तानाह - वारित्यादिना । यथा वाः
वारि स्वकल्पितेन तरङ्गप्रवाहेण पिष्यमाणं कणशः परिशीर्यते इति
भ्रान्तिवदित्यर्थः ॥ १०९ ॥
नीलाञ्जनालवालेन यन्त्रेणैव विचूर्ण्यते ।
इन्दोराभोगपूर्णस्य करस्पर्शेन मुह्यति ॥ ११० ॥
तदेव वारि यत्रावर्तस्तत्र नीलाञ्जनवर्णेन आलवालेन मध्यच्छिद्रवता
पेषणयन्त्रेणैव विचूर्ण्यते । तदेव वारि यत्र कम्पते तत्र आभोगेन मण्डलेन
पूर्णस्येन्दोः करस्पर्शेन मुह्यति उन्मादपरवशतां गच्छतीति च
भ्रान्तिर्यथा तद्वदित्यर्थः ॥ ११० ॥
रिपुभिर्नयनोन्मुक्तैर्दृष्टः सूत्रैर्निबध्यते ।
सङ्कल्पकृतया शूरसेनया परिभूयते ॥ १११ ॥
रिपुभिर्दृष्टो दृष्टमात्रः पुरुषो नयनोन्मुक्तैर्नेत्रसृष्टैः
सूत्रैर्बध्यत इत्यादिभ्रान्तिवदित्यर्थः । अथवा मन्ये इत्यादि असती
मृगतृष्णावास्तरङ्गप्रवाहादिनापीयं सृष्टिर्विनाशयितुं शक्यते किं
पुनः शास्त्रीयोपायेनेति मन्ये इत्येवं योज्यम् ॥ १११ ॥
तस्मात्किलेयं मनसा न स्थितेनैव कुत्रचित् ।
कल्पितेन मुधान्येन कृपणेन निहन्यते ॥ ११२ ॥
तस्मादतिपेलवत्वादियं मूर्खलोकमयी सृष्टिर्निहन्यत इति परेण सहान्वयः
॥ ११२ ॥
मूर्खलोकमयी सृष्टिर्मन एवासदुत्थितम् ।
यः शक्तो न वशीकर्तुं नासौ रामोपदिश्यते ॥ ११३ ॥
तस्मान्मनोवशीकरणाशक्तो नाध्यात्मशास्त्राधिकारीत्याह - मन एवेति ॥
११३ ॥
अभिजाताऽस्वरूपैषा प्रज्ञा क्षोदेषु न क्षमा ।
नोपदेशगिरां योग्या परिपूर्णेव संस्थिता ॥ ११४ ॥
कुतो नोपदिश्यते तत्राह - अभिजातेति । यतस्तस्यैषा प्रज्ञा अभितो जाता
अभिजाता बाह्यविषयेष्वेव निरूढा तावतैव परिपूर्णेव संस्थिता न
मनोनिग्रहोद्युक्ता । अस्वरूपा न विद्यते आन्तरं स्वरूपं यस्यास्तथाविधा
प्रत्यक्प्रवणा न भवतीत्यर्थः । अत एव क्षोदेषु सूक्ष्मार्थविचारेषु न क्षमा
॥ ११४ ॥
बिभेत्येषापि वीणायास्तन्त्रीगुणतनुध्वनेः ।
बन्धोरपि सनिद्रस्य बिभेति वदनद्युतेः ॥ ११५ ॥
अत एव धैर्यहेत्वभावात्सर्वतो बिभेतीत्याह - बिभेतीति ॥ ११५ ॥
असतोऽपि जनादुच्चैर्गीताद्भीता पलायते ।
स्वेनैव मनसाप्यज्ञा किलैषा विवशीकृता ॥ ११६ ॥
असतोऽपि शत्रुजनात्प्रतारकादिभिरायातस्ते शत्रुजन इत्युच्चैर्गीताद्भीता सती
पलायते । किं बहुना स्वेन स्वीयेनैव मनसापि विवशीकृता भीषिता
किमन्येनेत्यर्थः ॥ ११६ ॥
सुखलवविवशा द्विषेव तप्ता
हृदयगतेन निजेन चेतसैव ।
विधुरितधिषणा न वेत्ति सत्यं
तदपि कथं परिमोहितो मुधैव ॥ ११७ ॥
इदानीं सा दुष्प्रज्ञा बिभेतु नाम तथापि न तद्वशेन पुरुषस्य व्यामोहो युक्त
इति प्राक्प्रस्तुतमेवोपसंहरति - सुखेति । यतः सा प्रज्ञा
विषसम्पृक्तमोदकास्वादसुखलवप्रायेण विषयसुखलवेन मरणोन्मुखीव
विवशा द्विषेव प्रहरता हृदयगतेन चेतसैव तप्ता सन्तापिता विधुरिता
शून्या धिषणा विवेकबुद्धिर्यस्यास्तथाविधा सत्यं तु सुतरां न वेत्ति
तत्तथाभूतयापि तया पुरुषो मुधैव परिमोहितः
स्वच्छचित्तात्स्वजनासन्तप्ताद्विवेकबुद्धिमतः सत्यस्वरहस्यवेदिनः शत्रोः
सकाशान्मोहो युक्तो नतु तद्विपरीताया दुष्प्रज्ञायाः सकाशादिति भावः ॥ ११७
॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे मनोविनिवारणं नाम त्रयोदशः सर्गः
॥ १३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
मनोनिवारणं नाम त्रयोदशः सर्गः ॥ १३ ॥