द्वादशः सर्गः १२
श्रीवसिष्ठ उवाच ।
एवं विचारयंस्तत्र स्वराज्ये जनको नृपः ।
चकाराखिलकार्याणि न मुमोह च धीरधीः ॥ १ ॥
वर्ण्यते जनकस्यात्र जीवन्मुक्ततया स्थितिः ।
विचारप्रज्ञयोश्चित्रं माहात्म्यमपि विस्तरात् ॥ १ ॥
न मुमोह अहम्ममताभ्यां पूर्ववदित्यर्थः ॥ १ ॥
न मनः प्रोल्ललासास्य क्वचिदानन्दवृत्तिषु ।
केवलं सुषुप्तसंस्थं सदैव व्यवतिष्ठत ॥ २ ॥
आनन्दवृत्तिषु हर्षस्थानेषु । सुषुप्ताविव संस्था निर्विक्षेपस्थितिर्यस्मिन्निति
व्यवस्थितिक्रियाविशेषणम् ॥ २ ॥
ततःप्रभृत्यसौ दृश्यं नाजहार न वात्यजत् ।
केवलं विगताशङ्कं वर्तमाने व्यवस्थितः ॥ ३ ॥
वर्तमाने तत्कालोपस्थिते दृश्ये । व्यवस्थितः अलम्बुद्ध्या स्थितः ॥ ३ ॥
अनारतविवेकेन तेन सद्यः सनातनम् ।
पुनः कलङ्गं नैवाप्तमम्बरेणेव राजसम् ॥ ४ ॥
अनारतविवेकेन सदा विचारवता । सनातनं अनादिस्वभावप्राप्तम् ।
कलङ्कमहम्ममाभिमानमालिन्यम् । राजसं रजोगुणेन धूलिभिश्च
प्रसञ्जितम् ॥ ४ ॥
स्वविवेकानुसन्धानादिति तस्य महीपतेः ।
सम्यग्ज्ञानमनन्ताभमलं विमलतां ययौ ॥ ५ ॥
अनन्ताभमपरिच्छिन्नब्रह्माकारम् ॥ ५ ॥
अनामृष्टविकल्पांशुश्चिदात्मा विगतामयः ।
उदियाय हृदाकाशे तस्य व्योम्नीव भास्करः ॥ ६ ॥
विक्षेपैर्मेघपटलैश्च अनामृष्टविकल्पा असम्पादितरञ्जनाभेदा
अंशवः प्रकाशा यस्य । विगता देहभेदनिरोधप्रयुक्ता आमया दुःखानि
यस्य ॥ ६ ॥
स ददर्शाखिलान्भावांश्चिच्छक्तौ समवस्थितान् ।
आत्मभूताननन्तात्मा सर्वभूतात्मकोविदः ॥ ७ ॥
चिच्छक्तौ चिदात्मनि समवस्थितानध्यस्तान् अत एव परमार्थदृशा
आत्मभूतान् ॥ ७ ॥
प्रहृष्टो न बभूवासौ क्वचिन्न च सुदुःखितः ।
प्रकृतेर्व्यवहारत्वात्सदैव सममानसः ॥ ८ ॥
प्रकृतेर्मायाया एव
सर्वव्यवहाररूपत्वादसङ्गात्मासंस्पर्शदर्शनात्सममानसः ॥ ८ ॥
जीवन्मुक्तो बभूवाऔ ततःप्रभृति मानदः ।
जनको जरठज्ञानी ज्ञातलोकपरावरः ॥ ९ ॥
जरठज्ञानी ज्ञानवृद्ध इति यावत् ॥ ९ ॥
राज्यं कुर्वन्विदेहानां जनको जनजीवितम् ।
नैव हर्षविषादाभ्यां सोऽवशः परितप्यते ॥ १० ॥
जनानां जीवितमिव प्रिय इति यावत् ॥ १० ॥
नास्तमेति न चोदेति गुणदोषविचेष्टितैः ॥ ११ ॥
मानसैर्गुणदोषविचेष्टितैरस्तं स्वरूपतिरोधानं उदयं
पुनस्तदाविर्भावं च नैति बाह्यैश्च राज्योत्थैरर्थानर्थैर्न हृष्यति न
ग्लायतीति व्युत्क्रमेणान्वयः ॥ ११ ॥
अर्थानर्थैः स राज्योत्थैर्न ग्लायति न हृष्यति ।
कुर्वन्नपि करोत्येष न किञ्चिदपि कुत्रचित् ।
स तिष्ठत्येव सततं सर्वदैवान्तरे चितः ॥ १२ ॥
न किञ्चिदपि करोति अकर्त्रात्मभूतत्वादित्यर्थः । तदेवाह - स इति ॥ १२ ॥
सुषुप्तावस्थितस्यैव जनकस्य महीपतेः ।
भावनाः सर्वभावेभ्यः सर्वथैवास्तमागताः ॥ १३ ॥
भावना रागादिवासनाः ॥ १३ ॥
भविष्यं नानुसन्धत्ते नातीतं चिन्तयत्यसौ ।
वर्तमाननिमेषं तु हसन्नेवानुवर्तते ॥ १४ ॥
वासनाक्षयफलमाह - भविष्यमिति ।
वासनावशात्पूर्वोत्तरानुसन्धानं तेन प्राक्तनानिष्टकारिषु द्वेष
आगामिप्रियार्थं रागस्ततः प्रवृत्तिरिति सर्वानर्थप्रसक्तिः ।
वर्तमानमात्रदर्शनं तु दुःखस्यानुपेक्षया नाप्रियतानुसन्धानमिति
सहजानन्दानुवृत्त्या हसन्नेवेत्यर्थः ॥ १४ ॥
स्वविचारवशेनैव तेन तामरसेक्षण ।
प्राप्तं प्राप्यमशेषेण राम नेतरयेच्छया ॥ १५ ॥
आख्यानोपक्रमबीजं स्मारयन्नुपसंहरति - स्वविचारेति । अशेषेण
निरवशेषेण प्राप्तं ज्ञानमात्रेण विस्मृतकण्ठचामीकरवल्लब्धम् । तेन
जनकेन ॥ १५ ॥
तावत्तावत्स्वकेनैव चेतसा प्रविचार्यते ।
यावद्यावद्विचाराणां सीमान्तः समवाप्यते ॥ १६ ॥
तथाच फलपर्यन्तं विचारः कार्यो नान्तरा निर्वेदाद्धेय इत्याह - तावदिति
। प्रविचार्यते प्रविचारयेदित्यर्थः ॥ १६ ॥
न तद्गुरोर्न शास्त्रार्थान्न पुण्यात्प्राप्यते पदम् ।
यत्साधुसङ्गाभ्युदिताद्विचारविशदाद्धृदः ॥ १७ ॥
गुर्वादीनां साधनानामसाधनत्ववादो विचारप्राधान्यबोधनार्थः ।
अपशवो वा अन्ये गो अश्वेभ्यः पशवो गो अश्वाः इतिवत् ॥ १७ ॥
सुन्दर्या निजया बुद्ध्या प्रज्ञयेव वयस्यया ।
पदमासाद्यते राम न नामक्रिययान्यया ॥ १८ ॥
सुन्दर्या सच्छास्त्रविवेकाद्परिष्कृतया । ऊहापोहकुशला मतिः प्रज्ञा तया
वयस्यया सख्या ॥ १८ ॥
यस्योज्ज्वलति तीक्ष्णाग्रा पूर्वापरविचारिणी ।
प्रज्ञादीपशिखा जातु जाड्यान्ध्यं तं न बाधते ॥ १९ ॥
जाड्यमज्ञानं तल्लक्षणमान्ध्यं तमः ॥ १९ ॥
दुरुत्तरा या विपदो दुःखकल्लोलसङ्कुलाः ।
तीर्यते प्रज्ञया ताभ्यो नावापद्भ्यो महामते ॥ २० ॥
ताभ्यो विपत्रदीभ्यः प्रज्ञया नावा तीर्यते जनैरिति प्रसिद्धम् ॥ २० ॥
प्रज्ञाविरहितं मूढमापदल्पापि बाधते ।
पेलवाचानिलकला सारहीनमिवोलपम् ॥ २१ ॥
पेलवा मृदुला अनिलस्य कला लेशः । उलपं तृणविशेषम् ॥ २१ ॥
प्रज्ञावानसहायोऽपि विशास्त्रोऽप्यरिमर्दन ।
उत्तरत्येव संसारसागराद्राम पेलवात् ॥ २२ ॥
असहायो गुर्वादिसहायशून्यः । विशास्त्रः शास्त्रश्रवणशून्योऽपि । इयमपि
प्रशंसार्थमेवात्युक्तिः । आचार्याद्धैव विद्या विदिता सापिष्ठं प्रापत्
इत्यादिश्रुतिविरोधात् । हे राम पेलवाज्ज्ञानमात्रबाध्यत्वेनातिकोमलात् ॥ २२ ॥
प्रज्ञावानसहायोऽपि कार्यान्तमधिगच्छति ।
दुष्प्रज्ञः कार्यमासाद्य प्रधानमपि नश्यति ॥ २३ ॥
लोकेऽपि प्रज्ञावतो मन्त्र्यादेर्बलान्तरवद्भ्यः प्राबल्यं प्रसिद्धमित्याह ##-
प्रजा चरमसाक्षात्कारवृत्तिस्तद्वानात्मा सर्वेषां कार्यप्रपञ्चानामन्तं
बाधं सर्वेषामवश्यकर्तव्यपुरुषार्थानामन्तमवधिं परमपुरुषार्थ
च अधिगच्छति । दुष्प्रज्ञो मोहस्तु सर्वप्रपञ्चसन्तानलक्षणं
कार्यजातमासाद्य तन्मूलत्वात्प्रधानं सदपि ज्ञानमात्रेण नश्यतीत्यर्थः ।
ज्ञाज्ञपक्षभेदेन [ज्ञानपक्ष इति क्वचित्] वा योज्यम् ॥ २३ ॥
शास्त्रसज्जनसंसर्गैः प्रज्ञां पूर्वं विवर्धयेत् ।
सेकसंरक्षणारम्भैः फलप्राप्तौ लतामिव ॥ २४ ॥
प्राज्ञता तर्हि केनोपायेन लभ्या तत्राह - शास्त्रेति ॥ २४ ॥
प्रज्ञाबलबृहन्मूलः काले सत्कार्यपादपः ।
फलं फलत्यतिस्वादु भासो बिम्बमिवैन्दवम् ॥ २५ ॥
प्रज्ञाबलमेव बृहत् मूलं यस्य तथाविधः । सत्कार्यं सत्कर्म
प्राक्तनभाग्यं तल्लक्षणः पादपः । भासः सूर्यप्रकाशः स यथा
शुक्लपक्षे क्रमेण चन्द्रमण्डलं प्रविष्टः पूर्णममृतमयं
चन्द्रबिम्बं फलति तद्वत् । अथवा ऐन्दवं बिम्बं कर्तृ । तद्यथा
जगत्तिमिरापहा भासश्चन्द्रिकाः फलति
तद्वन्मूलाज्ञाननिबर्हणक्षममात्मज्ञानं फलतीत्यर्थः ॥ २५ ॥
य एव यत्नः क्रियते बाह्यार्थोपार्जने जनैः ।
स एव यत्नः कर्तव्यः पूर्वं प्रज्ञाविवर्धने ॥ २६ ॥
यो यादृशः यत्न उद्यओगः । स तादृशः । तथाच नाधिकः
श्रमोऽस्तीत्यर्थः ॥ २६ ॥
सीमान्तं सर्वदुःखानामापदां कोशमुत्तमम् ।
बीजं संसारवृक्षाणां प्रज्ञामान्द्यं विनाशयेत् ॥ २७ ॥
सर्वेषां दुःखानां दुर्दशानां सीमान्तं परमावधिम् ॥ २७ ॥
स्वर्गाद्यद्यच्च पातालाद्राज्याद्यत्समवाप्यते ।
तत्समासाद्यते सर्वं प्रज्ञाकोशान्महात्मना ॥ २८ ॥
एवं प्रज्ञाकोशस्यापि सर्वसम्पदवधित्वमिति दर्शयति - स्वर्गादिति ।
यत्समवाप्यते सुखमिति शेषः । स्वर्लोकादपि रम्याणि पातालानीति नारदः ।
जगाद द्युसदां मध्ये पातालेभ्यः समागतः ॥ इति पौराणिकवचनात्पातालेऽपि
सुखातिशयः प्रसिद्धः ॥ २८ ॥
प्रज्ञयोत्तीर्यते भीमात्तस्मात्संसारसागरात् ।
न दानैर्न च वा तीर्थैस्तपसा नच राघव ॥ २९ ॥
आत्यन्तिकदुःखक्षयोऽपि प्रज्ञैकफलमित्याह - प्रज्ञयेति ।
दानतपःप्रभृतीनामल्पपापक्षयफलत्वादिति भावः ॥ २९ ॥
यत्प्राप्ताः सम्पदं दैवीमपि भूमिचरा नराः ।
प्रज्ञापुण्यलतायास्तत्फलं स्वादु समुत्थितम् ॥ ३० ॥
यच्चान्यत्स्वर्गादि दानादिकर्मणां फलं तदपि प्रज्ञाफलमेवेत्याह -
यदिति । भूमिचरा अपि नरा दैवीं नभश्चरत्वादिलक्षणां सम्पदं प्राप्ता इति
यत्तदपीत्यर्थः ॥ ३० ॥
प्रज्ञया नखरालूनमत्तवारणयूथपाः ।
जम्बुकैर्विजिताः सिंहाः सिंहैर्हरिणका इव ॥ ३१ ॥
सामान्यैरपि भूपत्वं प्राप्तं प्रज्ञावशान्नरैः ।
स्वर्गापवर्गयोग्यत्वं प्राज्ञस्यैवेह दृश्यते ॥ ३२ ॥
प्रज्ञया वादिनः सर्वे स्वविकल्पविलासिनः ।
जयन्ति सुभटप्रक्यान्नरानप्यतिभीरवः ॥ ३३ ॥
सुभटप्रख्यान् वादशूरानिति यावत् ॥ ३३ ॥
चिन्तामणिरियं प्रज्ञा हृत्कोशस्था विवेकिनः ।
फलं कल्पलतेवैषा चिन्तितं सम्प्रयच्छति ॥ ३४ ॥
भव्यस्तरति संसारं प्रज्ञयापोह्यतेऽधमः ।
शिक्षितः पारमाप्नोति नावा नाप्नोत्यशिक्षितः ॥ ३५ ॥
शिक्षितो नौकानयनशिक्षावान्कैवर्तः ॥ ३५ ॥
धीः सम्यग्योजिता पारमसम्यग्योजिताऽपदम् ।
नरं नयति संसारे भ्रमन्ती नौरिवार्णवे ॥ ३६ ॥
धीर्नौरिव सम्यग्विवेकवैराग्यादिसन्मार्गे योजिता चेत्पारं नयति । असम्यग्
रागद्वेषलोभाद्यसन्मार्गे योजिता तु आपदं नयति प्रापयतीत्यर्थः ॥ ३६ ॥
विवेकिनमसम्मूढं प्राज्ञमाशागणोत्थिताः ।
दोषा न परिबाधन्ते सन्नद्धमिव सायकाः ॥ ३७ ॥
आशा तृष्णा तत्पक्षीया गणा लोभमोहक्रोधचिन्तादयस्तेभ्य उत्थिता दोषा
द्वेषचिन्ताविषादादयः । सन्नद्धं वर्मनद्धम् ॥ ३७ ॥
प्रज्ञयेह जगत्सर्वं सम्यगेवाङ्ग दृश्यते ।
सम्यग्दर्शनमायान्ति नापदो नच सम्पदः ॥ ३८ ॥
सम्यक् गुणदोषतत्त्वविवेकेन दृश्यते । सम्यग् दर्शनं यस्य तं
सम्यग्दर्शनं पुरुषम् ॥ ३८ ॥
पिधानं परमार्कस्य जडात्मा विततोऽसितः ।
अहङ्काराम्बुदो मत्तः प्रज्ञावातेन बाध्यते ॥ ३९ ॥
परमः परमात्मा तल्लक्षणस्यार्कस्य पिधानं तिरोधायकः ।
लडयोरभेदादम्बुदपक्षे जलात्मा । विततो विस्तीर्णः । असितोऽस्वच्छो नीलश्च ॥ ३९ ॥
पदमतुलमुपैतुमिच्छतोच्चैः
प्रथममियं मतिरेव लालनीया ।
फलमभिलषता कृषीवलेन
प्रथमतरं ननु कृष्यते धरैव ॥ ४० ॥
लालनीया बाल इव क्रमाद्विवेकशिक्षणेन शोधनीया । फलं कृषिफलं
धान्याभिवृद्धिम् । नन्विति प्रसिद्धौ ॥ ४० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे प्रज्ञामाहात्म्यं नाम द्वादशः
सर्गः ॥ १२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
प्रज्ञामाहात्म्यं नाम द्वादशः सर्गः ॥ १२ ॥