११

एकादशः सर्गः ११

श्रीवसिष्ठ उवाच ।

इति सञ्चिन्त्य जनको यथाप्राप्तां क्रियामसौ ।
असक्तः कर्तुमुत्तस्थौ दिनं दिनपतिर्यथा ॥ १ ॥

कृताह्निकस्य राज्ञोऽत्र निशान्ते वर्ण्यते पुनः ।
विवेकैर्बहुभिश्चित्रैः स्वचित्तस्य प्रबोधनम् ॥ १ ॥

असक्तः कर्तृत्वभोक्तृत्वाभिमानलक्षणासङ्गरहितः ॥ १ ॥

इष्टानिष्टाः परित्यज्य चेतसा वासनाः स्वयम् ।
यथाप्राप्तं चकारासौ जाग्रत्येव सुषुप्तवत् ॥ २ ॥

इदं मे इष्ठमिदं मेऽनिष्टमिति कल्पनानिमित्तभूता वासनाः । सुषुप्तवदिति ।
स्थूलसूक्ष्मदेहाद्यभिमानाभावे जाग्रत्सुषुप्तयोर्विशेषाभावादिति भावः ॥
२ ॥

सम्पाद्य तदहःकार्यमार्यावर्जनपूर्वकम् ।
अनयच्छर्वरीमेकस्तयैव [मेकान्तयैव इति पाठः] ध्यानलीलया
॥ ३ ॥

आर्याणां पूज्यानां देवब्राह्मणादीनामावर्जनं पूजादानादिना
समाधानम् । अहःकार्यमाह्निकम् ॥ ३ ॥

मनः समरसं कृत्वा संशान्तविषयभ्रमम् ।
शर्वर्यां क्षीयमाणायामित्थं चित्तमबोधयत् ॥ ४ ॥

समरसं समाहितं कृत्वा । इत्थं वक्ष्यमाणदिशा ॥ ४ ॥

चित्त चञ्चल संसार आत्मनो न सुखाय ते ।
शममेहि शमाच्छान्तं सुखं सारमवाप्यते ॥ ५ ॥

शान्तं निर्विक्षेपं सारभूतमात्मसुखम् ॥ ५ ॥

यथा यथा विकल्पौघान्सङ्कल्पयसि हेलया ।
तथा तथैति स्फारत्वं संसारस्तव चिन्तया ॥ ६ ॥

शतशाखत्वमायाति सेकेन विटपी यथा ।
अनन्ताधित्वमायासि शठभोगेच्छया तथा ॥ ७ ॥

अनन्ताधित्वमसङ्ख्यव्यथाशालितामायासि प्राप्नोषि त्वम् ॥ ७ ॥

चिन्ताजालविलासोत्था [अत्र विकल्पोत्या इति पाठः]
जन्मसंसारसृष्टयः ।
तस्मात्त्यक्त्वा विचित्रां त्वं चिन्तामुपशमं व्रज ॥ ८ ॥

यतो जन्मसंसारसृष्टयो विषयचिन्ताजालविकल्पोत्था इति पूर्वेणान्वयः ॥ ८ ॥

संसारसृष्टितरलामिमां तुलय सुन्दर ।
अस्यां चेत्सारमाप्नोषि तदेतामेव संश्रय ॥ ९ ॥

हे सुन्दर विवेकिन् इमां संसारसृष्टिं शमसुखं च तुलय तुलामारोप्येव
बुद्ध्या कः सार इति परीक्षस्व । तरलामित्यनेन
नश्वरत्वाद्विक्षेपदुःखजटिलत्वाच्च नास्त्यत्र सार इति सूचितम् ॥ ९ ॥

आस्थां यस्मात्परित्यज्य दृश्यदर्शनलालसात् ।
मैतद्गृहाण मा मुञ्च स्वेच्छया विहरेच्छया ॥ १० ॥

यस्मादियमसारा तस्मादस्यामास्थां परित्यज्य एतदसारं दृश्यं
दर्शनयोग्यमेतदिति दर्शनलालसात्प्रियं मा गृहाण अप्रियं च
दर्शनानर्हमिति द्वेषान्मा मुञ्च किन्तूभयसाक्षिस्वात्ममात्रेच्छया
आत्मकामः सन् इच्छया स्वैरं विहर ॥ १० ॥

इदं दृश्यमसत्सद्वाप्युदेत्वस्तमुपैतु वा ।
साधो विषमतां गच्छ मैतदीयैर्गुणागुणैः ॥ ११ ॥

असत्प्रागविद्यमानं सुखदुःखसाधनमुदेतु साम्प्रतं
सद्विद्यमानमस्तं नाशमुपैतु वा । मा
तदागमापायप्रयुक्तहर्षविषादलक्षणां विषमतां गच्छेत्यर्थः ॥ ११ ॥

मनागपि न सम्बन्धस्तव दृश्येन वस्तुना ।
अविद्यमानरूपेण सम्बन्धः कोऽयमीदृशः ॥ १२ ॥

ननु सति तत्सम्बन्धे कथं तत्प्रयुक्तवैषम्यवर्जनसम्भवस्तत्राह -
मनागपीति ॥ १२ ॥

असत्त्वमेतच्च न सद्द्वयोरेवासतोः सतोः ।
सम्बन्ध इति चित्रेयमपूर्वैवाक्षरावली ॥ १३ ॥

हे मनः त्वमसत् । एतद्दृश्यं च न सत् । अप्यर्थे एवकारः । अतो द्वयोरपि
बन्ध्यापुत्रखपुष्पयोरिवासतोः सतोर्निःस्वरूपस्थितिकयोः सम्बन्ध
इत्यक्षरावली उक्तिः अपूर्वा । आश्चर्यैवेत्यर्थः ॥ १३ ॥

असदेतत्तु सच्चेत्त्वं तथापि किल सुन्दर ।
सङ्गः सदसतोः कीदृग्वद त्वं मर्त्यजीवयोः ॥ १४ ॥

यदि मन्यसे नाहमसत् सत्य आत्मैवाहं दृश्यमेवासदिति तथापि न
सम्बन्धघटनेत्याह - असदिति । मर्त्यजीवयोः सदा मृतजीवतोः ॥ १४ ॥

चित्त त्वमथ दृश्यं च द्वे एव यदि सन्मये ।
सदास्थिते तत्प्रसरः कुतो हर्षविषादयोः ॥ १५ ॥

द्वयोरपि सत्त्वमेव नासत्त्वं कस्यचिदपीति कल्पेऽपि कदापीष्टवियोगाभावान्न
हर्षविषादप्रसक्तिरित्याह - चित्तेति । हे चित्त त्वं इति च्छेदः ॥ १५ ॥

तस्मान्महाधिं मुञ्च त्वं मूकमुल्लासमाहर ।
सङ्क्षुब्धाम्बुधिमाविष्टां त्यजाभव्यामिमां स्थित्म् ॥ १६ ॥

महान्तमाधिं विषादं मूकं तूष्णीम्भूतं
सदात्मस्वरूपस्थितावुत्साहमाहर समाध्यभ्यासेन सम्पादय ।
सङ्क्षुब्धं सङ्क्षोभो विक्षेपस्तल्लक्षणमम्बुधिम् ॥ १६ ॥

कन्दुकालातवद्व्यर्थमात्मनैव परिज्वलन् ।
मा मोहमलमासाद्य मन्दतां गच्छ सन्मते ॥ १७ ॥

कन्दुकालातमुत्सवेषु जनकौतुकार्थमाग्नेयद्रव्यरचितं
कन्दुकाकारमलातयन्त्रम् । तद्धि स्वत एव ज्वलत्पुनःपुनरुच्छलति । मोहं
अलमिति वा मोहलक्षणं मलमिति वा ॥ १७ ॥

न तदिहास्ति समुन्नतमुत्तमं
व्रजसि येन परां परिपूर्णताम् ।
तदवलम्ब्य बलादति धीरतां
जहिहि चञ्चलतां शठ रे मनः ॥ १८ ॥

इह दृश्यवर्गमध्ये येन लब्धेन त्वं परिपूर्णतां व्रजसि तत्तादृशं
किमपि नास्ति । कथं तर्हि पूर्णतालाभस्तमुपायमाह - तदिति ।
तत्तस्मादभ्यासवैराग्यबलादतिधीरतामवलम्ब्य
तद्ब्रह्मावलम्ब्यातिधीरतां प्राप्येति वा । चञ्चलतां जहिहि त्यज ॥ १८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये
मोक्षोपायेषूपशमप्रकरणे चित्तानुशासनं नामैकादशः सर्गः ॥ ११

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
चित्तानुशासनं नामैकादशः सर्गः ॥ ११ ॥