१०

दशमः सर्गः १०

श्रीवसिष्ठ उवाच ।

इति चिन्तयतस्तस्य पुरः सम्प्रविवेश ह ।
प्रतीहारः परो भानोः स्यन्दनाग्र इवारुणः ॥ १ ॥

द्वाःस्थेन प्रार्थितेऽन्यत्र माध्याह्निकविधिक्रमे ।
तूष्णीं विचारो भूयोऽपि जनकस्योपवर्ण्यते ॥ १ ॥

प्रतीहारो द्वारपालः । उपसर्गस्य घञ्यमनुष्ये बहुलम् इति दीर्घः ॥ १ ॥

प्रतीहार उवाच ।

देव दोःस्तम्भविश्रान्तसमस्तवसुद्धाभर ।
सम्पादयोत्तिष्ठ दिनव्यापारं नृपतोचितम् ॥ २ ॥

दोःस्तम्भयोर्विश्रान्तः समस्तवसुधाभरो यस्य । नृपताया उचितमनुरूपम्
॥ २ ॥

एताः कुसुमकर्पूरकुङ्कुमाम्बुघटाः स्त्रियः ।
स्नानभूमौ स्थिताः सज्जा नद्यो मूर्तियुता इव ॥ ३ ॥

तत्र सामग्रीसिद्धिमाह - एता इत्यादिना ॥ ३ ॥

एताः कमलकह्लारकाननभ्रान्तषट्पदाः ।
कृताः कमलिनीपाशरचितांशुकमण्डपाः ॥ ४ ॥

कमलिनीपाशैः सपद्मबिसरज्जुभी रचिताः परितश्चारुनिर्मिताः
कनकचित्रांशुमण्डपा यासु तथाविधा अत एव एताः कर्बुरवर्णाः
कमलिन्याः कमलवत्याः सरस्यास्तीरभुव इति परेणान्वयः ॥ ४ ॥

एताः कमलिनीतीरभुवश्छत्रैः प्रपूरिताः ।
सचामररथेभाश्वैः स्नानावसरसेविनाम् ॥ ५ ॥

तथा स्नानावसरे सेवन्ते तच्छीलानां जनानां चामरै रथैरिभैरश्वैश्च
सहितैश्छत्रैश्च प्रपूरिताः । अनेन
हंससारसनक्रपद्मादिसहितसरसीसाम्यापत्तिस्तीरभुवोऽर्थाद्गम्यते ॥ ५ ॥

समग्रसुमनःपूर्णैरन्नौषधिपरिप्लुतैः ।
सज्जीकृताः पटलकैर्देवार्चनगृहास्तथा ॥ ६ ॥

समग्रैः सुमनोभिः पुष्पैराप्तभृत्यैश्च पूर्णैः । अन्नैः
पक्वैरोषधिभिर्यवाङ्कुरादिभिश्च परिप्लुतैः परिष्कृतैः । रत्नौषधीति
पाठे स्पष्टम् । पटलकैः प्रान्तभागैः । हे देवेति सम्बुद्धिः । अर्चनगृहा
देवब्राह्मणातिथिपूजागृहाः । देवार्चनगृहाः इत्यैकपद्यं वा ॥ ६ ॥

स्नातः पवित्रहस्तश्च परिजप्याघमर्षणः ।
त्वामेव प्रेक्षते देव दक्षिणार्हो द्विजव्रजः ॥ ७ ॥

तव स्नानकाले परितो जप्या जपितव्या अघमर्षणमन्त्रा येन अत एव दक्षिणार्हः
॥ ७ ॥

लसच्चामरहस्ताभिः पाल्यते परमेश्वर ।
सज्जीकृतास्ते कान्ताभिः शीता भोजनभूमयः ॥ ८ ॥

लेपनचन्दनोदकसेकादिपरिष्कृतत्वाच्छीताः शीतलाः ॥ ८ ॥

शीघ्रमुत्तिष्ठ भद्रं ते निपतं कार्यमाचर ।
न कालमतिवर्तन्ते महान्तः स्वेषु कर्मसु ॥ ९ ॥

प्रतीहारपतावित्थमुक्तवत्यथ पार्थिवः ।
तथैव चिन्तयामास चित्रां संसारसंस्थितिम् ॥ १० ॥

कियन्मात्रमिदं नाम राज्यं सुखमिति स्थितम् ।
न प्रयोजनमेतेन ममेह क्षणभङ्गिना ॥ ११ ॥

सर्वमेव परित्यज्य मिथ्याशम्बरडम्बरम् ।
एकान्त एव तिष्ठामि संशान्त इव वारिधिः ॥ १२ ॥

शम्बरपदेन शाम्बरीमाया लक्ष्यते । मिथ्याशम्बरं मृगतृष्णाजलं
तत्सदृशं वा ॥ १२ ॥

अलमेभिरसत्प्रायैर्मम भोगविजृम्भितैः ।
त्यक्त्वा सर्वाणि कर्माणि सुखं तिष्ठामि केवलम् ॥ १३ ॥

चित्त चातुर्यमेतस्माद्भोगाभ्यासकुसम्भ्रमात् ।
त्यज जन्मजराजाड्यजालजम्बालशान्तये ॥ १४ ॥

हे चित्त चातुर्यं सुखलवास्वादचतुरतां त्यज ॥ १४ ॥

दशासु स्वासु यास्वेव सम्भ्रमं चित्त पश्यसि ।
ताभ्य एवाभिरचितं परमं दुःखमेष्यसि ॥ १५ ॥

यासु दशासु विषयाभिलाषतत्प्रयत्नतदुपभोगतदनुस्मरणादिरूपासु ।
सम्भ्रमं सुखलवास्वादभ्रान्तिम्मुत्साहं वा ॥ १५ ॥

प्रवृत्तं सन्निवृत्तं सद्भूयोभूयश्चिरञ्चिरम् ।
भोगभूमिषु सर्वासु चित्तं तृप्तिं न गच्छति ॥ १६ ॥

भोगाशया प्रवृत्तं सत् भोगशक्तिकुण्ठीभावाल्लोकशास्त्रादिभयाच्च
निवृत्तं सत् ॥ १६ ॥

तस्मात्पापालमनया तुच्छया भोगचिन्तया ।
भवत्यकृत्रिमा तृप्तिर्येनाभिपत तं ततः ॥ १७ ॥

ततः कृत्रिमसुखानामनर्थबीजत्वाद्येन हेतुना अकृत्रिमा प्रीतिर्भवति तं
हेतुं पत । लभस्वेति यावत् ॥ १७ ॥

इति सञ्चिन्त्य जनकस्तूष्णीमेव बभूव ह ।
शान्तचापलचेतस्त्वाल्लिपिकर्मार्पितोपमः ॥ १८ ॥

प्रतीहारोऽपि नोवाच गौरवेण भयेन च ।
पुनर्वाक्यं महीपानां चित्तवृत्तिषु शिक्षितः ॥ १९ ॥

चित्तवृत्तिषु चित्तानुवर्तनेषु ॥ १९ ॥

तूष्णीमथ क्षणं स्थित्वा जनको जनजीवितम् ।
पुनः सञ्चिन्तयामास मनसा शमशालिना ॥ २० ॥

जनजीवितं प्राणिजीवननिदानम् । येन जातानि जीवन्ति इति श्रुतेः ॥ २० ॥

किमुपादेयमस्तीह यत्नात्संसाधयाम्यहम् ।
कस्मिन्वस्तुनि बध्नामि धृतिं नाशविवर्जिते ॥ २१ ॥

किं मे क्रियापरतया किं मे निष्क्रिययापि वा ।
न तदस्ति विनाशेन वर्जितं यत्किलोदितम् ॥ २२ ॥

अपि वा कार्यमिति शेषः । यत्किल उदितं जन्म प्राप्तं तत् विनाशेन वर्जितं नास्ति ।
जन्यभावस्य विनाशनियमादिति भावः ॥ २२ ॥

क्रियावानक्रियो वास्तु कायोऽयमसदुत्थितः ।
समस्थितस्य शुद्धस्य चितः का नाम मे क्षतिः ॥ २३ ॥

समस्थितस्य देहचलनाचलनदशयोस्तुल्यरूपस्थितेः । चितश्चिन्मात्रस्वभावस्य
॥ २३ ॥

नाभिवाञ्छाम्यसम्प्राप्तं सम्प्राप्तं न त्यजाम्यहम् ।
स्वस्थ आत्मनि तिष्ठामि यन्ममास्ति तदस्तु मे ॥ २४ ॥

यन्मम प्रारब्धोपनीतमस्ति तदेवास्तु नान्यदित्यर्थः । अथवा यन्मम
निरतिशयानन्दरूपमान्तरमस्ति तदेवास्तु न बाह्यं किञ्चिदित्यर्थः ॥ २४ ॥

न ममेह कृतेनार्थो नाकृतेनेह कश्चन ।
क्रिययाऽक्रियया वापि यत्प्राप्तं तदसन्मयम् ॥ २५ ॥

अकृतेन उपेक्षणेन । कश्चन अनर्थ इति शेषः । अक्रियया उपेक्षया । प्राप्तं
दुःखमसन्मयं मायामयम् । मिथ्यैवेति यावत् ॥ २५ ॥

अकुर्वतः कुर्वतो वा युक्तायुक्ताः क्रिया मम ।
नाभिवाञ्छितमस्तीह यदुपादेयतां गतम् ॥ २६ ॥

युक्ताः शास्त्रविहिताः । अयुक्ता लोकप्राप्ताः ॥ २६ ॥

तदुत्थाय क्रमप्राप्तां कायोऽयं प्रकृतां क्रियाम् ।
करोत्वस्पन्दिताङ्गस्तु किमयं साधु शुष्यति ॥ २७ ॥

पूर्वपूर्वव्यवहारक्रमप्राप्ताम् । अस्पन्दिताङ्गस्त्वयं देहः शुष्यति तत्किं
साधु आवश्यकं नेत्यर्थः ॥ २७ ॥

स्थिते मनसि निष्कामे समे विगतरञ्जने ।
कायावयवजौ कार्यौ स्पन्दास्पन्दौ फले समौ ॥ २८ ॥

कार्यौ प्रारब्धकर्मोपनीतौ । पुण्यपापानुदयलक्षणे फले समौ ॥ २८ ॥

कर्मजासु फलश्रीषु मनसा कर्तृभोक्तृते ।
तस्मिन्प्रशान्तिमायाते कृतमप्यकृतं नृणाम् ॥ २९ ॥

तत्कुतस्तत्राह - कर्मजास्विति । कृतमप्यकृतं भुक्तमप्यभुक्तमित्यपि
योज्यम् ॥ २९ ॥

यो निश्चयोऽन्तः पुरुषस्य रूढः
क्रियास्वसौ तन्मयतामुपैति ।
अनामयं मे पदमाहता धी-
रधीरतामन्तरलं त्यजामि ॥ ३० ॥

पुरुषस्यान्तर्य एव निश्चयः कर्ता भोक्तेति वा असौ पुरुषः सर्वासु
देहादिक्रियासु तन्मयतां स्वनिश्चितार्थमयतामुपैतीति वस्तुस्थितिः । साम्प्रतं
तु मे मम धीरनामयं कर्तृभोक्तृतारोगशून्यमात्मपदमाहता
आविद्धा तद्दृढनिश्चयासम्पन्नेत्यर्थः । अतः अन्तश्चित्ते
कृताकृतफलावश्यम्भावाय
पुनर्जन्मादिप्राप्तिशङ्कानिमित्तामिष्टानिष्ठप्राप्तिविघातनिमित्तां
चाधीरतामलमत्यन्तमेव त्यजामीत्यर्थः ॥ ३० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपाये
उपशमप्रकरणे जनकनिश्चयो नाम दशमः सर्गः ॥ १० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे जनकनिश्चयो
नाम दशमः सर्गः ॥ १० ॥