०९

नवमः सर्गः ९

श्रीवसिष्ठ उवाच ।

इति सिद्धगनोद्गीता गीताः श्रुत्वा महीपतिः ।
विषादमाजगामाशु भीरू रणरवादिव ॥ १ ॥

इह श्रुतवतो राज्ञो निर्वेदाद्गृहमीयुषः ।
विमर्शेनार्थमूलानां मनोनिर्णय ईर्यते ॥ १ ॥

भीरुर्भयशीलः । ढ्रलोपे पूर्वस्य दीर्घो णः ॥ १ ॥

जगाम परिवारं स्वमाकर्षन्स्वगृहं प्रति ।
स्वतीरवृक्षानुगतः सरिदोघ इवार्णवम् ॥ २ ॥

स्वं स्वीयं परिवारम् ॥ २ ॥

परिवारमशेषेण विसृज्य स्वं स्वमालयम् ।
एक एवारुरोहाग्र्यं गृहमर्क इवाचलम् ॥ ३ ॥

स्वं स्वमालयं गृहं प्रति विसृज्य । गृहं गृहप्रासादम् ।
अचलमुदयाद्रिम् ॥ ३ ॥

तत्र प्रोड्डयनालोलखगपक्षतिचञ्चलाः ।
आलोकयṁल्लोकगतिर्विललापेदमाकुलः ॥ ४ ॥

प्रोड्डयने आलोलाः खगानां पक्षतयः पक्षमूलानीव चञ्चलाः । सोद्वेगं
भङ्गुरा इति यावत् । लोकगतीर्देहादिदृश्यपदार्थस्थितीः । इदं
वक्ष्यमाणप्रकारं विललाप ॥ ४ ॥

हा कष्टमतिकष्टासु लोकलोलदशास्वयम् ।
पाषाणेष्विव पाषाणा आलुठामि बलादहम् ॥ ५ ॥

लोकानां जीवानां लोलासु जन्मजराभयमरणादिना लोलासु दशासु ।
पाषाणदृष्टान्तो मौर्ख्यकठोरताद्योतनार्थः ॥ ५ ॥

अपर्यन्तस्य कालस्य कोऽप्यंशो जीव्यते मया ।
तस्मिन्भावं निबध्नामि धिङ्मामधमचेतनम् ॥ ६ ॥

जीवधातोरकर्मकत्वेऽपि कालभावाध्वगन्तव्याः कर्मसञ्ज्ञास्त्वकर्मणां
इति कात्यायनवचनाज्जीव्यते इति काले कर्मणि लः । तस्मिंस्तादृशेऽपि जीवने
भावमाशाम् ॥ ६ ॥

कियन्मात्रमिदं नाम राज्यमाजीवितं मम ।
किमेतेन विना दुःखं तिष्ठामि हतधीर्यथा ॥ ७ ॥

आजीवितं जीवितावधि राज्यम् । एतेनैतावन्मात्रेण सन्तुष्टः सन् हतधीर्मूर्ख
इव दुःखं भाविदुःखप्रतिकारचिन्तां विना किं तिष्ठामीत्यर्थः । अथवा
एतेन एतावन्मात्रेण हतधीर्विनष्टबुद्ध्युपाधिर्जीवन्मुक्त इव विना दुःखं
निर्दुःखं तिष्ठामि किं इति काक्वा योज्यम् ॥ ७ ॥

आदावन्तेऽप्यनन्तोऽहं मध्ये पेलवजीवितः ।
बालश्चित्रेन्दुनेवाहं किं मुधा धृतिमास्थितः ॥ ८ ॥

ननु देह एवात्मा तस्य नाशे सहैव तेन सर्वदुःखनिवृत्तिः किं न
स्यान्नेत्याह - आदाविति । कामकर्मवासनाबीजमन्तरेण
भोगवैचित्र्यप्रयोजकजन्मासिद्धेर्विधिनिषेधमोक्षशास्त्रप्रामाण्यानुरोधाच्
चानादिरनन्तश्चाहं न देहमात्र इत्यर्थः । चित्रलिखितेनानिन्दुनैवेन्दुबुद्ध्या
गृहीतेन बाल इवानात्मनैवात्मतया गृहीतेन देहेनेत्यर्थः ।
धृतिमाश्वासम् ॥ ८ ॥

प्रपञ्चरहितेनाहमिन्द्रजालेन जालिना ।
हा कष्टमतिमुह्यामि केनास्मि परिमोहितः ॥ ९ ॥

केन जालिना ऐन्द्रजालिकेन परिमोहितोऽस्मि ॥ ९ ॥

यद्वस्तु यच्च वा रम्यं यदुदारमकृत्रिमम् ।
किञ्चित्तदिह नास्त्येव किन्निष्ठेह मतिर्मम ॥ १० ॥

वसतीति वस्तु सत्यम् रम्यं सुखैकरूपम् उदारमपरिच्छिन्नम्
अकृत्रिममजन्यं च तत्तादृशं किञ्चिदपि इह जगति नास्त्येव । कस्मिन् निष्ठा
विश्रान्तिर्यस्याः सा किन्निष्ठा भवत्विति शेषः ॥ १० ॥

दूरस्थमप्यदूरस्थं यन्मे मनसि वर्तते ।
इति निश्चित्य बाह्यार्थभावनां सन्त्यजाम्यहम् ॥ ११ ॥

ननु दूरदेशे तादृशं वस्तु प्रसिद्धं स्यान्नेत्याह - दूरस्थमिति ।
दूरस्थत्वेन प्रसिद्धमपि यत्किञ्चिद्वस्तु अदूरस्थमेव । कुतः । यद्यस्मान्मे
मनसि वर्तते । नहि मनो देहाद्बहिर्दूरं व्रजति । तथा सति दूरे एव
तत्प्रथानुभूयेत न हृदि । हृद्येव हि सर्वे बाह्यवस्तुबोधमनुभवन्ति ।
तस्माद्दूरादिकल्पनाप्यन्तर्भासमाना न वास्तवीत्यनर्थ एवेति तद्भावना
त्याज्यैव नोपादेयेत्यर्थः ॥ ११ ॥

लोकाजवं जवीभावः सलिलावर्तभङ्गुरः ।
दृष्टोऽद्यापि हि दुःखाय केयमास्था सुखं प्रति ॥ १२ ॥

लोकानां जनानां भोगार्थं धनार्जनादिप्रवृत्तिरूप आजवं जवीभावः
सलिलावर्त इव भङ्गुरो नश्वरफलो जन्ममरणादिदुःखहेतुश्च बहुशो
दृष्टः । सुखं विषयसुखं प्रति ॥ १२ ॥

प्रत्यब्दं प्रतिमासं च प्रत्यहं च प्रतिक्षणम् ।
सुखानि दुःखपिण्डानि दुःखानि तु पुनः पुनः ॥ १३ ॥

उक्तमेव प्रपञ्चयति - प्रत्यब्दमित्यादिना । दुःखपिण्डानि दुःखनिबिडानि
। एवार्थे तुशब्दः ॥ १३ ॥

परामृष्टं विशिष्टं हि दृष्टं नष्टं न भावितम् ।
अत्रस्थं न तदस्तीह सतां यत्रास्तु संस्थितिः ॥ १४ ॥

अत्र संसारे तिष्ठतीत्यत्रस्थं किञ्चित्कालं दृष्टं सद्य एव नष्टं
स्वराज्यादिपदं तुच्छत्वान्न भावितं न चिन्तितमेव । हि यतो विशिष्टं
सर्वोत्कृष्टत्वेन प्रसिद्धमैन्द्रप्राजापत्यादिपदमपि परामृष्टं
विचारितं सतां विवेकिनां संस्थितिरात्यन्तिकविश्रान्तिर्यत्रास्तु तादृशमिह
नास्त्येवेत्यर्थः ॥ १४ ॥

अद्य ये महतां मूर्ध्नि ते दिनैर्निपतन्त्यधः ।
हतचित्तमहत्तायां कैषा विश्वस्तता बत ॥ १५ ॥

हतेत्यधिक्षेपार्थं चित्तविशेषणम् । महत्तायां राज्यादिवैभवोत्कर्षे ।
हतचित्तमहन्तायाम् इति पाठे तु हतचित्तं यथा स्यात्तथा अहन्तायां
राज्याभिमाने इति योज्यम् ॥ १५ ॥

अरज्जुरेव बद्धोऽहमपङ्कोऽस्मि कलङ्कितः ।
पतितोस्म्युपरिस्थोपि हा ममात्मन्हता स्थितिः ॥ १६ ॥

आत्मन्निति सम्बोधनम् । आत्मनि स्वस्वभावे स्थितिर्हतेति सुब्लुकि सप्तम्यन्तं वा
योज्यम् ॥ १६ ॥

कस्मादकस्मान्मोहोयमागतो धीमतोऽपि मे ।
असितः पिहितालोको भास्कराग्रमिवाम्बुदः ॥ १७ ॥

असितः श्यामः । भास्करस्य अग्रं पुरोदेशम् ॥ १७ ॥

क इमे मे महाभोगाः क इमे मम बान्धवाः ।
बालो भूतमयेनेव सङ्केतेनाहमाकुलः ॥ १८ ॥

सङ्केतेन ममतालक्षणसम्बन्धकल्पनेन ॥ १८ ॥

स्वयमेव निबध्नामि जरामरणरागिणीम् ।
किमिमामहमेतेषु धृतिमुद्वेगकारिणीम् ॥ १९ ॥

एतेषु भोगादिषु जरामरणयोः रागिणीं प्रियसखीगिवानयित्रीम् । धृतिं
आस्थाम् ॥ १९ ॥

यातु तिष्ठतु वा सम्यङ् ममैतां प्रति को ग्रहः ।
बुद्बुदश्रीरिवैषा हि मथ्यैवेत्थमुपस्थिता ॥ २० ॥

एतां भोगबान्धवादिसम्पदं प्रति को ग्रह आग्रहः ॥ २० ॥

ते महाविभवा भोगास्ते सन्तः स्निग्धबान्धवाः ।
सर्वं स्मृतिपथं प्राप्तं वर्तमानेऽपि का धृतिः ॥ २१ ॥

ते चक्रवर्तिनां पृथुमरुत्तादीनां प्रसिद्धा महाविभवाः । सन्तः
सद्गुणाः । सर्वमिति सामान्ये नपुंसकम् । का धृतिरास्था ॥ २१ ॥

क्व धनानि महीपानां ब्रह्मणः क्व जगन्ति वा ।
प्राक्तनानि प्रयातानि केयं विश्वस्तता मम ॥ २२ ॥

ब्रह्मणः प्राक्तनहिरण्यगर्भस्य । जगन्ति भुवनानि क्व प्रयातानि मम
निधनादिष्विति शेषः ॥ २२ ॥

गिलितानीन्द्रलक्षाणि बुद्बुदानीव वारिणि ।
मां जीवितनिबद्धास्थं विहसिष्यन्ति साधवः ॥ २३ ॥

गिलितानि कालेनेति शेषः । गलितानि इति वा पाठः । साधवो विवेकिनः ॥ २३ ॥

ब्रह्मणां कोटयो याता गताः सर्गपरम्पराः ।
प्रयाताः पांसुवद्भूपाः का धृतिर्मम जीविते ॥ २४ ॥

कोटिग्रहणमानन्त्योपलक्षणम् संसारस्यानादित्वात् । धृतिरास्था ॥ २४ ॥

संसाररात्रिदुःस्वप्ने चेत्ये [चेत्यदेहभये इति पाठः] देहमये
भ्रमे ।
आस्थां चेदनुबध्नामि तत्रेमां तु धिगस्थितिम् ॥ २५ ॥

संसार एव रात्रिस्तमोमयत्वात्तत्र ये दुःस्वप्नभूते देहमये देहप्रचुरे
अहम्ममताव्यवहारभ्रमे अस्थितिममर्यादामविवेकितामिति यावत् ॥ २५ ॥

अयं सोऽहमिति व्यर्थकल्पनाऽसत्स्वरूपिणी ।
अहङ्कारपिशाचेन किमज्ञवदहं स्थितः ॥ २६ ॥

अयमिति देहसन्निहिते अपरोक्षताकल्पनम् । स इति तद्विप्रकृष्टे परोक्षताकल्पना
। अहमिति देहे आत्मताकल्पना । सा त्रिविधापि असत्स्वरूपिण्येव । अतः
अहङ्कारपिशाचेन मोहित इति शेषः । अहमज्ञवत्किं किमर्थं निर्विचार
एतावन्तं कालं स्थित इत्यर्थः ॥ २६ ॥

हतं हतमिदं कस्मादायुराततयानया ।
पश्यन्नपि न पश्यामि सूक्ष्मया काललेखया ॥ २७ ॥

सूक्ष्मया क्षणलवमुहूर्तादिरूपया काललेखया इदमायुर्हतं हतं
प्रतिक्षणं मुहुर्मुहुश्छिन्नं पश्यन्नपि कस्मान्न पश्यामि न
विमृशामीत्यर्थः ॥ २७ ॥

पादपीठे कृतेशानाः शार्ङ्किक्रीडनकन्दुकाः ।
कालकापालिकाग्रस्ताः किमास्थे मयि वल्गसि ॥ २८ ॥

पादपीठे पादपीठवद्रचितेषु भुवनेषु कृताः प्रतिमावद्रचिता नमिता वा
ईशाना ईश्वरा ब्रह्मादयोऽपि यैः । शार्ङ्गिणो विष्ण्वादिदेहाः क्रीडनकन्दुका
इव मुहुर्मुहुर्युद्धादिव्यवहारेषु नभस्युत्क्षिप्ता यैः । तहाविधा
महाकल्पलक्षणकालरूपा ब्रह्मकपालपाणित्वात्कापालिका रुद्रास्तेऽपि
महाकालेन ग्रस्ताः । आस्थे हे जीविताशे मयि किं वल्गसि नृत्यसि ॥ २८ ॥

अजस्रमुपयान्त्येते यान्ति चाद्यापि वासराः ।
अविनष्टैकसद्वस्तुर्दृष्टो नाद्यापि वासरः ॥ २९ ॥

उपयान्ति आगच्छन्ति । अद्यास्मिन्नपि वयसि यान्ति वृथैवापगच्छन्ति । अविनष्टं
नित्यमेकं सन्निर्दोषमानन्दैकरसं वस्तु लब्धं यस्मिंस्तथाविधो
वासरोऽद्यापि अद्यतनकालावधि न दृष्टः ॥ २९ ॥

सारसाः सरसीवैते सर्वस्मिञ्जनचेतसि ।
भोगा एव स्फुरन्त्यन्तर्न तु स्वपददृष्टयः ॥ ३० ॥

स्वं प्रत्यगात्मभूतं यत्परमं पदं तस्य दृष्टयः साक्षात्काराः ॥ ३०

कष्टात्कष्टतरं प्राप्तो दुःखाद्दुःखतरं गतः ।
अद्यापि न विरक्तोस्मि हा धिङ्मामधमाशयम् ॥ ३१ ॥

रागलोभादिदूषितत्वादधम आशयो मनो यस्य तम् ॥ ३१ ॥

येषु येषु दृढा बद्धा भावना भव्यवस्तुषु ।
तानि तानि विनष्टानि दृष्टानि किमिहोत्तमम् ॥ ३२ ॥

भावना प्रीतिः । भव्येषु रमणीयेषु वस्तुषु विषयेषु ॥ ३२ ॥

यन्मध्ये यच्च पर्यन्ते यदापाते मनोरमम् ।
सर्वमेवापवित्रं तद्विनाशामेध्यदूषितम् ॥ ३३ ॥

मध्ये मनोरमं वयः । पर्यन्ते मनोरमो धर्मः । आपाते मनोरमा
विषयाः ॥ ३३ ॥

येषु येषु पदार्थेषु धृतिं बध्नाति मानवः ।
तेषु तेष्वेव तस्यायं दृष्टो नाशोदयो भृशम् ॥ ३४ ॥

धृतिमास्थाम् । तस्य मानवस्य । अयं प्रसिद्धः । नाशोदयो
दुःखप्रादुर्भावः ॥ ३४ ॥

श्वःश्वः पापीयसीमेष श्वःश्वः क्रूरतरामपि ।
श्वःश्वः स्वेदकरीमेति दशामिह जडो जनः ॥ ३५ ॥

अज्ञस्योत्तरकालेऽपि विश्रान्तिप्रत्याशा नास्तीत्याह - श्वःश्व इति ।
रागलोभाद्यभिवृद्ध्या पापीयसीम् । हिंसादिप्रवृत्त्या क्रूरतराम् ।
तत्फलकाले खेदकरीम् ॥ ३५ ॥

अज्ञानैकहतो बाल्ये यौवने मदनाहतः ।
शेषे कलत्रचिन्तार्तः किं करोति कदा जडः ॥ ३६ ॥

शेषे वयसि । कलत्रं तदुपलक्षितं कुटुम्बं तद्भरणादिचिन्तया आर्तः ।
वित्तार्तः इति पाठे कलत्रवित्तादिक्षयेणार्तः । कदा किं स्वोद्धारसाधनं करोति
। न कदाचिदपीत्यर्थः ॥ ३६ ॥

आगमापायि विरसं दशावैषम्यदूषितम् ।
असारसारं संसारं किं तत्पश्यति दुर्मतिः ॥ ३७ ॥

आगमापायि आद्यन्तयोरसत् । भोगकालेऽपि विरसम् ।
दारिद्र्यरोगवार्धकादिदशावैषम्यैर्दूषितम् । असारमेव सारं सारबुद्ध्या
गृहीतम् । किं वृथा पश्यति । यत्पश्यति तत्किन्निमित्तमिति वार्थः ॥ ३७ ॥

राजसूयाश्वमेधाद्यैरिष्ट्वा यज्ञशतैरपि ।
महाकल्पान्तमप्यंशं स्वर्गं प्राप्नोति नाधिकम् ॥ ३८ ॥

ननु यत्र दुःखेन सम्भिन्नम् इत्यादिश्रुत्युक्तलक्षणः स्वर्गः सारभूतः किं
न स्यात्तत्राह - राजसूयेति । महाकल्पान्तं ब्रह्मादिभोग्यमपि स्वर्ग
महाकालदृशा अंशं क्षणभोग्यप्रायमल्पमेव प्राप्नोति
नत्वधिकमपरिच्छिन्नमित्यसार एव स इत्यर्थः ॥ ३८ ॥

कोऽसौ स्वर्गोऽस्ति भूमौ वा पाताले वा प्रदेशकः ।
न यत्राभिभवन्त्येता दुर्भ्रमर्य इवापदः ॥ ३९ ॥

न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति इति श्रुतेः
स्वर्गिणामप्यसुरादिपीडाश्रुतेश्च न दुःखासम्बिन्नत्वमपि तस्य
सम्भवतीत्याशयेनाह - कोऽसाविति ॥ ३९ ॥

निजचेतोबिलव्यालाः शरीरस्थलपल्लवाः ।
आधयो व्याधयश्चैते निवार्यन्ते कथं किल ॥ ४० ॥

किञ्च देहाभिमाने सत्याधिव्याध्योर्दुर्निवारत्वान्न क्वाप्यज्ञस्य
विश्रान्तिरस्तीत्याशयेनाह - निजेति ॥ ४० ॥

सतोऽसत्ता स्थिता मूर्ध्नि मूर्ध्नि रम्येष्वरम्यता ।
सुखेषु मूर्ध्नि दुःखानि किमेकं संश्रयाम्यहम् ॥ ४१ ॥

भङ्गुरत्वदुःखग्रस्तत्वाभ्यां सर्वस्यामङ्गलतामेव प्रपञ्चयति -
सत इत्यादिना । सतः वर्तमानकालदृश्यस्य । असत्ता नाशः ॥ ४१ ॥

जायन्ते च म्रियन्ते च प्राकृताः क्षुद्रजन्तवः ।
धरा तैरेव नीरन्ध्रा दुर्लभाः साधुसाधवः ॥ ४२ ॥

प्राकृताः प्रकृतिस्वाभाविकमज्ञानं तन्मोहिताः । नीरन्ध्रा निबिडितेति
यावत् ॥ ४२ ॥

नीलोत्पलालिनयनाः परमप्रेमभूषणाः ।
हासायैव विलासिन्यः क्षणभङ्गितया स्थिताः ॥ ४३ ॥

हासायैव योग्या इति शेषः ॥ ४३ ॥

येषां निमेषणोन्मेषैर्जगतां प्रलयोदयौ ।
तादृशाः पुरुषाः सन्ति मादृशां गणनैव का ॥ ४४ ॥

ननु राजत्वात्सर्वनियमनसमर्थस्योत्तमपुरुषस्य तव कुतो नाश्वासस्तत्राह

  • येषामिति ॥ ४४ ॥

सन्ति रम्यतराद्रम्याः सुस्थिरादपि सुस्थिराः ।
चिन्तापर्यवसानेयं पदार्थश्रीः किमीहसे ॥ ४५ ॥

चिन्ता अर्जनरक्षणवियोगादिना । चिन्तैव पर्यवसानं फलं
यस्यास्तथाविधेयं पदार्थश्रीरतस्तां किमीहसे इच्छसि ॥ ४५ ॥

सम्पदश्च विचित्रा यास्ताश्चेच्चित्तेन सम्मताः ।
तत्ता अपि महारम्भा हन्त मन्ये महापदः ॥ ४६ ॥

या नानारत्नगजवाजिधनदारादिभेदेन विचित्राः सम्पदस्ताश्चेच्चित्तेन
सम्मता बहुमताः स्युस्तत्तर्हि ता अपि महारम्भा बहुप्रयत्नलभ्या
दुःखरक्ष्या अवश्यापायिन्यश्चेति महापद इत्येव मन्ये इत्यर्थः ॥ ४६ ॥

आपदोऽपि विचित्रा यास्ताश्चेन्मनसि सम्मताः ।
तत्ता अपि महारम्भा मन्ये मनसि सम्पदः ॥ ४७ ॥

एवं या दारिद्र्यबन्धुराज्यादिनाशलक्षणा आपदोपि यदि
साधुसङ्गतीर्थतपःप्रबोधादिप्रापणेन विचित्राः श्रेय एवेति मनसि
सम्मताश्चेत्ता अपि विवेकवैराग्यादिमहारम्भाः सम्पद एव मन्ये इत्यर्थः ॥
४७ ॥

मनोमात्रविवर्तेऽस्मिञ्जगत्यब्धिन्दुभङ्गुरे ।
ममेदमित्यपूर्वेयं कुतस्त्याऽक्षरमालिका ॥ ४८ ॥

तस्मादसत्ये जगति ममताभिवृद्धिरेव विपत् । वेवेकात्तत्परिक्षय एव
सम्पदित्याशयेन जगतो ममतानर्हत्वं दर्शयति - मनोमात्रेति । अब्धौ
प्रतिबिम्बित इन्दुरिव भङ्गुरे भङ्गस्वभावे मिथ्याभूते च । अक्षरमालिका
पदवाक्यात्मिका वर्णपङ्क्तिः कुतस्त्या । निरर्थिकेति यावत् ॥ ४८ ॥

काकतालीययोगेन सम्पन्नायां जगत्स्थितौ ।
धूर्तेन कल्पिता व्यर्थं हेयोपादेयभावना ॥ ४९ ॥

काकतालीययोगेन काकागमनमिव तच्छिरसि तालपतनमिवाविचारमात्रकृतेन
स्वसम्बन्धेन । धूर्तेन भोगलम्पटेन मनसा ॥ ४९ ॥

इयत्ताच्छिन्नतप्तासु सुखनाम्नीषु दृष्टिषु ।
कास्वेतास्वनुरक्तोऽस्मि पतङ्गोऽग्निशिखास्विव ॥ ५० ॥

देशकालवस्तुकृतया इयत्तया आच्छिन्नासु परिच्छिन्नासु
त्रिविधतापग्रस्तत्वात्तप्तासु । दीपाग्निशिखापक्षे स्पष्टम् ॥ ५० ॥

वरमेकान्तदाहेषु लुठनं रौरवाग्निषु ।
नत्वालूनविवर्तासु स्थितं संसारवृत्तिषु ॥ ५१ ॥

निरन्तरदुःखभोगोऽभ्यासात्सह्योऽपि स्यात् सुखभोगविच्छिन्नाभ्यासो
दुःखभोगोऽयं दुःसह एवेत्याशयेनाह - वरमेति । आलूना विच्छिन्नाः
सुखदुःखपरिवर्ता यासु । स्थितं स्थितिः । भावे क्तः ॥ ५१ ॥

संसार एव दुःखानां सीमान्त इति कथ्यते ।
तन्मध्यपतिते देहे सुखमासाद्यते कथम् ॥ ५२ ॥

विषयसुखानां सुखता नास्त्येव किन्तु दुःखविशेषरूपतैवेति
युक्त्योपपादयति - संसार इति ॥ ५२ ॥

अकृत्रिममहादुःखे संसारे ये व्यवस्थिताः ।
त एतेऽन्यानि दुःखानि जानते मधुराण्यलम् ॥ ५३ ॥

कथं तर्हि सुखत्वानुभवस्तत्र युक्तिमाह - अकृत्रिमेति ।
खड्गाघातानुभवात्कशाघातानुभवः सुखमितिवद्दुःखान्येव मधुराणि
सुखानि जानते मन्यन्त इत्यर्थः ॥ ५३ ॥

अहमप्यधमोत्कृष्टकाष्ठलोष्टसमस्थितिः ।
अज्ञैरेवागतः साम्यं परमामृष्टवस्तुभिः ॥ ५४ ॥

श्रुतिस्मृत्यादिप्रमाणकुशलो मेधावी विचारपटुरप्यहं परमत्यन्तमेव
न मृष्टानि न विचारितानि शास्त्रलोकप्रमाणवस्तूनि यैस्तैरज्ञैर्मूर्खैः
साम्यमित्यर्थः ॥ ५४ ॥

सहस्राङ्कुरशाखात्मफलपल्लवशालिनः ।
अस्य संसारवृक्षस्य मनो मूलमहाङ्कुरः ॥ ५५ ॥

इदानीं स्वस्य प्रमाणकुशलतां संसारमूलावधारणेन सफलयति -
सहस्रेति । अङ्कुराः सङ्कल्पाः शाखा देहभुवनादयः । आत्मा
शाखाद्यवयवी विराट् । फलानि सुखदुःखे । पल्लवा रागलोभास्तैः शालिनः
शोभमानस्य ॥ ५५ ॥

सङ्कल्पमेव तन्मन्ये सङ्कल्पोपशमेन तत् ।
शोषयामि यथा शोषमेति संसारपादपः ॥ ५६ ॥

मनसोऽपि रहस्यं स्वेन ज्ञातमेवेत्याह - सङ्कल्पमेवेति ॥ ५६ ॥

आकारमात्ररम्यासु मनोमर्कटवृत्तिषु ।
परिज्ञातास्विहाद्यैव न रमे नाशनीष्वहम् ॥ ५७ ॥

मनोमर्कटस्य वृत्तिषु चापलेषु । अद्यैव अद्यप्रभृति ॥ ५७ ॥

आशापाशशतप्रोताः पातोत्पातोपतापदाः ।
संसारवृत्तयो भुक्ता इदानीं विश्रमाम्यहम् ॥ ५८ ॥

पातोऽधोगतिः । उत्पात ऊर्ध्वगतिः अपकर्षोत्कर्षौ वा । उपतापो दुःखम् ॥ ५८ ॥

हा हतोऽस्मि विनष्टोऽस्मि मृतोऽस्मीति पुनःपुनः ।
शोचितं गतमेवाहमिदानीं नानुरोदिमि ॥ ५९ ॥

इति मया यत्पुनःपुनः प्राक् शोचितं तद्गतमेव । अहमिदानीं नानुरोदिमि न
शोचामीत्यर्थः ॥ ५९ ॥

प्रबुद्धोऽस्मि प्रहृष्टोऽस्मि दृष्टश्चोरोऽयमात्मनः ।
मनो नाम निहन्म्येनं मनसास्मि चिरं हतः ॥ ६० ॥

कुतो नानुशोचसि तत्राह - प्रबुद्धोऽस्मीति । आत्मनः
स्वपारमार्थिकरूपधनस्य चोरोऽपहर्ता । न केवलं चोरत्वादेव निहन्म्यपि तु
वैरित्वादपीत्याह - मनसेति ॥ ६० ॥

एतावन्तमिमं कालं मनोमुक्ताफलं मम ।
अविद्धमासीदधुना विद्धं तु गुणमर्हति ॥ ६१ ॥

अविद्धमलक्षीकृतम् । मुक्ताफलपक्षे अच्छिद्रितम् । गुणं शमदमादिम् ।
मुक्तापक्षे सूत्रम् ॥ ६१ ॥

मनस्तुषारकणिका विवेकार्कातपेन मे ।
चिरप्रवृत्तये नूनमचिराल्लयमेष्यति ॥ ६२ ॥

चिरं अनादिब्रह्मतत्त्वं तत्र प्रवृत्तये प्रतिष्ठार्थम् । तुषारकणिकापक्षे
चिरप्रवृत्तिः सदागतिर्वायुस्तत्प्राप्तये । यदा वा आप उच्छुष्यन्ति
वायुमेवापियन्ति इति श्रुतेरित्यर्थः ॥ ६२ ॥

विविधैः साधुभिः सिद्धैरहं साधु प्रबोधितः ।
आत्मानमनुगच्छामि परमानन्दसाधनम् ॥ ६३ ॥

विविधैरुपदेशैः । सिद्धविशेषणं वा । अनुगतिमात्रेण परमानन्दस्य
स्वस्यैव साधनम् । अभेदेऽप्युपचारात्करणता ॥ ६३ ॥

आत्मानं मणिमेकान्ते लब्ध्वैवालोकयन्सुखम् ।
तिष्ठाम्यस्तमितान्येहः शारदीवाचलेऽम्बुदः ॥ ६४ ॥

अतः परमात्मनिष्ठां कदापि न त्यक्ष्यामीत्याह - आत्मानमिति । अचले
हिमवदादौ ॥ ६४ ॥

अयमहमिदमाततं ममेति
स्फुरितमपास्य बलादसत्यमन्तः ।
रिपुमतिबलिनं मनो निहत्य
प्रशममुपैमि नमोऽस्तु ते विवेक ॥ ६५ ॥

इदानीमुक्तं सङ्क्षिप्योपसंहरन् विवेकगुरुं नमस्यति - अयमिति । अयं
देहोऽहमिति इदं धनराज्यादि ममेति स्फुरितमाततमसत्यरूपं
ज्ञानबलादपास्य समाध्यभ्यासेनातिबलिनं मनोरिपुं निःशेषं हत्वा
सप्तमभूमिकाविश्रान्तिलक्षणं प्रशममुपैमि प्राप्नोमि ॥ ६५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० उपशमप्रकरणे
जनकवितर्को नाम नवमः सर्गः ॥ ९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे जनवितर्को
नाम नवमः सर्गः ॥ ९ ॥