०८

अष्टमः सर्गः ८

श्रीवसिष्ठ उवाच ।

अस्त्यस्तमितसर्वापदुद्यत्सम्पदुदारधीः ।
विदेहानां महीपालो जनको नाम वीर्यवान् ॥ १ ॥

जनकेन वसन्तेऽत्र वने विहरता क्वचित् ।
सिद्धगीताः शुभाः श्लोकाः श्रुता इत्युपवर्ण्यते ॥ १ ॥

विदेहानां जनपदानां महीपालो राजा ॥ १ ॥

कल्पवृक्षोऽर्थिसार्थानां मित्राब्जानां दिवाकरः ।
माधवो बन्धुपुष्पाणां स्त्रीणां मकरकेतनः ॥ २ ॥

अर्थिसार्थानां याचकजनसङ्घानाम् । बन्धुलक्षणानां पुष्पाणां
माधवी वसन्तः ॥ २ ॥

द्विजकैरवशीतांशुर्द्विषत्तिमिरभास्करः ।
सौजन्यरत्नजलधिर्भुवं विष्णुरिवास्थितः ॥ ३ ॥

भुवं विष्णुर्भवानिव आस्थितः पालनार्थमाश्रितः ॥ ३ ॥

प्रफुल्लबाललतिके मञ्जरीपुञ्जपिञ्जरे ।
स कदाचिन्मधौ मत्ते कोकिलालापलासिनि ॥ ४ ॥

प्रफुल्ला बाललतिका यत्र । अनुकम्पायां कन् । मत्ते मत्तवद्विजृम्भमाणे अत
एव कोकिलालापैर्लासिनि नृत्यतीव स्थिते मधौवसन्ते ॥ ४ ॥

ययौ कुसुमिताभोगं सुविलासलताङ्गनम् ।
लीलयोपवनं कान्तं नन्दनं वासवो यथा ॥ ५ ॥

सुविलासा लता एवाङ्गनालता अङ्गनाश्च वा यत्र ॥ ५ ॥

तस्मिन्वरवने हृद्ये केसरोद्दाममारुते ।
दूरस्थानुचरः सानुकुञ्जेषु विचचार ह ॥ ६ ॥

केसरेषूद्दामा रजःसौगन्ध्यमकरन्दकणापहरणसमर्था नतु
पांसुविकिरणादौ । मन्दसुरभिशीता इति यावत् । तथाविधा मारुता यत्र ।
सानुकुञ्जेषु क्रीडाशैलप्रस्थप्ररूढेषु लतागृहेषु ॥ ६ ॥

अथ शुश्राव कस्मिंश्चित्तमालवनगुल्मके ।
सिद्धानामप्रदृश्यानां स्वप्रसङ्गादुदाहृताः ॥ ७ ॥

अप्रदृश्यानामन्तर्हितानाम् । स्वप्रसङ्गात् स्वानुग्रहार्थमिति यावत् ॥ ७ ॥

विविक्तवासिनां नित्यं शैलकन्दरचारिणाम् ।
इमाः कमलपत्राक्ष गीता गीतात्मभावनाः ॥ ८ ॥

श्रुतिस्मृतिपुराणेतिहासैर्गीतमात्मानं श्रवणमात्रेण भावयन्ति यथा
स्वयमेव साक्षाद्भवति तथा कुर्वन्तीति गीतात्मभावनाः । गीताः
स्मार्तोपनिषदः शुश्राव ॥ ८ ॥

सिद्धा ऊचुः ।

द्रष्टृदृश्यसमायोगात्प्रत्ययानन्दनिश्चयः ।
यस्तं स्वमात्मतत्त्वोत्थं निःस्पन्दं समुपास्महे ॥ ९ ॥

द्रष्टुश्चक्षुरादिद्वारा विषयप्रमातुर्दृश्येन स्रक्चन्दनवनितादिविषयेण
समायोगात्सन्निकर्षाज्जाते प्रत्यये विषयाकारबुद्धिवृत्तौ स्वयं प्रथमानो
य आनन्दरूपो निश्चयस्तं तत्स्वभावमेव आत्मतत्त्वपरिशोधनेन उत्थं
निरतिशयभूमात्मनाविर्भूतं स्वमात्मानं निःस्पन्दं
निर्विकल्पसमाधिनिरस्तबाह्यान्तःकरणस्पन्दं यथा स्यात्तथा समुपास्महे
निरन्तरमनुभवामः । अयं भावः - विषयाकारवृत्तौ स्वयं
प्रथमान आनन्दो न विषयकोटौ । जडत्वप्रसङ्गात् । नापि
कर्तृकरणवृत्तिकोटौ । तेषां कारकत्वेन तच्छेषतानुभवविरोधात् ।
तस्मात्साक्षिकोटावेव । साक्ष्येव
ह्यविद्यावरणमन्दीकृतचिदानन्दस्वभावोऽन्यमहङ्कारात्मानं कल्पयित्वा
तच्छेषतामिवापन्नो विषयाकारवृत्त्याविर्भूतं स्वानन्दं तच्छेषतामिव
नयन् न स्वात्मानं निरतिशयानन्दं प्रतिबुद्ध्यते अतस्तमेव
स्वतत्त्वविचारोत्थनिरतिशयानन्दस्वभावं समाहितेन मनसा वयमुपास्महे
एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति
श्रुतेर्ब्रह्मानन्दस्यैवाविद्यया विषयाकारवृत्तिपरिच्छेदेन
विषयानन्दत्वविभावनादिति । अथवा द्रष्टुः पुरुषस्य दृश्यस्य वियदादेश्च
बाह्याध्यात्मिकवैषम्यप्रविलापनेन समे परिशिष्टसन्मात्रस्वभावे
आत्यन्तिकाभेदापत्तिलक्षणादायोगान्मेलनारूढाद्योगादिति व्युत्पत्त्या
निर्विकल्पकसमाधिपरिपाकाद्वा प्रत्ययः प्रत्येयः स्वानुभवादेव
विश्वसनीयो भूमानन्दनिश्चयो यस्तमात्मनस्तत्त्वेन यथार्थरूपेणोत्थं
प्रकटीभूतं स्वं निस्पन्दं समुपास्महे इत्यर्थः । अथवा
द्रष्टुर्बुद्धेर्दृश्यानां विषयाणां
चोपचयापचयजाड्यप्रियाप्रियादिरूपसाम्येन
समादायोगात्सम्बन्धात्तदुभयान्तरालिकस्तदुभयविलक्षणत्वात्प्रत्यय
एवानन्द इति निश्चीयत इत्यानन्दनिश्चयस्तं निस्पन्दं
सक्रियवृत्त्युपाधिनिर्मुक्तमत एवात्मतत्त्वोत्थं
स्वीययथार्थरूपेणाविर्भूतं चिदानन्दैकरसं स्वं प्रत्यगात्मानं
समुपास्मह इत्यर्थः । अथवा य आत्मा अहमिति द्रष्टा इदं ममेति
दृश्यैश्चान्योन्यतादात्म्यसंसर्गाध्यासलक्षणात्समायोगात्प्रतीयते
अनुभूयते शुनकसूकरादिभिरपीति प्रत्ययो विषयानन्द एव पुरुषार्थ इति
निश्चयवान्संसरति । स्वा स्वीया या मा प्रमा
वेदान्तजन्याखण्डाकारवृत्तिस्तया आत्मतत्त्वोत्थं
स्वीयपारमार्थिकरूपेणाविर्भूतं कृत्वा निस्पन्दं निश्चलं समुपास्मह
इत्यर्थः । अथवा यः प्रत्ययः स्वप्रकाश आनन्दैकरसः स्वरूपनिश्चयो
द्रष्टृदृश्यसमायः सन् द्रष्टृदृश्याकारमायासहितो भूत्वा अगात्
स्वरूपप्रच्युतोऽभूत्तमानन्दनिश्चयं चरमसाक्षात्कारवृत्त्यारूढा या
स्वात्मभूतैव मा तया दृष्टृदृश्यमायानिरासेनात्मतत्त्वेनोत्थमित्यादि
प्राग्वत् । अथवा द्रष्टृदृश्यसमाः यः अगादिति च्छेदः । य आत्मा
तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मात्
इत्यादिश्रुत्यनुभवसिद्धात्परमप्रेमास्पदत्वप्रत्ययादानन्दरूपत्वेन
निश्चेतुं योग्योऽपि विवेकविचारादिप्रत्ययाभावाद्द्रष्टृदृश्यसमा
भोक्तृभोग्यप्रायाः संसारदशा अगात् तं यस्तम् । यसु प्रयत्ने क्तः ।
विवेकवैराग्यश्रवणमननादिप्रयत्नैः साक्षात्कृतं स्वेनैव मिमीते
परिच्छिनत्ति हिनस्ति वा सर्व द्रष्टृदृश्यद्वैतजातमिति स्वमं
यदात्मतत्त्वं तद्भावेनोत्थितं निस्पन्दं पुनः
संसारप्रसक्तिशङ्काशून्यं सम्यगुपेत्य सर्वसामीप्यावधि
प्रत्यगात्मतया प्राप्य आस्महे तिष्ठामह इत्यर्थः ॥ ९ ॥

अन्ये ऊचुः ।

द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह ।
दर्शनप्रथमाभासमात्मानं समुपास्महे ॥ १० ॥

तमेवात्मानं निष्कृष्य करतलामलकवद्दर्शयन्त इवान्ये प्राहुः -
द्रष्टृदर्शनेति । द्रष्ट्रादित्रिपुटीत्यागेनावस्थाद्वयनिरासः । वासनया
सहेत्यनेनतु तदुभयबीजवासनासम्भृतसौषुप्ताज्ञानस्यापि निरासः उक्तः ।
दर्शनाच्चक्षुषमानसादिवृत्तेः प्रथमं पूर्वमेव तदुत्पत्तिसाक्षितया
भासमानमित्यनेन पूर्वसिद्धस्त्रिपुटीसाक्षी सर्वानुभवसिद्धो विविच्य
दर्शितः । तमेव सबीजत्रिपुटीत्यागात्तुरीयमात्मानं समुपास्मह इत्यर्थः ॥ १०

अन्ये ऊचुः ।

द्वयोर्मध्यगतं नित्यमस्तिनास्तीति पक्षयोः ।
प्रकाशनं प्रकाश्यानामात्मानं समुपास्महे ॥ ११ ॥

दर्शनप्रथमाभासे साक्षिणि ये अस्तिनास्तीति विप्रतिपद्यन्ते तान्प्रत्यपि
तदुभयपक्षाविरुद्धं साक्षिणं दर्शयन्तोऽन्ये प्राहुः - द्वयोरिति । ये
तावदस्ति दर्शनप्रथमाभासः परन्तु सोऽपि जन्य एव न नित्य इत्याहुस्तेषां
पूर्वपूर्वतदाभासानां स्वप्रकाशत्वे स्वविषयत्वे वा
स्वमात्राभानपरिक्षीणत्वात्पूर्वोत्तरविज्ञानास्पर्शित्वाच्च न
तदुत्पत्त्यादिसाक्षिता निर्वहतीति तत्साक्षी अन्य आवश्यक इति तत्पक्षमध्यगतं
तदविरुद्धं येऽपि नास्तित्याहुस्तेषां नास्तिताया अपि निःसाक्षिकाया
असिद्धेस्तत्पक्षसाधकत्वेन तन्मध्यगतमित्यर्थः । अथवा जगतः अस्तित्वं
आविर्भूतावस्थाकार्यम् । नास्तित्वं तु तिरोभावावस्थाकारणम् । असद्वा इदमग्र
आसीत्ततो वै सदजायत इति श्रुतेः । तयोरुभयोरयौगपद्यात्पक्षयोः
पाक्षिकयोरनुगतसन्मात्ररूपेण मध्यगतमित्यर्थः अथवा अस्तिनास्तीति
पक्षयोः कल्पितविरुद्धकोट्योर्द्वयोरप्यधिष्ठानतया मध्यगतमित्यर्थः ।
अत एव कल्पितानास्तित्वस्याधिष्ठानस्पर्शान्नित्यं प्रकाश्यानां
भावाभावानां प्रकाशकम् ॥ ११ ॥

अन्ये ऊचुः ।

यस्मिन्सर्वं यस्य यतः सर्वं यस्मायिदम् [यस्मा इदम् इति क्वचित्] ।
येन सर्वं यद्धि सर्वं तत्सत्यं समुपास्महे ॥ १२ ॥

यस्मिन्सर्वमिति । यस्मै इदमिति च्छेदः । सप्तमीविभक्तिमारभ्य व्युत्क्रमेण
सर्वा विभक्तयः षण्णां कारकाणां सम्बन्धप्रातिपदिकार्थाभेदस्य च
प्रदर्शनायात्र निर्दिष्टाः । तथाच यद्ब्रह्म सर्वाधारत्वात्सर्वस्वामित्वादेः
सर्वोपादाननिमित्तावधिभावात्सर्वपारार्थ्यसम्प्रदानादिभावनिर्वाहकत्वात्स्
अर्वकर्तृकरणादिभावाच्च मायया सर्वजगद्व्यवहारनिर्वाहकं
सर्वात्मकं च भवति तत्सर्वाधिष्ठानं परमार्थसत्यं प्रत्यगात्मैवेति
बोधेन सम्यगुपेत्य तद्भूता आस्महे इत्यर्थः ॥ १२ ॥

अन्ये ऊचुः ।

अशिरस्कं हकारान्तमशेषाकारसंस्थितम् ।
अजस्रमुच्चरन्तं स्वं तमात्मानमुपास्महे ॥ १३ ॥

अः शिर इव प्रथमो यस्य तमकारादिमित्यर्थः । हकारोऽन्ते यस्य तं
हकारान्तमहम्पदमशेषवस्तुप्रकाशकवेदशास्त्रादिशब्दजालप्रकृतिभू
तानामशेषवर्णानामक्षरसमाम्नाये
अकारहकारान्तरालनिवेशादशेषजगदाकारे सप्रपञ्चे ब्रह्मणि न हन्यते न
हीयते इति व्युत्पत्त्या अह व्याप्ताविति धातुनिष्पत्त्या च न शिष्यते आकारो
यस्मिन्नित्यशेषाकारे निर्गुणे च संस्थितं तात्पर्यनिष्ठां प्राप्तमजस्रं
क्रियमाणेषु स्वव्यवहारेषु उच्चरन्तं अहङ्कारोपाधिनिरासेन तं
वर्णिताहम्पदार्थं आत्मा वा इदमेक एवाग्र आसीत्
इत्यादिश्रुतिप्रसिद्धब्रह्मात्मानमुपास्महे निरन्तरं भावयाम इत्यर्थः ।
अथवा अशेषवस्त्वाकारसंस्थितं लवरयंहं इति हकारान्तं
पञ्चबीजप्रतिपाद्यपञ्चमहाभूतात्मकं जगत् अशिरस्कं
शिरोभूतमूलाज्ञानरहितं कर्तुमिव अस्त्यस्यति वा मायान्तं जगदिति
व्युत्पत्त्याऽस्मच्छब्दनिष्पन्नमकारशिरस्कहकारान्तमहम्पदमजस्रमुच्चर
न्तम् । युष्यसिभ्यां मदिक् इत्यस्तेरस्यतेर्वास्मच्छब्दव्युत्पादनादित्यर्थः ।
अथवा अशेषजगदाकारसंस्थितं निष्प्रमाणकत्वेन
निर्मूलत्वाच्छ्रुतिशिरोबाह्यत्वाचाशिरस्कं हकारान्तं सोऽहं
परमार्थासङ्गचिदेकरसत्वादजस्रमुच्चरन्तं उदस्य चरन्तमुद्धृत्य
भक्षयन्तं वा स्वं प्रत्यग्रूपमात्मानमुपास्महे इत्यर्थः । सङ्ग्रहे तु
सशिरस्कं हकारादिमिति पाठः । तस्य च सुरनरतिर्यगाद्यशेषशरीराकारेषु
संस्थितं सशिरस्कं हकारादि हम्स इति मन्त्रमजपागायत्रीरूपेण
षट्शताधिकैकविंशतिसहस्रसङ्ख्यया अजस्रं प्रत्यहं
श्वासोच्छ्वासच्छलेनोच्चरन्तमित्यर्थः । उदश्चरः सकर्मकात्
इत्यात्मनेपदविषये लटः शत्रादेशश्छान्दसः । अथवा
पूर्वरूपेणापहारान्न शिष्यते अकारो यत्र तदशेषाकारं सो इति पदं तत्र
संस्थितं अत एव अशिरस्कं शिरोभूतप्रथमवर्णरहितं हकारान्तं
हकारमात्रावशेषं अहम्पदं सोहम्मन्त्रमिति यावत् ।
अजस्रमुच्चरन्तमित्यादि प्राग्वत् ॥ १३ ॥

अन्ये ऊचुः ।

सन्त्यज्य हृद्गुहेशानं देवमन्यं प्रयान्ति ये ।
ते रत्नमभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभाः ॥ १४ ॥

हृद्गुहेशानं अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये
सन्निविष्टः । अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ईशानो
भूतभव्यस्य स एवाद्य स उश्वः इत्यादिश्रुतिप्रसिद्धमिति भावः ॥ १४ ॥

अन्ये ऊचुः ।

सर्वाशाः किल सन्त्यज्य फलमेतदवाप्यते ।
येनाशाविषवल्लीनां मूलमाला विलूयते ॥ १५ ॥

अन्ये तत्प्राप्तौ वैराग्यमेव मुख्यं साधनमित्याहुः - सर्वाशा इति । एतत्
हृदयस्थं ज्ञानफलं ब्रह्म अवाप्यते लभ्यते । येन तल्लाभेन
मूलमालावासनाजालजटिलहृदयग्रन्थिः । रसोऽप्यस्य परं दृष्ट्वा निवर्तते
इति भगवद्वचनादिति भावः ॥ १५ ॥

अन्ये ऊचुः ।

बुद्ध्वाप्यत्यन्तवैरस्यं यः पदार्थेषु दुर्मतिः ।
बध्नाति भावनां भूयो नरो नासौ स गर्दभः ॥ १६ ॥

पदार्थेषु भोग्यविषयेषु । भावनां भोगतृष्णाम् ॥ १६ ॥

अन्ये ऊचुः ।

उत्थितानुत्थितानेतानिन्द्रियाहीन्पुनः पुनः ।
हन्याद्विवेकदण्डेन वज्रेणेव हरिर्गिरीन् ॥ १७ ॥

अन्ये इन्द्रियनिग्रह एव मुख्यं साधनमित्याशयेनाहुः - उत्थितानिति ।
हरिरिन्द्रः । तथाच ब्रह्मवैवर्ते एकमेकं कालकूटमिन्द्रियं
नाशकृत्पुनः । तदेव शोधितं साक्षाद्विषमप्यमृतं यथा इति । तथाच
भारतेऽपि - इन्द्रियाण्येव तत्सर्व यत्स्वर्गनरकावुभौ ।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ १७ ॥

अन्ये ऊचुः ।

उपशमसुखमाहरेत्पवित्रं
सुशमवतः शममेति साधुचेतः ।
प्रशमितमनसः स्वके स्वरूपे
भवति सुखे स्थितिरुत्तमा चिराय ॥ १८ ॥

अन्ये तु उपशम एव मुख्यं साधनमितरत्सर्वं
तदर्थमित्याशयेनोपसंहरन्ति - उपशमेति । उपशमो
बाह्याभ्यन्तरेन्द्रियव्यापारोपरमस्तेन
विक्षेपदुःखोपशमवदाविर्भूतमात्मसुखमाहरेत्सम्पादयेत् । तद्धि न
विषयसुखवद्दोषहेतुः किन्तु चित्तप्रसादहेतुत्वात्पवित्रम् । शमवशतो
निरिन्धनाग्निवच्चेतः शममुपक्षयं प्रयाति । एवं प्रशमितमनसः सुखे
निरतिशयानन्दे स्वके स्वीये परमार्थस्वरूपे स्थितिर्भूमिका
परम्परारोहणक्रमेणोत्तमा सप्तमभूमिकाप्रतिष्ठालक्षणा चिराय
विदेहकैवल्यावधि भवतीत्यर्थः ॥ १८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे सिद्धगीतानामाष्टमः सर्गः ॥ ८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
सिद्धगीतानामाष्टमः सर्गः ॥ ८ ॥