सप्तमः सर्गः ७
श्रीवसिष्ठ उवाच ।
एष तावत्क्रमः प्रोक्तः सामान्यः सर्वदेहिनाम् ।
इममन्यं विशेषं त्वं शृणु राजीवलोचन ॥ १ ॥
इह स्वेन विचारेण किञ्चिद्व्युत्पन्नचेतसः ।
वर्ण्यते ज्ञानसम्प्राप्तिप्रकाशफलपातवत् ॥ १ ॥
उक्तं सामान्यक्रममनूद्य कस्यचिद्भाग्यवतो विनैव तं दैवोपनीतेन
स्वविचारमात्रेणैव सहसा सर्वगुणसम्पत्सहितज्ञानोदयलक्षणं विशेषं
दर्शयति - एष इत्यादिना ॥ १ ॥
अस्मिन्संसारसंरम्भे जातानां देहधारिणाम् ।
अपवर्गक्षमौ राम द्वाविमावुत्तमौ क्रमौ ॥ २ ॥
अपवर्गक्षमौ मोक्षफलोपहितौ । इमौ उक्तवक्ष्यमाणौ ॥ २ ॥
एकस्तावद्गुरुप्रोक्तादनुष्ठानाच्छनैः शनैः ।
जन्मना जन्मभिर्वापि सिद्धिदः समुदाहृतः ॥ ३ ॥
एकेन जन्मना बहुभिर्वा जन्मभिः सिद्धिदो मोक्षप्रापकः समुदाहृतः ।
प्रागुक्त इत्यर्थः ॥ ३ ॥
द्वितीयस्त्वात्मनैवाशु किञ्चिद्व्युत्पन्नचेतसा ।
भवति ज्ञानसम्प्राप्तिराकाशफलपातवत् ॥ ४ ॥
आत्मना स्वेनैव दैवोपनीतजीवजगत्तत्त्वविचारवता
ज्ञानसम्प्राप्तिर्भवतीत्यर्थः ॥ ४ ॥
नभःफलनिपाताभज्ञानसम्प्रतिपत्तये ।
तत्रेमं शृणु वृत्तान्तं प्राक्तनं कथयामि ते ॥ ५ ॥
द्वितीये क्रमे जनकाख्यायिकामुदाहरिष्यन्भूमिकां रचयति - नभःफलेति
॥ ५ ॥
शृणु सुभग कथां महानुभावा
व्यपगतपूर्वशुभाशुभार्गलौघाः ।
खपतितफलवत्परं विवेकं
चरमभवा विमलं समश्नुवन्ति ॥ ६ ॥
हे सुभग चरमभवाश्चरमजन्मानो महानुभावाः पुरुषाः परं विवेकं
यथा खपतितफलवत्समश्नुवन्ति तथा वक्ष्यमाणां कथां
शृण्वित्यर्थः ॥ ६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मोक्षोपायेषूपशमप्रकरणे
आकाशफलप्राप्तिवज्ज्ञानसम्प्राप्तिक्रमसूचनं नाम सप्तमः सर्गः
॥ ७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
आकाशफलप्राप्तिवज्ज्ञानसम्प्राप्तिक्रमसूचनं नाम सप्तमः सर्गः ॥ ७ ॥