षष्ठः सर्गः ६
श्रीवसिष्ठ उवाच ।
इमं विश्वपरिस्पन्दं करोमीत्यस्तवासनम् ।
प्रवर्तते यः कार्येषु स मुक्त इति मे मतिः ॥ १ ॥
इह कर्मगतीः पूर्वमुक्त्वा चरमजन्मनाम् ।
जीवन्मुक्त्यै गुणावाप्तौ सामान्यक्रम ईर्यते ॥ १ ॥
गुणार्जनक्रमस्य वक्ष्यमाणस्य प्रकृतसम्बन्धं दर्शयितुं प्रस्तुतं
निरासङ्गविहिताप्रतिषिद्धकार्यप्रवृत्त्या जीवन्मुक्तं लक्षयति - इममिति ।
विश्वं कृत्स्नं परिस्पन्दं
श्रुतिस्मृतिसदाचारप्राप्तव्यवहारमयस्कान्तवत्सन्निधिमात्रेण
करोमीत्यस्तवासनं प्रवर्तते नत्वज्ञ इव कर्तृत्वाभिनिवेशेनेत्यर्थः ॥ १ ॥
पौरुषीं तनुमाश्रित्य केचिदेतत्क्रियारताः ।
स्वर्गान्नरकमायान्ति स्वर्गं च नरकात्पुनः ॥ २ ॥
कर्मफलासङ्गादेवाज्ञानामनर्थप्राप्तिरिति दर्शयति - पौरुषीमिति ।
पौरुषीं मानुषीं तनुं देहमाश्रित्य प्राप्यापि केचिन्मूढा एतस्यां
निरासङ्गकर्मानुष्ठानलक्षणायां क्रियायामरताः कामात्मानः
काम्यकर्मभिः स्वर्ग भुक्त्वा ततः कतिपयकर्मानुशयावशेषेण
[कपूय इति पाठः] नरकमायान्ति ॥ २ ॥
केचित्त्वकर्मणि रता विरता अपि कर्मणः ।
नरकान्नरकं यान्ति दुःखाद्दुःखं भयाद्भयम् ॥ ३ ॥
अकर्मणि निषिद्धकर्मणि रताः । कर्मणः सत्कर्मणो विरताः । तथाच स्मृतिः
- विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः
पतनमृच्छति ॥ इति ॥ ३ ॥
केचित्स्ववासनातन्तुबद्धाः कर्मफलोदिताः ।
तिर्यक्त्वात्स्थावरतनुं यान्ति तिर्यक्तनुं ततः ॥ ४ ॥
नरकोपभुक्तदुष्कर्मफलक्रमेण तिर्यग्योनिषु उदिता जाताः ॥ ४ ॥
केचिदात्मविदो धन्या विचारितमनोदृशः ।
विच्छिन्नतृष्णानिगडा यान्ति निष्केवलं पदम् ॥ ५ ॥
राजसतामसान् शुद्धतामसांश्चोक्त्वा शुद्धसात्त्विकजीवानाह - केचिदिति ।
विचारितो मनोदृक् मनःसाक्ष्यात्मा यैस्ते निष्केवलं परमकैवल्यरूपं
पदम् ॥ ५ ॥
पुरा कतिपयान्येव भुक्त्वा जन्मानि राघव ।
अस्मिञ्जन्मनि यो मुक्तस्तस्माद्राजससात्त्विकः [तस्माद्राजस इत्यत्र स
स्याद्राजस इति पाठो युक्तः] ॥ ६ ॥
राजससात्त्विकान्दर्शयति - पुरेति । कतिपयान्युत्तरोत्तरोत्कृष्टानि
मानुषजन्मानि ॥ ६ ॥
जातोऽसौ वृद्धिमभ्येति पार्वणश्चन्द्रमा इव ।
कुटजं प्रावृषीवैनं सौभाग्यमनुगच्छति ॥ ७ ॥
तस्य शान्त्यादिगुणैरभिवृद्धिमाह - जात इत्यादिना । सौभाग्यं
साधनचतुष्टयम् । कुटजपक्षे पुष्पश्रीः ॥ ७ ॥
यस्येदं जन्म पाश्चात्यं तमाश्वेव महामते ।
विशन्ति विद्या विमला मुक्ता वेणुमिवोत्तमम् ॥ ८ ॥
विद्या ब्रह्मविद्योपायसर्वविद्याः । वेणुमिवेति वेणुविशेषस्यापि
मुक्ताकरत्वप्रसिद्धेः ॥ ८ ॥
आर्यता हृद्यता मैत्री सौम्यता करुणा ज्ञता ।
समाश्रयन्ति तं नित्यमन्तःपुरमिवाङ्गनाः ॥ ९ ॥
ज्ञता परोक्षप्रायं ज्ञानम् ॥ ९ ॥
यः कुर्वन्सर्वकार्याणि पुष्टे नष्टेऽथ तत्फले ।
समः सन्सर्वकार्येषु न तुष्यति न शोचति ॥ १० ॥
तस्योपक्रमोक्तजीवन्मुक्तलक्षणोपक्रममाह - य इति । पुष्टे प्रवृद्धे ॥
१० ॥
तमांसीव दिवा यान्ति तत्र द्वन्द्वानि सङ्क्षयम् ।
शरदीव घनास्तत्र गुणा गच्छन्ति शुद्धताम् ॥ ११ ॥
द्वन्द्वानि सुखदुःखादीनि । प्राङ्मलिना अपि धृतिश्रद्धाह्रीप्रभृतयो
गुणाः ॥ ११ ॥
पेशलाचारमधुरं सर्वे वाञ्छन्ति तं जनाः ।
वेणुं मधुरनिध्वानं वने वनमृगा इव ॥ १२ ॥
वेणुं कीचकम् । मारुतपूर्णरन्ध्रत्वेन मधुरनिध्वानम् ॥ १२ ॥
नरं पाश्चात्यजन्मानमेवम्प्राया गुणश्रियः ।
जातमेवानुधावन्ति बलाका इव वारिदम् ॥ १३ ॥
जातमेवेति बाल्यात्प्रभृत्येवेति यावत् ॥ १३ ॥
ततोऽसौ गुणसम्पूर्णो गुरुमेवानुगच्छति ।
स तमेवं विवेके वै नियोजयति पावने ॥ १४ ॥
एवङ्गुणसम्पत्तौ गुरुमुखाच्छ्रवणाधिकारो नापक्वचित्तानामित्याशयेनाह
- तत इति । एवं प्राङ्मदुक्तप्रकारे आत्मानात्मतत्त्वविवेके उपायानुपदिश्य
स्वबुद्ध्यापि कार्ये मनने नियोजयती त्यर्थः ॥ १४ ॥
विचारवैराग्यवता चेतसा गुणशालिना ।
देवं पश्यत्यथात्मानमेकरूपमनामयम् ॥ १५ ॥
एवङ्गुणसम्पन्नस्यैव गुरुपूर्वकश्रवणादिना साक्षात्कारलाभं दर्शयति
- विचारेति । एकरूपमानन्दैकरसम् ॥ १५ ॥
तनोत्ययं विचारेण चारुणा शान्तचेतसा ।
प्रबोधनाय प्रथमं मनोमननमान्तरम् ॥ १६ ॥
नियोजयतीत्यत्र सूचितं मननं विवृणोति - तनोतीति ॥ १६ ॥
ये हि पाश्चात्यजन्मानस्ते हि सुप्तं मनोमृगम् ।
प्रबोधयन्ति प्रथमं गुणहीनं महागुणाः ॥ १७ ॥
गुणहीनं निर्गुणं ब्रह्मैव यथा भवति तथा प्रबोधयन्तीत्यर्थः ॥ १७ ॥
प्रथितगुणान्सुगुरून्निषेव्य यत्ना-
दमलधिया प्रविचार्य चित्तरत्नम् ।
गतिममलामुपयान्ति मानवास्ते
परमवलोक्य चिरं प्रकाशमन्तः ॥ १८ ॥
उक्तमर्थ सङ्क्षिप्योपसंहरति - प्रथितेति । ते
उक्तगुणसम्पन्नाश्चरमजन्मानो मानवाः प्रथितगुणान्
प्रख्यातजीवन्मुक्तलक्षणगुणान् सुगुरून् यत्नान्निषेव्य
तद्दर्शितयुक्तिभिरमलधिया चित्तान्तर्गतं रत्नं प्रत्यगात्मानं प्रविचार्य
रत्नपरीक्षावन्मननेन परीक्ष्य चित्तान्तःप्रकाशं परं प्रत्यगभिन्नं
ब्रह्म चिरमवलोक्य साक्षादनुभूय तत्साक्षात्कारमात्रेण
तद्भावलाभलक्षणाममलां मायातत्कार्यसर्वमलनिर्मुक्तां
परमपुरुषार्थलक्षणां गतिमुप समीपे स्वस्थान एव यान्ति लभन्ते
नोपासकवदुत्क्रम्य लोकान्तरं गत्वेत्यर्थः ॥ १८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये
मोक्षोपायेषूपशमप्रकरणे प्रथमोपदेशो नाम षष्ठः सर्गः ॥ ६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
प्रथमोपदेशो नाम षष्ठः सर्गः ॥ ६ ॥