पञ्चमः सर्गः ५
श्रीवसिष्ठ उवाच ।
इदमुत्तमसिद्धान्तसुन्दरं सुन्दराकृते ।
उपशान्तिप्रकरणं शृणुष्वावहितो हितम् ॥ १ ॥
अविवेकप्रवृद्धाया मनोमात्रजगत्स्थितेः ।
इहोपशमनोपायक्रमः सम्यगुदीर्यते ॥ १ ॥
अवहितः सावधानचित्तः ॥ १ ॥
दीर्घसंसारमायेयं राम राजसतामसैः ।
धार्यते जन्तुभिर्नित्यं सुस्तम्भैरिव मण्डपः ॥ २ ॥
प्रागुक्तमनूद्य प्रस्तुतेन सङ्गमयति - दीर्घेति । राजसतामसैः
प्रागुक्तजीवैर्धार्यते । पुरुषो वा अक्षितिः सहीदमन्नं धियाधिया जनयते
कर्मभिः इत्यादिश्रुतेरिति भावः ॥ २ ॥
सत्त्वस्थजातिभिर्धीरैस्त्वादृशैर्गुणबृंहितैः ।
हेलया त्यज्यते पक्वा [तुच्छे इति पाठः] मायेयं त्वगिवोरगैः ॥ ३
॥
प्रागुक्तलक्षणैः सत्त्वस्थजातिभिः राजससात्त्विकैः शुद्धसात्त्विकैश्च ॥ ३ ॥
ये सत्त्वजातयः प्राज्ञास्तथा राजससात्त्विकाः ।
विचारयन्ति ते साधो जगत्पूर्वपरम्पराम् ॥ ४ ॥
केनोपायेन त्यज्यते तमाह - ये इति । पूर्वपरम्परां मूलपरम्परां
अन्नेन सोम्य शुङ्गेनापोमूलमन्विच्छ इत्यादिश्रुतिदर्शिताम् ॥ ४ ॥
शास्त्रसज्जनसत्कार्यसङ्गेनोपहतैनसाम् ।
सारावलोकिनी बुद्धीर्जायते दीपिकोपमा ॥ ५ ॥
सत्कार्याणि यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् इति भगवदुक्तानि ॥ ५ ॥
स्वयमेव विचारेण विचार्यात्मानमात्मना ।
यावन्नाधिगतं ज्ञेयं न तावदधिगम्यते ॥ ६ ॥
स्वयमेवेति । उद्धरेदात्मनात्मानं इति न्यायादिति भावः । नाधिगतं न
ज्ञातम् । अधिगम्यते प्राप्यते ॥ ६ ॥
प्रज्ञावतां नयवतां धीराणां कुलशालिनाम् ।
जात्या राजससत्त्वानां मुख्यस्त्वं रघुनन्दन ॥ ७ ॥
त्वयि तु तत्प्राप्तियोग्यतास्त्येवेत्याह - प्रज्ञावतामिति । नयवतां
प्रमाणकुशलानाम् ॥ ७ ॥
स्वयमालोकय प्राज्ञ संसारारम्भदृष्टिषु ।
किं सत्यं किमसत्यं वा भव सत्यपरायणः ॥ ८ ॥
आलोकय विचारेण पश्य ॥ ८ ॥
आदावन्ते च यन्नासि कीदृशी तस्य सत्यता ।
आदावन्ते च यन्नित्यं तत्सत्यं नाम नेतरत् ॥ ९ ॥
अस्तीति सत् सदेव सत्यमसत्ताविरुद्धस्वभावं तद्विरुद्धं नास्तिस्वभावं
कथं सम्भवेत् । स्वभावविपर्यासायोगादिति भावः । नित्यं
नियतसत्स्वभावम् ॥ ९ ॥
आद्यन्तासन्मये यस्य वस्तुन्यासज्जते मनः ।
तस्य मुग्धपशोर्जन्तोर्विवेकः केन जन्यते ॥ १० ॥
आसज्जते सत्यबुद्ध्या रज्यते ॥ १० ॥
जायते मन एवेह मन एव विवर्धते ।
सम्यग्दर्शनदृष्ट्या तु मन एव हि मुच्यते ॥ ११ ॥
मनोरथरचितप्रासादवन्मनोमात्रकार्यत्वादपि न सत्यताप्रसक्तिर्जगत
इत्याशयेनाह - जायत इति ॥ ११ ॥
श्रीराम उवाच ।
ज्ञातमेतन्मया ब्रह्मन्यथास्मिन्भुवनत्रये ।
मन एव हि संसारिजरामरणभाजनम् ॥ १२ ॥
प्रश्नः स्पष्टः ॥ १२ ॥
यस्तस्योत्तरणोपायस्तन्मे ब्रूहि सुनिश्चितम् ।
हार्दं तमस्त्वयार्केण राघवाणां विनाश्यते ॥ १३ ॥
श्रीवसिष्ठ उवाच ।
पूर्वं राघव शास्त्रेण वैराग्येण परेण च ।
तथा सज्जनसङ्गेन नीयतां पुण्यतां मनः ॥ १४ ॥
प्रथमं शास्त्रसज्जनसङ्गाभ्यां वैराग्यादिसाधनचतुष्टयं
सम्पाद्यमित्याह - पूर्वमिति । पुण्यतां ज्ञानोदययोग्यतापादिकां
विशुद्धिम् ॥ १४ ॥
सौजन्योपहितं चेतो यदा वैराग्यमागतम् ।
तदानुगम्या गुरवो विज्ञानगुरवोऽपि ये ॥ १५ ॥
सौजन्यं निरभिमानिता । ये गुरवो विज्ञानेन सर्वशास्त्ररहस्यज्ञानेन गुरवो
गरीयांसोऽपि शब्दादुपदेशकौशलेन शिष्यबोधनसमर्थाश्च भवन्ति ते
विधिना अनुगम्याः ॥ १५ ॥
ततस्तस्योपदिष्टेन कृत्वा ध्यानार्चनादिकम् ।
क्रमेण पदमाप्नोति तद्यत्परमपावनम् ॥ १६ ॥
उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् इत्यादिश्रुतेः
प्रथमं गुरूपदिष्टमार्गेण सगुणेश्वरध्यानार्चनादिकं कृत्वा
तदनुग्रहाद्वक्ष्यमाणविचारादिकमेणेत्यर्थः ॥ १६ ॥
विचारेणावदातेन पश्यत्यात्मानमात्मना ।
इन्दुना शीतलेनान्तर्विश्वं खमिव तेजसा ॥ १७ ॥
विश्वं कृत्स्नं खमिन्दुना तेजसा पूर्णमिव ॥ १७ ॥
तावद्भवमहाम्भोधौ जनस्तृणवदुह्यते ।
विचारतटविश्रान्तिमेति यावन्न चेतसा ॥ १८ ॥
चेतसा बुद्धिप्लवेन विचारलक्षणे तटे यावद्विश्रान्तिं स्थैर्य नैति ॥ १८ ॥
विचारेण परिज्ञातवस्तुनोऽस्य जनस्य धीः ।
सर्वानध्ःकरोत्याधीन्सौम्याम्भ इव वालुकाः ॥ १९ ॥
आधीन् मानसदुःखानि । अधःकरोति निरस्यतीति यावत् । सौम्यं निम्नप्रसन्नम् ॥
१९ ॥
इदं रुक्ममिदं भस्म परिज्ञातमिति स्फुटम् ।
न यथा हेमकारस्य हेमज्ञानात्मनस्तथा ॥ २० ॥
भस्मनि गूढं हेम अन्यैर्विवेक्तुमशक्यमपि यथा हेमज्ञनात्मनः सदा
हेमपरिशोधनेन तद्विवेककुशलात्मनो हेमकारस्य इदं रुक्ममिदं
भस्मेति स्फुटं परिज्ञातमिति न तदलाभमोहस्यावसरस्तथा
अयमज्ञदृशा प्रसिद्धो मनागात्मा परिच्छिन्नजीवश्चिरं विचारेण विविच्य
स्वात्मनि अवगते सति अक्षयः कालादिपरिच्छेदशून्यः स्वत एव स्फुटं
भवतीति कुतो मोहस्यावसर इति परेणान्वयः ॥ २० ॥
अक्षयोऽयं मनागात्मा स्वात्मन्यवगते चिरम् ।
भवतीति नरस्येह मोहस्यावसरः कुतः ॥ २१ ॥
अपरिज्ञातसारे हि मनोऽन्तर्यदि मुह्यते ।
ज्ञातसारे त्वसन्दिग्धमसती किल मूढता ॥ २२ ॥
अपरिज्ञातसारे पुरुषे । यदि मुह्यति तर्हि मुह्यतां नामेति शेषः । असती
असम्भावितैव किलेत्यर्थः ॥ २२ ॥
हे जना अपरिज्ञात आत्मा वो दुःखसिद्धये ।
परिज्ञातस्त्वनन्ताय सुखायोपशमाय च ॥ २३ ॥
इदानीमनुक्रोशात्सर्वश्रोतृजनान्प्रत्याह - हे जना इति । यदा ह्येवैष
एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति तत्त्वेव भयं
विदुषोऽमन्वानस्य इत्यादिश्रुतेरिति भावः । परिज्ञातस्त्विति । रस ह्येवायं
लब्ध्वानन्दी भवति । सर्वान्कामानाप्त्वाऽमृतः समभवत् । ज्ञात्वा तं
मृत्युमत्येति । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन इत्यादिश्रुतेरिति
भावः ॥ २३ ॥
मिश्रीभूतमिवानेन देहेनोपहतात्मना ।
व्यक्तीकृत्य स्वमात्मानं स्वस्था भवत मा चिरम् ॥ २४ ॥
व्यक्तीकृत्य पञ्चकोशविवेकेन दृष्ट्वा ॥ २४ ॥
देहेनास्य न सम्बन्धो मनागेवामलात्मनः ।
हेम्नः पङ्कलवेनेव तद्गतस्यापि मानवाः ॥ २५ ॥
व्यक्तीकरणमेव स्फुटयति - देहेनेत्यादिना । अप्यर्थे एवकारः ॥ २५ ॥
पृथगात्मा पृथग्देही जलपद्मलवोपमौ ।
ऊर्ध्ववाहुर्विरौम्येष न च कश्चिच्छृणोति मे ॥ २६ ॥
आत्मा ब्रह्म देही जीवश्च यथा पद्माधारमहाजलं
पद्मपत्रनिविष्टजललवश्चोपाधित एव पृथङ्न वस्तुतस्तद्वदित्यर्थः । ननु
महाजलस्य पद्मपत्रारोहपरिच्छेदादौ वाय्वादिनिमित्तं प्रसिद्धम् ।
पूर्णात्मनः परिच्छेदेन देहारोहणे किं निमित्तमिति चेदसकृदुद्घोषितं
पापिष्ठं मन एव । अतस्तन्नाशायैव यत्नः कार्य
इत्याशयेनानुक्रोशादाक्रोशति - ऊर्ध्वबाहुरित्यादिना ॥ २६ ॥
जडधर्मि मनो यावद्गर्तकच्छपवत्स्थितम् ।
भोगमार्गवदामूढं विस्मृतात्मविचारणम् ॥ २७ ॥
दुर्वासनापङ्कगर्ते कच्छपवन्निलीनं कठोरं च भोगप्राप्तौ
मार्गवद्द्वारभूतैरिन्द्रियैर्विषयेष्वामूढं मनो यावत्स्थितं
तावत्संसारतिमिरं सेन्दुना सवह्निना
अपिशब्दान्नक्षत्रमण्यादिसर्वतेजःसहितेन अर्कद्वादशकेनापि मनाक् ईषदपि
न भिद्यते इति परेण सहान्वयः ॥ २७ ॥
तावत्संसारतिमिरं सेन्दुनापि सवह्निना ।
अर्कद्वादशकेनापि मनागपि न भिद्यते ॥ २८ ॥
सम्प्रबुद्धे हि मनसि स्वां विवेचयति स्थितिम् ।
नैशमर्कोदय इव तमो हार्दं पलायते ॥ २९ ॥
स्वां पारमार्थिकीं स्थितिं विवेचयति अनृताद्विविच्य पश्यति सति ॥ २९ ॥
नित्यमुत्तमबोधाय योगशय्यागतं मनः ।
बोधयेद्भवभेदाय भवो ह्यत्यन्तदुःखदः ॥ ३० ॥
योगो देहादितादात्म्याध्यासस्तल्लक्षणायां शय्यायां गतं सुप्तं
समाधिविश्रान्तिं कृत्वेति वा ॥ ३० ॥
यथा रजोभिर्गगनं यथा कमलमम्बुभिः ।
न लिप्यते हि संश्लिष्टैर्देहैरात्मा तथैव च ॥ ३१ ॥
कथं बोधयेत्तदाह - यथेति ॥ ३१ ॥
कर्दमादि यथा हेम्ना श्लिष्टिमेति पृथक्स्थितम् ।
नान्तःपरिणतिं याति जडो देहस्तथात्मना ॥ ३२ ॥
हेमतादात्म्यापत्तिलक्षणां परिणतिमन्तर्वस्तुतो न याति ॥ ३२ ॥
सुखदुःखानुभावित्वमात्मनीत्यवबुध्यते ।
असत्यमेव गगने बिन्दुताम्लानते यथा ॥ ३३ ॥
अनुभावित्वमनुसारित्वमनुभवितृत्वं च इत्यवबुध्यते मूढ इति शेषः ।
बिन्दुता तद्यथावटरकाणि सम्पतन्तीव दृश्यन्ते इति श्रुत्यनुभवसिद्धा
बिन्दुसहस्राकारता । म्लानता मालिन्यम् ॥ ३३ ॥
सुखदुःखे न देहस्य सर्वातीतस्य नात्मनः ।
एते ह्यज्ञानकस्यैव तस्मिन्नष्टे न कस्यचित् ॥ ३४ ॥
यदि नात्मनः सुखदुःखे तर्हि किं देहस्य नेत्याह - सुखदुःखे इति । तर्हि
कस्य तत्राह - एते इति । अज्ञानमेवाज्ञानकं तस्यैव ॥ ३४ ॥
न कस्यचित्सुखं किञ्चिद्दुःखं च नच कस्यचित् ।
सर्वमात्ममयं शान्तमनन्तं पश्य राघव ॥ ३५ ॥
आत्ममयमात्मविवर्तम् । शान्तं नित्यप्रशान्तम् ॥ ३५ ॥
इमा याः परिदृश्यन्ते वितताः सृष्टिदृष्टयः ।
पयसीव तरङ्गास्ते पिच्छं व्योम्नीव चात्मनि ॥ ३६ ॥
विवर्ततां दृष्टान्तेन दर्शयति - इमा इति । व्योम्नि पिच्छं
अर्धनिमीलिताक्षस्य सूर्याभिमुखं शयानस्य भ्रान्त्या प्रसिद्धम् ॥ ३६ ॥
यथा मणिर्ददात्यात्मच्छायाः स्वयमकारणम् ।
तेजोमयीस्तथैवायमात्मा सृष्टीः प्रयच्छति ॥ ३७ ॥
तेजोमयीरात्मच्छायाः स्वकान्तीर्ददाति प्रसारयति । अकारणमक्रियाव्यापृत इति
यावत् । प्रयच्छति प्रसारयति ॥ ३७ ॥
आत्मा जगच्च सुमते नैकं न द्वैतमप्यसत् ।
आभासमात्रमेवेदमित्थं सम्प्रति जृम्भते ॥ ३८ ॥
नैकं नाद्वयम् न द्वैतं न नानापि यतो जगद्रूपमसत् । नह्यसता सतोऽभेदो
भेदो वा निरूपयितुं शक्यत इत्यर्थः । सम्प्रत्यज्ञानकाले ॥ ३८ ॥
समस्तं खल्विदं ब्रह्म सर्वमात्मैवमाततम् ।
अहमन्यदिदं चान्यदिति भ्रान्तिं त्यजानघ ॥ ३९ ॥
परमार्थतस्तु भ्रान्तेरपि पृथग्दुर्निरूपत्वात् ब्रह्मैवेदं
सर्वमात्मैवेदं सर्वम् इति श्रुत्युक्तदृशा ब्रह्मैव सर्वमित्याह -
समस्तमिति ॥ ३९ ॥
तते ब्रह्मघने नित्ये सम्भवन्ति न कल्पनाः ।
विच्छित्तयः पयोराशौ यथा राम न सन्मयाः ॥ ४० ॥
तते दैशिकपरिच्छेदरहिते । ब्रह्मघने वस्तुकृतपरिच्छेदरहिते । नित्ये
कालिकपरिच्छेदशून्ये ॥ ४० ॥
एकसिन्नेव सर्वस्मिन्परमात्मनि वस्तुनि ।
द्वितीया कल्पना नास्ति वह्नौ हिमकणो यथा ॥ ४१ ॥
वास्तवैकत्वविरोधादपि न द्वैतकल्पना सतीत्याह - एकस्मिन्नेवेति ॥ ४१ ॥
भावयन्नात्मनात्मानं चिद्रूपेणैव चिन्मयम् ।
ऋजूज्ज्वलमये ह्यात्मा स्वयमात्मनि जृम्भते ॥ ४२ ॥
इदानीं तादृशात्मपरिचयेन तत्र विश्रान्तये सदा तद्भावना कार्येत्याह ##-
ऋजूज्ज्वलमये मायाकौटिल्यमालिन्यरहिते इति यावत् ॥ ४२ ॥
न शोकोस्ति न मोहोस्ति न जन्मास्ति न जन्मवान् ।
यदस्तीह तदेवास्ति विज्वरो भव राघव ॥ ४३ ॥
तद्भावपन्नस्य जीवन्मुक्तिविश्रान्तिं दर्शयति - न शोक इत्यादिना ॥ ४३ ॥
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।
अद्वितीयो विशोकात्मा विज्वरो भव राघव ॥ ४४ ॥
निर्द्वन्द्वः शीतोष्णादिशारीरद्वन्द्वविक्षेपरहितः । नित्यसत्त्वे
स्थितत्वाद्रजस्तमःप्रयुक्तमानसविक्षेपरहितः । अत एव
तदुभयपरिहारोपाययोगक्षेमचिन्तोज्झितः ॥ ४४ ॥
समः स्वस्थः स्थिरमतिः शान्तशोकमना मुनिः ।
मौनी वरमणिस्वच्छो विज्वरो भव राघव ॥ ४५ ॥
विविक्तः शान्तसङ्कल्पो धीरधीर्विजिताशयः ।
यथाप्राप्तानुवर्ती च विज्वरो भव राघव ॥ ४६ ॥
विविक्तः अविद्यातत्कार्यनिर्णिक्तः । विजिताशयः स्वाधीनचित्तः ॥ ४६ ॥
वीतरागो निरायासो विमलो वीतकल्मषः ।
नादाता न परित्यागी विज्वरो भव राघव ॥ ४७ ॥
विश्वातीतपदं प्राप्तः प्राप्तप्राप्तव्यपूरितः ।
पूर्णार्णववदक्षुब्धो विज्वरो भव राघव ॥ ४८ ॥
विकल्पजालनिर्मुक्तो मायाञ्जनविवर्जितः ।
आत्मनात्मनि तृप्तात्मा विज्वरो भव राघव ॥ ४९ ॥
अनन्तापारपर्यन्तवपुरात्मविदांवर ।
धराधरशिरोधीरो विज्वरो भव राघव ॥ ५० ॥
धराधराणां शिर इव श्रेष्ठो मेरुः स इव धीरः ॥ ५० ॥
यथाप्राप्तानुभवनात्सर्वत्रानभिवाञ्छनात् ।
त्यागादानपरित्यागाद्विज्वरो भव राघव ॥ ५१ ॥
आत्मन्येवात्मनौदार्यं भज पूर्ण इवार्णवः ।
आत्मन्येवात्मनाह्लादं भज पूर्णेन्दुबिम्बवत् ॥ ५२ ॥
औदार्यमकार्पण्यम् । पूर्णकामतामिति यावत् । आह्लादं
सर्वतापोपशमसुखम् ॥ ५२ ॥
विश्वप्रपञ्चरचनेयमसत्यरूपा
नासत्यरूपमनुधावति राम तज्ज्ञः ।
तज्ज्ञोऽसि शान्तकलनोऽसि निरामयोऽसि
नित्योदितोऽसि भव सुन्दर शान्तशोकः ॥ ५३ ॥
उक्तमर्थं सङ्गृह्योपदिशन्नुपसंहरति - विश्वेति । स्पष्टोऽर्थः ॥ ५३ ॥
एकातपत्रमवनौ गुरुणोपदिष्टं
सम्यक्सुपालय चिरं समयेह दृष्ट्या ।
राज्यं समस्तगुणरञ्जितराजलोक-
स्त्यागो न युक्त इह कर्मसु नापि रागः ॥ ५४ ॥
यदि तज्ज्ञोऽसत्यं नानुधावति तर्हि किं मम राज्यादिना पारिव्राज्यमेव
युक्तमिति रामाशयमालक्ष्याह - एकेति । गुरुणा पित्रा
उपदिष्टमाज्ञप्तमेकातपत्रं राज्यं समस्तगुणरञ्जिता राजानो लोकाः
प्रजाश्च येन तथाविधः सन् समया दृष्ट्या चिरं सम्यक् सुपालय ।
प्रारब्धत्वादवश्यभोक्तव्येषु कर्मसु तत्फलेषु च त्यागो न युक्तो नापि रागो
युक्त इत्यर्थः । त्यक्त्वा कर्मफलासङ्गं नित्ययुक्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः । इति भगवद्वचनादिति भावः ॥ ५४
॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु
उपशमप्रकरणे प्रशमोपदेशो नाम पञ्चमः सर्गः ॥ ५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
प्रशमोपदेशो नाम पञ्चमः सर्गः ॥ ५ ॥