चतुर्थः सर्गः ४
श्रीवाल्मीकिरुवाच ।
मेघगम्भीरया वाचा विश्रब्धपदसुन्दरम् ।
इदं दशरथो वाक्यमुवाच मुनिनायकम् ॥ १ ॥
राज्ञा वसिष्ठवाक्यानां प्रशंसा मुनिवाक्यतः ।
रामेण चिन्तितार्थानामनुवादश्च वर्ण्यते ॥ १ ॥
विश्रब्धैर्विश्वासातिशयप्रकाशकैः पदैः सुन्दरम् ॥ १ ॥
भगवन्ह्यस्तनेन त्वं वाक्यसन्दर्घजन्मना ।
कच्चिन्मुक्तोऽसि खेदेन तपःकार्श्यातिशायिना ॥ २ ॥
ह्यस्तनेन पूर्वेद्युर्भवेन वाक्यसन्दर्भोच्चारणजन्मना खेदेन श्रमेण ॥
२ ॥
ह्यस्तनोक्तो य आनन्दी विविक्तो वचसां गणः ।
अमृतावर्षणेनेव तेनैवाश्वासिता वयम् ॥ ३ ॥
आनन्दी श्रोत्रानन्दनशीलः । विविक्तो विशदः ॥ ३ ॥
चन्द्रांशव इवोत्सार्य तमांस्यमृतनिर्मलाः ।
अन्तःशीतलयन्त्येता महताममला गिरः ॥ ४ ॥
तमांसि अज्ञानान्यन्धकारांश्च ॥ ४ ॥
अपूर्वाह्लाददायिन्य उच्चैस्तरपदाश्रयाः ।
अतिमोहापहारिण्यः सूक्तयो हि महीयसाम् ॥ ५ ॥
इदानीं चन्द्रांशुभ्योऽप्युत्कर्षमाह - अपूर्वेति । अपूर्वः
अनास्वादितपूर्वः कारणशून्यश्चानन्दो ब्रह्मसुखं प्रयोजनम् । तदेव
मानुषानन्दादिहैरण्यगर्भानन्दान्तविषयसुखेभ्य उच्चैस्तरं पदं
तदाश्रयास्तद्विषयाः । अतिमोहापहारिण्य इत्यनर्थनिवृत्तिरूपं
प्रयोजनान्तरं तासामुक्तम् ॥ ५ ॥
आत्मरत्नावलोकैकदीपिका सरसात्मिका ।
यमाद्युक्तिलतोदेति स वन्द्यः सुजनद्रुमः ॥ ६ ॥
युक्तिलक्षणा ज्योतिर्लता यस्मादुदेति यमाश्रित्योदेति ॥ ६ ॥
दुरीहितं दुर्विहितं सर्वं सज्जनसूक्तयः ।
प्रमार्जयन्ति शीतांशोस्तमःकाण्डमिवाङ्घ्रयः ॥ ७ ॥
दुरीहितं मानसदोषम् । दुर्विहितं शारीरदोषम् । सर्वं समस्तेन्द्रियदोषम् ।
शीतांशोश्चन्द्रस्याङ्घ्रयः किरणाः ॥ ७ ॥
तृष्णालोभादयोऽस्माकं संसारनिगडा मुने ।
तवोक्त्या तनुतां याताः शरदीवासिताम्बुदाः ॥ ८ ॥
तानेव स्पष्टमाह - तृष्णेति । तनुतामल्पावशेषताम् ॥ ८ ॥
सम्प्रवृत्ता वयं द्रष्टुमात्मानमपकल्मषम् ।
रसाञ्जनानीतदृशो जात्यन्धा इव काञ्चनम् ॥ ९ ॥
रसः सिद्धरसस्तद्रचितैः सिद्धाञ्जनैरानीतदृशो
ब्रह्मरसाभ्यञ्जनेनानीतप्रत्यग्दृशश्च ॥ ९ ॥
संसारवासनानाम्नी मिहिका हृदयाम्बरे ।
प्रवृत्ता तनुतां गन्तुं त्वदुक्तिशरदेव नः ॥ १० ॥
हृदयाम्बरे स्थितेति शेषः । रूपकबलादेवान्तर्भूते । इवार्थे गम्यमाने
पुनरिवशब्दप्रयोग उत्प्रेक्षाद्योतनार्थः ॥ १० ॥
मुने मन्दारमञ्जर्यस्तरङ्गा वामृताम्भसः ।
न तथा ह्लादयन्त्यन्तर्यथोदारधियां गिरः ॥ ११ ॥
अमृताम्भसः अमृताम्भोधेः ॥ ११ ॥
यद्यद्राघव संयाति महाजनसपर्यया ।
दिनं तदिह सालोकं शेषास्त्वन्धा दिनालयः ॥ १२ ॥
यद्यद्दिनं महतां जनानां ब्रह्मविदां सपर्यया पूजया संयात्यपयाति ।
सालोकं सप्रकाशम् । अन्धास्तमोवृताः ॥ १२ ॥
राम राजीवपत्राक्ष प्रकृतार्थमिहाव्ययम् ।
मुनिमाबोधय पुनः प्रसादे समवस्थितम् ॥ १३ ॥
आबोधय पृच्छ ॥ १३ ॥
इत्युक्तो भूभृता तत्र रामाभिमुखमास्थितः ।
उवाचेदमुदारात्मा वसिष्ठो भगवान्मुनिः ॥ १४ ॥
आस्थित्त उपविष्टः ॥ १४ ॥
श्रीवसिष्ठ उवाच ।
राघव स्वकुलैकेन्दो यन्मयोक्तं महामते ।
कच्चित्स्मरसि वाक्यार्थं पूर्वापरविचारितम् ॥ १५ ॥
उत्पत्तीनां विचित्राणां सत्त्वादिगुणभेदतः ।
कच्चित्स्मरसि सर्वासां विभागमरिमर्दन ॥ १६ ॥
सर्वासां प्रागुक्तजीवजातीनाम् ॥ १६ ॥
कश्चित्सर्वमसर्वं च सदसच्च सदोदितम् ।
रूपं स्मरसि वेत्स्येव विविक्तं परमात्मनः ॥ १७ ॥
सर्वं नटवन्मायया जगद्वेषेण स्थितं ब्रह्म । असर्वं निष्प्रपञ्चम् ।
सत्स्थूलमसत्सूक्ष्मं सत्यासत्यरूपं वा मदुक्तं स्मरसि स्वबुद्ध्या
दृश्येभ्यो विविक्तं वेत्स्येव वा ॥ १७ ॥
यथेदमुदितं विश्वं विश्वेशादेव चेश्वरात् ।
कच्चित्स्मरसि तत्साधो साधुवादैकभाजन ॥ १८ ॥
विश्वेशात्सर्वशक्तिसम्पन्नादीश्वराद्ब्रह्मणः । एवकारः
साङ्ख्याद्यभिमतप्रधानादिकारणवादनिरासार्थः । साधुवादाः
प्रशंसाः सदुपदेशाश्च ॥ १८ ॥
रूपं कच्चिदविद्याया बलाद्भङ्गुरमाततम् ।
अनन्तमन्तवच्चैव सम्यक्स्मरसि सन्मते ॥ १९ ॥
बलात्कालबलात् । सङ्ख्यया अनन्तं देशकालादिना त्वन्तवत् ॥ १९ ॥
चित्तमेव नरो नान्यदिति यत्प्रतिपादितम् ।
लक्षणादिविचारेण कच्चित्स्मरसि साधु तत् ॥ २० ॥
वाक्यार्थश्चाखिलः कच्चित्त्वया राम विचारितः ।
ह्यस्तनस्य विचारस्य रात्रौ हृदि निवेशितः ॥ २१ ॥
ह्यस्तनस्य विचारस्य श्रवणस्य विषयो वाक्यार्थो विचारितो मननेन परिष्कृतः
॥ २१ ॥
भूयोभूयः परामृष्टं हृदये सुनियोजितम् ।
प्रयोजनं फलत्युच्चैर्न हेलाहतसंस्थितेः ॥ २२ ॥
हेलया अनादरेण हता संस्थितिरुपदिष्टार्थधारणं येन तथाविधस्य
पुरुषाधमस्य न फलतीत्यर्थः ॥ २२ ॥
भाजनं त्वं विविक्तानां वचसां शुद्धिशालिनाम् ।
विविक्तहृदयः कण्ठे मुक्तानामिव राघव ॥ २३ ॥
विविक्तहृदयो विवेकशालिमनाः विशालवक्षाश्च ॥ २३ ॥
श्रीवाल्मीकिरुवाच ।
कमलासनपुत्रेण मुनिना समहौजसा ।
एवं वितीर्णावसरो रामो वाक्यमुवाच ह ॥ २४ ॥
श्रीराम उवाच ।
भगवन्सर्वधर्मज्ञ तवैवैतद्विजृम्भितम् ।
यदहं परमोदारो बुद्धवान्वचनं तव ॥ २५ ॥
विजृम्भितं प्रभाविस्तारः ॥ २५ ॥
यदादिशसि तत्सर्वं तथैव न तदन्यथा ।
अपास्तनिद्रेण मया वाक्यार्थो हृदि चिन्तितः ॥ २६ ॥
तथैव कृतमिति शेषः । तदेव स्पष्टमाह - अपास्तेति ॥ २६ ॥
भवान्धकारक्षतये भवतोक्तिविवस्वता ।
ह्यःप्रसादितमाह्लादि वाग्रश्मिपटलं प्रभो ॥ २७ ॥
भवता कर्त्रा उक्तिलक्षणेन विवस्वता सूर्येण करणेन । उक्तौ
उपदेशेनार्थप्रकाशनविषये विवस्वता सूर्यभूतेन भवतेति
सामानाधिकरण्यं वा । आह्लादि जाड्यशीतापनयसुखकरम् ॥ २७ ॥
तदतीतमदीनात्मन्सर्वमन्तःकृतं मया ।
रम्यं पुण्यं पवित्रं च रत्नवृन्दमिवान्वितम् ॥ २८ ॥
अन्तःकृतं हृदि कृतम् । अन्वितं क्रमयुक्तम् ॥ २८ ॥
हितानुबन्धि हृद्यं च पुण्यमानन्दसाधनम् ।
शिरसा ध्रियते कैर्नो सिधैस्त्वदनुशासनम् ॥ २९ ॥
सर्वानिष्टहानानुबन्धित्वान्मधुरतरत्वात्परमपुरुषार्थसाधनत्वादनुल्लण्
^घ्यशासनत्वाच्च तव वचनमवश्यं शिरसा प्रणम्य हृदि
कार्यमित्याशयेनाह - हितानुबन्धीति ।
सिद्धैर्देवभेदैर्योगमन्त्रादिसिद्धैः स्वतःसिद्धैः सनकादिभिर्वा कैर्न
शिरसा ध्रियते ॥ २९ ॥
प्रतिक्षिपन्तः संसारमिहिकावरणं वयम् ।
प्रसन्नास्त्वत्प्रसादेन वर्षान्त इव वासराः ॥ ३० ॥
स्वस्मिन्नुपदेशस्य नैष्फल्यशङ्कां वारयन्नाह - प्रतिक्षिपन्त इति ।
निरस्यन्त इत्यर्थः । वर्षान्ते शरदि ॥ ३० ॥
आपातमधुरारम्भं मध्ये सौभाग्यवर्धनम् ।
अनुत्तमफलोदर्कं पुण्यं त्वदनुशासनम् ॥ ३१ ॥
उपदेशस्य कालत्रयेऽपि हितकारितामाह - आपातेति । आपाते श्रवणकाले ।
मध्ये मननदिध्यासनकाले । सौभाग्यस्य अन्तर्मुखताप्रयुक्तस्य
शमादिसम्पत्सुखस्य । अनुत्तमं मोक्षाख्यं फलं यत्र तथाविध उदर्क
उत्तरकालो यस्य तत् ॥ ३१ ॥
विकासिसितमम्लानमाह्लादितशुभाशुभम् ।
त्वद्वचःकुसुमं नित्यं श्रीमत्फलदमस्तु नः ॥ ३२ ॥
सितं स्वच्छं शुभ्रं च । आह्लादितानि आनन्दैकरसीकृतानि शुभाशुभानि
पुण्यपापानि तत्फलानि च येन । आह्लादिताः शुभा देवा अशुभाः सर्पादयश्च
येन । त्वद्वचोलक्षणं कुसुमं कल्पवृक्षपुष्पम् ॥ ३२ ॥
सकलशास्त्रविचारविशारद
प्रसृतपुण्यजलैकमहाहद ।
भज भृशं विततव्रत सम्प्रति
प्रसृततां हतकिल्बिष सन्ततिम् ॥ ३३ ॥
इदानीं गुरुं तीर्थत्वान्महाह्रदत्वेन रूपयन्सम्बोध्य पुनः
शिष्टार्थोपदेशवाक्प्रवाहं प्रार्थयते - सकलेति ।
देशकालशास्त्रविचारेषु [देशकालेति सकलशब्दार्थः] विशारद हे
प्रसृताचारपुण्यजलानामेकमहाह्रद विततव्रत मां प्रति [अयं
सन्ततिपदस्यार्थः तथाच त्वत्सन्ततिं मां प्रतीत्यर्थः । रामस्य
विद्यावंशत्वेन वसिष्ठसन्तानत्वात्] सम्प्रति प्रसृततां
उपदेशवाक्प्रसरं भजेत्यर्थः । ह्रदपक्षे सकलशास्त्रलक्षणानां वीनां
हंसादिपक्षिणां चारैर्विशारद शोभमान । विततानि विस्तारितानि व्रतानि
मुनिभिर्यत्र । स्नातॄणां हतानि किल्बिषाणि येन । एवंविध हे
प्रसृतपुण्यजलैकमहाह्रद त्वं सम्प्रति इदानीं सन्ततिं
वाक्सन्तानरूपां प्रसृततां प्रवाहं भजेत्यर्थः । मां प्रतीत्यन्ते पाठे
मद्विशुद्धये इत्यर्थः ॥ ३३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपाये
उपशमप्रकरणे राघवप्रश्नो नाम चतुर्थः सर्गः ॥ ४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
राघवप्रश्नो नाम चतुर्थः सर्गः ॥ ४ ॥