तृतीयः सर्गः ३
श्रीवाल्मीकिरुवाच ।
तस्यैवम्प्रायया तत्र ततयोदारचिन्तया ।
सा व्यतीयाय रजनी पद्मस्येवार्ककाङ्क्षिणः ॥ १ ॥
उषःस्नानगृहायातरामप्रभृतिभिः सह ।
वसिष्ठस्य सभायानं प्रस्तावश्चात्र कीर्त्यते ॥ १ ॥
स्य रामस्य । एवम्प्रायया उक्तप्रकारया । ततया विस्तृतयता चिन्तया ॥ १ ॥
किञ्चित्तमःकडारासु किञ्चिदप्यरुणासु च ।
नभोविरलतारासु दिक्षु सम्मार्जितास्विव ॥ २ ॥
तमोभिः कडारासु कपिशवर्णासु ॥ २ ॥
प्रभाततूर्यघोषेण सममिन्दुसमाननः ।
उत्तस्थौ राघवः श्रीमान्पद्मः पद्मकरादिव ॥ ३ ॥
प्रातःस्नानविधिं कृत्वा सम्पाद्य भ्रातृभिः पुनः ।
प्रहिताल्पपरीवरो वसिष्ठसदनं ययौ ॥ ४ ॥
सम्पाद्य निर्वर्त्य सन्ध्यावन्दनादिकमित्यौचित्याद्गम्यते । भ्रातृभिः
प्रहितः प्रेषितः अल्पः परीवारः परिजनो यस्य । भ्रातृभिः सह प्रहितः
आप्ततमोऽल्पः परीवारो यस्येति वा ॥ ४ ॥
समाधिसंस्थमे कान्ते मुनिमात्मपरायणम् ।
दूर एवाननामासौ रामो विनतकन्धरः ॥ ५ ॥
समाधिसंस्थमिति । पूर्वमेव स्नात्वा प्रातःकृत्यं निर्वर्त्य
समाधिसंस्थमिति गम्यते ॥ ५ ॥
तं प्रणम्याङ्गणे तस्थुस्तस्मिंस्ते विनयान्विताः ।
यावत्तमः समालूनं व्यक्तं दिङ्मुखमण्डलम् ॥ ६ ॥
ते रामादयो यावत्तमः सम्यगालूनं छिन्नं भवति तावत्तस्थुः ॥ ६ ॥
राजानो राजपुत्राश्च ऋषयो ब्राह्मणास्ततः ।
आययुः सदनं मौनं ब्रह्मलोकमिवामराः ॥ ७ ॥
मौनं निःशब्दं यथा स्यात्तथा ॥ ७ ॥
तद्वसिष्ठस्य सदनं बभूव जनसङ्कुलम् ।
हस्त्यश्वरथसम्बाधं पार्थिवाचारशोभनम् ॥ ८ ॥
पार्थिवोचिताचारेऽपि पार्थिवसदनमिव शोभनं शोभमानम् ॥ ८ ॥
क्षणाद्वसिष्ठो भगवान्विरराम समाधितः ।
आचारेणोपचारेण जग्राह प्रणतं जनम् ॥ ९ ॥
विनयाद्याचारेण प्रियवचनाद्युपचारेण ॥ ९ ॥
तथानुयातो मुनिभिर्विश्वामित्रान्वितो मुनिः ।
आरुरोह रथं श्रीमान्सहसाब्जमिवाब्जजः ॥ १० ॥
ययौ गृहं दाशरथं सैन्येन महता वृतः ।
ब्रह्मेव शक्रनगरं समस्तसुरमालितः ॥ ११ ॥
विवेशावनतां तत्र रम्यां दाशरथीं सभाम् ।
हंसयूथानुवलितो राजहम्स इवाब्जिनीम् ॥ १२ ॥
अवनतां प्रणम्रजनाम् ॥ १२ ॥
त्रीणि तत्र पदान्याशु तदा दशरथो नृपः ।
निर्जगाम महावीरः सिंहासनसमुत्थितः ॥ १३ ॥
निर्जगाम अभिजगाम ॥ १३ ॥
विविशुस्तत्र ते सर्वे नृपा दशरथादयः ।
वसिष्ठाद्याश्च मुनयो ऋषयो ब्राह्मणास्तथा ॥ १४ ॥
मन्त्रिणश्च सुमन्त्राद्याः सौम्याद्याश्च विपश्चितः ।
राजपुत्राश्च रामाद्या मन्त्रिपुत्राः शुभादयः ॥ १५ ॥
अमात्याद्याः प्रकृतयः सुहोत्राद्याश्च नागराः ।
मालवाद्यास्तथा भृत्याः पौराद्याश्चैव मालिनः ॥ १६ ॥
अथ तेषूपविष्टेषु स्वेषु स्वेष्वासनेषु च ।
सर्वेष्वेवोपविष्टेषु वसिष्ठोन्मुखदृष्टिषु ॥ १७ ॥
तेषु मुनिनृपमन्त्रिप्रभृतिषु प्रथममुपविष्टेषु सत्सु पश्चादन्येष्वपि
सर्वेषूपविष्टेष्वित्यर्थः । सर्वेष्वेवेत्यादीनां सर्गसमाप्तिपर्यन्तं सर्वेषां
सप्तम्यन्तानामुत्तरसर्गस्थ इदं दशरथो वाक्यमुवाचेत्यत्र सम्बन्धः ॥
१७ ॥
सभाकलकले शान्ते मौनसंस्थेषु बन्दिषु ।
वृत्तासु स्थितिवार्तासु सौम्ये तस्मिन्सभान्तरे ॥ १८ ॥
सभायाः कलकले कोलाहले । स्थितिवार्तासु परस्परं
रात्रिसुखावस्थितिप्रश्नप्रतिवचनवार्तासु वृत्तासु सतीषु ॥ १८ ॥
स्फुरत्पवनमालासु विशत्स्वम्भोजकोटरात् ।
परागेषु विलोलेषु मुक्तादामसु चञ्चलम् ॥ १९ ॥
अम्भोजकोटरान्निर्गत्य सभां विशत्स्विति शेषः । अत एवाम्भोजानां परागेषु
मुक्तादामसु चञ्चलं यथा स्यात्तथा विलोलेषु लम्पटेषु ॥ १९ ॥
बृहत्कुसुमदोलाभ्यः प्रसृताभ्यः समन्ततः ।
वाति मांसलमामोदमादाय मधुरानिले ॥ २० ॥
वातायनेषु मृदुषु कुसुमाकीर्णभूमिषु ।
पर्यङ्केषूपविष्टासु पश्यन्तीषु पुरन्ध्रिषु ॥ २१ ॥
मृदुषु पर्यङ्केषु ॥ २१ ॥
जालागतार्ककरलोलविलोचनासु
रत्नप्रभानिकरपिङ्गलकोमलासु ।
सन्त्यक्तचापललवं चपलासु तासु
मौन्स्थितासु सितचामरधारिणीषु ॥ २२ ॥
जालागतैरर्ककरैरवलोकनप्रतिघाताल्लोलानि विलोचनानि यासाम् ।
रत्नप्रभानिकरैः पिङ्गलासु कोमलासु सुकुमारीषु तासु प्रागुक्तासु
सितचामरधारिणीषु सन्त्यक्तचापललवं यथा स्यात्तथा मौनस्थितासु ॥ २२ ॥
मुक्ताफलप्रतिफलप्रतिमार्करश्मि-
रागोदरास्वजिरभूमिषु पुष्पकौघम् ।
नासादयत्यभिनवातपबिम्बबुद्ध्या
भ्रान्ते भ्रमत्यलिकुले नभसीव मेघे ॥ २३ ॥
नानारत्नखचितास्वजिरभूमिषु मुक्ताफलानां प्रतिफलानि
प्रतिच्छायास्तत्प्रतिमा अर्करश्मिरागा उदरे यासां तथाविधासु
नानापुष्पाकारचित्रासु जातासु अभिनवातपबिम्बा एवेमे इति भ्रान्तिबुद्ध्या अलिकुले
पुस्पकौघं विकीर्णपुष्पसमूहं नासादयति अलभमाने अत एव
भूम्यस्पर्शान्नभसि मेघ इव भ्रमति सति ॥ २३ ॥
पुण्यैर्वसिष्ठवदनप्रसृतं श्रुतं य-
त्तत्सन्ततिप्रसृतविस्मयमार्यलोके ।
सत्सङ्गमे मृदुपदाक्षरमुग्धवाक्य-
मन्योन्यमीप्सितमनल्पगुणाभिरामम् ॥ २४ ॥
तस्मिन्सत्सङ्गमे सतां समाजे आर्यलोके बहुमतजने प्राक्सञ्चितैः
पुण्यैर्यद्वसिष्ठवदनप्रसृतं वचनं श्रुतं तस्य सन्तत्या हृदि
विस्तारेण प्रसृतविस्मयमुद्भूताश्चर्यं यथा स्यात्तथा
अन्योन्यमीप्सितमभिमतमनल्पगुणाभिरामं मृदुपदाक्षरमुग्धवाक्यं
भाषमाणे सतीति शेषः ॥ २४ ॥
दिग्भ्यः पुराच्च गगनाच्च वनाच्च सिद्ध-
विद्याधरार्यमुनिविप्रगणे वसिष्ठम् ।
मौनप्रप्राणमभितः प्रविशत्यशब्दं
सोपांशु गौरववता सह जातवाक्ये ॥ २५ ॥
वनाच्च समागते इति शेषः । विद्याधराणामार्यमुनीनामन्येषां च
विप्राणां गणे वसिष्ठमभितो मौनप्रणामं प्रणम्य अशब्दं पिहितास्यं
यथा स्यात्तथा प्रविशति सति । ततो गौरववता गरीयसा अवश्यसम्भाष्येण सह
सोपांशु अतिमन्दस्वरं कर्णसन्निधौ जातवाक्ये सति । वसिष्ठमभित इति
अभितः परितः समयानिकषाहाप्रतियोगेऽपि इति षष्ठ्यर्थे द्वितीया ॥ २५ ॥
उन्निद्रकोकनदकोमलकोशकृष्ट-
मग्नालिजालमकरन्दसुवर्णरागैः ।
आपिङले मरुति वाति विलोलघण्टा-
टाकारगीतविनिपीतनिशान्तगीते ॥ २६ ॥
उन्निद्राणां कोकनदानां रक्तकमलानां कोमलेभ्यः कोशेभ्यः
कृष्टानां प्राक्तदन्तर्मग्नानामलिजालानां मकरन्दानांसुवर्णानां
परागाणां च रागै रञ्जनैरापिङ्गले ईषत्पिङ्गलवर्णे मरुता
स्वाभिमर्शाद्विलोलानां गृहप्रान्तघण्टानां
टाङ्कारगीतैर्विनिपीतान्यभिभूतानि निशान्तानां गृहाणां गीतानि येन
तथाविधे मरुति वाति सति । घण्टाजिह्वाग्रे
पिप्पलपत्राकाररचनान्मन्दवातैरपि गृहपटलघण्टावलिध्वननं
दक्षिणदेशे नेपाले च प्रसिद्धम् ॥ २६ ॥
अगुरुतगरधूमे चन्दनामोदमिश्रे
सरसकुसुमदामोद्दामगन्धाङ्किताभ्रे ।
सरति सति वितानाम्भोरुहामोदलेशै-
श्चलकुसुमरजोङ्के शब्दविज्ञातभृङ्गम् ॥ २७ ॥
चन्दनामोदैर्मिश्रे चलकुसुमरजोभिरङ्क्यत इत्यङ्कस्तथाविधे अत एव
सरसानां कुसुमदाम्नामुद्दामैर्गन्धैरङ्कितानि सुरभितान्यभ्राणि येन
तथाविधे अगुरुतगरनिर्यासधूमे तन्नीलिम्ना तिरोहितवर्णत्वाच्छब्धैरेव
विज्ञाता नतु साक्षाद्दृष्टा भृङ्गा यस्मिन्कर्मणि तद्यथा स्यात्तथा
वितानवद्धानामम्भोरुहाणामामोदलेशैः सह सरति ऊर्ध्वं प्रवहति
सतीत्यर्थः ॥ २७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे
सभासंस्थानवर्णनं नाम तृतीयः सर्गः ॥ ३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
सभासंस्थानवर्णनं नाम तृतीयः सर्गः ॥ ३ ॥