०२

द्वितीयः सर्गः २

श्रीवाल्मीकिरुवाच ।

ते समेत्य गृहं गत्वा राजपुत्राः शशित्विषः ।
चक्रुः सर्वमशेषेण स्वसद्मसु दिनक्रमम् ॥ १ ॥

इहाह्निकक्रिया रात्रौ रामस्य श्रुतचिन्तनम् ।
बुद्धेः श्रुतार्थे स्थैर्यार्थ प्रार्थना चोपवर्ण्यते ॥ १ ॥

दिनक्रममाह्निकम् ॥ १ ॥

वसिष्ठो राघवश्चैव राजानो मुनयो द्विजाः ।
इति चक्रुः स्वकार्याणि तथा स्वगृहवीथिषु ॥ २ ॥

इति वक्ष्यमाणप्रकारेण चक्रुः । स्वगृहेषु वीथिषु तथा बहिश्च
यान्युचितानीत्यर्थः ॥ २ ॥

सस्नुः कमलकह्लारकुमुदोत्पलहारिषु ।
जलाशयेषु चक्राह्वहंससारसराजिषु ॥ ३ ॥

गोभूतिलहिरण्यानि शयनान्यासनानि च ।
ददुर्दानानि विप्रेभ्यो भाजनान्यंशुकानि च ॥ ४ ॥

हेमरत्नविचित्रेषु स्वेषु चामरसद्मसु ।
आनर्चुरच्युतेशानहुताशार्कादिकान्सुरान् ॥ ५ ॥

अमरसद्मसु देवालयेषु । स्वेषु स्वगृहेषु च ॥ ५ ॥

पुत्रपौत्रसुहृद्भृत्यबन्धुमित्रगणैः सह ।
तत आस्वादयामासुर्भोजनान्युचितानि वै ॥ ६ ॥

एतस्मिन्समये चास्मिन्नगरे दिवसोऽभवत् ।
तनुरष्टाङ्गशेषत्वाद्दृष्टो न च मनोहरः ॥ ७ ॥

दिवसस्तनुः सूक्ष्मोऽभवत् । अष्टाङ्गशेषत्वादष्टमभागशेषत्वात् ॥ ७ ॥

सायन्तनदिनान्तं ते तत्कालोचितचेष्टया ।
अनयन्नंशुभिः सार्धं यावदस्तं ययौ रविः ॥ ८ ॥

तत्कालोचितचेष्टया पुराणधर्मशास्त्रावलोकनादिरूपया ॥ ८ ॥

सन्ध्यां ववन्दिरे सुष्ठु जेपुश्चैवाघमर्षणम् ।
पेठुः स्तोत्राणि पुण्यानि जगुर्गाथा मनोहराः ॥ ९ ॥

ततश्चाभ्युदिता श्यामा कामिनीशोकहारिणी ।
क्षीरोदादिव माहेन्द्री चन्द्रावश्यायदायिनी ॥ १० ॥

तत इत्युपात्तस्य तदुत्तरकालस्य क्षीरोदः कामिन्या ऐन्द्री दिक्
कान्तसङ्गमप्रयुक्तशोकहरणानन्दस्य
चन्द्रसङ्गमप्रयुक्तस्तापोपशमनोऽवश्याय इति क्रमेणोपमानानि ॥ १० ॥

शनैरास्तीर्णपुष्पेषु कीर्णकर्पूरमुष्टिषु ।
दीर्घेन्दुबिम्बरम्येषु तस्थुस्तल्पेषु राघवाः ॥ ११ ॥

दीर्घीभूतमिन्दुबिम्बमिव रम्येषु ॥ ११ ॥

अथ रामादृतेऽन्येषां तत्र तद्व्यवहारिणी ।
व्यतीयाय शनैः श्यामा मुहूर्त इव शोभना ॥ १२ ॥

तद्व्यवहारिणी तत्कालोचितविषयभोगनिद्रादिव्यवहारवती ॥ १२ ॥

तस्थौ रामस्तु तामेव वासिष्ठीं वचनावलीम् ।
चिन्तयन्मधुरोदारां करिणीं कलभो यथा ॥ १३ ॥

कलभः करिशावः करिणीं मातरं यथा ॥ १३ ॥

किमिदं नाम संसारभ्रमणं किमिमे जनाः ।
भूतानि च विचित्राणि किमायान्ति प्रयान्ति किं ॥ १४ ॥

चिन्ताप्रकारमेव प्रपञ्चयति - किमित्यादिना ॥ १४ ॥

मनसः कीदृशं रूपं कथं चैतत्प्रशाम्यति ।
मायेयं सा किमुत्था स्यात्कथं चैव निवर्तते ॥ १५ ॥

निवृत्तयानया कः स्याद्गुणो दोषोऽथ वा भवेत् ।
कथमात्मनि चैवायं तते सङ्कोच आगतः ॥ १६ ॥

सर्वभोग्यभोक्तृभोगनिवृत्तेर्दोषः पुरुषार्थविघातो भवेत् । तते
आकाशादपि विस्तीर्णे ॥ १६ ॥

किमुक्तं स्याद्भगवता मुनिना मनसः क्षये ।
किं चिन्द्रियजये प्रोक्तं किमुक्तमथवात्मनि ॥ १७ ॥

किं साधनं फलं चोक्तं स्यात् । आत्मनि विज्ञाते इति शेषः ॥ १७ ॥

जीवश्चित्तं मनो मायेत्येवमादिभिराततैः ।
रूपैरात्मैव संसारं तनोतीममसन्मयम् ॥ १८ ॥

एभिरेवं मनोमात्रतन्तुवद्धैः क्षयं गतैः ।
दुःखोपशान्तिरेतानि सुचिकित्स्यानि नः कथम् ॥ १९ ॥

दुःखोपशान्तिः सिद्ध्यतीति शेषः । एतानि मनो मायादिरूपाणि ॥ १९ ॥

भोगाभ्रमालावलयां धीबलाकामिमां कथम् ।
पृथक्करोमि पयसो धारां हम्स इवाम्भसः ॥ २० ॥

भुज्यन्त इति भोगा विषयास्त एव संस्कारात्मना घनीभूय
चित्ताकाशावरकत्वाद्दुःखसहस्रधारावर्षित्वाच्चाभ्राणि तान्यनुसृत्य
मालेव वलयति वेष्टयतीति मालावलयां धीवृत्तिलक्षणां बलाकां बकीं
कथं पृथक्करोमि । वेवेकेन परावर्तयामीति यावत् । पयसो दुग्धस्य धारां
भागमिति यावत् ॥ २० ॥

भोगास्त्यक्तुं न शक्यन्ते तत्त्यागेन विना वयम् ।
प्रभवामो न विपदामहो सङ्कटमागतम् ॥ २१ ॥

ननु किं विमर्शेन त्यज्यन्तां भोगास्तत्राह - भोगा इति । विपदां प्रतीकारे
इति शेषः । सर्वात्मना भोगत्यागे जीवनासिद्धेस्तदर्थमल्पस्यापि
भोगस्योपादाने वासनावृद्धेः सङ्कटमागतमित्यर्थः ॥ २१ ॥

मनोमात्रमिदं प्राप्यं तच्चैवेदं प्रयोजनम् ।
सम्पन्नं नो गिरिगुरु मौर्ख्याद्यक्षः शिशोरिव ॥ २२ ॥

सङ्कटान्तरमप्याह - मनोमात्रमिति । इदं
प्राप्यमवश्यप्राप्तव्यमात्मतत्त्वं मन एव मीयते प्रमीयतेऽनयेति मात्रा
प्रमाणं यस्य तथाविधम् । तच्च मनो नोऽस्माकमिदं बाह्यमेव
विषयजातमेव प्रयुज्यते येन तत्प्रयोजनं निष्पत्तिहेतुभूतं पुरुषार्थभूतं
च यस्य तथाविधं सन्मौर्ख्याद्गिरितोऽपि गुरु दुरुद्धरं सम्पन्नम् । यथा
शिशोर्मौर्ख्यात्कल्पितो यक्षः । तथाच विषयाधीनसिद्धिकं मनस्तेभ्यो
निवर्तयितुमेवाशक्यं निःस्वरूपतापत्तेस्तदनिवृत्तौ तु न तत्त्वसाक्षात्कारे
प्रमाणं तत्कर्तु शक्यमिति सङ्कटान्तरमित्यर्थः ॥ २२ ॥

परमां शान्तिमागत्य गतसंसारसम्भ्रमा ।
बालेव लब्धदयिता कञ्चित्प्राप्स्यति नो मतिः ॥ २३ ॥

यदि तु निर्वासनं सर्वविषयोपशमेऽपि ब्रह्माकारतामात्रावलम्बनेन
मनोऽवस्थापयितुं शक्येत तदा स्यादभिलषितसिद्धिरिति चिन्तयन्नाह -
परमामिति । लब्धो दयितः कान्तो यया तथाविधा बाला तरुणीव
लब्धब्रह्माकारा सती कञ्चिदन्यं नो प्राप्स्यति । न स्मरिष्यतीत्यर्थः ॥ २३ ॥

कदोपशान्तसंरम्भं विगताशेषकौतुकम् ।
अपापामात्मविश्रान्तं [अपापपदविश्रान्तं इति पाठः] मम
स्यात्पावनं मनः ॥ २४ ॥

तां दशां प्राप्तुमुत्कण्ठते - कदेत्यादिना । संरम्भः क्रोधः ।
कौतुकं कामः । पापग्रहणं पुण्यतदुभयकार्याणामप्युपलक्षणम् ॥ २४

कलाकलापसम्पूर्णाच्छशाङ्कादपि शीतले ।
पदे सुरूढं विश्रम्य भ्रमिष्यामि कदा जगत् ॥ २५ ॥

सप्तमभूमिकापर्यन्तं सुरूढं यथा स्यात्तथा विश्रम्य ।
जीवन्मुक्तिसुखं प्राप्येति यावत् ॥ २५ ॥

कलनापेलवं रूपमुत्सृज्यालीनमात्मनि ।
कदैष्यति मनः शान्तिमम्भसीव तरङ्गकः ॥ २६ ॥

आत्मनि आलीनं तिरोहितं सत् ॥ २६ ॥

तृष्णातरङ्गाकुलितमाशामकरमालिनम् ।
कदा संसारजलधिं तीर्त्वा स्यामहमज्वरः ॥ २७ ॥

कदोपशमशुद्धासु पदवीषु विचक्षणाः ।
मुमुक्षूणां निवत्स्यामो निःशोकं समदर्शनाः ॥ २८ ॥

मुमुक्षूणां प्राप्यासु पदवीषु पदेषु ॥ २८ ॥

सन्तापितसमस्ताङ्गः सर्वधातुभयङ्करः ।
संसृतिज्वर आदीर्घः कदा नाशमुपैष्यति ॥ २९ ॥

अङ्गानि स्त्रीपुत्रपश्वादीनि हस्तपादादीनि च धातवः
स्वर्णरूप्यादयस्त्वगसृङ्मांसादयश्च तेभ्यः क्षीयमाणेभ्यो
भयङ्करः ॥ २९ ॥

निर्वातदीपलेखेव कदा चित्तं गतव्यथम् ।
शममेष्यति हे बुद्धे सुप्रकाशघनान्तरम् ॥ ३० ॥

कदेन्द्रियाणि दुःखेभ्यः सन्तरिष्यन्ति हेलया ।
दुरीहादग्धदेहानि गरुत्मन्त इवार्णवान् ॥ ३१ ॥

विषयाभिमुखाकर्षणदुरीहाभिर्दुश्चेष्टाभिर्दग्धो देहो
यैस्तथाविधानीन्द्रियाणि विषयहेलया कदा दुःखानि सन्तरिष्यन्तीत्यर्थः ।
अथवा इन्द्रियाणि कर्तॄणि । दुरीहा दुष्टविषयाभिलाषस्तत्प्रयुक्तानि
दग्धदेहानि भाविनानाशरीराणि कर्मभूतानि विषयहेलया दुःखेभ्यः
दुःखानि परिहर्तुं कदा तरिष्यन्तीति योजना । दुःखेभ्य इति
सुखदुःखतत्क्रियायाम् इति चौरादिकाद्दुःखधातोर्भावे घञि तुमर्थाच्च
भाववचनात् इति चतुर्थी ॥ ३१ ॥

अयं सोऽहं रुदन्मूढ इति व्यर्थाहितो भ्रमः ।
शरदीवासितो मेघः कदा नाशमुपैष्यति ॥ ३२ ॥

पशुपुत्रधनान्नपानादीनामलाभवियोगादिना रुदति मूढे मयि
रोदननिमित्तभूतोऽयं देह एव स प्रसिद्ध आत्मा अहं चेति व्यर्थं
पूर्वपूर्वदेहवासनाकामकर्मपरम्पराहितो भ्रमः प्रबोधवैमल्ये शरदि
प्रवृत्तायां वार्षिकोऽसितो मेघ इव कदा नाशमुपैष्यतीत्यर्थः ॥ ३२ ॥

मन्दारवनलेखासु या मतिः सा तृणायते ।
याचे तत्पदमात्मीयं सम्प्राप्स्यामः कदा वयम् ॥ ३३ ॥

उत्कटया मुमुक्षया स्वर्गोऽपि स्वस्य तृणवद्भातीत्याह - मन्दारेति । मतिः
सुखानुभवः । अहं याचे वाञ्छामीति यावत् । वयमिति अस्मदो द्वयोश्च इति
बहुवचनम् ॥ ३३ ॥

वीतरागजनप्रोक्ता निर्मला ज्ञानदृष्टयः ।
कच्चित्पदं त्वयि मनः करिष्यन्तीति मे वद ॥ ३४ ॥

इदानीं मन-आदीन्विवेकग्रहणाय प्रार्थयते - वीतरागेत्यादिना । हे
मनः त्वयि पदं स्थानं कञ्चित्करिष्यन्ति ॥ ३४ ॥

हा तात मातः पुत्रेति गिरामासामहं पुनः ।
भाजनं चित्त माभूवं भोजनं दुःखभोगिनाम् ॥ ३५ ॥

अहं दुःखलक्षणानां भोगिनामजगराणां भोजनं भक्ष्यं
सन्नासामाक्रन्दगिरां पुनर्भाजनं माभूवमित्यन्वयः ॥ ३५ ॥

हे बुद्धे भगिनि भ्रातुरर्थितां पूरयाशु मे ।
आवयोर्दुःखमोक्षाय विचारय मुनेर्गिरः ॥ ३६ ॥

जीवबुद्ध्योरेकाविद्योदरोद्भूतत्वाद्भगिनीति सम्बोधनम् । मुनेर्वसिष्ठस्य ॥
३६ ॥

त्वां पादपतितः प्रीत्या याचे सति सुते मते ।
तेन भव्ये भवोच्छेदभूतये सुस्थिरा भव ॥ ३७ ॥

सति साध्वि । शास्त्रसज्जनप्रसादेन पश्चादुत्पन्नत्वात्सुते पुत्रि । मते सन्मते ।
तेन मत्प्रार्थनेन । भवोच्छेदोपलक्षितपूर्णतासम्पदे ॥ ३७ ॥

वसिष्ठमुनिना प्रोक्ता विरक्ताः प्रथमं गिरः ।
ततो मुमुक्षोराचार उत्पत्तीनां क्रमस्ततः ॥ ३८ ॥

एवं प्रार्थनया स्थिरीकृतां मतिं
वैराग्यप्रकरणादिप्रकरणचतुष्टयार्थस्मरणे क्रमान्नियुङ्क्ते -
वसिष्ठेति । प्रोक्ता मन्मुखेन वादिताः स्वयम्प्रोक्ताश्च स्थितिप्रकरणान्ता
गिरः ॥ ३८ ॥

ततः स्थितिप्रकरणं समं दृष्टान्तसुन्दरम् ।
विज्ञानगर्भसुलभं यथावत्स्मर हे मते ॥ ३९ ॥

विज्ञानगर्भं सुलभं सरलं च । विज्ञानगर्भैरधिकारिभिराख्यानैर्वा
सुलभं सुबोधमिति वा ॥ ३९ ॥

कृतमति शतशो विचारितं य-
द्यदि तदुपैति न मानसस्य बुद्धिः ।
भवति तदफलं शरद्घनाभं
सततमतो मतिरेव कार्यसारः ॥ ४० ॥

ननु मनसः प्राक्प्रार्थितत्वात्तत एव प्रकरणचतुष्टयार्थावधारणसिद्धेः
किमर्थं तद्व्यतिरेकेण पुनर्मतिः प्रार्थ्यते तत्राह - कृतमतीति ।
मानसस्य मनसः कृतमतिनिपुणं यथा स्यात्तथा शतशो यद्वस्तु
विचारितं भवति तद्बुद्धिरध्यवसानमतिर्यदि नोपैति नाङ्गीकरोति तर्हि तत्तथा
विचारितमप्यफलं शरद्धनवन्नश्यत्येव न स्थिरीभवतीत्यर्थः । अतः
श्रवणेन विचारितेऽपि तत्त्वे मतिर्मननकृताध्यवसायबुद्धिरेव सततं कार्ये
कर्तव्यार्थविषये सारो मुख्यो भवतीति मननाय पृथक् तत्प्रार्थनं
युक्तमेवेत्यर्थः ॥ ४० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे उपदेशानुवर्णनं नाम द्वितीयः सर्गः
॥ २ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
उपदेशानुवर्णनं नाम द्वितीयः सर्गः ॥ २ ॥