०१

प्रथमः सर्गः १

श्रीवसिष्ठ उवाच ।

अथ स्थितिप्रकरणादनन्तरमिदं शृणु ।
उपशमप्रकरणं ज्ञातं निर्वाणकारि यत् ॥ १ ॥

भुवनरचनपालनोपशान्तिप्रथितमहाविभवस्वभावपूर्णम् ।
निगमहृदयसाक्षि निष्प्रपञ्चं निजसुखबोधघनं शिवं प्रपद्ये ॥ १ ॥

मध्याह्नशङ्खध्वनिना सभोत्थानमिहोच्यते ।
वसिष्ठस्याह्निकं रात्रौ विश्वामित्रसहस्थितिः ॥ १ ॥

उत्पत्तिप्रकरणे सर्वसृष्टिश्रुतितात्पर्योद्घाटनाय मनोधीनैव
सर्वप्रपञ्चरचनेति दर्शितम् । स्थितिप्रकरणे च
सर्वजगत्स्थितिप्रतिपादकश्रुतितात्पर्यप्रदर्शनाय मनःस्थित्यधीनैव
सर्वप्रपञ्चस्थितिरिति दर्शितम् । इदानीं यथा गार्ग्य मरीचयोऽर्कस्यास्तं
गच्छत एतस्मिंस्तेजोमण्डल एकीभवन्ति सुषुप्तिकाले सकले विलीने
यत्प्रयन्त्यभिसंविशन्ति यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति
नामरूपे विहाय गताः कलाः पञ्चदश प्रतिष्ठाम् एवमेवास्य
परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति
इत्यादीनां सुषुप्तिप्रलयसमाधिसाक्षात्कारविदेहकैवल्येषु
प्रपञ्चोपशमाज्जीवस्य ब्रह्मस्वभावताप्राप्तिप्रतिपादनेन
प्रत्यग्ब्रह्मैकरसाखण्डवस्तुलक्षकश्रुतीनामपि मन उपशमादेव
सर्वप्रपञ्चोपशमेन स्वरूपप्रतिष्ठायां तात्पर्यमिति
रहस्योद्घाटनायोपशमप्रकरणमारभमाणः पूर्वोत्तरप्रकरणयोः
सङ्गतिं दर्शयन् विषयप्रयोजने निर्दिश्य शिष्यमवधानयन्प्रतिजानीते -
अथेति । अथ
स्थितिप्रतिपादकश्रुतितात्पर्यवर्णनानान्तरमुपसंहारबोधकश्रुतितात्पर्यवर्
णनस्यावसरसङ्गतिरित्यर्थः । ज्ञातं निर्वाणकारीति । तथाच
पूर्वप्रकरणप्रयोजनमेवास्यापीत्येककार्यकारितासङ्गतिरपि दर्शिता बोध्या ॥
१ ॥

श्रीवाल्मीकिरुवाच ।

शरत्तारकिताकाशस्तिमितायां सुसंसदि ।
कथयत्येवमाह्लादि वसिष्ठे पावनं वचः ॥ २ ॥

शरत्तारकितेत्यादिकथासन्दर्भः समयोचिताचारावश्यकत्वद्योतनार्थः ।
शरदि तारकितः सञ्जाततारक आकाश इव स्तिमितायाम् । सर्वेषां
सप्तम्यन्तपदानां मध्याह्न शङ्खानां स्वन उदभूदिति चतुर्दशे श्लोके
सम्बन्धः ॥ २ ॥

श्रवणार्थित्वमौनस्थपार्थिवे संसदन्तरे ।
निर्वात इव निस्पन्दकमले कमलाकरे ॥ ३ ॥

श्रवणार्थित्वेन मौनस्थाः पार्थिवा यत्र । संसदन्तरे सभामध्ये ॥ ३ ॥

विलासिनीषु संशान्तमदमोहबलासु च ।
शममन्तः प्रयान्तीषु चिरप्रव्रजितास्विव ॥ ४ ॥

कराम्भोरुहहंसेषु लीनेषु श्रवणादिव ।
मुक्तघुर्घुरवादेषु वायसेषु तराविव ॥ ५ ॥

सन्निधानाद्विलासिनीनां कराम्भोरुहेषु हंसायमानेषु चामरेषु
श्रवणाच्छ्रुतार्थे समाधिना लीनेष्विवेति निःस्पन्दत्वदर्शनादुत्प्रेक्षा ।
मुक्तघुर्घुरवादेषु त्यक्तकङ्कणकिङ्किणीरवेषु । वयांस्येव वायसास्तेषु ।
तराविति सदस उपमा ॥ ५ ॥

नासाग्रपरिविश्रान्ततर्जन्यङ्गुलिकोटिषु ।
विचारयत्सु विज्ञानकलां तज्ज्ञेषु राजसु ॥ ६ ॥

तज्ज्ञेषु विचारज्ञेषु ॥ ६ ॥

रामे विकासमायाते प्रभात इव पङ्कजे ।
परित्यक्ततमःपीठे सूर्योदय इवाम्बरे ॥ ७ ॥

तमसो भूमावेव घनत्वादुपरितनाम्बरपीठत्वेनोत्प्रेक्षा । यथा
आचार्यागमने शिष्य उत्तिष्ठन् पीठं परित्यजति तद्वत्सूर्यस्योदये
परित्यक्ततमःपीठे सतीत्यर्थः ॥ ७ ॥

आकर्णयति वासिष्ठीर्गिरो दशरथे रसात् ।
कलापिनीव जीमूतनिर्ह्रादान्मुक्तवर्षणात् ॥ ८ ॥

रसात् प्रेमार्द्रभावात् । तस्योपमा मुक्तवर्षणादिति ।
मुक्तवर्षणप्रयुक्तादाद्रीम्भावादिति यावत् ॥ ८ ॥

आहृत्य सर्वभोगेभ्यो मनो मर्कटचञ्चलम् ।
श्रवणं प्रति यत्नेन सारेण मन्त्रिणि स्थिते ॥ ९ ॥

यत्नेन आहृत्य परावर्त्य स्थिते ॥ ९ ॥

वसिष्ठोक्त्या परिज्ञातस्वात्मनीन्दुकलामले ।
लक्ष्मणे विलसल्लक्ष्ये शिक्षाबलविचक्षणे ॥ १० ॥

शिक्षाबलविचक्षणत्वादेव विलसद्धृदि स्फुरल्लक्ष्यं ब्रह्म यस्य
तथाभूते ॥ १० ॥

शत्रुघ्ने शत्रुदलने चेतसा पूर्णतां गते ।
अलमानन्दमायाते राकाचन्द्रोपमे स्थिते ॥ ११ ॥

अलं पूर्णमानन्दमायाते प्राप्ते ॥ ११ ॥

सुमित्रे मित्रतां याते मानसे दुःखशीलिते ।
विकासिहृदये जाते तत्काल इव पङ्कजे ॥ १२ ॥

सुमित्रे मन्त्रिविशेषे दुःखशीलिते मानसे मित्रतां वश्यतां याते सति
विकासिहृदये जाते । अम्बुजपक्षे आप्रातर्मानसे सरसि मनसि च दुःखेन शीलिते
चिन्तिते शोभने मित्रे सूर्ये मित्रतामुदयेन प्रीतिकरतां याते सति तत्काले
विकासिहृदये जाते ॥ १२ ॥

तत्रस्थेषु तथान्येषु तदा मुनिषु राजसु ।
सुधौतचित्तरत्नेषु प्रोल्लसत्स्विव चेतसा ॥ १३ ॥

प्रोल्लसत्स्विव जातेष्विति यथायोगं विपरिणामेन सर्वत्रानुषज्जते ॥ १३ ॥

उदभूत्पूरयन्नाशाः कल्पाभ्ररवमांसलः ।
अथ मध्याह्नशङ्खानामब्धिघोषसमः स्वनः ॥ १४ ॥

आशा दिशः । कल्पाभ्ररव हव मांसलोबलवान् ॥ १४ ॥

महता तेन शब्देन तिरोधानं मुनेर्गिरः ।
ययुर्जलदनादेन कोकिलध्वनयो यथा ॥ १५ ॥

मुनेर्वसिष्ठस्य ॥ १५ ॥

मुनिरन्तरयाञ्चक्रे स्वां वाचमथ संसदि ।
जितसारो गुणः केन महता समुदीर्यते ॥ १६ ॥

अन्तरयाञ्चक्रे तिरोदधे उपसञ्जहारेति यावत् । जितोऽभिभूतः सारो
जनाह्लादकाशो यस्य तथाविधो गुणः केन महता अभिज्ञेनाभ्युदीर्यते
प्रकटीक्रियते ॥ १६ ॥

मुहूर्तमात्रं बिभ्रभ्य श्रुत्वा मध्याह्ननिःस्वनम् ।
घने कोलाहले शान्ते रामं मुनिरुवाच ह ॥ १७ ॥

रामाद्यतनमेतावदाह्निकं कथितं मया ।
प्रातरन्यत्तु वक्ष्यामो वक्तव्यमरिमर्दन ॥ १८ ॥

अह्ना निर्वृत्तमाह्निकम् । वक्ष्यामो वयमिति शेषः ॥ १८ ॥

इदं नियतितः प्राप्तं कर्तव्यं तद्द्विजन्मनाम् ।
मध्याह्नमुपपन्नं यत्कर्तव्यं नावसीदति ॥ १९ ॥

मध्याह्नं मध्याह्ने यदुपपन्नं युक्तं द्विजन्मनां नियतितः प्राप्तं
कर्तव्यं कर्म नावसीदतीति यत् तदिदं मयापि कर्तव्यमित्यन्वयः ॥ १९ ॥

त्वमप्युत्तिष्ठ सुभग समस्ताचारसत्क्रियाम् ।
आचराचारचतुरस्नानदानार्चनादिकाम् ॥ २० ॥

इत्युक्त्वा मुनिरुत्तस्थौ समं दशरथः प्रभुः ।
ससदाः सेन्दुरादित्य उदयाद्रितटादिव ॥ २१ ॥

मुनिना समं ससदाः सभाप्त्यसर्वजनसहितो दशरथोऽप्युत्तस्थौ ॥ २१ ॥

तयोरुत्तिष्ठतोः सर्वा सभोत्थातुमकम्पत ।
मन्दवातपरामृष्टा नलिनीवालिलोचना ॥ २२ ॥

अलिलोचणा इति सभाया अपि विशेषणम् ॥ २२ ॥

उत्तस्थौ सावतंसोत्थभृङ्गमण्डलमण्डिता ।
करिसेनेव सन्धयद्रावालोलकरपुष्करा ॥ २३ ॥

अत्रत्यमध्याह्नकाले अस्ताचले सूर्योदयकालः करिणामुत्थानयोग्य इत्याशयेन
सन्ध्याद्राविति । विन्ध्याद्राविति पाठे स्थानोपमा ॥ २३ ॥

परस्पराङ्गसङ्घट्टचूर्णिताङ्गदमण्डली ।
रत्नपूर्णारुणाम्भोदसन्ध्यासमयसूचनी ॥ २४ ॥

यतो रत्नपूर्णा अतः सादृश्यादरुणाम्भोदसन्ध्यासमयस्य सूचनी ।
स्मारिकेति यावत् ॥ २४ ॥

पतदुत्तंसविभ्रान्तभृङ्गोपहितघुङ्घुमा ।
मुकुटोद्दामविद्योतशक्रचापीकृताम्बरा ॥ २५ ॥

पतद्भिरुत्तंसविभ्रान्तैर्भृङ्गैराहितघुङ्घुमा ।
मुकुटानामुद्दामैर्नानामणिविद्योतैः शक्रचापीकृतमम्बरमाकाशं
वस्त्रजातं वा यया सा ॥ २५ ॥

कान्तालताहस्तदलचारुचामरमञ्जरी ।
वनलेखेव विक्षुब्धवरवारणमण्डला ॥ २६ ॥

कान्तालक्षणानां लतानां हस्तलक्षणेषु दलेषु पल्लवेषु चारुचामरलक्षणा
मञ्जर्यो यस्यां तथाविधा वनलेखेवेत्यर्थः ॥ २६ ॥

कचत्कटकभारक्तीकृतान्योन्यतताम्बरा ।
वातव्याधूतपुष्पेव मन्दारवनमालिका ॥ २७ ॥

कचन्तीभिः कटकभाभिः रक्तीकृतान्यन्योन्यमाकर्षणात्ततानि
विस्तृतान्यम्बराणि यस्याम् ॥ २७ ॥

कर्पूरकणनीहाररचितामलवारिदा ।
शरद्दिक्तटमालेव प्रसृताशेषभूमिका ॥ २८ ॥

कर्पूरकणलक्षणैस्तत्सदृशैश्च नीहारैर्हिमकणैरुड्डीयमानै रचिता
अमलाः शुभ्रा वारिदा यया । अत एव
नीहारकाशपुष्पादिभिर्व्याप्ताशेषभूमिका शरद्दिक्तटमालेव स्थिता ॥ २८ ॥

लोलमौलिमणिप्रान्तपाटलाम्बरकोटरा ।
सन्ध्येवाफुल्लनीलाब्जा कार्यसंहारकारिणी ॥ २९ ॥

कार्याणां दिनकृत्यानामुपसंहारकारिणी ॥ २९ ॥

रत्नांशुसलिलापूरमुखपद्मनिरन्तरा ।
पद्मिनीवालिवलिता नूपुरारवसारसा ॥ ३० ॥

सन्तता सा सभोत्तस्थौ भूभृच्छतसमाकुला ।
भूतसन्ततिसम्भ्रान्ता सृष्टिर्नवमिवोदिता ॥ ३१ ॥

भूभृतां राज्ञां पर्वतानां च शतैः ॥ ३१ ॥

प्रणम्याथ नृपं भूपा निर्ययुर्नृपमन्दिरात् ।
शक्रचापीकृता रत्नैरम्बुधेरिव वीचयः ॥ ३२ ॥

सुमन्त्रो मन्त्रिणश्चैव वसिष्ठमथ भूमिपम् ।
प्रणम्य जग्मुः स्नानाय रसविज्ञानकोविदाः ॥ ३३ ॥

रसे ब्रह्मरसे जले च विहारविज्ञाने कोविदाः ॥ ३३ ॥

वामदेवादयश्चान्ये विश्वमित्रादयस्तथा ।
वसिष्ठं पुरतः कृत्वा तस्थुरावर्ननोन्मुखाः ॥ ३४ ॥

आवर्जनमनुज्ञा तदुन्मुखास्तत्प्रतीक्षाः ॥ ३४ ॥

राजा दशरथस्तत्र पूजयित्वा मुनिव्रजम् ।
तद्विसृष्टो जगामाथ स्वकार्यार्थमरिन्दमः ॥ ३५ ॥

वनं वनास्पदा जग्मुर्व्योम व्योमनिवासिनः ।
नगरं नागराश्चैव प्रातरागमनाय ते ॥ ३६ ॥

वनास्पदा वानप्रस्थाः ॥ ३६ ॥

महीपतिवसिष्ठाभ्यां प्रणयात्प्रार्थितः प्रभुः ।
वसिष्ठसद्मनि निशां विश्वामित्रोऽत्यवाहयत् ॥ ३७ ॥

वसिष्ठः सह विप्रेन्द्रैः पार्थिवैर्मुनिभिस्तथा ।
उपास्यमानो रामाद्यैः सर्वैर्दशरथात्मजैः ॥ ३८ ॥

जगाम स्वाश्रमं श्रीमान्सर्वलोकनमस्कृतः ।
अनुयातः सुरौघेन ब्रह्मलोकमिवाब्जजः ॥ ३९ ॥

तस्मात्प्रदेशाद्रामादीन्पुनर्दशरथात्मजान् ।
सर्वान्विसर्जयामास पादोपान्ते नतानसौ ॥ ४० ॥

तस्मादाश्रमप्रदेशात् ॥ ४० ॥

नभश्चरान्धरणिचरानधश्चरा-
न्विसृज्य संस्तुतगुणगोचरांश्च तान् ।
यथाक्रमं स्वगृहमुदारसत्त्ववाम्-
श्चकार तां द्विजजनवासरक्रियाम् ॥ ४१ ॥

अधश्चरान्नागान् । संस्तुतानां प्रशस्तानां गुणानां गोचरानाश्रयानिति
यावत् । यथाक्रमं विसृज्य स्वगृहं प्रविश्येति शेषः । द्विजजनानां
वासरोचितां पञ्चयज्ञक्रियां चकारेत्यर्थः ॥ ४१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो०
उपशमप्रकरणे आह्निकवर्णनं नाम प्रथमः सर्गः ॥ १ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
आह्निकवर्णनं नाम प्रथमः सर्गः ॥ १ ॥