६२

द्विषष्टितमः सर्गः ६२

श्रीवसिष्ठ उवाच ।

धीरो विचारवान्साक्षादादावेव महाधिया ।
शास्त्रेण विदुषा शास्त्रं सुजनेन विचारयेत् ॥ १ ॥

रामस्य सर्वशास्त्रोक्तगुणसम्पत्तिरुच्यते ।
अवरस्यापि सत्सङ्गपौरुषाभ्यां वरस्थितिः ॥ १ ॥

अचिन्त्यगत्या सच्छास्त्रं विचार्यं च पुनःपुनरिति प्रागुक्तं तत्कथं विचार्य
तदाह - धीर इति । धीरो बाह्याभ्यन्तरद्वन्द्वसहिष्णुः । विचारवान्
ऊहापोहकुशलः । साक्षात्स्वयमेव तद्विज्ञानार्थ स
गुरुमेवाभिगच्छेत्समित्पाणिः इत्यादिशास्त्रेणोपगतेन विदुषा सुजनेन
शिष्यापराधसहिष्णुना गुरुणा सह शास्त्रमादौ विचारयेदित्यर्थः ॥ १ ॥

सुजनेन वितृष्णेन विदुषा महता सह ।
प्रविचार्य महायोगात्पदमासाद्यते परम् ॥ २ ॥

सुजनेन शोभनाभिजनेन । महायोगान्मनोनाशान्तात्समाधेः ॥ २ ॥

शास्त्रार्थसुजनासङ्गवैराग्याभ्याससत्कृतः ।
पुरुषस्त्वमिवाभाति निजविज्ञानभाजनम् ॥ ३ ॥

शास्त्राणां वेदान्तोपयोगिशास्त्रान्तराणामर्थानां सत्कर्मसदाचारादीनां
सुजनासङ्गवैराग्यादीनां च निरन्तराभ्यासैः सत्कृतः संस्कृतो यः
पुरुषस्त्वमिवाभाति स प्रकृतशास्त्रश्रवणे निजस्य
प्रत्यक्तत्त्वविषयस्वविज्ञानस्य भाजनमित्यर्थः । अथवा
अध्यात्मशास्त्रादिभिः सत्कृतो निजविज्ञानभाजनं भूत्वा त्वमिवाभातीति
योजना ॥ ३ ॥

त्वमुदारनिजाचारो धीरो गुणगणाकरः ।
अधितिष्ठसि निर्दुःखं वीतसर्गमनोमलः ॥ ४ ॥

उक्तगुणास्त्वयि सन्त्येवेत्याह - त्वमिति ॥ ४ ॥

नूनमुत्सर्जिताभ्रेण शरद्व्योम्ना समो भवान् ।
भव भावनया मुक्तो युक्त उत्तमसंविदा ॥ ५ ॥

इदानीं रामस्य प्रबोधाज्जीवन्मुक्ततां सम्भावयन्नाह - नूनमित्यादिना
॥ ५ ॥

चिन्तामुक्तकलावत्या मुक्तकल्पनया स्थितम् ।
मनो मुक्तविभागं च मुक्तमेव न संशयः ॥ ६ ॥

तत्सम्भावनाबीजं मुक्तमनसो लक्षणमाह - चिन्तेति ।
सर्वबाह्यार्थचिन्ताभिर्मुक्तया अन्तश्च परमात्मना क्षीरोदकवदेकीभावात्
कलावत्या ब्रह्माकारपरिणतिलक्षणकौशलवत्या मुक्तानामनुभवसिद्धया
कल्पनया स्थितं मनो मुक्तमेव नात्र संशय इत्यर्थः ॥ ६ ॥

तवोत्तमानुभावस्य त इदानीं नरा भुवि ।
चेष्टामनुसरिष्यन्ति रागद्वेषविहीनया ॥ ७ ॥

एवं मुक्तमनसस्तव चेष्टान्ते प्रागुक्ता जीवन्मुक्ता इदानीं रागद्वेषविहीनया
प्रागुक्तकल्पनया अनुसरिष्यन्ति ॥ ७ ॥

वहिर्लोकोचिताचारा विहरिष्यन्ति ये जनाः ।
भवार्णवं तरिष्यन्ति धीमन्तः पोतकान्विताः ॥ ८ ॥

पोतका ज्ञानप्लवास्तैरन्विताः ॥ ८ ॥

तव तुल्यमतिर्यः स्यात्सुजनः समदर्शनः ।
योग्योऽसौ ज्ञानदृष्टीनां मयोक्तानां सुदृष्टिमान् ॥ ९ ॥

यावद्देहं धिया तिष्ठ रागद्वेषविहीनया ।
बहिर्लोकोचिताचारस्त्वन्तस्त्यक्ताखिलैषणः ॥ १० ॥

किं तर्हि जीवन्मुक्तस्य मम शरीरत्यागो यथेष्टाचरणं वास्तु नेत्याह -
यावद्देहमिति । लोकोचितोधर्मशास्त्रसद्दुत्तानुसारी आचारो यस्य ॥ १० ॥

परां शान्तिमुपागच्छ यथान्ये गुणशालिनः ।
अविचार्यास्त एवेह गोमायुशिशुधर्मकाः ॥ ११ ॥

गोमायुधर्मकाः स्वार्थकौशलेन परवञ्चकाः । शिशुधर्मका
यथेष्टाचारिणो मूढाः ॥ ११ ॥

ये स्वभावा महासत्या नृणा सात्त्विकजन्मनाम् ।
तान्भजन्पुरुषो याति पाश्चात्योदारजन्मताम् ॥ १२ ॥

शुद्धसात्त्विकजन्मनां जीवन्मुक्तानां ये स्वभावाः स्वाभाविकाः
शमदमादिगुणास्तान्भजन् अर्जयन्साधारणोऽपि पुरुषः क्रमात् ज्ञानं
प्राप्य पाश्चात्योदारजन्मतां चरमजीवन्मुक्तशरीरं प्राप्नोतीत्यर्थः ॥ १२ ॥

यानेव सेवते तन्तुरिह जातिगुणान्सदा ।
अथान्यजातिजातोऽपि [१] जातिं भजति तां क्षणात् ॥ १३ ॥

तत्कुतस्तत्राह - यानेवेति । उत्कृष्टजातिगुणसेवने उत्कृष्टजातौ जन्म
लभते निकृष्टजातिगुणसेवने निकृष्टमिति नियमादित्यर्थः ॥ १३ ॥

प्राक्तनानखिलान्भावान्यान्ति कर्मवशं गताः ।
पौरुषेणावजीयन्ते धराधरमहाकुलाः ॥ १४ ॥

प्राक्तनानिति । यं यं वापि स्मरन्भावम् इति न्यायादित्यर्थः । अवश्यं
निकृष्टतमेनापि मोक्षायैव यत्नः कार्यः पौरुषादनुपरतस्य
फलसिद्धेरवश्यम्भावादित्याशयेनाह - पौरुषेणेति । धराधरा
राजानः पर्वताश्च तेषां महाकुलाः सेनावनानि च
नीतिशास्त्रानुसारिपौरुषेण च्छेदनादिना चावजीयन्ते लोके ॥ १४ ॥

धैर्येणाभ्युद्धरेद्बुद्धिं पङ्कान्मुग्धगवीमिव ।
तामसीं राजसीं चैव जातिमन्यामपि श्रितः ॥ १५ ॥

अभ्युद्धरेद्विषयेभ्यो निवर्तयेत् । तामसीं रक्षःपिशाचशूद्रादिरूपां जातिं
योनिं राजसीं क्षत्रियवैश्यादिरूपामन्यां सत्त्वतमोमिश्रसर्पादिजातिमपि
श्रितः प्राप्तः पुरुषः ॥ १५ ॥

स्वविवेकवशाद्यान्ति सन्तः सात्त्विकजातिताम् ।
अतश्चित्तमणौ स्वच्छे यद्राघव नियोज्यते ॥ १६ ॥

उक्तमेव प्रपञ्चयति - स्वविवेकेत्यादिना । चित्तमणौ चित्तस्फटिके । नियोज्यते
आसज्ज्यते ॥ १६ ॥

तन्मयो विभवत्येवं तस्माद्भवति पौरुषम् ।
पौरुषेण प्रयत्नेन महार्हगुणशालिनः ॥ १७ ॥

मुमुक्षवो भवन्तीह पाश्चात्यशुभजातयः ।
न तदस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् ॥ १८ ॥

पौरुषेण प्रयत्नेन यन्नाप्नोति गुणान्वितः ।
ब्रह्मचर्येण धैर्येण वीर्यवैराग्यरंहसा ।
युक्त्या युक्तेन हि विना न प्राप्नोषि तदीहितम् ॥ १९ ॥

हितं महासत्त्वतयात्मतत्त्वं
विधाय बुद्ध्या भव वीतशोकः ।
तव क्रमेणैव ततो जनोऽयं
मुक्तो भविष्यत्यथ वीतशोकः ॥ २० ॥

उक्तं सङ्क्षिप्योपसंहरति - हितमिति ।
सर्वप्राणिनामात्यन्तिकदुःखोपशमोपलक्षितनिरतिशयानन्दरूप##-
विशुद्धसत्त्वगुणोपचयोपाये प्रणिधानवत्या बुद्ध्या विधाय आत्मभावेन
स्थिरीकृत्य वीतशोको भवेत्युपदेश आशीश्च । तवोपदिष्टेन
क्रमेणान्योऽप्ययमधिकारिजनो मुक्तो भविष्यतीत्यर्थः ॥ २० ॥

पाश्चात्यजन्मनि विवेकमहामहिम्ना
युक्ते त्वयि प्रसृतसर्वगुणाभिरामे ।
सत्त्वस्थकर्मणि पदं कुरु रामभद्र
मैषा करोतु भवसङ्गविमोहचिन्ता ॥ २१ ॥

हे रामभद्र त्वं विवेकमहामहिम्ना युक्ते प्रसृतैः पल्लवितैः सर्वैः
शान्तिदान्त्यादिगुणैरभिरामेऽस्मिन्पाश्चात्यजन्मनि प्राप्ते सति सत्त्वस्थानां
जीवन्मुक्तानां कर्मणि सप्तमभूमिकालक्षणे पदं स्थानं कुरु । एषा
वैराग्यप्रकरणोपवर्णिता सर्वजनप्रसिद्धा च भवसङ्गविमोहचिन्ता त्वयि
पदं स्थानं मा करोत्वित्यर्थः ॥ २१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते
द्वात्रिंशत्साहस्त्र्यां संहितायां मोक्षोपायेषु स्थितिप्रकरणे
द्विषष्टितमः सर्गः ॥ ६२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे द्विषष्टितमः
सर्गः ॥ ६२ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्सर्वज्ञसरस्वती##-
श्रीमद्गङ्गाधरेन्द्रसरस्वतीपूज्यपादशिष्येण
श्रीमदानन्दबोधेन्द्रसरस्वत्याख्यभिक्षुणा विरचिते
श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणं समाप्तम् ॥

समाप्तमिदं स्थितिप्रकरणम्