एकषष्टितमः सर्गः ६१
श्रीवसिष्ठ उवाच ।
ये हि राजससात्त्विक्या जाता भुवि महागुणाः ।
ते नित्यमेव मुदिताः प्रकाशाः स्व इवेन्दवः ॥ १ ॥
मुक्तियोग्याः प्रशस्यन्ते जना राजससात्त्विकाः ।
तेषां विवेकवैराग्यक्रमश्चात्रोपदिश्यते ॥ १ ॥
ये प्रविचारणयोग्यतामनुगताः पुरुषा राजससात्त्विक्या प्राक्तनकर्मोपासनया
भुवि जाताः ॥ १ ॥
न खेदमभिगच्छन्ति व्योमभागो मलं यथा ।
नापदा म्लानिमायान्ति निशि हेमाम्बुजं यथा ॥ २ ॥
खेदं मानसं दुःखम् । म्लानिं शारीरं दुःखम् ॥ २ ॥
नेहन्ते प्रकृतादन्यत्ते नान्यत्स्थावरो यथा ।
रमन्ते स्वसदाचारैः स्वार्थेभ्यः पादपा यथा ॥ ३ ॥
यथा स्थावरो वृक्षादिः प्रारब्धभोगादन्यन्नेहते तद्वते प्रकृतात्
ज्ञानतत्साधनसम्पदोऽन्यन्नेहन्ते । स्वार्थेभ्यः स्वीयपुष्पफलादिभ्यो
हेतुभ्यः ॥ ३ ॥
नित्यमापूर्यतां याति सुधायामिन्दुसुन्दरी ।
राम राजससत्त्वस्य मोक्षमायात्यसौ यथा ॥ ४ ॥
राजससत्त्वस्योक्तपुरुषस्य धीः
शान्त्यादिसुधायामुपचितायामापूर्यतामुपचेयतां याति । अत एव
शुक्लपक्षेन्दुरिव सुन्दरी ॥ ४ ॥
आपद्यपि न मुञ्चन्ति शशिवच्छीततामिव ।
प्रकृत्यैव विराजन्ते मैत्र्यादिगुणकान्तया ॥ ५ ॥
शीततामिव स्थितां सौम्यतां शशिवन्न मुञ्चन्ति ॥ ५ ॥
नवस्तबकभाविन्या लतयेव वनद्रुमाः ।
समाः समरसाः सौम्याः सततं साधुसाधवः ॥ ६ ॥
नवैः स्तनकल्पैः स्तबकैर्भावः प्रेमा तद्वत्या लतयेव नित्याश्लिष्टया
गुणकान्तयेति पूर्वेणान्वयः । साधुभ्योऽपि साधवः ॥ ६ ॥
अब्धिवद्धृतमर्यादा भवन्ति भवता समाः ।
अतस्तेषां महाबाहो पदमापदवासनम् ॥ ७ ॥
यत एवङ्गुणसम्पन्ना अतस्तेषामापदामवासनमनधिकरणं यत्पदं तत्तु
तदेव यथा गन्तव्यं तथेह जगति अखेदिना मनसा विहर्तव्यमिति परेणान्वयः
॥ ७ ॥
सततं तत्तु गन्तव्यं गन्तव्यं नापदर्णवे ।
तथा तथेह जगति विहर्तव्यमखेदिना ॥ ८ ॥
आत्मोदयाश्च वर्धन्ते यथाऽराजससात्त्विकाः ।
अचिन्त्यगत्या सच्छास्त्रं विचार्यं च पुनःपुनः ॥ ९ ॥
अराजसा रजःक्षयोपेताः सात्त्विका आत्मोदयाः स्वानन्दलाभा यथा वर्धन्ते
तथा अचिन्त्यगत्या मूढचिन्तनार्हविषयगतिपरित्यागेन पुनःपुनः
सच्छास्त्रं विचार्यं भवतीत्यर्थः ॥ ९ ॥
अनित्यता स्वमनसा विविधैवाशु भावतः ।
आदावन्ते च यां नित्यं क्रियां त्रैलोक्यवर्तिनीम् ॥ १० ॥
एवं भावतः अत्यादरेण सर्ववस्तूनां विविधा नानानिमित्तोपपाद्या अनित्यतापि
आशु विचार्या भवतीति विपरिणम्यते । एतावन्तं कालमुदारप्रशंसामुखेन
रामाय सद्गुणानुपदिश्येदानीं साक्षादेवोपदिशति - आदावित्यादिना ।
एवमनित्यतां विचारयन् सुधीर्विशुद्धबुद्धिः आदौ ऐहिकोपभोगायोपयुक्तां
लौकिकीमन्ते मरणोत्तरकाले उपयुक्तां पारलौकिकीं च त्रैलोक्यवर्तिनीं क्रियां
तत्फलभूतान्पशुपुत्रधनस्वर्गविमानाप्सरःप्रभृतिपदार्थांश्च
आपदेवेति भावयेत् न इतरत् सम्पदियमिति भावयेदिति परेणान्वयः ॥ १० ॥
पदार्थानापदेवाशु भावयेन्नेतरत्सुधीः ।
असम्यग्दर्शनं त्यक्त्वा व्यर्थमज्ञानसन्ततिम् ॥ ११ ॥
स्मर्तव्यं सम्यगेवेदं ज्ञानमर्थमनन्तकम् ।
कोऽहं कथमिदं जातं संसाराडम्बरं विभो ॥ १२ ॥
इदं वक्ष्यमाणप्रकारं विचारात्मकं ज्ञानमनन्तकमर्थं प्राप्तुमिति
शेषः । विधिवदुपगतेन साधुभिः सतीर्थ्यैः सह प्रयत्नेन सेवादिना
प्रसादितेन प्राज्ञेन गुरुणा हे प्रभो कोऽहमित्यादिसविनयप्रश्नपूर्वकं
विचार्य स्मर्तव्यमिति सम्बन्धः ॥ १२ ॥
प्रविचार्य प्रयत्नेन प्राज्ञेन सह साधुभिः ।
नच कर्मसु मङ्क्तव्यं नानर्थेन सहावसेत् ॥ १३ ॥
श्रवणाङ्गतया कर्मसन्न्यासमाह - नचेति । मङ्क्तव्यं मज्जनीयम् ।
मस्जेर्भावे तव्यः मस्जिनशोर्झलि इति नुम् ॥ १३ ॥
द्रष्टव्यः सर्वविच्छेदः संसारानुगतः सदा ।
साधुरेवानुगन्तव्यो मयूरेणाम्बुदो यथा ॥ १४ ॥
सर्वस्य प्रियस्य विच्छेदोऽवश्यम्भावीति द्रष्टव्यः ॥ १४ ॥
अहङ्कारस्य देहस्य संसारस्याप्लवस्य च ।
स्वविचारमलङ्कृत्य सत्यमेवावलोकयेत् ॥ १५ ॥
आन्तरस्याहङ्कारस्य ततो बाह्यस्य देहस्य ततोऽपि बाह्यस्य
पुत्रमितादिसंसारस्य चाप्लवार्णवत्रयकल्पस्य प्लवभूतं स्वविचारं अलं
पूर्णभावावसानं कृत्वा ॥ १५ ॥
शरीरमस्थिरमपि सन्त्यक्त्वा घनशोभनम् ।
वीतमुक्तावलीतन्तुं चिन्मात्रमवलोकयेत् ॥ १६ ॥
सत्यमेवावलोकयेदिति यदुक्तं तत्रोपायमाह - शरीरमिति ।
अपिशब्दादहङ्कारमपि सन्त्यक्त्वा । ल्यबकरणं छान्दसम् । घनशोभनं
अत्यन्तं शुभम् । वीता व्याप्ता मुक्तावली येन तथाविधम् ।
छान्दसत्वादुपसर्जनह्रस्वाभावः । भूतेति पाठे स्पष्टम् ।
तदन्तर्गततन्तुमिव सर्वदेहाहङ्कारसाधारणमन्तर्गतं
साक्षिचिन्मात्रमित्यर्थः ॥ १६ ॥
तस्मिन्पदे नित्यतते सर्वगे सर्वभाविते ।
शिवे सर्वमिदं प्रोतं सूत्रे मणिगणा यथा ॥ १७ ॥
दृष्टान्तसाम्यं दर्शयति - तस्मिन्नित्यादिना ॥ १७ ॥
यैव चिद्भुवनाभोगे भूषणे व्योम्नि भास्करे ।
धराविवरकोशस्थे सैव चित्कीटकोदरे ॥ १८ ॥
कुम्भव्योम्नां न भेदोऽस्ति यथेह परमार्थतः ।
चितौ शरीरसंस्थानां न भेदोऽस्ति तथानघ ॥ १९ ॥
चिद्भेदाशङ्कां निरस्यति - कुम्भेति । शरीरसंस्थानां जीवानाम् । चितौ
चिति ॥ १९ ॥
सर्वेषामेव भूतानां तिक्तकट्वादिमेदिनाम् [कट्वादिवेदिनां इति
पाठः] ।
एकत्वादनुभूतेर्हि कुतश्चिन्मात्रभिन्नता ॥ २० ॥
यथा एकपुरुषास्वादमीयतिक्तकट्वादिरसभेदेऽपि
नानुभवभेदस्तद्वद्देहादिभेदेष्वपीत्याशयेनाह - सर्वेषामिति ॥ २० ॥
एकसिन्नेव सततं स्थिते सन्मात्रवस्तुनि ।
जातोऽयमयमुन्नष्ट इति तेषां तवेह धीः ॥ २१ ॥
चेतनेषु चिद्भेद इव सर्ववस्तुषु सत्स्वरूपभेदोऽपि नास्तीत्याशयेनाह -
एकस्मिन्निति । तेषां जातादिवस्तूनाम् । तव इह मूढजनेषु प्रसिद्धा धीर्य
शास्त्रीयेत्यर्थः ॥ २१ ॥
नच तन्नाम वस्त्वस्ति यद्भूत्वा सम्प्रलीयते ।
आभासमात्रमेवेदं न सन्नासच्च राघव ॥ २२ ॥
कीदृशी तर्हि शास्त्रीयधीस्तामाह - नचेति ॥ २२ ॥
उद्भूतेनाप्रशान्तेन चेतसा सपदि स्थितम् ।
नेह मोहान्त आमोक्षान्नेदं यत्तदवस्तु च ॥ २३ ॥
न सन्नासच्चेत्युक्तिमुपपादयति - उद्भूतेनेति । यत आमोक्षात्
उद्भूतेनाभिव्यक्तेन अप्रशान्तेन च चेतसा स्फुटं गृह्यमाणं सपदि
स्वकाले स्थितं अतो नासत् । मोहस्यान्ते निवृत्तौ तु आमोक्षात्प्रसिद्धे इह
पूर्वकाले इदं नास्ति मोक्षकाले त्विदं सुतरां नास्तीत्यवस्तु चेति न
सदपीत्यर्थः ॥ २३ ॥
किं किलासति रामेह मोहजाले समुज्झति ।
यत्किञ्चित्सङ्गसङ्गत्या विमोहे कारणं हि तत् ॥ २४ ॥
ज्ञानसाफल्यपर्यालोचनेऽपि मोहादेः सत्त्वमत्यन्तासत्त्वं वा
दुर्वचमित्यनिर्वचनीयतैव फलितेत्याह - किं किलेति । मोहजाले अत्यन्तासति
ज्ञानेन किं किल समुज्झति निरस्यति । निरस्याभावे निरासकसाफल्यायोगात् ।
एवमत्यन्तसत्त्वे वा ज्ञानेन किं समुज्झति । सत्यस्य ज्ञाननिरस्यत्वादर्शनात् ।
तस्माद्यः कश्चिच्चासौ सङ्गश्च
यत्किञ्चित्सङ्गोऽनिर्वचनीयाध्यासस्तल्लक्षणया सङ्गत्या रज्जुसर्पादीव तत्
दृश्यजातं विमोहे कारणमिति परिशेषात्सिद्धमित्यर्थः ॥ २४ ॥
(असति [इदमन्तिमं पद्मं क्वचिद्दृश्यते] जगति किं किलेह
मोहः
सति च किमङ्ग विमोहकारणं तत् ।
जननमरणसंस्थितिष्वतस्त्वं
भव खमिवातिसमः सदोपशान्तः ॥)
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे
जननमरणसंस्थितिर्नामैकषष्टितमः सर्गः ॥ ६१ ॥
इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे स्थितिप्रकरणे
जननमरणसंस्थितिर्नामैकषष्टितमः सर्गः ॥ ६१ ॥