षष्टितमः सर्गः ६०
श्रीवसिष्ठ उवाच ।
अस्मिन्भगवति ब्रह्मंश्चपलं पदमाश्रिते ।
पितामहे महाबाहो कृतसर्गव्यवस्थितौ ॥ १ ॥
ब्रह्मोत्थितानां जीवानामिह देहग्रहक्रमः ।
वर्ण्यते सात्त्विकानां च प्राधान्याद्बोधभागिनाम् ॥ १ ॥
प्रागुक्तत्र्यनीकसृष्टिं सा व्योमानिलमाश्रित्येति
सङ्क्षेपोक्तक्रमप्रपञ्चनेन वर्णयितुं भूमिकां रचयति -
अस्मिन्नित्यादिना । ब्रह्मन् ब्रह्मणि पितामहे । सुपां सुलुक् इति सप्तम्या लुकिन
ङिसम्बुद्ध्योः इति नलोपनिषेधः । चपलं पदं समाधिव्युत्थानम् ॥ १ ॥
जगज्जीर्णारघट्टेऽस्मिन्वहति स्वव्यवस्थया ।
विप्रेतभूतघटया रज्ज्वा जीविततृष्णया ॥ २ ॥
आरघट्टे घटीयन्त्रे विप्रेतानां मृतानां भूतानां घटया
समूहलक्षणया विप्रेतानि भूतान्येव घटा यस्यां तथाविधया वा
घटीमालारज्ज्वा जीवितं पुनर्देहग्रहणेन जीवनं जलं च तद्विषयतृष्णया
आरोहावरोहाभ्यां वहति परिवर्तमाने ॥ २ ॥
ब्रह्मोत्थेषु च भूतेषु विशत्सु भवपञ्जरम् ।
आवर्तेष्वीश्वरव्योमबालमध्यविवर्तिषु ॥ ३ ॥
अन्येषु मनःसु ईश्वरस्य मायाशबलब्रह्मणो बालः पुत्रभूतं प्रथमजं
यद्व्योम तन्मध्ये विवर्तिषु भ्रमणशीलेषु सत्सु ॥ ३ ॥
मनःस्वन्येषु वातान्तलोलाहतकणेष्विव ।
अनारतं विनिर्यान्ति विशन्त्यन्ये तथाभितः ॥ ४ ॥
हे राम ब्रह्मणि जीवौघा अनारतं सततं केचन
उपाधिविनिर्गमादग्निविस्फुलिङ्गवद्विनिर्यान्ति । केचित्त्वन्ये
उपाधिविलयात्सुप्ताविव विश्रान्तये प्रविशन्तीत्यर्थः ॥ ४ ॥
राम ब्रह्मणि जीवौघास्तरङ्गा इव वारिधौ ।
अनाद्यन्तपदोत्पन्नाः कलनापदमागताः ॥ ५ ॥
उत्पन्ना इत्यस्य व्याख्या कलनापदमागता इति ॥ ५ ॥
भूताकाशं विशन्त्येते धूमश्रीरिव चाम्बुदम् ।
एकतां यान्ति जीवौघा ब्रह्मण्याकाशमारुतैः ॥ ६ ॥
तत्र पूर्वसर्गेऽनुक्तं तृतीयानीकोत्पत्तिक्रमं प्रथमं प्रपञ्चयति -
भूताकाशमित्यादिना । ब्रह्मणि अध्यस्तैराकाशमारुतैः सह
क्षीरोदकवदेकतां यान्ति ॥ ६ ॥
दिनं तन्मात्रवातेन तत्प्राणात्मतया यथा ।
आक्रम्यन्ते प्रचण्डेन दैत्यौघेनामरा इव ॥ ७ ॥
ततस्तेजोम्बुभुवामुत्पत्तौ सत्यां दिनं प्रकाशं प्राप्य
शब्दस्पर्शरूपरसगन्धलक्षणतन्मात्रसहितेन प्रागुक्तवायुना तथा
तदुपभोगहेत्वमुख्यमुख्योभयविधप्राणात्मतया च आक्रम्यन्ते
वशीक्रियन्ते ॥ ७ ॥
भूतप्राणानिलं तेन गन्धवाहेन तेन च ।
निविशन्ति शरीरेषु जीवा गच्छन्ति वीर्यताम् ॥ ८ ॥
एवं लिङ्गदेहतां प्राप्तास्तेन प्राणात्मभावेन तेन गन्धवाहेन
भूततन्मात्रसहितवायुना च सहान्नोदकादिद्वारा चतुर्विधभूतग्रामाणां
प्राणानिलमन्नग्रासकमपानवृत्तिभेदं प्राप्य शरीरेषु निविशन्ति ।
नेर्विशः इति तङभावश्छान्दसः । वीर्यतां रेतोभावम् ॥ ८ ॥
ततो जगति जायन्ते भवन्ति प्राणिनोऽस्फुटाः ।
अन्या धूमादिमाजाता राम जीवपरम्परा ॥ ९ ॥
अस्फुटा अनभिव्यक्तज्ञानैश्वर्याः । तृतीयानीकस्य सर्गक्रममुक्त्वा
द्वितीयानीकस्य तमाह - अन्या इति । अस्या अपि लिङ्गदेहप्राप्तिपर्यन्तं प्रागुक्त
एव क्रमः । ओषधिवनस्पतिप्रवेशेन क्षीराज्यादिपरिणत्याग्नौ हुता
आहुतिर्धूमद्वारा सूर्यमण्डलं प्राप्य सूर्यकिरणद्वारा चन्द्रानुप्रवेशेन
वा रंहत्यधिकरणन्यायेनाहुत्यप्परिवेष्टितयजमानप्राणानां
धूमादिमार्गेण चन्द्रमण्डलानुप्रवेशाद्वा धूमादिं मार्गं आजाता
अनुप्रविष्टाअ ॥ ९ ॥
तन्मात्रवति तावद्भिरशून्येऽम्बरकोटरे ।
उदेति यावद्भगवानिन्दुरुद्दाममण्डलः ॥ १० ॥
सापि चन्द्रकलात्मतां प्राप्ता कल्पवृक्षफलेषु
रसभावेनानुप्रवेशात्तदुपभोक्तृवीर्यभावपरिणामेन देवगर्भे जायते इति
क्रममभिप्रेत्याह - तन्मात्रवतीत्यादिना ।
प्रागुक्ततन्मात्रात्मकलिङ्गदेहवति । उद्दाममण्डलः पूर्णो
भगवानिन्दुर्यावत् यावद्भी रश्मिभिर्जगद्भासयन्नुदेति तावद्भिर्लोलैः
पाण्डुरूपवद्रश्मिभिरशून्ये पूर्णे अत एव क्षीराम्बुधेर्निधौ आश्रयभूते
प्रतिनिधिभूते वा अम्बरकोटरे सा तिष्ठतीति शेषः ॥ १० ॥
क्षीराम्बुधिनिधौ लोलैः पाण्डुवद्रश्मिभिर्जगत् ।
ततस्तेष्वतिरम्येषु चन्द्ररश्मिषु सम्पतत् ॥ ११ ॥
ततस्तदनन्तरं तेषु चन्द्ररश्मिषु नन्दनादिवने सम्पतत् सम्पतत्सु ।
छान्दसः सुपो लुक् । रश्म्यनुसारेण सम्पतन्ती तस्मिन्वने प्रेष्या दासी आन्तरेषु
गृहाभ्यन्तरकृत्येष्विव लोला व्यग्रा विहगी पक्षिणीप्राया करोति प्रवेशमिति
शेषः ॥ ११ ॥
करोति विहगी लोला वने प्रेष्यान्तरेष्विव ।
तेभ्योऽपि स्वरसेनैव यान्ति पीवरतामपि ॥ १२ ॥
ततस्मिन्वने फलानि तेभ्य्श्चन्द्ररश्मिभ्योऽपिशब्दाद्रविरश्मिभ्यश्च
निमित्तेभ्यः स्वरसेनैव पीवरतां क्रमादुपचयं माधुर्यमपि यान्ति ॥ १२ ॥
फलेषु तेषु बध्नाति पदमिन्दुकरात्क्षता ।
जीवाली क्षीरपूर्णेषु मातुः स्तनभरेष्विव ॥ १३ ॥
एवं रसपूर्णेषु प्रागुक्ता जीवाली इन्दुकरात् क्षता विभक्ता सती तेषु फलेषु
पदं स्थितिं बध्नाति । यथा शिशुर्मातुः स्तनभरेषु पदं बध्नाति तद्वत् ॥
१३ ॥
ताः फलावलयः पक्वा भविष्यन्ति मरीचिभिः ।
तेष्वेव वीर्यमागत्य तिष्ठन्त्यप्राप्तबोधिताः ॥ १४ ॥
मरीचिभिः रविरश्मिभिः । तेष्वेव फलेषु कश्यपादिभिरुपभुक्तेषु वीर्य
वीर्यतामागत्य प्राप्य । अप्राप्तबोधिताः मूर्च्छितप्रायाः ॥ १४ ॥
प्रसुप्तवासनाजालजीवतागर्भपञ्जरम् ।
अधितिष्ठति बीजश्रीः सुप्तपत्रा यथा वटम् ॥ १५ ॥
मूर्च्छितजीवानां प्रबुद्धपितृमातृगर्भस्थितौ दृष्टान्तमाह -
बीजश्रीरिति । यथा सुप्तपत्रा अनाविर्भूताङ्कुरविटपपत्रा
वटबीजश्रीराविर्भूतविटपाङ्कुरपत्रफलं वटमधिष्ठाय तिष्ठति
तद्वदित्यर्थः ॥ १५ ॥
यथा काष्ठे स्थितश्चाग्निर्यथा मृदि घटा स्थिताः ।
अनेकक्रमयोगेन परागत्य महेश्वरात् ॥ १६ ॥
न केवलं गर्भ एव मूर्च्छितानामन्यमाश्रित्य तिरोहितस्थितिः किन्तु
महेश्वरात् प्रलये उपाधिप्रविलयेन प्राप्तादव्यक्तात्परागत्य
निर्गम्याकाशादिभावे लिङ्गारम्भकाले चन्द्ररश्म्याद्यनुप्रवेशकाले च
अनेकक्रमयोगेन प्रवृत्तेस्तथैव स्थितिरित्यर्थः ॥ १६ ॥
अदृष्टान्यशरीरश्रीः क्रमतेयो न चोदति ।
स हि सत्ये जातिः स्यादुदारव्यवहारवान् ॥ १७ ॥
एवं गर्भे प्राप्तानां जन्मनि निमित्तभेदाद्विशेषं दर्शयति -
अदृष्टेत्यादिना । प्राग्जन्मनि न दृष्टा अन्यस्य स्त्रीपुत्रादिशरीरस्य श्रीर्येन
तथाविधः सर्वतो विरक्तः सन् यो मरणान्तं कालं क्रमते यश्च
रागादिभिर्बहुभिः
कर्मकाण्डादिशास्त्रैश्चैहिकपारलौकिकभोगसाधनलौकिकवैदिककर्मसु
चोद्यमानोऽपि न चोदति न प्रवर्तते स हि धीरः पुरुषधौरेयः
प्रागुक्तक्रमाद्देवगर्भे जायमानः सती अत्यन्तसात्त्विक्येव जातिः संस्तत्र
ज्ञानं प्राप्य उदारजीवन्मुक्तोचितव्यवहारवान्स्यादित्यर्थः ॥ १७ ॥
तेनैव मोक्षभागी चेज्जन्मना स तु सात्त्विकः ।
अथैतां योनिमासाद्य कृत्यां जन्मपरम्पराम् ॥ १८ ॥
देवपदाधिकारप्राप्त्यनुकूलकर्मोपासनानुष्ठायिनां त्वाह - अथेति ।
एतां देवयोनिमासाद्य कृत्यां छेत्तुं शक्यामपि जन्मपरम्परां
भोगलाम्पट्यादकृन्तन्स्वाधिकारभोगरक्षार्थमेव प्राप्तजन्मा चेत्स
तमोयुक्तो राजससात्त्विक इत्यर्थः ॥ १८ ॥
रक्षार्थं प्राप्तजन्मा चेत्तमोराजससात्त्विकः ।
पाश्चात्यजन्मना पुंसो राम वक्ष्यामि चाधुना ॥ १९ ॥
इदानीं प्रथमानीकजानां केवलसात्त्विकत्वमपुनर्जन्मतां चाह -
पाश्चात्येति । पाश्चात्येन चरमेण जन्मना नरसुरानीकापेक्षया प्राधान्येन
प्राजापत्याधिकारेण संसारमायातः केवलसात्त्विको विध्यनीको यथा मुच्यते इति
तथा वक्ष्यामीत्यन्वयः ॥ १९ ॥
प्राधान्येन यथाऽयातः संसारमिति सात्त्विकः ।
स कदाचिन्न कश्चिच्च सम्भवत्यनघाकृते ॥ २० ॥
स प्रथमानीकजः पुमान् कश्चिदपि कदाचिदपि न पुनः सम्भवति मुच्यत
एवेत्यर्थः ॥ २० ॥
सम्भवन्तीह पुरुषा राम राजससात्त्विकाः ।
प्रविचार्य समायात मन्तव्यं चेह तद्धिया ॥ २१ ॥
के तर्हि सम्भवन्ति तानाह - सम्भवन्तीति । केवलसात्त्वकस्य
पुनर्जन्माभावे को हेतुस्तमाह - प्रविचार्येति । यतस्ते प्राग्जन्मन्यप्यात्म
तत्त्वं श्रवणाद्युपायैः प्रविचार्य प्रतिबन्धमात्रक्षयाय तद्योग्यं
सात्त्विकं जन्म समायाता इह जन्मन्यपि तेषां धिया सदैवात्मतत्त्वमेव
मन्तव्यं मननेन परिशीलनीयं तस्मादित्यर्थः ॥ २१ ॥
प्राधान्येन समायाता ये यदा परमात्मनः ।
दुर्लभाः पुरुषा राम ते महागुणशालिनः ॥ २२ ॥
अत एव ते दुर्लभा इत्याह - प्राधान्येनेति ॥ २२ ॥
ये चान्ये विविधा मूढा मूकास्तामसजातयः ।
तेषां स्थावरतुल्यानां किञ्च राम विचार्यते ॥ २३ ॥
ये विधिसुरनरानीकेभ्योऽन्ये रक्षःपिशाचादयस्तिर्यञ्चश्च तेषां
स्थावरादितुल्यत्वाज्ज्ञानाधिकारकथायां विचारयोग्यतैव नास्तीति तेनोपन्यस्ता
इत्याह - ये चान्ये इति ॥ २३ ॥
कतिपया न गता भवभावनां
नरसुराः प्रकृतक्रमजन्मनि ।
अहमिव प्रविचारणयोग्यता-
मनुगतो ननु राजससात्त्विकः ॥ २४ ॥
तत्त्वदौर्लभ्यमेवोपपादयन्नुपसंहरति - कतिपया इति । प्रकृते क्रमेण
प्राप्तेऽपि उत्तमजन्मनि कतिपया एव नराः सुराश्च भवभावनां
सांसारिकभोगरुचिं न गताः । तथाच वैराग्यमेवातिदुर्लभमित्यर्थः ।
किम्बहुना । अप्यर्थे ननुशब्दः । तेष्वहमिव जन्मप्रभृत्येव
शमदमादिसर्वगुणसम्पत्त्या प्रकर्षेणात्मविचारणयोग्यतामनुगतोऽपि
निरन्तरसमाधिसुखविघ्नभूतराजकुलपौरोहित्याद्यधिकारप्रारब्धयोगाद्राज्
असात्त्विक ईषद्रजोयुक्तसात्त्विक एव न शुद्धसात्त्विक इत्यतिदौर्लभ्यद्योतनाय
निरभिमानादतिशयोक्तिः ॥ २४ ॥
स्थितस्य ते महापदाविचार्ययैवमायता ।
विचारय त्वमञ्जसा तदद्य चेह न द्वयम् ॥ २५ ॥
ममेव तवापि वैराग्यशमदमादिसम्पत्तिपूर्णत्वमस्त्येव किन्तु महतः
परमात्मपदस्य अविचार्यया अविचारणया स्थितस्यैवमुक्तप्रकारा
संसारभ्रान्तिरायता विस्तीर्णा । तत्पदं इह मत्पुरतः अद्यैव अञ्जसा शीघ्रं
विचारय । विचारयमात्रेण त्वमेव च इह प्रत्यक्षं न द्वयमद्वयं
तत्परमपदमसीत्यर्थः । अविचार्य या महती आपदा आपत् ते आयता आयाता इति वा
योज्यम् ॥ २५ ॥
इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थिति०
विचारपुरुषनिर्णयप्रसङ्गोपदेशजीवावतारो नाम षष्टितमः सर्गः ॥
६० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
विचारपुरुषनिर्णयप्रसङ्गोपदेशजीवावतारो नाम षष्टितमः सर्गः ॥ ६० ॥