५९

एकोनषष्टितमः सर्गः ५९

अन्नपानाङ्गनासङ्गादृते नास्तीह किञ्चन ।
शुभमस्त्विति संवादि महान्किमिव वाञ्छतु ॥ १ ॥

विषयासारता ब्राह्मात्सङ्कल्पाद्विश्वकल्पना ।
धातुर्निर्वेदविश्रान्तिः शास्त्रस्र्गश्च कीर्त्यते ॥ १ ॥

प्रासङ्गिकीं कचगाथां समाप्य प्रकृतं भोगजातस्य
तत्त्वविद्वाञ्छाद्ययोग्यत्वोपपादनमेवानुवर्तमानो वसिष्ठो
वैराग्योपदेशाय विषयासारतां प्रपञ्चयति - अन्नपानेत्यादिना । इह
संसारे अन्नपानाङ्गनालक्षणैर्विषयैर्जिह्वोपस्थादीन्द्रियाणां यः
सङ्गस्तस्मादृते शुभं पुरुषार्थरूपमन्यन्नास्ति इति
श्र्तुस्मृत्याप्तोपदेशानुभवसंवादि यथा स्यात्तथा निश्चित्य
महान्परमपदारूढ एतेषु भोगेषु किमिव वाञ्छतु । न
किञ्चित्तद्वाञ्छायोग्यमत्रास्तीत्यर्थः ॥ १ ॥

तिर्यञ्चः पशवो मूढा ये न तुष्यन्त्यसाधवः ।
भोगैः कृपणसर्वस्वैरादिमध्यान्तपेलवैः ॥ २ ॥

ननु मोक्ष इव कामोऽपि पुरुषार्थ एवेति सर्वैर्वाञ्छनीय एवेति ये
प्राहुस्तान्प्रत्याह - तिर्यञ्च इत्यादि ॥ २ ॥

विश्वासं यान्ति ये लोके तैरलं नरगर्दभैः ।
इतः केशा इतो रक्तमितीयं प्रमदातनुः ॥ ३ ॥

एतया तोषमायान्ति सारमेया न मानवाः ।
मृन्महीदारुतरवो देहा मांसमया अपि ॥ ४ ॥

सरमा देवशुनी तत्सन्ततिजाः सारमेयाः शुनकाः । सर्वा मही मृदेव ।
सर्वेऽपि तरवो दारुकाष्ठमेव । सर्वेऽपि देहा मांसमया एव ॥ ४ ॥

अधो भूरम्बरं पृष्ठे किमपूर्वं सुखाय तु ।
मात्रास्पर्शानुसारिण्यो विवेकपदभङ्गुराः ॥ ५ ॥

पृष्ठे ऊर्ध्वभागे अम्बरमाकाशमेव । अपूर्वं सारभूतं किमस्ति
यत्सुखायेत्यर्थः । मिन्वन्ति विषयानिति मात्रा इन्द्रियाणि तत्स्पर्शानुसारिण्यः ।
विवेकस्य पदे स्थाने तत्त्वे भङ्गुरा बाध्यमानाः ॥ ५ ॥

मोहायैवापरामृष्टाः सकला लोकसंविदः ।
सर्वस्या एव पर्यन्ते सुखाशायाश्च संस्थितम् ॥ ६ ॥

अपरामृष्टा अविचाररमणीयाः । लोकसंविदो जनव्यवहाराः । सर्वस्याः
सुखाशाया विषयलाभेनालाभेन वा पर्यन्ते । चस्त्वर्थे । मालिन्यं
पापविषयादिकालुष्यं वियोगविषादादिप्रयुक्त्ऽम् दुःखमपि एवं
साम्प्रतिकसुखान्तवदेव संस्थितमिति परेण सहान्वयः ॥ ६ ॥

मालिन्यं दुःखमप्येवं ज्वालाया इव कज्जलम् ।
आगमापायिनोऽनित्या मनःषष्ठेन्द्रियक्रियाः ॥ ७ ॥

इन्द्रियशक्तिक्षयाद्विषयसम्पत्क्षयाद्वा
भोगक्षयोऽवश्यमापततीत्याशयेनाह - आगमेति ॥ ७ ॥

लता नागेन्द्रमृदिता धारयन्ति न सम्पदः ।
पुत्रिका रक्तमांसस्य कान्तेयमिति सादरम् ॥ ८ ॥

सम्पदो विषयसम्पदो नित्यमुपभुज्यमाना नागेन्द्रमृदितलताप्रायाः सत्यो
न धारयन्ति क्षीयन्त इत्यर्थः । न केवलमनित्यत्वमेव
कान्तादिभोग्यस्याशुचिनरकरूपत्वमपीत्याह - पुत्रिकेति । अस्थिचये
स्वदेहनाम्ना पुरुषेण रक्तमांसस्य पुत्रिका इयं कान्ता इति बुद्ध्या सादरं
श्लिष्यते । मोहकस्य कामस्यायं क्रम इत्यर्थः ॥ ८ ॥

स्वदेहनाम्नाऽस्थिचये [नाम्ना स्थितये इत्यपि क्वचित्पठ्यते तत्तु
सङ्गतिविकलमिति प्रतीयते] श्लिष्यते मोहकक्रमः ।
सर्वं सत्यमिदं राम स्थिरमज्ञस्य तुष्टये ॥ ९ ॥

अत एवाज्ञस्यैव भोगस्तुष्टये न ज्ञस्येत्याह - सर्वमिति ॥ ९ ॥

ज्ञस्यास्थैर्यमसत्यं च जगद्राम न तुष्टये ।
अभुक्तेऽपि विषा यैषा विषमूर्च्छां प्रयच्छति ॥ १० ॥

अस्थिरमेवास्थैर्यम् । अभुक्ते अभोगेऽप्येषा भोगतृष्णा विषा
[विशब्दादर्शभाद्यपि(?) विषयतीत्यर्थः] या
विषवन्मूर्च्छा प्रयच्छति किं पुनर्भुक्ते सतीत्यर्थः ॥ १० ॥

तां परित्यज्य भोगास्थां स्वात्मैकत्वगतिं भज ।
अनात्ममयभावेन चित्तं स्थितिमुपागतम् ।
यदा तदैतदाजातं जगज्जालमसन्मयम् ॥ ११ ॥

भोगवासनयैवात्मनः अनात्मदेहादिमयात्मभावनया यदा चित्तं
स्थितिमुपागतं तदेत्यर्थः ॥ ११ ॥

वासनावशतो ब्रह्ममनसा कल्पितं वपुः ।
तेजसा श्रितकुड्येन हेमाभत्वमिवात्मनः ॥ १२ ॥

ननु अस्मच्चित्तस्थित्यनुसारिदेहादिजगज्जातमिति कथमुच्यते
विरिञ्चिसङ्कल्पजातस्य तन्मनोनुसारित्वस्यैवौचित्यादित्याशङ्क्याह -
वासनेति । ब्रह्मणो विरिञ्चेर्मनसा अस्मद्वासनाकर्मादिवशतस्तदनुसारेणैव
सङ्कल्पाज्जगद्वपुः कल्पितमित्यर्थः ॥ १२ ॥

श्रीराम उवाच ।

वैरिञ्चपदमासाद्य मनो ब्रह्मन्महामते ।
इदं जगत्सुघनतां कथमानयति क्रमात् ॥ १३ ॥

अन्यस्यान्यानुसारिरूपकल्पने दृष्टान्तमाह - तेजसेति । यथा
आश्रितहेमरजतेन्द्रनीलादिकुड्येन तेजसा सूर्याद्यालोकेन तत्तदनुसारिस्वरूपं
कल्पितं तद्वदित्यर्थः । प्रसङ्गाद्रामो विरिञ्चिमनसो जगत्कल्पनाक्रमं
पृच्छति - वैरिञ्चेति । पूर्वोपासकस्य मनः प्राक्तनं व्यष्ट्यभिमानं
समष्ट्यात्मताभावनाप्रचयजन्यसंस्कारपरिपाकेन निरस्य
समष्ट्यात्मनाभिनिष्पत्तिलक्षणं वैरिञ्चपदमासाद्य कार्यब्रह्मभूतं
सत् इदं जगत्कथं क्रमात्सुघनतां चतुर्विधभूतग्रामनिबिडताम् ।
अवान्तरसर्गविषयोऽयं प्रश्नः । आद्यसर्गक्रमस्य प्राग्बहुश उक्तत्वात् ॥ १३ ॥

श्रीवसिष्ठ उवाच ।

गर्भतल्पात्समुत्थाय पद्मजः प्रथमः शिशुः ।
ब्रह्मेति शब्दमकरोद्ब्रह्मा तेन स उच्यते ॥ १४ ॥

गर्भः पद्मकोशस्तल्लक्षणात्तत्ल्पात् । सङ्कल्पजालं
सङ्कल्पात्मकमनःसमष्टिस्तद्रूपस्य मनसा स्वेनैव
कल्पितचतुर्मुखाकृतेः ॥ १४ ॥

सङ्कल्पजालरूपस्य मनसा कल्पिताकृतेः ।
अकरोत्तस्य सङ्कल्पलक्ष्मीः पदमथोत्तरे ॥ १५ ॥

अथ उत्थानलक्षणजागरणकल्पनानन्तरं उत्तरे सर्गे पदं व्यवसायमकरोत्
॥ १५ ॥

ततः सङ्कल्पयामास पूर्वं तेजो महाप्रभम् ।
शरदन्ते लताचक्रचक्रीकृतदिगन्तरम् ॥ १६ ॥

सर्वव्यवहाराणामादित्याद्यालोकाधीनत्वात्प्रथममादित्यसर्ग
विवक्षुस्तदुपादानसर्वनभोव्यापितेजःसर्गमुक्त्वा तदेव तेजो वर्णयति -
तत इत्यादिना । शरत्कालान्ते हिमपाण्डुरैर्लताचक्रैरिव चक्रीकृतं
दिगन्तरालं येन ॥ १६ ॥

पक्षप्रतिमनिस्यूतकर्मणातिगुणाक्षरम् ।
पुञ्जपिञ्जरपर्यन्तं हेमज्ञाननिभाम्बरम् ॥ १७ ॥

पक्षप्रतिमनि प्रसारितपक्षिपक्षसदृशे पार्श्वद्वये स्यूतकर्मणा
तन्तुसन्तानकरणेन अतिगुणं बहुतन्तुकमिव अक्षरं क्षयधर्मवर्जितं
शून्यात्मकमाकाशं येन ।
प्रसृतैस्तेजःपुञ्जैर्दिगन्तगतचक्रवालगिरिशिखरचित्रधातुसम्भेदात्पिञ्जर्
आ दिक्पर्यन्ता येन । हेमेव
भास्वरमनावृतापरिच्छिन्नप्रकाशैकरसत्वाद्ब्रह्मज्ञाननिभं
चाम्बरमाकाशं येन ॥ १७ ॥

जालहेमलताजालजटालनिजमन्दिरम् ।
कचत्प्रसरदुद्यानाकारकुण्डलमण्डितम् ॥ १८ ॥

विकासाय दलकोटरेषु प्रविष्टैः किरणैर्जालेषु वातायनेषु
कल्पितैर्हेमलताजालैरिव भास्वरैः केसरैर्जटालं निजमन्दिरं
वैरिञ्चपद्मं येन । एकार्णवतरङ्गेषु प्रतिफलनेन कचद्भिर्दीप्यमानैः
प्रसरदुद्यानवनाकारैश्च कुण्डलैः किरणावर्तिर्मण्डितम् ॥ १८ ॥

तं शरीरं मनस्तस्मिंस्ततस्तेजसि भास्वरे ।
आत्माकारसमाकारं भास्वरं समकल्पयत् ॥ १९ ॥

तस्मिंस्तेजसि हिरण्यगर्भस्य स्वसदृशमूर्त्यन्तरकल्पनेन प्रवेशमाह ##-
प्रागुक्तं मनस्तस्मिंस्तेजसि भास्वरं तेजोमयं तं
पुराणादिप्रसिद्धमात्माकारसमाकारं समकल्पयत् ॥ १९ ॥

स ततस्तेजसस्तस्मादभ्युदेति दिवाकरः ।
जालमण्डलमध्यस्थो ज्वलत्कनककुण्डलः ॥ २० ॥

स देवस्ततस्तस्मात्तेजसः पिण्डीभूताद्दिवाकरः सन्नद्यापि प्रत्यक्षमभ्युदेति ।
प्रभाजालात्मकस्य मण्डलस्य मध्यस्थः । ज्वलती कनककुण्डले यस्य । अथवा
दिग्जाललक्षणस्य वधूमण्डलस्य मध्यस्थः साधारणः । ज्वलन्
प्रकाशमानः कनककुण्डलभूत इत्यर्थः ॥ २० ॥

ज्वलज्जटाभारधरोपान्तविस्फारपावकः ।
ज्वालाविशालावयवः पूरिताकाशमण्डलः ॥ २१ ॥

ज्वलन्तो जटाभारधरा ज्वा * *? लीधारिण उपान्तेषु विस्फारा
पावका यस्य ॥ २१ ॥

अथ ब्रह्मा महाबुद्धिरन्यास्तास्तेजसः कलाः ।
अपाल्य यदसद्ब्रह्मा तरङ्गानिव सागरः ॥ २२ ॥

तदनन्तरं मरीच्यादिप्रजापतिसर्गमाह - अथेति । ब्रह्मा
विश्वबृंहणकर्ता महाबुद्धिः सर्वज्ञः समष्टिबुद्ध्यात्मा वा ब्रह्मा
स चतुर्मुखः अन्या आदित्यनिर्माणावशिष्टास्तेजसस्ताः कलाः । अपाल्य अपवार्य ।
विभज्येति यावत् । यन्नवधा असत् क्षिप्तवान् । तेऽपि
तेजःखण्डास्तत्सङ्कल्पवशादेव सम्प्राप्तसर्वसिद्धयस्तत्समानशक्तयः
प्रजापतयः सन्तो यथा सङ्कल्पितं वस्तु क्षणादेवाग्रतो दृष्ट्वा आपुः
प्रापुरिति परेणान्वयः । अपपूर्वादलं
भूषणपर्याप्तिशक्तिवारणनिषेधेष्वितिधातोर्ल्यप् । असु क्षेपणे इति धातोः ऊदितो
वा इत्यङि आट्थुकोरभावश्छान्दसः ॥ २२ ॥

तेऽपि सङ्कल्पसम्प्राप्तसिद्धयः समशक्तयः ।
यथासङ्कल्पितं वस्तु क्षणाद्दृष्ट्वापुरग्रतः ॥ २३ ॥

सङ्कल्पयन्तो यान्यांस्ते नानाभूतगणान्बहून् ।
भूतेष्वन्यांस्तु तेष्वन्यांस्तेष्वन्यान्विविधानपि ॥ २४ ॥

तेभ्यो देवदानवयक्षराक्षसमानवादिसर्गप्रवृत्तिरित्याह -
सङ्कल्पयन्त इति । ते प्रजापतयो यान् यान् पुत्रपौत्रपरम्परया
देवदानवादिजातिभेदैर्नानाविधान् व्यक्तिभेदाच्च बहून्भूतगणान्
सङ्कल्पयन्तो बभूवुस्तांस्तानापुरित्यनुवज्जते । तेष्वग्रे
मैथुनसृष्टिप्रवृत्तिं दर्शयति - भूतेष्विति ॥ २४ ॥

संस्मृत्य वेदांस्तदनु यज्ञक्रमगुणान्बहून् ।
जगद्गृहादयं ब्रह्मा मर्यादां समकल्पयत् ॥ २५ ॥

सङ्कल्पयन्त आपुरित्यत्राप्यनुवर्तते । ततो यज्ञाविकर्मप्रवृत्तिं दर्शयति ##-

ब्राह्मं रूपमुपादाय मनोनाम महद्वपुः ।
तनोतीत्थमिमां दृष्टिं भूतसन्ततिसङ्कुलाम् ॥ २६ ॥

समुद्राचलवृक्षाढ्यां कृतलोकोत्तरक्रमाम् ।
मेरुभूपीठदिक्कुञ्जजटालोदरमण्डलाम् ॥ २७ ॥

सुखदुःखजराजन्ममरणस्वाध्बोधिताम् ।
रागद्वेषमयोद्विग्नां गुणत्रयमयात्मिकाम् ॥ २८ ॥

शारिरैः सुखदुःखजराजन्ममरणैः स्वैर्मानसैश्चाधिभिः सर्वथा
हेयोऽयं संसार इति बोधिताम् ॥ २८ ॥

मनोहस्तैर्विरिञ्चोत्थैर्यद्यथा कल्पितं पुरा ।
तत्तथैवाखिलं द्रष्टुं दृश्यतेऽद्यापि मायया ॥ २९ ॥

ननु सर्वस्य व्यवहारस्य विरिञ्चिमनःवृतत्वे यज्ञादीनां
शारीरत्वमुपासनादीनां मानसत्वमिति व्यवस्थायां को हेतुस्तमाह -
मनोहस्तैरिति । विरिञ्चोत्थैर्मनोवृत्तिभिर्हस्तैर्वा यैद्वस्तु यथा द्रष्टुं
प्राप्तुं च योग्यं पुराकल्पितं तत्तथैवाद्यापि व्यवस्थितं दृश्यते प्राप्यते
च । तत्कल्पनानुसारेणैवान्येषामपि कल्पनानियतेरित्यर्थः ॥ २९ ॥

इत्थं सर्वेषु भूतेषु केषुचित्त्वथवा पुनः ।
सङ्कल्पयति संसारं परं पश्यति चित्स्थितम् ॥ ३० ॥

समष्टिदृष्ट्या सर्वेषु भूतेषु व्यष्टिदृष्ट्या एकजीवपक्षेण वा
केषुचित्स्थितं मनः सङ्कल्पयति चित्पश्यति । अथवा मन एव चित्स्थितं
सङ्कल्पयति परं पश्यति च ॥ ३० ॥

मोह एवम्मयो मिथ्या जागतः स्थिरतां गतः ।
सङ्कल्पनेन मनसा कल्पितोऽचिरतः स्वयम् ॥ ३१ ॥

एवम्मय उक्तप्रकारः । अचिरतः शीघ्रमेव सङ्कल्पितः ॥ ३१ ॥

सङ्कल्पवशतः सर्वाः प्रसवन्ति जगत्क्रियाः ।
सङ्कल्पवशतो देवा निर्यान्ति नियतिस्थिताः ॥ ३२ ॥

कोपितायाः प्रजानाथर्जगत्सृष्टेः कुलोद्भवः ।
ब्रह्मा सञ्चिन्तयत्येष पद्मासनगतः प्रभुः ॥ ३३ ॥

इत्थं सर्गविस्तारं प्रपञ्च्य तदुपरमे शास्त्रनिर्माणे च कारणं वक्तुं
पीठिकां रचयति - कोपिताया इति । इन्द्रविरोचनादिभिर्देवासुरप्रजानाथैः
स्वस्वोत्कर्षाय मनुष्यादिप्रजासु धर्माधर्माभिवृद्धये
यतमानैर्बलात्सात्त्विकराजसतामसवृत्तिषु
प्रवर्तनाद्बधबन्धजन्मजरामयादिक्लेशसहस्रैः कोपिताया अतिपीडिताया
जगत्सृष्टेः सकाशान्निर्विण्णः सर्वप्रजाकुलान्युद्भवन्त्यस्मादिति कुलोद्भव
एष प्रागुक्तो ब्रह्मा वक्ष्यमाणप्रकारेण सञ्चिन्तयतीत्यर्थः ॥ ३३ ॥

मनःस्पन्दनमात्रेण चित्रं चित्तं यदुत्थितम् ।
सृष्टिर्वा भोगिनी स्फारा व्यवहारविकारिणी ॥ ३४ ॥

मनःस्पन्दनमात्रेण यच्चित्तं व्यष्टिजीवोपाधिभूतम् । तदुपभोगार्था
भोगिनी स्फारा विस्तीर्णा भुवनादिसृष्टिर्वेति यदुत्थितं इदं सर्वं मया
स्वसङ्कल्पजालमेवामितस्ततमिति परेणान्वयः ॥ ३४ ॥

रुद्रोपेन्द्रमहेन्द्राद्या [महेन्द्राढ्या इति पाठः]
शैलसागरसङ्कुला ।
पातालरोदोदिक्स्वर्गमार्गसङ्कटकोटरा ॥ ३५ ॥

सङ्कल्पजालमत्यन्तं मयेदमभितस्ततम् ।
अधुना विरतोऽस्म्यस्माद्विकल्पोल्लासनक्रमात् ॥ ३६ ॥

इति निश्चित्य विरतः कल्पनानर्थसङ्कटात् ।
अनादिमत्परं ब्रह्म स्मरत्यात्मानमात्मना ॥ ३७ ॥

विरत इति शमं प्राप्तः सन् ॥ ३७ ॥

तमासाद्य तदाभासे पदे गलितमानसे ।
सुखं तिष्ठति शान्तात्मा तल्पेऽधः श्रमवानिव ॥ ३८ ॥

तं परमात्मानं स्मृतिमात्रेण आसाद्य प्राप्य तदेव आसमन्ताद्भासते
यस्मिंस्तथाविधे गलितमानसे सप्तमभूमिकालक्षणे पदे सुखं
तिष्ठतीत्यर्थः । अधःसंवृत्तापवरके कॢप्ते तल्पे । रहसीति यावत् ॥ ३८ ॥

निर्ममो निरहङ्कारः परां शान्तिमुपागतः ।
अविक्षुब्ध इवाम्भोधिरात्मनात्मनि तिष्ठति ॥ ३९ ॥

ध्यानात्कदाचिद्भगवान्स्वयं विरमति प्रभुः ।
बन्धनात्सलिलस्यन्दात्सौम्यत्वादिव वारिधिः ॥ ४० ॥

बन्धनात् एकाकारवृत्तिधारणानिर्बन्धलक्षणाद्ध्यानात् ॥ ४० ॥

विचारयति संसारं सुखदुःखसमन्वितम् ।
आशापाशशतैर्बद्धं रागद्वेषभयातुरम् ॥ ४१ ॥

ततः स करुणाक्रान्तमना भूतविभूतये ।
करोतीह महार्थानि शास्त्राणि विविधानि च ॥ ४२ ॥

अध्यात्मज्ञानगर्भाणि वेदवेदाङ्गसङ्ग्रहम् ।
पुराणादीनि चान्यानि मुक्तये सर्वदेहिनाम् ॥ ४३ ॥

पुनस्त्त्पदमालम्ब्य परमापद्विनिर्गतः ।
स्वस्थस्तिष्ठति शान्तात्मा निर्मन्दर इवार्णवः ॥ ४४ ॥

तत्प्रागुक्तं सप्तमभूमिकालक्षणं परं पदम् ।
सृष्टिविक्षेपलक्षणाभ्य आपद्भ्यो विनिर्गतः ॥ ४४ ॥

अवलोक्य जगच्चेष्टां मर्यादां विनियोज्य च ।
ब्रह्मा कमलपीठस्थः पुनः स्वात्मनि तिष्ठति ॥ ४५ ॥

कदाचित्केवलं सर्वसङ्कल्पपरिहीनया ।
यदृच्छयानुग्रहार्थं लोकक्रमवदास्थितः ॥ ४६ ॥

केवलमनुग्रहार्थमेवेत्यर्थः ॥ ४६ ॥

नार्जवं नास्य सन्त्यागो वपुषो नच सङ्ग्रहः ।
नाना न चेतनं नेह न स्थितिर्नास्थितिः स्थिता ॥ ४७ ॥

तर्हि तस्य समाधिकाले आर्जवं सर्गसंहारादिकाले तु तस्य सन्त्यागो
देहादिसङ्ग्रहः सर्गरूपेण नानात्वं व्युत्थानकाले चेतनं पद्मे
स्थितिरन्यत्र चास्थितिरिति नानाभावसमारम्भेषु चित्तवृत्तिषु चाज्ञवदेव
वैषम्यं प्राप्तमित्याशङ्क्य क्रमात्परिहरति - नार्जवमित्यादिना ॥ ४७ ॥

सर्वभावसमारम्भः समः सर्वासु वृत्तिषु ।
परिपूर्णार्णवाकारो मुक्तशेषोऽवतिष्ठते ॥ ४८ ॥

कदाचित्केवलं सर्वसङ्कल्पपरिहीनया ।
यदृच्छयानुग्रहार्थं लोकानां प्रतिबुध्यते ॥ ४९ ॥

एषा ब्राह्मी स्थितिः पुण्या या मयोक्ता महामते ।
यातां विधिसुरानीकौ तामेतां सात्विकीमपि ॥ ५० ॥

उपसंहरति - एषेति । इदानीं मानसः प्रजापतीनां सर्गस्ते हि
सङ्कल्पसम्प्राप्तसिद्धयः स्वयं प्रज्ञातज्ञानयोगैश्वर्याः प्रथमो
विध्यनीकः । मैथुनसर्गेऽपि देवगन्धर्वयक्षादीनां
सात्त्विकत्वात्सकृदुपदेशप्राप्तज्ञानैश्वर्यः सुरानीको मध्यमः ।
मनुष्यादिस्तु रजस्तमोग्रस्तः प्रयत्नसहस्रसाध्यज्ञानैश्वर्यो
नरानीकोऽधम इत्यनीकत्रयविभागं मनसि निधाय तेषां
स्वकारणासादितचित्तशुद्ध्यनुरूपज्ञानोदयेन ब्रह्मप्राप्तिं विभज्य
दर्शयति - यातामित्यादिना । तां वर्णितप्रकारां एतां सात्त्विकीं
सत्त्वोत्कर्षप्राप्यां ब्राह्मीं स्थितिं विधिसुरानीकावपि यातां प्राप्नुयाताम् ॥
५० ॥

चित्सर्गोपरमाकाशे ब्रह्मणो यन्मनःफलम् ।
उदेति प्रथमः सैव ब्रह्मत्वं समवाश्नुते ॥ ५१ ॥

तत्र प्रथमानीकस्य मानसोपासनाफलत्वान्मनोमात्रजन्यत्वेन
सौक्ष्म्यात्तत्प्राप्तौ विशेषमाह - चित्सर्गेति । यद्यस्मात्
प्रथमोऽनीकश्चिद्रूपे सर्वसर्गोपरमरूपे सर्वब्रह्माकाशे ब्रह्मणो
विरिञ्चेर्मनःकल्पितं फलमिव मनःफलं सत्प्रथममदेति अतः सैव स एव
। सोचि लोपे चेत्पादपूरणम् इति सुलोपः । स्वतः सिद्धज्ञानैश्वर्येण प्रथमं
सम्यगवगम्याश्रुते इत्यर्थः ॥ ५१ ॥

सर्गे स्थितिं गते त्वन्या योदेति कल्पनापरा ।
सा व्योमानिलमाश्रित्य प्रविश्यौषधिपल्लवान् ॥ ५२ ॥

द्वितीयानीकस्यौषधिपल्लवविकारभूतसोमाज्यपयःसाध्यकर्मफलत्वेन
तत्परिणामतया प्राकृतापेक्षया स्थौल्यादुपदेशमात्रमपेक्ष्य
ब्रह्मप्राप्तिरिति विशेषं दर्शयति - सर्गे इत्यादिना ।
प्रजापतीनामोषध्यादीनां च सर्गे स्थितिं गते सति या सुरानीकलक्षणान्या
अपरा प्रथमा पेक्षया न्यूना कल्पनोदेति सा प्रथमं चन्द्रकलात्मना
व्योमानिलं चाश्रित्यौषधिपल्लवान्प्रविश्य सोमाज्यपयोभावेनाग्नौ
हूयमाना सूर्यमण्डले अमृताकारपरिणता प्रजापतिप्रभृतिभिरुपभुक्ता
तद्रेतोरूपपरिणता मैथुनद्वारेणेन्द्रादिसुरत्वं कुबेरादियक्षादिदेवयोनितां
चायातीति परेणान्वयः ॥ ५२ ॥

काचित्सुरत्वमायाति काचिदायाति यक्षताम् ।
उदेति प्रथमं सैषा ब्रह्मत्वं समवाश्नुते ॥ ५३ ॥

सैषा सात्त्विकत्वान्मनुष्याद्यपेक्षया प्रथमं
प्रजापतीनामनुग्रहोपदेशादिना ज्ञानैश्वर्यसम्पदा उदेति । अतः
प्रथममेव ब्रह्मत्वं समवाश्नुत इत्यर्थः ॥ ५३ ॥

या यत्सत्त्वं समन्वेति सा तदेवाशु जायते ।
जाता संसर्गवशतस्तस्मिन्नेव च जन्मनि ।
बध्यते मुच्यते वासौ स्वयमन्वारभेदतः ॥ ५४ ॥

तर्हि किं सर्वेषां देवानां मुक्तिर्नेत्याह - येति । देवेषु मानवेषु वा जाता
या व्यक्तिर्यत्सत्त्वं ज्ञानवैराग्यसम्पन्नं भोगलम्पटं वा मैत्र्यादिना
समन्वेति सा तत्सङ्गत्या आशु तदेव जायते तादृशगुणवती भवतीत्यर्थः ।
भोगलम्पटसंसर्गवशतः स्वयमपि तथाभूता सती बध्यते
तद्विपरीतसङ्गत्या स्वयमपि ज्ञानवैराग्यसम्पन्ना मुच्यत इत्यर्थः । तर्हि
तृतीयानीकैः किं कार्यं तदाह - स्वयमिति । अतो बन्धमोक्षयोः
सङ्गानुरूपत्वात्स्वयमेव पौरुषप्रयत्नेन
साधुसङ्गमसच्छास्त्रश्रवणादीनिन्द्रियमनोजयोपायांशान्वारभेत् ।
यावत्फलोदयमभ्यस्येदित्यर्थः ॥ ५४ ॥

इत्थं गतास्थितिरियं किल रामभद्र
सृष्टिः स्फुटप्रकटसङ्कटकर्मलब्धा ।
आविर्भवेद्विविधवेगविहारभार-
संरम्भगर्भविधृता कलनापदे सा ॥ ५५ ॥

उक्तं सर्वं सङ्क्षिप्योपसंहरति - इत्थमिति । स्फुटानि प्रकाशबहुलानि
उपासनानि प्रकटानि सर्वजनप्रसिद्धानि यज्ञादीनि सङ्कटान्यनर्थफलानि
कर्माणि निषिद्धमिश्राणि तैर्निमित्तैः क्रमाल्लब्धा विविधैः
प्रारब्धवेगैर्विहारभारैः क्रीडाकौतुकैः संरम्भगर्भैः
क्रोधलोभसम्भृतैश्च व्यवहारैः क्रमाद्विधृता अवष्टब्धा सती
कलनापदे सर्गोन्मुखे ब्रह्मणि इत्थं प्रागुक्तसङ्कल्पकल्पनयैव गता
प्राप्ता आस्थितिः सत्ता यया तथाविधा सेयं त्र्यनीकात्मिका
सृष्टिराविर्भवेदित्यर्थः ॥ ५५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे
कमलजव्यवहारवर्णनं नामैकोनषष्टितमः सर्गः ॥ ५९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
कमलजव्यवहारवर्णनं नामैकोनषष्टितमः सर्गः ॥ ५९ ॥