अष्टपञ्चाशः सर्गः ५८
श्रीवसिष्ठ उवाच ।
अत्रैव वस्तुन्युदिता शृणु राघव पूर्वजाः ।
कचेन गाथा या गीता बार्हस्पत्येन पावनाः ॥ १ ॥
आरूढस्य पदं पूर्णं सार्वात्म्यस्थितिबोधिनी ।
रामायात्र वसिष्ठेन कचगाथोपदिश्यते ॥ १ ॥
अत्रैव प्रागुक्ते वस्तुनि विषये पूर्वजाः पूर्वकालवृत्ताः । बार्हस्पत्येन
बृहस्पतिपुत्रेण । अनन्तरापत्ये पत्युत्तरपदलक्षणो ण्यः ॥ १ ॥
कस्मिंश्चिन्मेरुगहनेऽतिष्ठन्सुरगुरोः सुतः ।
कदाचिदभ्यासवशाद्विश्रान्तिं प्राप चात्मनि ॥ २ ॥
अभ्यासवशात् श्रुताया ब्रह्मविद्याया मननमिदिध्यासनपरिपाकादिति यावत् ॥
२ ॥
सम्यग्ज्ञानामृतापूर्णा मतिर्नारमतास्य सा ।
पञ्चभूतमयेऽमान्ये दृश्येऽस्मिन्पेलवात्मनि [दृश्यः इति
पाठः] ॥ ३ ॥
अमान्ये अनादरार्हे ॥ ३ ॥
स तेन निर्विण्ण इव सदात्मत्वादृते पदम् ।
अपश्यन्समुवाचेदमेको गद्गदया गिरा ॥ ४ ॥
तेन दृश्यारमणेन सदात्मत्वात् ऋते विना सदैकात्म्यातिरिक्तं पदं वस्तु
अपश्यन् एकमात्रपरिशेषान्निर्विण्ण इवेत्युत्प्रेक्षा । हर्षगद्गदया गिरा इदं
वक्ष्यमाणं समुवाच ॥ ४ ॥
किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ।
आत्मना पूरितं विश्वं महाकल्पाम्बुना यथा ॥ ५ ॥
यदुवाच तदाह - किं करोमीत्यादिना ॥ ५ ॥
दुःखमात्मा सुखं चैव खमाशासुमहत्तया ।
सर्वमात्ममयं ज्ञातं नष्टकष्टोऽहमात्मना ॥ ६ ॥
ननु जीवात्मनो यानि सुखसाधनानि तानि कुरु । यत्र तानि प्राप्यन्ते तत्र गच्छ ।
सुखं तत्साधनानि च गृहाण दुःखसाधनानि दुःखं च त्यजेति चेत्तत्राह
- दुःखमिति । दुःखं तदुपभोक्तात्मा जीवस्तदभिलषणीयं सुखं
चेत्यादि सर्वं जगन्मूलान्वेषणे खमाकाशमात्रं सदाशाभ्यो दिग्भ्यो
मनोरथेभ्यश्च सुमहत्तया आत्ममयम् । स्वार्थे मयट् । आत्मैवेति
ज्ञातमतस्तेनैवानन्दैकरसेनात्मन नष्टसर्वदुःओऽस्मीति न
हानोपादानप्रयोजनमस्तीत्यर्थः ॥ ६ ॥
सबाह्याभ्यन्तरे देहे अधश्चोर्ध्वं च दिक्षु च ।
इत आत्मा ततश्चात्मा नास्त्यनात्ममयं क्वचित् ॥ ७ ॥
बाह्यैराधिभीतिकादिभिराभ्यन्तरैराध्यात्मिकैश्च सहिते
उभयविभागनिमित्तभूते देहे अधः ऊर्ध्वं प्राच्यादिदिक्षु तत्त्वतो
दृश्यमानेष्वात्मैव सर्वमित्यर्थः । तथाच श्रुतिः
आत्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत
आत्मोत्तरत आत्मैवेदं सर्वम् इति ॥ ७ ॥
सर्वत्रैव स्थितो ह्यात्मा सर्वमात्ममयं स्थितम् ।
सर्वमेवेदमात्मैवमात्मन्येव भवाम्यहम् ॥ ८ ॥
सर्वत्रैवाधिष्ठानभावेन स्थितो विवर्तात्मककल्पितविकारदर्शने
सर्वमात्ममयं तत्त्वदर्शने तु सर्वमात्मैव । एवमनया दृशा अहं
परमार्थात्मनि भवामि वर्ते सर्वदैवेत्यर्थः ॥ ८ ॥
यन्नाम नाम तत्किञ्चित्सर्वमेवाहमान्तरः ।
आपूरितापारनभाः सर्वत्र सन्मयः स्थितः ॥ ९ ॥
यन्नाम चेतनं प्रसिद्धं यत्किञ्चिदचेतनं च नाम प्रसिद्धं
तत्सर्वमित्यर्थः । सन्मय इति सदंशस्य सर्वानुगतत्वेन
सर्वाधिष्ठानत्वादित्यर्थः ॥ ९ ॥
पूर्णस्तिष्ठामि मोदात्मा सुखमेकार्णवोपमः ।
इत्येवं भावयंस्तत्र कनकाचलकुञ्जके ॥ १० ॥
मोदात्मेत्यस्य विवरणं सुखमित्यादि ॥ १० ॥
उच्चारयन्नोङ्कारं च घण्टास्वनमिव क्रमात् ।
ॐकारस्य कलामात्रं पाश्चात्यं वालकोमलम् ।
नान्तरस्थो न बाह्यस्थो भावयन्परमे हृदि ॥ ११ ॥
इदं तेन केन प्रमाणेन दृष्टं तदाह - उच्चारयन्निति । तथाच श्रुतिः
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं
शरवत्तन्मयो भवेत् इति । ॐकारेऽकारादिमात्राणां विराडादिवाचकत्वात्तुरीयं
केनांशेन दृष्टं तमाह - ॐकारस्येति ।
पूर्वपूर्वमात्राविराडादिस्वार्थैः सहोत्तरोत्तरत्र प्रबिलाप्य बालः केश
इवोङ्कारस्य शिरसि लक्ष्यमाणं सूक्ष्मं कोमलं च
पाश्चात्यमर्धमात्राख्यं कलामात्रं
सर्वप्रविलयावधिभूततुरीयलक्षणं [लक्षकं इति पाठः]
तुरीयात्मनैव भावयंस्तद्भावापन्नः सन्नान्तरकारणस्थो न
बाह्यकार्यस्थश्च वक्ष्यमाणरीत्या स्थित इत्यर्थः ॥ ११ ॥
व्यपगतकलनाकलङ्कशुद्धो
हृदयनिरन्तरलीनवातवृत्तिः ।
गतघनशरदाशयोपमानः
स्थित इति राम कचः स गायमानः ॥ १२ ॥
तामेव स्थितिं दर्शयन्नुपसंहरति - व्यपगतेति । वातवृत्तिः
प्राणस्पन्दः । सा च कलना निरोधे स्वत एव निलीनेति भावः । गता घना मेघा
यस्मात्तथाविधो यः शरदाशयः शरदाकाशस्तदुपमानः स्थित इत्यर्थः ॥
१२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे
कचगाथानामाष्टपञ्चाशः सर्गः ॥ ५८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
कचगाथानामाष्टपञ्चाशः सर्गः ॥ ५८ ॥