सप्तपञ्चाशः सर्गः ५७
श्रीराम उवाच ।
सत्यमेतत्त्वया ब्रह्मन्यदुक्तं सूक्तिसुन्दरम् ।
अकर्तैव हि कर्तात्मा भोक्ताभोक्तैव भूतकृत् ॥ १ ॥
रामप्रश्नानवसरो वासनावर्जनक्रमः ।
तदेकोपायसिद्धानां प्रशंसा चात्र विस्तरात् ॥ १ ॥
वक्ष्यमाणप्रश्नकामो रामः प्रागुक्तार्थानामनुवादप्रशंसाभ्यां
स्वस्य तदवबोधं दर्शयति - सत्यमित्यादिना ।
तुल्यन्यायेनानुक्तमस्याभोक्तृत्वं सर्वभोक्तृत्वं चेत्येतदपि
मयावयतमिति सूचयति - भोक्तेति ॥ १ ॥
सर्वेश्वरः सर्वगश्च चिन्मात्रममलं पदम् ।
स्थानं भुवि वपुर्देवः सर्वभूतान्तरस्थितः ॥ २ ॥
तिष्ठन्ति सर्वभूतान्यस्मिन्निति स्थानम् । यथा भुवि
वपुश्चतुर्विधभूतग्रामशरीरं तिष्ठति तद्वदित्यध्याहृत्य
कथञ्चिद्योज्यम् । स्वयं च सर्वभूतान्तरस्थितः ॥ २ ॥
हृदयङ्गमतां प्राप्तमिदानीं ब्रह्म मे विभो ।
त्वदुक्तिभिर्यथाम्भोदधाराभिर्भूभृदव्यथः ॥ ३ ॥
तथाच सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । सम्पश्यन्ब्रह्म
परमं याति नान्येन हेतुना । इति श्रुत्युक्तार्थस्यापि तुल्ययुक्त्यैव
मयावगतत्वाद्ब्रह्म मे अनुभवपदमारूढमित्याह -
हृदयङ्गमतामिति । यथा अम्भोदधाराभिर्भूमृत्पर्वतोऽव्यथो
निरस्तग्रीष्मताप आस्ते तथा त्वदुक्तिभिरिदानीमहमासे इति शेषः ॥ ३ ॥
औदासीन्यादनिच्छत्वान्न भुङ्क्ते न करोति च ।
समग्रालोककारित्वाद्भुङ्क्ते देवः करोति च ॥ ४ ॥
भोक्तृत्वाभोक्तृत्वयोरविरोधेऽपि त्वदुक्तोपपत्तिस्तुल्येति मयावगतमिति
दर्शयति - औदासीन्यादिति ॥ ४ ॥
किन्त्वयं भगवन्स्फारः संशयो मे हृदि स्थितः ।
तं त्वं छिन्धि गिरा ब्रह्मन्दीधित्येन्दुर्यथा तमः ॥ ५ ॥
अयं वक्ष्यमाणप्रकारः ॥ ५ ॥
इदं सत्तदिदं वाऽसदयं सोऽहमिदं नतु ।
अयमेको द्वितीयोऽयमित्यादिकलनामयम् ॥ ६ ॥
प्रश्नोपयोगितया पूर्वसर्गोक्तं जगतः सत्त्वासत्त्वदृष्टिपक्षं
व्यष्ट्यहन्तापरित्यागेन समष्ट्यहम्भावपक्षं चानूद्य पृच्छति -
इदमिति । इदं जगत्सत्तदिदमसद्वा त्वदुक्तदिशा । सोऽयं प्रसिद्धः
समष्टिरेवाहमिदं व्यष्टिदेहमात्रं तु न इत्येतद्वा । अयं प्रपञ्चः
समष्टिदृशा एको व्यष्टिदृशा तु द्वितीयो नाना वा ।
इत्याद्यनियतबहुरूपकल्पनामयमेकस्मिन्नियतैकस्वभावे अध्वान्ते
स्वप्रकाशत्वादेव स्वतः परिहृतमोहान्धकारे अच्छे निर्मले आत्मनि भास्करे
नीहार इव विरुद्धं कथं साम्प्रतं विद्यते । यदि ब्रूयाः प्रथमं
मायाशबलब्रह्मोदरे स्थितमिदं साम्प्रतमभिव्यक्तं विद्यत इति तत्रापि
पृच्छामि - इदं प्रथममेव वा कथं स्थितम् । विरोधस्य तदानीमपि
तुल्यत्वादित्यर्थः ॥ ६ ॥
एकस्मिन्विद्यतेऽध्वान्ते नीहार इव भास्करे ।
इदं प्रथममेवाच्छे कथमात्मनि संस्थितम् ॥ ७ ॥
श्रीवसिष्ठ उवाच ।
सिद्धान्तकाल एवास्य सम्प्रश्नस्योत्तरं स्थिरम् ।
कथयिष्यामि ते राम येन ज्ञास्यसि तत्त्वतः ॥ ८ ॥
रामवाक्यबलादेव रामस्य स्वप्रकाशप्रत्यगात्मदर्शनं तस्य
सर्वशरीरेष्वेकताज्ञानं जगतोऽनिर्वचनीयताबोधश्च वृत्तो
वासनाक्षयाभावात्तु सर्वसंशयमूलाविद्योच्छेदी
प्रत्यगात्मब्रह्मैक्यलक्षणाखण्डाकारानुभवो न वृत्त इति निश्चित्य
वसिष्ठस्तदुपायतया वासनोच्छेदोपायान्विवक्षुरस्योत्तरं वक्तुं
नायमवसर इत्याह - सिद्धान्त इत्यादिना । सिद्धान्ते
निर्वाणप्रकरणस्योत्तरार्धे पाषाणाख्यायिकादौ ॥ ८ ॥
मोक्षोपायस्य सिद्धान्तमसम्प्राप्य न राघव ।
श्रोतुं प्रश्नोत्तराण्येतान्यलं योग्यो भविष्यसि ॥ ९ ॥
मोक्षोपायस्योपदेशस्य सिद्धान्तं परिनिष्ठारूपमखण्डाकारबोधम् ॥ ९ ॥
कान्तागीतगिरां राम तरुणो भाजनं यथा ।
प्रश्नानामुत्तमोक्तीनां पुण्यकृद्भाजनं तथा ॥ १० ॥
साम्प्रतमुच्यमानमपि न ते चित्तमधिरोक्ष्यतीत्याशयेनाह - कान्तेति ।
पुण्यक्र्त्सर्वकर्मफलपरिनिष्ठात्मज्ञानवान् ॥ १० ॥
वृथा भवति बालेषु यथा रागमयी कथा ।
निरर्थकाल्पबोधेषु तथोदारोदया कथा ॥ ११ ॥
उदार उदयो निःश्रेयसं यस्याः सकाशात्सा ॥ ११ ॥
कस्मिंश्चिदेव समये किञ्चित्पुंसो विराजते ।
फलमाभाति वृक्षस्य शरद्येव न माधवे ॥ १२ ॥
तथा प्रश्नोऽप्ययं तदैव राजते इत्याशयेनाह - कस्मिंश्चिदिति । वृक्षस्य
नारङ्गपूगजम्बीरादेः ॥ १२ ॥
उपदेशगिरो वृद्धे रञ्जना निर्मले पटे ।
लगन्त्युदारविज्ञानकथा चाधिगतात्मनि ॥ १३ ॥
उपदेशगिरो वैराग्योपदेशाः वृद्धे ज्ञानवृद्धे विवेकिनि नतु रागिणि
लगन्तीत्यर्थः ॥ १३ ॥
प्रश्नस्यास्योत्तरं पूर्वं लेशतः कथितं मया ।
न विस्तरेण तेनैतन्न ज्ञातं भवता स्फुटम् ॥ १४ ॥
भार्गवोपाख्यानान्ते
प्रागारब्धमप्यस्योत्तरमनधिकारमालोक्यैवोपेक्षितमित्याह -
प्रश्नस्येति ॥ १४ ॥
यदि त्वमात्मनात्मानमधिगच्छसि तं स्वयम् ।
एतत्प्रश्नोत्तरं साधु जानास्यत्र न संशयः ॥ १५ ॥
अखण्डार्थबोधे जाते मदुक्तिं विनाप्यस्योत्तरं स्वयमेव ज्ञास्यसीत्याह ##-
मया सिद्धान्तकाले तु प्राप्तबोधे त्वयि स्थिते ।
वक्तव्यो विस्तरेणैव साधो प्रश्नोत्तरक्रमः ॥ १६ ॥
तर्हि त्वं किमुपेक्षिष्यसे नेत्याह - मयेति ॥ १६ ॥
जानात्यात्मानमात्मैव कृत आत्मात्मनैव हि ।
आत्मैव सम्प्रसन्नः सन्नात्मानं प्रतिपद्यते ॥ १७ ॥
मदुपदेशो द्वारप्रदर्शनमात्रं त्वया त्वात्मनैवात्मा प्रणिधानेन
द्रष्टव्य इत्याशयेनाह - जानातीति । संसारिणमप्यात्मानमात्मैव जानाति ।
हि यस्मादात्मनैवात्मा अप्रसादात्तथा कृतः स
आत्मैवात्मबोधात्सम्प्रसन्नः सन् वास्तवं पूर्णमात्मानं प्रतिपद्यत
इत्यर्थः ॥ १७ ॥
तदेतत्कथितं राम कर्त्रकर्तृविचारणम् ।
अज्ञातत्वात्तु तामेतामक्षीणवासनो भवेत् ॥ १८ ॥
कर्त्रकर्त्रात्मविचारणमपि मया तदेतदखण्डब्रह्मबोधमुद्दिश्यैव
कथितम् । कथितेऽपि तामेतामखण्डात्मतामज्ञातत्वान्न ज्ञातवानित्यतस्तु
नूनं भवानक्षीणवासनो भवेत् । सम्भावनायां लिङ् । वासनाक्षयस्तव न
जात इति सम्भावयामीत्यर्थः ॥ १८ ॥
बद्धो हि वासनाबद्धो मोक्षः स्याद्वासनाक्षयः ।
वासनास्त्वं परित्यज्य मोक्षार्थित्वमपि त्यज ॥ १९ ॥
इदानीं बन्धमोक्षरहस्ये दर्शयन्वासनोच्छेदोपायक्रममाह - बद्ध
इत्यादिना ॥ १९ ॥
तामसीर्वासनाः पूर्वं त्यक्त्वा विषयवासिताः ।
मैत्र्यादिभावनानाम्नीं गृहाणामलवासनाम् ॥ २० ॥
तत्र वासनाक्षये प्रथमपीठिका वैराग्यदार्ढ्यमित्याह - तामसीरिति ।
तामसीः तमःप्रधानतिर्यग्योन्यादिगतिप्रदाः ।
राजसमनुष्यादिजन्मप्रदानामप्युपलक्षणमेतत् । विषयैर्वासिता आहिताः ।
मैत्रीकरुणामुदितोपेक्षा मैत्र्यादयस्तद्भावनानाम्नीम् । तथाच
पातञ्जलसूत्रम् मैत्रीकरुणामुदितोपेक्षाणां
सुखदुःखपुण्यापुण्यफलानां भावनातश्चित्तप्रसादनम् इति ॥ २० ॥
तामप्यन्तः परित्यज्य ताभिर्व्यवहरन्नपि ।
अन्तःशान्तसमस्तेहो भव चिन्मात्रवासनः ॥ २१ ॥
अन्तश्चिन्मात्रव्यतिरेकेण मैत्र्यादयोऽपि न सन्तीति दर्शनेन
बहिस्ताभिर्मैत्र्यादिभिर्व्यवहरन्नपि चिन्मात्रमेवाहमिति
सम्प्रज्ञातसमाध्यभ्यासदृढीकृतवासनो भव ॥ २१ ॥
तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् ।
शेषे स्थिरसमाधानो येन त्यजसि तत्त्यज ॥ २२ ॥
मनोबुद्धिग्रहणं चित्ततद्वृत्तीनामप्युपलक्षणम् । शेषे आत्मत्वादेव
त्यक्तुमशक्यत्वादवश्यं परिशिष्यमाणे प्रत्यक्तत्वे स्थिरं समाधानं
विश्रान्तिर्यस्य तथाविधः । असम्प्रज्ञातसमाधौ विश्रान्त इति यावत् । येन
कलनाख्येन द्वैतकल्पनामूलस्तम्भभूतेनाहङ्कारेण प्रागुक्तं सर्वं
त्यजसि तदपि त्यज । सर्वस्यापि हि त्यागस्तत्र तत्राहं ममेत्यभिमानवर्जनमेव ।
तच्चाहङ्कारेऽपि शुद्धचिन्मात्ररूपानहम्भूतपूर्णात्मदर्शनेन
मूलाज्ञानोच्छेदात्स्वयमेव भवतीति न तत्र कारणान्तरापेक्षेति नानवस्थेति
भावः ॥ २२ ॥
चिन्मयः कलनाकालप्रकाशतिमिरादिकम् ।
वासनां वासितारं च प्राणस्पन्दनपूर्वकम् ॥ २३ ॥
प्राणस्पन्दनपूर्वकं कलनाकालप्रकाशतिमिरादिकं वासनां वासितारं
विषयं चकारात्तद्द्वाराणीन्द्रियाणि च समूलमहङ्कारमपि चोन्मूल्य
व्योमेव सौम्या निर्मला प्रशान्तविक्षेपा च ब्रह्मात्माखण्डैकाकारा
धीर्यस्य तथाविधः सन् यश्चिन्मयस्त्वं भवसि सम्पद्यसे स एव
परमार्थरूपो भ्वानस्त्विति परेन सहान्वयः । सत्कृतः सर्वपूजितः ॥ २३ ॥
समूलमपि सन्त्यक्त्वा व्योमसौम्यप्रशान्तधीः ।
यस्त्वं भवसि सद्बुद्धे स भवानस्तु सत्कृतः ॥ २४ ॥
हृदयात्सम्परित्यज्य सर्वमेव महामतिः ।
यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ॥ २५ ॥
ईदृशीं स्थितिं प्राप्तस्य पूज्यतामेव प्रशंसाभिर्दर्शयति -
हृदयादित्यादिना । गतो व्यग्रः सर्वविक्षेपहेतुरभिमानो यस्य ॥ २५ ॥
समाधिमथ कर्माणि मा करोतु करोतु वा ।
हृदयेनास्तसर्वास्थो मुक्त एवोत्तमाशयः ॥ २६ ॥
एवमभ्यासपरिपाकेन सप्तमीं भूमिकामारूढस्य सिद्धस्य
कृतकृत्यतैव न कर्तव्यान्तरपरिशेषोऽस्तीत्याह - समाधिमिति । अस्ता
निरस्ताः सर्वा आस्थाः प्रागुक्ताभिमानाध्यासा येन सः ॥ २६ ॥
नैष्कर्म्येण न तस्यार्थो न तस्यार्थोऽस्ति कर्मभिः ।
न समाधानजाप्याभ्यां यस्य निर्वासनं मनः ॥ २७ ॥
विचारितमलं शास्त्रं चिरमुद्ग्राहितं मिथः ।
सन्त्यक्तवासनान्मौनादृते नास्त्युत्तमं पदम ॥ २८ ॥
कतिपयकालानुष्ठितश्रवणमननध्यानैर्वासनाक्षयात्प्रागेव
कृतकृत्यताभ्रमात्परावृत्तिं वारयन्नाह - विचारितमिति । मिथः
परस्परं विद्वद्भिः सह संवादेनोद्वाहितं दृढमुपन्यासक्षमं
कृतम् । महता परिश्रमेण सर्वविद्वत्सम्मत्या चेदमेव
मोक्षशास्त्ररहस्यमिति निर्णीतमित्यर्थह् ।
मौनाद्बाल्यपाण्डित्यशब्दवाच्यश्रवणमननपरिपाकजन्यप्रागुक्तनिर्विकल्प्
आसम्प्रज्ञातसमाधिपरिपाकान्तान्मुनिभावादृते परं पदं
ब्राह्मणाख्यं परिनिष्ठिततत्त्वज्ञानं नास्तीति निर्णीतमित्यर्थः । तथाच
श्रुतिः तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं च
पाण्डित्यं निर्विद्याथ मुनिरमौनं मौनं च निर्विद्याथ ब्राह्मणः इति । एष
नित्यो महिमा ब्राह्मणस्य इति च ॥ २८ ॥
दृष्टं द्रष्टव्यमखिलं भ्रान्त्वा भ्रान्त्वा दिशो दश ।
जनाः कतिपया एव यथावस्त्ववलोकिनः ॥ २९ ॥
अत एव तत्त्वज्ञा विरला दुर्लभाश्चेत्याह - दृष्टमिति ॥ २९ ॥
यद्यदालोक्यते किञ्चित्कश्चिद्यत्तन्न विद्यते ।
ईप्सितानीप्सितादन्यन्न तत्र यतते जनः ॥ ३० ॥
सर्वजनानां बहिर्मुखत्वाद्बहिश्चेप्सितानीप्सितयोरेव
दर्शनात्तत्प्राप्तिपरिहारोपायप्रवणतैव दृष्टा नात्मप्रवणतेत्याह -
यद्यदिति । यद्यत्किञ्चिदालोक्यते तत् ईप्सितानीप्सितादन्यन्न विद्यते
तदन्यद्यदविषयमात्मतत्त्वं तत्र तु कश्चिदपि जनो न यतते
किन्त्वीप्सितानीप्सितयोरेवेत्यर्थः ॥ ३० ॥
ये केचन समारम्भा ये जनस्य क्रियाक्रमाः ।
ते सर्वे देहमात्रार्थमात्मार्थं नतु किञ्चन ॥ ३१ ॥
स चानात्मविषये
यत्नोऽनात्मदेहमात्रार्थत्वात्पुनःपुनर्देहारम्भानर्थहेतुरेवेत्याशयेनाह
- ये केचनेति । समारम्भा लौकिकगृहप्रासादादि विषयाः । क्रियाक्रमा
वैदिकयज्ञादयः ॥ ३१ ॥
पाताले ब्रह्मलोके च स्वर्गे च वसुधातले ।
व्योम्नि कतिपया एव दृश्यन्ते दृष्टदृष्टयः ॥ ३२ ॥
व्योम्नि अन्तरिक्षलोके । दृष्टा दृष्टिश्चिदेकरसं ब्रह्म यैस्ते पुरुषाः ॥ ३२ ॥
इदं हेयमुपादेयमिदमित्यसदुत्थितौ ।
निश्चयौ गलितौ यस्य ज्ञस्यासावतिदुर्लभः ॥ ३३ ॥
असदुत्थितौ स्वात्माज्ञानादुद्भूतौ ॥ ३३ ॥
करोतु भुवने राज्यं विशत्वम्भोदमम्बु वा ।
नात्मलाभादृते जन्तुर्विश्रान्तिमधिगच्छति ॥ ३४ ॥
ननु संसारेऽप्युत्तमराज्यादिपदलाभे विश्रान्तिर्दृश्यते किमात्मदर्शनेन
नेत्याह - करोत्विति । इन्द्रपदलाभेन वृष्ट्यधिकारे अम्भोदं विशतु ।
वरुणपदलाभेनाम्बु वा योगसिद्धिभिर्वा भूतजयात्सर्वत्र विशतु ॥ ३४ ॥
ये महामतयः सन्तः शूराश्चेन्द्रियशत्रुषु ।
जन्मज्वरविनाशाय त उपास्या महाधियः ॥ ३५ ॥
तर्हि विश्रान्त्यर्थिना के उपास्यास्तानाह - ये इति ॥ ३५ ॥
सर्वत्र पञ्चभूतानि षष्ठं किञ्चिन्न विद्यते ।
पाताले भूतले स्वर्गे रतिमेतु क्व धीरधीः ॥ ३६ ॥
तदुपासनेन तत्त्वबोधेऽपि पुनर्भोगभूमिषु रतिः केन वार्यते तत्राह -
सर्वत्रेति । अपागादग्नेरग्नित्वं त्रीणि रूपाणीत्येव सत्यम् इति
श्रुत्युक्तदिशासर्वभौतिकानां भूतमात्रतालक्षणमिथ्यात्वबोधे तेषु
रत्यनुदयादिति भावः ॥ ३६ ॥
युक्त्या वै चरतो ज्ञस्य संसारो गोष्पदाकृतिः ।
दूरसन्त्यक्तयुक्तेस्तु महामत्तार्णवोपमः ॥ ३७ ॥
तर्हि भूतानामेव परिशिष्टानामानन्त्यात्तदुत्तरणासम्भव इति
चेत्सत्यमिदमज्ञानामेवमेव । तत्त्वविदां तु अन्नेन सोम्य शुङ्गेनापो
मूलमन्विच्छ इति श्रुतिदर्शितयुक्त्या सर्वाधिष्ठानब्रह्मदर्शनेन
भूतानामप्यनृतत्वनिश्चयात्तदुत्तरणं सुलभमेवेत्याशयेनाह -
युक्त्येति । मत्तार्णवः प्रलयार्णवः ॥ ३७ ॥
कदम्बगोलकैस्तुल्यं ब्रह्माण्डं स्फारचेतसः ।
किं प्रयच्छति किं भुङ्क्ते प्राप्तेऽस्मिन्सकलेपि सः ॥ ३८ ॥
किञ्चापरिच्छिन्नात्मानन्ददृष्ट्या ब्रह्माण्डस्याल्पतरत्वदर्शनादपि
कदम्बगोलकमशकभोग्येष्विव तुच्छेषु धनदारादिषु न
दानभोगादिवाञ्छाप्रसक्तिरित्याह - कदम्बेति ॥ ३८ ॥
एतदर्थमबुद्धीनां यन्महासमरक्रियाः ।
तन्मन्ये राम धिक्कार्यं द्वन्द्वलक्स्ऽक्षयावहम् ॥ ३९ ॥
राज्यादिसुखं समराद्यनर्थैर्योधद्वन्द्वलक्षाणां क्षयावहत्वात्तत्त्वविदा
दयालुना धिक्कार्यमेव न सत्कार्यमित्याह - एतदर्थमिति । यच्छब्दार्थे
एतच्छब्दः । अबुद्धीनां मूढानाम् । तद्राज्यसुखमिति शेषः ॥ ३९ ॥
कल्पमात्रेण कालेन सुमहापेलवोदरे ।
तस्मिन्नपि हि यो नाशः सर्वाधिरमहाधियाम् ॥ ४० ॥
ननु महाकल्पावसानचिरकालभोग्ये ब्राह्मे पदे तस्य रतिः स्यान्नेत्याह -
कल्पेति । द्विपरार्धावधिना महाकल्पान्तमात्रेण कालेनापि
शीर्यमाणत्वात्सुमहापेलवोदरे तस्मिन्नपि पदे सर्वप्राणिनां
प्रलयनिमित्तत्वादाधिर्मानसव्यथानिमित्तभूतो नाशः सोऽमहाधियां
मूढानामेव । स्पृहणीयो न तत्त्वविदामित्यर्थः ॥ ४० ॥
आत्मनो ज्ञस्य सर्गादेर्यन्मनागपि नोद्गतम् ।
तस्मिञ्जगत्त्रये प्राप्ते किं चिदात्मा बली भवेत् ॥ ४१ ॥
किञ्च ज्ञस्य तत्त्वविदो दृशा यज्जगत्त्रयं सर्गादेरुपायान्मनागीषदपि
नोद्गतं नोत्पन्नमेव । न निरोधो न चोत्पत्तिः इत्यादिश्रुतेः । तस्मिंस्तुच्छे
वन्ध्यापुत्रप्राये जगत्त्रये प्राप्ते चिदात्मा किं बली बलवान् भवेत् । येन तत्र
रागः स्यादित्यर्थः ॥ ४१ ॥
इतः शैलशतैर्व्याप्ता तथेतो जलराशिभिः ।
कियानस्य भुवो देहो येनोदारं प्रपूरयेत् ॥ ४२ ॥
असारबहुलत्वादुपयुक्तांशाल्पत्वादपि सार्वभौमादिपदस्य न
स्पृहणीयतेत्याशयेनाह - इत इति । उदारं सर्वत्यागरिक्तविपुलाशयम् ॥ ४२ ॥
न तदस्ति जगत्यस्मिन्सपातालसुरालये ।
यन्नामात्मवतो ज्ञस्य किञ्चित्कार्यतरं भवेत् ॥ ४३ ॥
कार्यतरं अवश्यकर्तव्यम् । सर्वकामावाप्त्या कृतकृत्यत्वादित्यर्थः ॥ ४३ ॥
एकतामनुयातस्य व्योमवद्विततस्य च ।
स्वस्थस्यात्मवतो ज्ञस्य स्थितस्यात्मन्यचेतसः ॥ ४४ ॥
यथा मृगतृष्णा सवितुः प्रकाशमपेक्ष्य सिद्ध्यन्ती सवितारमपेक्षते नतु
सविता मृगतृष्णानिमित्तभूतोऽपि तामपेक्षते तथा
तत्त्वविदश्चित्प्रकाशमपेक्ष्य प्रसिद्ध्यज्जगदेव प्रत्युत तत्त्वविदमपेक्षतां
तत्त्ववित्त पूर्णानन्दारामः कटाक्षेणापि जगन्न पश्यति दूरे तस्य
तदपेक्षेत्याशयेनाह - एकतामित्यादिना । अचेतसो
निर्मनस्कस्यात्मवतस्त्रिलोकीलक्षणा विपुला मृगतृष्णानदीतटी
शान्तसर्वसंसारसुभगा सती शून्यकोटरा आकाशोदरनिभैव न
मूर्तरूपास्तीत्यर्थः । असतामपि बाधितानुवृत्त्या यावत्प्रारब्धक्षयं
प्रतिभासनिर्वाहाय विशिनष्टि - शरीरजालनीहारेति ॥ ४४ ॥
शरीरजालनीहारधूसरा शून्यकोटरा ।
शान्तसंसारसुभगा त्रिलोकीविपुलातटी ॥ ४५ ॥
स्फारब्रह्मामलाम्भोधिफेनाः सर्वे कुलाचलाः ।
चिदादित्यमहाभासमृगतृष्णाजलश्रियः ॥ ४६ ॥
जगतस्तत्त्वविदात्मप्रकाशापेक्षां प्रपञ्चयति - स्फारेत्यादिना । जलश्रियो
नदीसमुद्रादयः ॥ ४६ ॥
आत्मतत्त्वमहाम्भोधिवीचयः सर्गराजयः ।
अनुत्तमपदाम्भोदवृष्टयः शास्त्रदृष्टयः ॥ ४७ ॥
शास्त्रदृष्टयः श्रौतस्मार्तधर्मब्रह्मादितत्त्वप्रतिभासाः । यद्यपि
लौकिकचाक्षुषादिदृष्टयोऽपि प्रकाशात्मकत्वाद्ब्रह्माम्भोदवृष्टिकल्पा एव
तथापि सुक्षेत्रे वृष्टिवच्छास्त्रदृष्टीनामेव पुरुषार्थोपयोगात्ता
एवोपात्ताः ॥ ४७ ॥
चन्द्राग्नितपनालोका घटकाष्ठादिसन्निभाः ।
प्रकाशनीयाश्चिद्रूपत्विषो मलकणास्तथा ॥ ४८ ॥
अधिष्ठानत्वेन तदपेक्षामुक्त्वा जडानां प्रकाशार्थमपि तदपेक्षामाह
- चन्द्रेति । यदा निर्मला आदित्यादयोऽपि तत्प्रकाशापेक्षास्तदा
अत्यन्तमलिनत्वान्मलकण प्रायाः पार्थिवादिधातवस्तमपेक्षन्त इति किं
वाच्यमित्याशयेन मलकणास्तथेत्युक्तम् ॥ ४८ ॥
विहरन्ति स्वमात्मानः संसारवनचारिणः ।
कामभोगोलपग्रासमृगा नरसुरासुराः ॥ ४९ ॥
एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेः सर्वप्राणिनां
जीवनहेतुविषयानन्दार्थमपि तदपेक्षामाह - विहरन्तीति । स्वो
देहस्तदात्मना मीयते परिच्छिद्यते अनुभूयते हिंस्यते वा यः स
स्वप्नस्तथाविध आत्मा येषां कामभोगलक्षणानां उलपानां
तृणराजीनां ग्रासे मृगा इव मृगाः भवन्तीति शेषः ॥ ४९ ॥
अस्थिखण्डार्गलामूर्धपिधानाः स्नायुशृङ्खलाः ।
जगद्देहा जरज्जीवरक्तमांससमुद्गकाः ॥ ५० ॥
मृगाणां वने विहारे स्वातन्त्र्यमस्ति । नरसुरासुरजीवानां तु देहपञ्जरे
बद्धत्वादत्यन्तपारतन्त्र्यदुःखमेवेत्याशयेनाह - अस्थीति । जगतां
सर्वेषां नरसुरासुरादिदेहा जरतामनादिसंसारकान्तारे जीर्णानां जीवानां
पर्यायेण बन्धनार्थाः रक्तमांसनिर्मिताः समुद्गकाः सम्पुटकाः ।
पञ्जराणीति यावत् । कृता धात्रेति शेषः । पञ्जरसामग्रीमेवाह - अस्थीति ।
अस्थिखण्डा एव अर्गला विष्कम्भदारूणि येषाम् । मूर्धैव
पिधानमूर्ध्वफलकं येषाम् । स्नायवः शिराः शृङ्खला लोहबन्धनानि
येषाम् ॥ ५० ॥
वनमालामृगा मुग्धाः पुरसञ्चारसंस्थितौ [सञ्चापितास्थितौ इति
पाठः] ।
बालबुद्धिविनोदाय योजिताश्चर्मपुत्रिकाः ॥ ५१ ॥
एवं जीवाविष्टाश्चर्म पुत्रिका एव संसारवनमालामृगास्त एव मुग्धा
देहविवेकशून्या बालानां स्वस्वबुद्धीनां भोगपल्लवग्रासैर्विनोदाय
तत्तद्भोगभूमिलक्षणपुरसञ्चारसंस्थितौ धात्रा योजिता इत्यर्थः ॥ ५१ ॥
नैवंविधोदारमना मनागपि महामतिः ।
न ज्ञश्चलति भोगौघैर्मन्दवातैरिवाचलः ॥ ५२ ॥
तत्त्वविदोऽपि देहदर्शनात्सोऽपि किं तथा नेत्याह - नैवंविधेति ।
उदारमनाः सर्वत्यागी प्रागुक्तमहामतिस्तु एवंविधो मनागपि न ।
यलोपस्यासिद्धत्वात्सन्धिरार्षः । दारेषु दारोपलक्षितभोगेषु मनो यस्य
एवंविधो नेति वा ॥ ५२ ॥
तस्मिन्किल पदे राम ज्ञस्तिष्ठति महोत्तमे ।
यस्मिंश्चन्द्रार्कदेशोऽपि न पातालमिव स्थितः ॥ ५३ ॥
चन्द्रार्कमण्डलप्रदेशः पातालमिव परिहृतप्रकाशोऽपि न स्थितः किं
वाच्यं प्रकाशमानो न स्थित इति । अथवा चन्द्रार्कसञ्चारदेशो विपुल
आकाशोऽपि पातालं भूच्छिद्रमिवाल्पभावेनापि न स्थित इति । तादृशमहापदे
स्थितस्याकाशोदरैकदेशपरिच्छिन्नेषु पदेषु का तृष्णेत्यर्थः ॥ ५३ ॥
यस्यालोकाल्लोकपालाः समालोकाः सुवेदिनः ।
शरीरं पान्त्ययमिव पश्यन्मूढाः क्षपार्णवे ॥ ५४ ॥
यस्य तत्त्वविद आलोकाच्चित्प्रकाशाल्लोकपाला ब्रह्मादयः समालोकाः
सर्वजगत्साधारणप्रकाशाः सन्तश्चक्षुरादिद्वारा बहिरन्तर्बुद्ध्या च
सुवेदिनः सम्यग्व्य्वहारोचितबोधशालिनः सन्तः क्षपार्णवे अज्ञानसमुद्रे
मग्नाः पश्यन्मूढा अशरीरं स्वात्मानं विविच्य पश्यन्तोऽपि मूढाः
सन्तः अयमज्ञजन इव शरीरात्मभावेन शरीरं पान्ति रक्षन्ति ।
दृढाभ्यस्तभोगवासनासहकृताधिकारिकप्रारब्धप्राबल्यादित्यर्थः ॥ ५४
॥
न केचन जगद्भावास्तत्त्वज्ञं रञ्जयन्त्यमी ।
अप्यभ्यासगताः स्फारहृदयं खमिवाम्बुदाः ॥ ५५ ॥
तत्त्वज्ञं तु वैराग्यदार्ढ्येन भोगवासनाक्षयात्स्फारहृदयं
निर्वासनशुद्धान्तःकरणं केचन लोकपालभोग्या अप्यमी
त्रैलोक्यराज्यादिजगद्भावा अभ्यासगताः पुनःपुनः परिशील्यमाना अपि न
रञ्जयन्तीत्यर्थः ॥ ५५ ॥
न केचन जगद्भावास्तत्त्वज्ञं रञ्जयन्त्यमी ।
मर्कटा इव नृत्यन्तो गौरीलास्यार्थिनं हरम् ॥ ५६ ॥
न केचन जगद्भावास्तत्त्वज्ञं रजयन्त्यमी ।
प्राक्तनप्रतिबिम्बश्री रत्नं कुम्भगतं यथा ॥ ५७ ॥
प्राक्तनी कुम्भाद्बहिः स्थितिदशायां रत्नान्तर्दृश्यमाना
स्तम्भकुड्यादिप्रतिबिम्बश्रीः ॥ ५७ ॥
वज्रार्पितोपममसन्मयमम्बुभङ्ग-
तुङ्गं तरङ्गकृतबिम्बमिवावलोक्य ।
लोलां तदीहितसुखेषु रतिं न याति
तज्ज्ञः कुशैवललवेष्विव राजहंसः ॥ ५८ ॥
उक्तमेवार्थं सङ्क्षिप्योपसंहरति - वज्रेति । तज्ज्ञस्तत्त्ववित् ।
ब्रह्मलोकान्तं सर्वं जगद्वैभवमज्ञदृशा
अतिदुर्भेदत्वाद्वज्रार्पितोपमम् । विवेकदृशाम्बुभङ्गेषु जलविलासेषु
तुङ्गमुच्छ्रितं तरङ्गेण स्वाग्रे कृतं
चन्द्रादिप्रतिबिम्बमिवानिर्वचनीयमस्थिरम् । तत्त्वदृशा त्वसन्मयं
तुच्छमवलोक्य अज्ञ इव तदीहितसुखेषु लोलां लौल्यवतीं रतिं न याति यथा
मद्गुभोग्येषु कुत्सितशैवलखण्डेषु राजहंसो रतिं न बध्नाति
तद्वदित्यर्थः ॥ ५८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु
स्थितिप्रकरणे पूर्णाशयस्वरूपवर्णनं नाम सप्तपञ्चाशः सर्गः ॥
५७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
पूर्णाशयस्वरूपवर्णनं नाम सप्तपञ्चाशः सर्गः ॥ ५७ ॥