५६

षट्पञ्चाशः सर्गः ५६

श्रीवसिष्ठ उवाच ।

नास्तीदमिति निर्णीय सर्वतस्त्यज रञ्जनाम् ।
यन्नास्ति तत्प्रति किल केवास्थेह विचारिणाम् ॥ १ ॥

सत्तासत्ते जडस्यात्र कर्तृताकर्तृते चितः ।
विमृश्य सर्वथा दृश्ये रञ्जनास्था निवार्यते ॥ १ ॥

इदं जडं जगत् ।
रञ्जनामहम्ममेतिसंसर्गतादात्म्याध्यासलक्षणामास्थाम् । विचारिणां
विवेकिनां ॥ १ ॥

दृश्यमानमथेदं चेदस्ति सत्तामुपागतम् ।
तिष्ठ स्वात्मनि बध्नासि त्वं किमत्र किलात्मताम् ॥ २ ॥

किं दृश्यं सदथ-सदसत् उतासदेव । पक्षत्रयेपि तत्राहन्तादिरञ्जनं
नोचितमित्याह - दृश्यमानमिति त्रिभिः । इदं देहादि
त्वत्सत्तानिर्पएक्षसत्तामुपागतं यद्यस्तीति मन्यसे तर्हि त्वमपि तत्सत्तानिरपेक्षे
असङ्गोदासीनचिद्रूपे स्वात्मनि तिष्ठ । अत्र त्वं निरपेक्षे देहादौ
अधयसेनात्मतां किं बध्नासि । नचेदं तवोचितमित्यर्थः । तिष्ठत्वात्मनि इति
पाठे तु यदि सत्तामुपागतमस्ति तर्हि आत्मनि स्वीयजडस्वभावे तिष्ठतु नाम ।
त्वमत्रेत्यादि प्राग्वत् ॥ २ ॥

अथ चेदस्ति नास्तीदमिति निश्चयवानसि ।
तथापि भावनासङ्गः कथं युक्तश्चलाचले ॥ ३ ॥

भावनासङ्गः प्रागुक्ताध्यासः । चलाचले सत्त्वासत्त्वयोः
परस्परोच्छित्तिरूपत्वादनियतस्वभावे ॥ ३ ॥

नेदमस्ति जगद्राम तव नास्ति महामते ।
केवलं स्वच्छमेवेत्थमाततं मितमीदृशम् ॥ ४ ॥

अथ चेदित्यनुकृष्यते । अथ चेन्नेदं जगदस्ति तर्हि तव बन्धो नास्त्येव केवलं
स्वच्छमेवात्मतत्त्वमित्थंरीत्या आततं सर्वतो विस्तीर्ण मितं प्रमितमिति
नान्यरञ्जनावकाश इत्यर्थः ॥ ४ ॥

नेदं कर्तृकृतं किञ्चिन्न वा कर्तृकृतक्रमम् ।
स्वयमाभासते चेदं कर्त्रकर्तृपदं गतम् ॥ ५ ॥

किञ्चेदं जगत्सकर्तृकमुताकर्तृकमथ कर्त्रकर्तृसाधारणं
उदासीनात्मसन्निधिमात्रलब्धस्वरूपम् । त्रिष्वपि पक्षेषु तव तद्रञ्जना न
युक्तेत्याह - नेदमिति द्वाभ्याम् ॥ ५ ॥

अकर्तृकं जगज्जालं भवत्वथ सकर्तृकम् ।
मा त्वमेतेन शबलं भावयन्नास्व चेतसि ॥ ६ ॥

शबलं अन्योन्यतादात्म्याध्यासादैक्यमिवापन्नं भावयन्
देहाद्यात्मभावं पश्यंश्चेतसि बुद्ध्युपाधिपरिच्छेदे मा आस्व न
तिष्ठेत्यर्थः ॥ ६ ॥

सर्वेन्द्रियविहीनात्मा कर्तेव स जडोपमः ।
अकर्तृ च तदा मन्ये काकतालीयवज्जगत् ॥ ७ ॥

ननु यतो वा इमानि भूतानि जायन्ते विश्वस्य कर्ता भुवनस्य गोप्ता
इत्यादिश्रुतिविरुद्धोऽयमकर्तृकत्वपक्षः कथमुत्थितः किमर्थं वा
त्वयोपन्यस्तस्तत्राह - सर्वेति ।
यत्तदद्रेश्यमग्राह्यमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं
सर्वगतं सुसूक्ष्मम् । तदव्ययं यद्भूतयोनिं परिपश्यन्ति
इत्यादिश्रुतिभिरसङ्गोदासीनत्वाज्जडपर्वताद्युपम आत्मा मेरुः सूर्यं
परिवर्तयतीतिवत्कर्तेवोपचर्यते जगन्मिथ्यात्वव्युत्पादनायेति यदा सर्वासां
सकर्तृकत्वप्रतिपादकश्रूतीनां हृदयं ज्ञातं तदेत्यर्थः ॥ ७ ॥

काकतालीययोगेन जातं यत्किञ्चिदेव तत् ।
तस्मिन्भावानुसन्धानं बालो बध्नाति नेतरः ॥ ८ ॥

यत्किञ्चिदेव अनिर्वचनीयमेव । भावोऽहन्ताद्यभिमानस्तेन
पुनःपुनरनुसन्धानं स्मरणम् । बालो बालिशः ॥ ८ ॥

न कदाचिदिदं शान्तं जगद्राम न च क्षयि ।
अजस्रं दृश्यमानत्वाद्भावित्वाच्च पुनः पुनः ॥ ९ ॥

अनिर्वचनीयत्वमेव युक्त्या दर्शयति - नेत्यादिना ।
शान्तमत्यन्ताम्भावात्मकशून्यस्वभावम् । क्षयि
प्रध्वंसप्रयुक्तशून्यस्वभावं च न । शून्यस्य
दर्शनायोग्यत्वाज्जगतश्च सदा प्रवाहरूपेण
दृश्यमानत्वाद्ध्वस्तस्योत्पत्तिविरोधाज्जगतश्च
पुनःपुनरुत्पद्यमानत्वादित्यर्थः ॥ ९ ॥

न कदाचिदिदं चास्ति जगद्राम न च क्षयि ।
अजस्रं क्षीयमाणत्वानास्तित्वाच्चानुमानतः ॥ १० ॥

तर्ह्यात्मवत्सदा सत्स्वभावं क्षणिकसत्तास्वभावं वास्तु तत्राह - नेति ।
अस्ति नित्यसत्तास्वभावम् । क्षयि क्षणिकसत्तास्वभावम् । आद्ये अजस्रं
प्रतिक्षणं परिणामभेदेन क्षीयमाणत्वानुभवविरोधात् । द्वितीये
अनाद्यनन्तयोः पूर्वोत्तरकालयोरसतो वर्तमानत्वाभिमतक्षणेऽप्यसतः
सत्त्वायोगेनासत्त्वानुमानादित्यर्थः ॥ १० ॥

सर्वेन्द्रियपदातीतो यदा कर्तेह विज्वरः ।
कुर्वाणः सर्वदा खेदं न कदाचन गच्छति ॥ ११ ॥

अस्तु वास्य नियतिप्रयुक्तसर्गादौ सन्निधिमात्रेण कर्तृत्वं तथापि
सृज्याभिमानेन तत्र खेदो न युक्त इत्याह - सर्वेन्द्रियेति द्वाभ्याम् ॥ ११ ॥

तेनेयं नियतिः प्रौढा भावाभावदशामयी ।
ईदृश्येव स्थिरा दीर्घा मिथ्योत्थापि च दृश्यते ॥ १२ ॥

अपर्यन्तस्य कालस्य कश्चिदंशः शरच्छतम् ।
तावन्मात्रमहाश्चर्यः किमर्थं सोऽनुधावति ॥ १३ ॥

शरच्छतं मानुषदेहजीवनपरमावधिः कालः । अनाद्यनन्तयोः
पूर्वोत्तरकालयोः कदाप्यसत्त्वादत्यन्तासम्भावितं तावत्कालमात्रं
महदतिदृढं मनुष्यदेहात्मतालक्षणमाश्चर्यं यस्य तथाविधः सन्
स सर्वेन्द्रियपदातीत आत्मा किमर्थमनुधावति । सर्वथेदमनुचितमित्यर्थः ॥
१३ ॥

स्थिराश्चेज्जगतां भावास्तत्त्वादास्था न शोभते ।
कथमन्योन्यसंश्लेषो जडचेतनयोः किल ॥ १४ ॥

इदानीमकर्तृकत्वपक्षे स्थिरत्वाभ्युपगमेऽप्यास्था नोचितेत्याह - स्थिरा इति
। तत्त्वात् स्थिरत्वादेव हानोपादानायोग्यत्वादित्यर्थः । असङ्गचितो
जडसम्बन्धाघटनादपि तत्र सा अनुचितेत्याशयेनाह - कथमिति ॥ १४ ॥

अस्थिराश्चेज्जगद्भावास्तदप्यास्था न शोभते ।
पयःफेनास्थिरस्यान्ते दुःखमेषा ददाति ते ॥ १५ ॥

इदानीमकर्तृकास्थिरत्वपक्षेऽप्यास्था नोचितेत्याह - अस्थिरा इति । यतस्ते अस्थिरे
आस्थां बध्नतः पयःफेनलक्षणस्याप्यस्थिरस्यान्ते नाशे एषा आस्था
प्रसक्ता सती दुःखं ददाति दातुं प्रसज्जेतेति यावत् । तथाच पयःफेनास्थया
तन्नाशे शोक उचितश्चेद्देहाद्यास्थया तन्नाशेऽपि स उचितः स्यादिति भावः ॥ १५ ॥

आस्थाबन्धो महाबाहो जगद्भावत्वमात्मनः ।
न स्थिरास्थिरयोः फेनशैलयोरिव राजते ॥ १६ ॥

आत्मनो जगद्भावत्वं जगत्स्वभावता । जन्मनाशादिस्वभावतेति यावत् । साच
अन्योन्यतादात्म्यसंसर्गाध्यासलक्षण आस्थाबन्ध एव न तदन्यो निरूपयितुं
शक्यः । सच तत्त्वविमर्शे स्थिरास्थिरपक्षयोर्द्वयोरपि न राजते । न शोभते
इत्यर्थः । अथवा स्थिरास्थिरयोरात्मजगतोस्तादात्म्यलक्षण आस्थाबन्धो न
राजते फेनशैलयोरिवेत्यर्थः ॥ १६ ॥

सर्वकर्ताप्यकर्तेव करोत्यात्मा न किञ्चन ।
तिष्ठत्येवमुदासीन आलोकं प्रति दीपवत् ॥ १७ ॥

ननु कर्तृत्वपक्षे कथमनास्थोपपत्तिस्तत्राह - सर्वेति । अकर्ता शैल इव ।
औदासीन्यांशेऽयं दृष्टान्तः । कार्यनिर्वाहात्तु कर्तेत्युच्यत इति
सदृष्टान्तमाह - तिष्ठतीत्यादिना ॥ १७ ॥

कुर्वन्न किञ्चित्कुरुते दिवाकार्यमिवांशुमान् ।
गच्छन्न गच्छति स्वस्थः स्वास्पदस्थो रविर्यथा ॥ १८ ॥

दिवाकार्यं सर्वप्राणिदिनकृत्यनिर्वाहम् ॥ १८ ॥

यतः कुतश्चिदेवेदं सम्पन्नमिव लक्ष्यते ।
अरुणातीरवद्वारिपूरावर्तवदाततम् ॥ १९ ॥

नन्वादित्यो दिनकृत्यनिमित्तमात्रं कर्तारस्तु जनास्तद्भिन्ना दृश्यन्ते
जगन्निर्माणे तु नान्ये कर्तारः सन्तीति वैषम्यमाशङ्क्याह - अरुणेति ।
अरुणाख्या नदी तस्यास्तीरं स्वभावत एव शिलाविषममुदासीनं च । वारिपूरोऽपि
निम्नानुसारिस्वभावो न प्रवाहवैषम्यकर्ता । द्वयोस्तयोः सन्निधाने
जायमान आवर्तो यतः कुतश्चिदेव आकस्मिकः सम्पन्नस्तद्वच्चिज्जडसन्निधौ
जगदपीति नात्र कस्यचिच्छिरसि तत्कर्तृताभार आरोपयितुं शक्य इति भावः ।
आद्यो वतिरिवार्थे सप्तम्यन्तात् । द्वितीयस्तु तेन तुल्यमिति तृतीयान्तात् ॥ १९ ॥

इति चेद्भवता राम नैपुण्येनावधारितम् ।
प्रमाणपरिशुद्धेन चेतसा न विचारितम् ॥ २० ॥

एवं विमर्शे तु सुतरां जगत्यास्था नोचितेत्याह - इतीति त्रिभिः ॥ २० ॥

तथापि भावनां साधो पदार्थं प्रति नार्हसि ।
अलातचक्रे स्वप्ने च भ्रमे वा केव भावना ॥ २१ ॥

अकस्मादागतो जन्तुः सौहार्दस्य न भाजनम् ।
भ्रमोद्भूतं जगज्जालमास्थायास्तन्न भाजनम् ॥ २२ ॥

सौहार्दस्य मैत्र्याः ॥ २२ ॥

औष्ण्येन्दौ शीतले भानौ मृगतृष्णाजले तथा ।
यथा न भावयस्यास्थामेवं भावय मा स्थितौ ॥ २३ ॥

अनृतत्वाच्च तत्रास्था नोचितेत्याह - औष्ण्येति । यथा शीतार्त
औष्ण्यभ्रान्तिगृहीते इन्दौ । तापार्तो भ्रान्तिकृतशीतले भानौ तृषार्तश्च
त्वं मृगतृष्णाजले आस्थां न भावयसि एवं जगत्स्थितावपीत्यर्थः ॥ २३ ॥

सङ्कल्पपुरुषस्वप्नजनद्वीन्दुत्वविभ्रमम् ।
यथा पश्यसि पश्य त्वं भावजातमिदं तथा ॥ २४ ॥

अन्तरास्थां परित्यज्य भावश्रीभावनामयीम् ।
योऽसि सोऽसि जगत्यस्मिṁल्लीलया विहरानघ ॥ २५ ॥

भावश्रीः स्त्र्यादिवस्तुसौन्दर्यं तच्चिन्तनप्रचुराम् ॥ २५ ॥

अकर्तृत्वपदं पीत्वा पीत्वेच्छामपि कुर्वतः ।
सर्वभावान्तरस्थस्य सर्वातीतस्य चात्मनः ॥ २६ ॥

अकर्तृत्वपदं तदिच्छां अपिशब्दात्कर्तृत्वपदं तदिच्छां च पीत्वा
निर्गीर्य योऽसि परिशिष्टः सोऽसीति पूर्वेणाप्यन्वयः । लीलया विहरेति यदुक्तं
तद्विवृणोति - अकर्तृत्वपदमिति । कुर्वतो व्यवहारे औदासीन्येन
कर्तृभूतस्य ते सन्निधिमात्रेण निरिच्छैव नियतिः परिजृम्भते ।
व्यवहाराकारेण प्रथते इति यावत् ॥ २६ ॥

इयं सन्निधिमात्रेण नियतिः परिजृम्भते ।
दीपसन्निधिमात्रेण निरिच्छैव प्रकाशते ॥ २७ ॥

तत्र दृष्टान्तानाह - दीपेति । निरिच्छैव प्रभेति शेषः ॥ २७ ॥

अभ्रसन्निधिमात्रेण कुटजानि यथा स्वयम् ।
आत्मसन्निधिमात्रेण त्रिजगन्ति तथा स्वयम् ॥ २८ ॥

कुटजानि कुटजपुष्पाणि । उभयत्र जायन्त इति शेषः ॥ २८ ॥

सर्वेच्छारहिते भानौ यथा व्योमनि तिष्ठति ।
जायते व्यवहारश्च सति देवे तथा क्रिया ॥ २९ ॥

देवे परमात्मनि ॥ २९ ॥

निरिच्छे संस्थिते रत्ने यथालोकः प्रवर्तते ।
सत्तामात्रेण देवे तु तथैवायं जगद्गणः ॥ ३० ॥

अतः स्वात्मनि कर्तृत्वमकर्तृत्वं च संस्थितम् ।
निरिच्छत्वादकर्तासौ कर्ता सन्निधिमात्रतः ॥ ३१ ॥

कर्तृत्वाकर्तृत्वोक्त्योर्बीजं दर्शयन्नुपसंहरति - अत इति ॥ ३१ ॥

सर्वेन्द्रियाद्यतीतत्वात्कर्ता भोक्ता न सन्मयः ।
इन्द्रियान्तर्गतत्वात्तु कर्ता भोक्ता स एव हि ॥ ३२ ॥

बीजान्तरे च दर्शयति - सर्वेति । कर्ता भोक्ता च न अकर्ता अभोक्ता चेत्युक्त
इत्यर्थः ॥ ३२ ॥

द्वे एतामनि विद्येते कर्तृताकर्तृतानघ ।
ययैव पश्यसि श्रेयस्तामाश्रित्य स्थिरो भव ॥ ३३ ॥

कर्तृता अकर्तृता चेत्यध्याहार्यम् ॥ ३३ ॥

सर्वस्थोऽहमकर्तेति दृढभावनयानया ।
प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यते ॥ ३४ ॥

द्वयोरपि श्रेयस्त्वं प्रत्येकं दर्शयति - सर्वस्थ इत्यादिना ॥ ३४ ॥

याति नीरसतां जन्तुरप्रवृत्तेश्च चेतसः ।
यस्याहं किञ्चिदेवेह न करोमीति निश्चयः ॥ ३५ ॥

कथं न लिप्यते तदाह - यातीति । नीरसतां विरागम् ॥ ३५ ॥

भोगौघकामवांस्तत्र कः करोतु जहातु वा ।
तस्मान्नित्यमकर्ताहमिति भावनयेद्धया ॥ ३६ ॥

परमामृतनाम्नी सा समतैवावशिष्यते ।
अथ सर्वं करोमीति महाकर्तृतया तया ॥ ३७ ॥

द्वितीयकल्पस्यापि श्रेयस्त्वं दर्शयति - अथेत्यादिना ॥ ३७ ॥

यदीच्छसि स्थितिं राम तत्तामप्युत्तमां विदुः ।
अहो यन्न करोमीमं समग्रं जागतं भ्रमम् ॥ ३८ ॥

तत्तां तादृशीं स्थितिमपि । प्रथमकल्पे रागद्वेषाद्यप्रसक्तिं दर्शयति ##-

रागद्वेषक्रमस्तत्र कुतोऽन्यस्यात्यसम्भवात् ।
यदन्येन शरीरं तु दग्धमन्येन लालितम् ॥ ३९ ॥

क्रमः प्रसङ्गो मम कुतः । यतः स्यात्तस्य मदन्यस्य
अत्यन्तमसम्भवादित्यर्थः । अन्यसम्भवात् इति पाठे तु अकर्तुरन्यस्य
कर्तुरेवान्यस्य रागादेः सम्भवादित्यर्थः । द्वितीयकल्पेऽपि तदप्रसक्तिं
दर्शयति - यदिति ॥ ३९ ॥

सोऽस्मदारम्भ एवातः कः खेदोल्लासयोः क्रमः ।
मत्सुखासुखविस्तारे जगज्जालक्षयोदये ॥ ४० ॥

अस्मदारम्भोऽस्मत्कृत एव अतः खेदोल्लासयोर्दुःखहर्षयोः । जगज्जालस्य
क्षये उदये च अहं कर्ता ॥ ४० ॥

अहं कर्तेति मत्वान्तः कः खेदोल्लासयोः क्रमः ।
खेदोल्लासविलासेषु स्वात्मकर्तृतयैतया ॥ ४१ ॥

मत्वा स्थितस्येति शेषः । अस्त्वेवं तथापि कथं समतालाभस्तत्राह -
स्वेदेति ॥ ४१ ॥

स्वयमेव लयं याते समतैवावशिष्यते ।
समता सर्वभूतेषु यासौ सत्या परा स्थितिः ॥ ४२ ॥

लयं याते यातेषु । व्यत्ययेनैकवचनं छान्दसम् ॥ ४२ ॥

तस्यामवस्थितं चित्तं न भूयो जन्मभाङ्मनाक् ।
अथवा सर्वकर्तृत्वमकर्तृत्वं च राघव ॥ ४३ ॥

अभ्यासदृशा दृष्टी द्वे व्युत्पाद्य परिनिष्ठितदृष्टिं दर्शयति -
अथवेति ॥ ४३ ॥

सर्वं त्यक्त्वा मनः पीत्वा योऽसि सोसि स्थिरो भव ।
अहं सोऽहमयं नाहं करोमीदमिदं तु न ॥ ४४ ॥

एतद्दृष्टिदृशा पूर्वदृष्ट्योरल्पतां दर्शयति - अयमिति । अयं
एतद्देहे प्रसिद्धो हंसः सर्वदेहात्मकसमष्टिरूप इति द्वितीयकल्पे
समष्टिपरिच्छेदस्य कर्तृत्वाभिमानस्य चानपगमादपूर्णता आद्यकल्पे तु
इदं देहेन्द्रियाद्यहं न अत इदं किञ्चिदपि न करोमीत्यध्यात्मपरिच्छेदस्य
कर्तृत्वादेश्च निरासेन शोधितत्वम्पदार्थमात्रनिष्ठत्वेऽपि
तत्पदार्थशोधनस्य वाक्यार्थनिष्ठायाश्चालाभादपूर्णतेति
दृष्टिद्वयमपि तुष्टये नेत्यर्थः ॥ ४४ ॥

इति भावानुसन्धानमयी दृष्टिर्न तुष्टये ।
सा कालसूत्रपदवी सा महावीचिवागुरा ॥ ४५ ॥

यदि ते न तुष्टये तर्हि किमर्थमुपन्यस्ते इति
चेत्सर्वानर्थमूलदेहाहम्भावविमोचनोपायत्वेनोपन्यस्ते इत्याशयेन
देहाहम्भावस्यानर्थरूपतां सर्वथा त्याज्यतां च दर्शयति -
सेत्यादिना । कालसूत्रादिच्यसिपत्रवनानि नरकभेदाः ।
कार्यकारणयोरायुर्घृतमितिवदमेदारोपात्सामानाधिकरण्यम् ॥ ४५ ॥

सासिपत्रवनश्रेणी या देहोऽहमिति स्थितिः ।
सा त्याज्या सर्वयत्नेन सर्वनाशेऽप्युपस्थिते ॥ ४६ ॥

स्प्रष्टव्या सा न भव्येन सश्वमांसेव पुष्कसी ।
तया सुदूरोज्झितया दृष्टौ पटललेखया ॥ ४७ ॥

श्वमांसेन सहिता सश्वमांसा । देहाहम्मतेरपि
श्वमांससदृशकामाद्यशुचिदूषितत्वादिति भावः । विशुद्धात्मदृष्टौ
स्वाधिष्ठाने पटललेखावदावरणविक्षेपहेतुभूतयेति यावत् ॥ ४७ ॥

उदेति परमा दृष्टिर्ज्योत्स्नेव विगताम्बुदा ।
ययाभ्युदितया राम तीर्यते भवसागरः ॥ ४८ ॥

कर्ता नास्मि न चाहमस्मि स इति ज्ञात्वैवमन्तः स्फुटं ।
कर्ता चास्मि समग्रमस्मि तदिति ज्ञात्वाथवा निश्चयं ॥
कोप्येवास्मि न किञ्चिदेवमिति वा निर्णीय सर्वोत्तमे ।
तिष्ठ त्वं स्वपदे स्थिताः पदविदो यत्रोत्तमाः साधवः ॥ ४९ ॥

इदानीं दृष्टित्रयं सङ्गृह्य तासु स्वाधिकारानुरूपामैच्छिकीं
स्थितिमुपदिशन्नुपसंहरति - कर्तेति । सः कर्तृताप्रयोजको देहादिश्चाहं
नास्मि । समग्रमिति पदं तन्त्रेण द्वितीयाप्रथमान्तं देहलीदीपन्यायेन
पूर्वोत्तरयोः सम्बध्यते । तथाच समग्रं सर्वं कर्ता अहमेवास्मि ।
समग्रं सर्वसमष्टिभूतं तद्ब्रह्माण्डमप्यहमेवास्मीत्यर्थः । एवं
प्रसिद्धदृश्यरूपं न किञ्चिदस्मि किन्तु कोऽप्येव
लोकप्रसिद्धपरिच्छिन्नजडदुःखस्वभावात्मविलक्षणः
पूर्णानन्दचिदात्मास्मीत्यर्थः । निर्णीयेत्यनेन
पूर्वदृष्ट्योरप्येतत्पर्यवसानमावश्यकमिति ध्वनितम् । पदविदो
ब्रह्मविदः ॥ ४९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे
कर्तृत्वविचारयोगोपदेशकरणं नाम षट्पञ्चाशः सर्गः ॥ ५६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे कर्तृत्वयोगो
नाम षट्पञ्चाशः सर्गः ॥ ५६ ॥