५५

पञ्चपञ्चाशः सर्गः ५५

श्रीवसिष्ठ उवाच ।

इत्याकर्ण्य तदा तत्र रात्रावालपनं द्वयोः ।
अहं रघुकुलाकाशशशाङ्क रघुनन्दन ॥ १ ॥

दाशूरेण वसिष्ठस्य पूजितस्य मिथः कथाः ।
कदम्बशोभावीक्षात्र प्रातर्यानं च वर्ण्यते ॥ १ ॥

आलपनं व्यक्तसम्भाषणम् ॥ १ ॥

पतितः खात्कदम्बाग्रे पत्रपुष्पफलाकुले ।
तूष्णीं निर्वृष्टमुक्तात्मा शृङ्गाग्र इव तोयदः ॥ २ ॥

स्वात्तूष्णीं निःशब्दं पतितोऽवतीर्णः । निर्वृष्टेन वृष्टिजलवेषेऽन मुक्तः
अधोवतारित आत्मा येन तोयदेन ॥ २ ॥

अपश्यं तत्र दाशूरं शूरमिन्द्रियनिग्रहे ।
परेण तपसा युक्तं तेजसेव हुताशनम् ॥ ३ ॥

तेजोभिर्देहनिष्क्रान्तैः काञ्चनीकृतभूतलम् ।
तापयन्तं प्रदेशं तं भुवनं भास्करो यथा ॥ ४ ॥

तापयन्तं भासयन्तम् [त्रासयन्तं इति पाठः] ॥ ४ ॥

मामथालोक्य सम्प्राप्तं दाशूरोऽर्घसपर्यया ।
वितीर्णविष्टरं पत्रपूजया पर्यपूजयत् ॥ ५ ॥

वितीर्णो विष्टर आसनं यस्मै तम् । पत्रग्रहणं
पुष्पफलादीनामप्युपलक्षणम् ॥ ५ ॥

ततः पूर्वकथास्तेन सह दाशूर भास्वता ।
कृतास्तनयसम्बोधाः संसारोत्तरणक्षमाः ॥ ६ ॥

पूर्वकथाः प्राक्प्रसुतब्रह्मचर्चाः । तनयं सम्यग्बोधयन्तीति
तनयसम्बोहाः । कर्मण्यण् । गतिकारकोपपदानां कृद्भिः सह
समासवचने कृद्ग्रहणे गतिपूर्वकस्यापि ग्रहणात्सोपसर्गेण सह समासः ॥
६ ॥

दृष्टवांस्तमहं वृक्षं कोरकोत्तरकोटरम् ।
दाशूरस्येच्छया सर्वैरयतद्भिर्मृगव्रजैः ॥ ७ ॥

अयतद्भिः अव्याकुलयद्भिरिति यावत् ॥ ७ ॥

सेव्यमानं वनमिव लतामण्डलमण्डितम् ।
स्मितेन विस्फुटमिव श्वसनस्फुरितच्छदम् ॥ ८ ॥

तं कदम्बं वधूश्लिष्टवरवेषेण वर्णयति - स्मितेनेत्यादिना । यतः
कोरकोत्तरकोटरं श्वसनस्फुरितपल्लवं च अत एव स्मितेन स्फुटमिव स्थितम् ॥
८ ॥

लताकोटिगतैर्भ्रान्तैश्चामरैरिन्दुसुन्दरैः ।
शुभ्राभ्रखण्डनिकरैः शरन्नभ इवावृतम् ॥ ९ ॥

लतानां कोटिषु शाखाग्रेषु गतैः सङ्क्रान्तैश्चामरैश्चमरपुच्छैः ॥ ९ ॥

प्रालेयकणपद्धत्या मुक्तावल्याभ्यलङ्कृतम् ।
सर्वावयवमेवाच्छपुष्पपूरैः प्रपूरितम् ॥ १० ॥

सर्वावयवं अभिव्याप्येति शेषः ॥ १० ॥

स्वरेणुचन्दनालेपैः समालब्धमखण्डितम् ।
स्वच्छदाभोगविपुलरक्ताम्बरपरिच्छदम् ॥ ११ ॥

समालब्धं लिप्तम् । स्वस्य च्छदाभोगैः पल्लवविस्तारैर्विपुला रक्ताः शोणा
अम्बरपरिच्छदा अन्तरीयोत्तरीयकञ्चुकोष्णीषादयो यस्य ॥ ११ ॥

विवाहायेव वेषेण पुष्पभारातिभारिणा ।
लताङ्गनानुषक्तेन नागरेण कृतोपमम् ॥ १२ ॥

मुनिबद्धोटजाकारलतामण्डपमण्डितम् ।
मञ्जरीभिः पताकाभिर्युक्तं पुरमहोत्सवे ॥ १३ ॥

मुनिभिर्बद्धानामुटजानामाकार इवाकारो येषां तैर्लतामण्डपैर्मण्डितम्
। पुरमहोत्सवे पताकाभिर्युक्तं अर्थात्पुरमिवेत्यनुषज्यते । पुरमिवोत्सवे इति
पाठः साधुः ॥ १३ ॥

मृगकण्डूयनध्वस्तपुष्पधूलिविधूसरम् ।
प्रोत्सारितोपान्तवनं वृषमल्लमिवोत्थितम् ॥ १४ ॥

मृगकण्डूयनकम्पेन ध्वस्तैः स्खलितैः पुष्पधूलिभिर्विधूसरम् ।
प्रोत्सारितं स्वोत्कर्षेण न्यग्भावितं उपान्तवनं येन । वृषमल्लं
वृषश्रेष्ठम् ॥ १४ ॥

बर्हिभिः कुसुमोद्वान्तपरागपरिपाटलैः ।
निक्षेपक्षिप्तसन्ध्याभ्रबालवालमिवाचलैः ॥ १५ ॥

बर्हिभिर्मयूरैः । अचलैः पर्वतैर्निक्षेपभूताः क्षिप्ताः स्थापिताः
सन्ध्याभ्रपोतलक्षणा वालाः स्वकेशा यस्मिंस्तथाविधमिवेत्युत्प्रेक्षा ॥ १५ ॥

प्रवालारुणहस्तेन कुसुमस्मितशोभिना ।
मधुना घूर्णमानेन प्रान्तेन पुलकत्विषा ॥ १६ ॥

इदानीमलिनेत्रेण भासिनेत्यन्तैः साधारणैर्विशेषणैर्विलासिपुरुषरूपेण
कदम्बं वसन्तं वनदेवीवृन्दं वा वर्णयंस्तदालयत्वेन तं वर्णयति

  • प्रवालेत्यादिना । तत्राद्यकल्पे स्वेन स्वदेहेनेति वा
    विशेष्यमन्तेऽध्याहार्यम् । मधुना श्लेषान्मकरन्देन मद्येन च मदेनेव
    घूर्णमानेन । प्रान्तेनार्थात्केसरपूर्णेन हेतुना पुलकशोभावता ॥ १६ ॥

नीरन्ध्रपुष्पपूर्णेन घूर्णितेन वनानिलैः ।
निद्रालुकुड्मलदृशा स्तबकस्तनधारिणा ॥ १७ ॥

नीरन्ध्रं निरन्तरं पुष्पैः पूर्णेन । लतास्तबकस्तनान्धारिणा पल्लवकरैः
परामृशता ॥ १७ ॥

पुष्पजालरजःपुञ्जकुङ्कुमारुणवाससा ।
लताविताननिलयवातायननिषङ्गिणा ॥ १८ ॥

लतारचितवितानलक्षणानां निलयानां गृहाणां वातायनेषु
प्रासादगवाक्षद्वारकेषु निषङ्गिणा अनुरक्तेन ॥ १८ ॥

नीलपुष्पलतादोलालीलालास्यविलासिना ।
आपादमस्तकप्रान्तं सर्वतो निर्मितालयम् ॥ १९ ॥

नीलासु स्निग्धहरितच्छदासु पुष्पयुक्तलतादोल्सासु लीलालास्ये
कौतुकान्दोलनविषये विलासिपुरुषभूतेन । कोकिलालापशालिना वनदेवीनां
वृन्देन वृतेनेति वा पाठयोरन्यतरदध्याहार्यम् । ईदृशेन स्वेन
स्वदेहेन वा आपादमस्तकप्रान्तं सर्वतः सर्वेऽवयवाः निर्मिता आलयाः
पुष्पफलपक्ष्यादिभूषणाश्रया येन तम् । द्वितीये उक्तविशेषणगणवता
मधुना वसन्तेन सर्वतः सर्वदा सर्वाङ्गे निर्मितालयमिति योज्यम् । तृतीयेऽपि
उक्तविशेषणगणवता वनदेवीनां वृन्देन सर्वतो निर्मितालयमिति परेण सह
योज्यमिति ॥ १९ ॥

वृन्देन वनदेवीनां कोकिलालापशालिना ।
सन्दिग्धमञ्जरीजालमलिनेत्रेण भासिना ॥ २० ॥

अलीनां पर्यायेण लताकदम्बमञ्जरीषूपवेशनात्किमेतानि लतानेत्राणि उत
कदमनेत्राणीति सन्देहास्पदीभूतमञ्जरीजालयुक्तमित्यर्थः । अथवा
वनदेवीनामलिसदृशनेत्रेण वृन्देन किमेतानि वनदेवीनां नेत्राण्युत
भ्रमरयुता मञ्जर्य इति सन्दिग्धमञ्जरीजालमिति योज्यम् ॥ २० ॥

अवश्यायोपशमितरतिखेदैर्मदालसैः ।
पुष्पधूलिसमालब्धैराश्लिष्टैर्निबिडं मिथः ॥ २१ ॥

पुष्पधूलिभिः समालब्धैर्लिप्तैः । मिथः अन्योन्यं रहसि च निबिडमाश्लिष्टैः
॥ २१ ॥

पुष्पान्तरान्तःपुरगैः किमपि प्रणयोचितम् ।
ध्वनद्भिरभितः स्वच्छमत्तालियुगलैर्वृतम् ॥ २२ ॥

पुष्पस्यान्तरो गर्भ एवान्तःपुरम् । मत्तालीनां युगलैर्मिथुनैः ॥ २२ ॥

काननोपान्तनगरीगुङ्गुमाकर्णनेच्छया ।
क्षणमुत्कर्णमाशान्तचारुवर्वणटाङ्कृतैः ॥ २३ ॥

आशान्तेषु दिक्प्रदेशेषु चारुभिर्मधुरैर्वर्वणानां नीलमक्षिकाणां
निवेदकपुरुषस्थानीयानां टाङ्कृतैर्ध्वनिभिः काननोपान्तलक्षणायाः
स्वनगर्या घुङ्घुमस्य मृगपक्ष्याद्याक्रोशस्याकर्णनेच्छया क्षणं
उत्कर्णमूर्ध्वीकृतकर्णमिव स्थितमित्यर्थः ॥ २३ ॥

क्षणं दलाग्रविश्रान्तमुग्धमुग्धशिरस्तया ।
पश्यद्भिरिन्द्वंशुकवज्जालामर्णवमेखलाम् ॥ २४ ॥

दलाग्रेषु पल्लवेषु उपधानस्थानीयेषु निद्रावेशाच्चापलाच्च क्षणं
विश्रान्तानि मुघ्दमुग्धानि दर्शनीयतमानि शिरांसि येषां तद्भावेन ।
इन्दुना अंशुकवन्ति किरणपटैराच्छादितानि वनाद्यवयवजालानि
यस्यास्तथाविधामर्णवमेखलां भूमिं निशापगमप्रतीक्षया पश्यद्भिः
॥ २४ ॥

वनस्थलीनां तनयैर्नयैर्मूर्तिमिवास्थितैः ।
शुभैः पत्रपुटेष्वन्तर्मृगैः सारतलान्तरम् ॥ २५ ॥

वनस्थलीनां तनयैः पुत्रभूतैर्मुनिप्रभावान्मूर्तिमाश्रितैर्नयैर्विनयैरिव
स्थितैः पत्रपुटेषु पर्णजालोदरेषु अन्तर्लीनैर्मृगैः शाखामृगादिभिः
साराः शोभमानाः सार्थकीभूताश्च तलमधोभूभाग आन्तराः
शाखाद्यवयवाश्च यस्य तम् ॥ २५ ॥

नीडश्वसत्सुविश्वस्तसुप्तमात्रकपक्षिणम् ।
पाकच्युतफलोपान्तभूतकञ्चुकमण्डली ॥ २६ ॥

नीडेषु श्वसन्तः मुनिप्रभावनिर्भयत्वात्सुविश्वस्तं यथा स्यात्तथा
सुप्तमात्रकाः । अज्ञातेकन् । सुप्तत्वादलक्ष्यमाणा इति यावत् । पक्षिणो यत्र तम् ।
पूर्वं भ्रमराविष्टेषु दैवात्पाकवशादधश्च्युतेषु फलेषु
उपान्तस्थितमृगादिभूतैः कञ्चुकवत्सर्वतो व्याप्तमण्डलीभ्यो
भक्षणोपमर्दादिशङ्कया सन्दिग्धाः भयान्मूकाश्च भ्रमरकीटा यस्य
तमित्युत्तरेण सह समासः ॥ २६ ॥

सन्दिग्धमूकभ्रमरं गुच्छैः पूजाक्षसूत्रकैः ।
श्यामलीकृतपर्यन्तं नीडैः पल्लवमण्डितैः ॥ २७ ॥

पूजापदेन तत्कालिको जपो लक्ष्यते । तत्राक्षसूत्रकल्पैः लम्बमानलतागुच्छैः
सुगन्धितं अशेषं वनं येन ॥ २७ ॥

सुगन्धिताशेषवनं पुष्पमेघीकृताम्बरम् ।
धूलीकदम्बशबलफलौघवलितं तले ॥ २८ ॥

तले मूलभुवि धूलीकदम्बशबलैः फलौघैर्वलितं व्याप्तम् ॥ २८ ॥

बहुनात्र किमुक्तेन न किञ्चिदपि विद्यते ।
पत्रं यत्र तरौ यत्र नोष्यते वा न युज्यते ॥ २९ ॥

यत्र तरौ यत्र यस्मिन्पत्रे प्राणिभिर्नोष्यते न युज्यते नोपयुज्यते वा तादृशं
पत्रमपि किञ्चिन्न विद्यते किं वाच्यं शाखाफलपुष्पादीत्यहोऽस्य सर्वथा
परोपकारेण जन्मसार्थक्यमिति भावः ॥ २९ ॥

पत्रे पत्रे मृगाः सुप्ता विश्रान्ताश्च पदे पदे ।
कच्छे कच्छे खगा लीनास्तस्य भूरुहभूपतेः ॥ ३० ॥

पत्रे पत्रे । अधोगलितपत्रेषु सर्वेष्वित्यर्थः । कं अवश्यायजलं छयति
छिनत्तीति कच्छः पत्राद्यधोदेशः । छो छेदने इत्यस्मादातोऽनुपसर्गे कः ॥
३० ॥

एवङ्गुणविशिष्टं तं समालोकयतो मम ।
महोत्सवेन सदृशी सा बभूव तमस्विनी ॥ ३१ ॥

दिव्यदृशा समालोकयतः । तमस्विनीति । यद्यपि
प्रागिन्द्वंशुकवज्जालामित्युक्तत्वाज्ज्योत्स्नावत्येव तथापि
रात्रित्वमात्रविवक्षयैवमुक्तम् ॥ ३१ ॥

ततः कथाभी रम्याभिः स तस्य तनयो मया ।
विज्ञानालोकरम्याभिर्नीतो बोधं परं पुनः ॥ ३२ ॥

आवयोस्तत्र चित्राभिः कथाभिरितरेतरम् ।
शर्वरी सा व्यतीयाय मुहूर्त इव कान्तयोः ॥ ३३ ॥

मम तस्य च आवयोः । त्यदादीनि सर्वैर्नित्यम् इत्यस्मच्छब्दशेषः ॥ ३३ ॥

प्रातः प्रतनुतां याते पुष्पर्द्धिघनजालके ।
स्वर्गाङ्गनाङ्गभोगाभे तारकानिकरे शनैः ॥ ३४ ॥

पुष्पर्द्धिघनजालप्रतिकृतौ तारकानिकरे । इवे प्रतिकृतौ इति कन् ॥ ३४ ॥

आकदम्बनभोभागमुपयातं [मार्गम् इति पाठः] सुतान्वितम् ।
अहं विसृज्य दाशुरं ततोऽमरनदीं गतः ॥ ३५ ॥

उपयातमनुयातम् । ओदकान्तात्प्रियं पान्थमनुव्रजेत् इति स्मृतेः । गृहं प्रति
विसृज्य निवर्त्य ॥ ३५ ॥

तत्राभिमतमासाद्य स्थानमेत्य नभस्तलम् ।
प्रविश्य खं मुनीनां च मध्यं स्वस्थ इव स्थितः ॥ ३६ ॥

दाशूराख्यायिकैषा ते कथिता रघुनन्दन ।
जगतः प्रतिबिम्बाभा सत्याकाराप्यसन्मयी ॥ ३७ ॥

दाशूराख्यायिकेवेयमित्येतत्कथितं मया ।
तुभ्यं राघव बोधाय जगद्रूपनिरूपणे ॥ ३८ ॥

आख्यायिकायाः प्रागुक्तां सङ्गतिं स्मारयति - दाशूरेति ॥ ३८ ॥

तस्मादवास्तवीं त्यक्त्वा वास्तवीमपि रञ्जनाम् ।
दाशूरसिद्धान्तदृशा सदोदारो भवात्मवान् ॥ ३९ ॥

दाशूरोपदिष्टसिद्धान्तदृशा ॥ ३९ ॥

तस्माद्विकल्पं मलमात्मनस्त्वं
निर्धूय पश्यामलमात्मतत्त्वम् ।
आसादयिष्यस्यचिरात्पदं त-
द्भविष्यसीज्यो भुवनेषु येन ॥ ४० ॥

विकल्पं तद्धर्मिमनस्तद्धेतुभूतं मलमज्ञानं च निर्धूय । येन
आसादनेन इज्यः पूज्यो भविष्यसि ॥ ४० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे दाशूरो०
वसिष्ठदाशूरमेलनं नाम पञ्चपञ्चाशः सर्गः ॥ ५५ ॥

इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे स्थितिप्रकरणे
वसिष्ठदाशूरमेलनं नाम पञ्चपञ्चाशः सर्गः ॥ ५५ ॥

दाशूरोपाख्यानं समाप्तम् ।