चतुःपञ्चाशः सर्गः ५४
पुत्र उवाच ।
कीदृशस्तात सङ्कल्पः कथमुत्पद्यते प्रभो ।
कथं च वृद्धिमाप्नोति कथं चैष विनश्यति ॥ १ ॥
सङ्कल्पस्य यथोत्पत्तिर्यद्रूपं घनता यथा ।
येनोपायेन चोच्छेदस्तत्सर्वमिह कीर्त्यते ॥ १ ॥
प्रश्नः स्पष्टः ॥ १ ॥
दाशूर उवाच ।
अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः ।
चितश्चेत्योन्मुखत्वं यत्तत्सङ्कल्पाङ्कुरं विदुः ॥ २ ॥
लेशतः प्राप्तसत्ताकः स एव घनतां शनैः ।
याति चित्तखमापूर्य दृढजाड्याय मेघवत् ॥ ३ ॥
चेत्योन्मुखत्वं यत्प्राङ्मन इति व्याख्यातं तदेव
सङ्कल्पवृक्षस्याविद्याबीजोद्भवं [बीजोद्भेदं इत्यपि पाठः]
प्रथमाङ्कुरं विदुरित्यर्थः । चित्तखं तमेव चित्ताकाशं आपूर्य सर्वतो
व्याप्य दृढजाड्याय अधिष्ठानचितश्चित्स्वभावतातिरोधानेन
जडप्रपञ्चाकारसम्पत्तये इति यावत् ॥ ३ ॥
भावयन्ती चितिश्चेत्यं व्यतिरिक्तमिवात्मनः ।
सङ्कल्पतामुपायाति बीजमङ्कुरतामिव ॥ ४ ॥
एवं समष्टिसङ्कल्पाज्जगदुद्भवमुक्त्वा तथैव
बुद्ध्यहङ्कारप्राणेन्द्रियदेहाद्याकारव्यष्टिसङ्कल्पोत्पत्तिमाह -
भावयन्तीति ॥ ४ ॥
सङ्कल्पेन हि सङ्कल्पः स्वयमेव प्रजायते ।
वर्धते स्वयमेवाशु दुःखाय न सुखाय तु ॥ ५ ॥
ततो मूलाङ्कुराच्छाखाङ्कुराणामिव
बाह्यविषयाकारसङ्कल्पपरमपराभिर्वृद्धिं दुःखान्तामाह -
सङ्कल्पेनेति ॥ ५ ॥
सङ्कल्पमात्रं हि जगज्जलमात्रं यथार्णवः ।
ऋते सङ्कल्पमन्या ते नास्ति संसारदुःखिता ॥ ६ ॥
काकतालीययोगेन सञ्जातोऽस्ति मुधैव हि ।
मृगतृष्णाद्विचन्द्रत्वमिवासत्यं च वर्धते ॥ ७ ॥
ननु निर्विकाराद्वये वस्तुनि कथं निर्बीजजगदुद्भवस्तत्राह - काकतालीयेति ।
विवर्तवादाश्रयेण चायं दोषः परिहार्य इत्याशयेनाह - मृगतृष्णेति
॥ ७ ॥
निगीर्णमातुलिङ्गस्य कनकप्रत्ययो यथा ।
स्वयमभ्येत्यसत्योऽन्तः सङ्कल्पस्ते तथा हृदि ॥ ८ ॥
पूर्वानुभूतविषयवासनोद्बोधाद्धेया जगद्भ्रान्तिरित्याशयेनाह -
निगीर्णेति । मातुलिङ्गं फलविशेषः । तद्धि चाक्षुषं पित्तमुद्दीपयच्छुक्ले
पीतभ्रमं जनयति ॥ ८ ॥
असत्यमेव जातस्त्वमसत्यमपि वर्तसे ।
अस्मिञ्ज्ञाते च विज्ञाने ह्यसत्यं संविलीयते ॥ ९ ॥
अस्मिन्मदुपदेशात्मके विज्ञायते अनेनेति विज्ञाने शास्त्रे ॥ ९ ॥
असौ सोऽहमिमे भावाः सुखदुःखमया मम ।
व्यर्थमेवेति नानास्था येनान्तः परितप्यसे ॥ १० ॥
असौ यो वेदान्तेषु प्रसिद्धः पूर्णात्मा सः अहमेव मम इमे सुखदुःखमया
जन्मादिभावा व्यर्थं मिथ्यैव इत्यनास्था येनाज्ञानेन हेतुना नास्ति तेन
परितप्यसे ॥ १० ॥
असन्नेवास्य जातोऽसि कुतो जन्मविलासतः ।
व्यर्थमेवावमूढोऽसि सङ्कल्पवशतः स्वतः ॥ ११ ॥
अस्य जन्मादेः सम्बन्धी कदाप्यसन्नेव भ्रान्त्या जातोऽसि ।
विलासतस्तात्त्विकपूर्णतालक्षणस्वविलसनात्तु कुतो जन्म ॥ ११ ॥
मा सङ्कल्पय सङ्कल्पं भावं भावय मा स्थितौ ।
एतावतैव भावेन भव्यो भवति भूतये ॥ १२ ॥
तर्ह्यस्य भ्रमस्य निवृत्तौ क उपायस्तमाह - मा सङ्कल्पयेति ।
पूर्वानुभूतं सुखदुःखादिभावं साम्प्रतिकस्थितौ मा भावय मा स्मर ।
स्मृतेर्हि पूर्वभावे तदुपादानहानाद्यर्थसङ्कल्पोदयः स्यादेवेति भावः ॥
१२ ॥
सङ्कल्पनाशयत्नेन न भयान्यनुगच्छति ।
भावनाभावमात्रेण सङ्कल्पः क्षीयते स्वयम् ॥ १३ ॥
तथाच सङ्कल्पक्षयात्सर्वभयक्षयः । पूर्वभावाभावनाच्च सङ्कल्पक्षय
इति क्रमः सिद्ध इत्याह - सङ्कल्पेति ॥ १३ ॥
सुमनःपल्लवामर्दे किञ्चिद्व्यतिकरो भवेत् ।
सुसाध्यो भावमात्रेण नतु सङ्कल्पनाशने ॥ १४ ॥
अयमुपायोऽत्यन्तसुकर इति प्रशंसति - सुमन इत्यादिना । सुमनसां
शिरीषादिपुष्पाणां पल्लवस्य दलस्यामर्दने कश्चिच्चासौ व्यतिकरश्च
किञ्चिद्व्यतिकरः प्रयत्नः सुसाध्यः सुकरोऽपि भवेत् सम्भावितो नतु
अभावोऽभावना तन्मात्रेण साध्ये सङ्कल्पनाशने तत्सम्भावनेत्यर्थः ॥ १४ ॥
पुष्पाक्रान्तौ करस्पन्दयत्नः पुत्रोपयुज्यते ।
तदप्युपकरोत्यस्मिन्न सङ्कल्पपरिक्षये ॥ १५ ॥
उक्तमेव व्याचष्टे - पुष्पेति । तदपि सोऽपि तावानपीति यावत् । नोपकरोति ॥ १५ ॥
सङ्कल्पो येन हन्तव्यस्तेन भावविपर्ययात् ।
अप्यर्धेन निमेषेण लीलयैव निहन्यते ॥ १६ ॥
भावो भावना स्मृतिस्तस्य विपर्ययादस्मरणात् ॥ १६ ॥
भावमात्रोपसम्पन्ने स्वात्मनि स्थितिमागते ।
साध्यते यदसाध्यं तत्कस्य स्यात्किमिवाङ्ग ते ॥ १७ ॥
ननु सङ्कल्पक्षयाद्दुःखक्षयेऽपि निरतिशयानन्दावाप्तिः केनोपायेन साध्या
तत्राह - भावेति । भावो भावना निरन्तरं स्वपूर्णानन्दात्मताचिन्तनं
तन्मात्रेणोपसम्पन्ने प्राप्ते स्वात्मनि स्थितिं स्वरूपाप्रच्युतिमागते सति
यदसाध्यं तदपि साध्यते । नन्वसाध्यं साध्यत इति विप्रतिषिद्धं तत्राह
- कस्येति । स्वतःसिद्धं तन्नापैतीत्याशयेन साध्यं स्यादित्युक्तं
नतूत्पद्यत इत्याशयेन । भावानां ह्यपगमो द्वेधा । परेणापहारे वा
नाशेन भावान्तरप्राप्तौ वा । हे अङ्ग ते तव आत्मा अन्येनापह्रियमाणः कस्य
स्यात् । नह्यद्वितीयात्मनोऽन्यः प्रसिद्धः विनश्यन्वा किमिव स्यात् । घटो हि
विनश्यन् कपालं भवति । आत्मा तु किं स्यात् । यत्स्यात्तन्न नष्टेन द्रष्टुं
शक्यम् । नचात्मान्यो द्रष्टास्ति । तस्मादात्मनाशो निःसाक्षिको न
सिद्ध्यत्येवेत्यात्मरूपो मोक्षः स्वतः सिद्धो नापैष्यतीत्यर्थः ॥ १७ ॥
सङ्कल्पेनैव सङ्कल्पं मनसा स्वमनो मुने ।
छित्त्वा स्वात्मनि तिष्ठ त्वं किमेतावति दुष्करम् ॥ १८ ॥
असङ्कल्पनसङ्कल्पेनैव सर्वसङ्कल्पं आत्मतत्त्वमननरूपेण मनसैव
स्वमनश्छित्त्वेत्यर्थः ॥ १८ ॥
उपशान्ते हि सङ्कल्पे उपशान्तमिदं भवेत् ।
संसारदुःखमखिलं मूलादपि महामते ॥ १९ ॥
उक्तोपायद्वयेन मूलादप्युपशान्ते सति दुःखमपि मूलादुपशान्तं
भवेदित्यर्थः ॥ १९ ॥
सङ्कल्पो हि मनो जीवश्चित्तं बुद्धिः सवासना ।
नाम्नैवान्यत्वमेतेषां नार्थेनार्थविदां वर ॥ २० ॥
ननु सङ्कल्पे उपशान्तेऽपि जीवचित्तवासनादिवशाद्दुःखं स्यादेवेत्याशङ्क्य
तेषां सङ्कल्पेऽन्तर्भावमाह - सङ्कल्प इति ॥ २० ॥
सङ्कल्पनादृते नेह किञ्चिदेवास्ति कुत्रचित् ।
तमेव हृदयाच्छिन्धि किमेतत्परिशोचसि [किमन्यत् इति पाठः] ॥
२१ ॥
यथैवेदं नभः शून्यं जगच्छून्यं तथैव हि ।
असन्मयविकल्पोत्थे उभे एते तते यतः ॥ २२ ॥
ननु सङ्कल्पस्यैव जीवजगदात्मकत्वे तत्क्षये नैरात्म्यलक्षणशून्यतापत्तिः
नहि जीवान्य आत्मा नामास्तीत्याशङ्क्याह - यथैवेति । मरुमरीचिकाच्छेदेऽपि
न मरुभूः शून्यात्मिका यथेदं निदर्शनं तथा
जगज्जीवादिदृश्यमात्रबाधेऽपि न दृग्रूप आत्मा शून्यात्मकः । एते
मरीचिकाजगती उभे समे तते आरोपणविस्तृते ॥ २२ ॥
असिद्धं सर्वमेवैतदसिद्धेनैव साधितम् ।
सङ्कल्पेन जगद्यस्माद्भावना क्वावतिष्ठताम् ॥ २३ ॥
ननु बाधितमपि भावनया पुनः स्यादित्याशङ्क्याह - असिद्धमिति
बाधितेऽर्थे भावनैव नावतरतीत्यर्थः ॥ २३ ॥
(सत्यास्थायामसत्यां [इदमर्धमधिकं क्वचित्] तु
किन्निष्ठा वासना भवेत् ।)
भावनाक्षयतः सिद्धिस्ततः प्राप्यं न शिष्यते ।
तस्मादसदिदं सर्वं विज्ञेयं हेलयेद्धया ॥ २४ ॥
तस्माज्जगन्मिथ्यात्वदर्शनं भावनोच्छेदार्थिना प्रथमं
साध्यमित्याशयेनाह - भावनेति । इद्धया अभ्यासदृढीकृतया । हेलया
दृश्यावहेलनया ॥ २४ ॥
तनुभावनया तेन सुखदुःखैर्न लिप्यते ।
अवस्त्विति च निर्णीय स्नेहास्था न प्रवर्तते ॥ २५ ॥
तेन दृश्यावहेलनेन तनुभावनया देहात्मताप्रतिसन्धानेन प्रागुक्तैः
सुखदुःखैः । तनुसम्बन्धिपुत्रमित्राद्यप्यवस्त्विति विज्ञाय तेषु स्नेहास्था च
न प्रवर्तत इत्यर्थः ॥ २५ ॥
आस्थाक्षये न जायेते हर्षामर्षौ भवाभवौ ।
तस्मादसदिदं सर्वं सुखदुःखादिविभ्रमैः ॥ २६ ॥
मनो जीवः स्फुरत्युच्चैर्मानसं नगरं जगत् ।
भविष्यद्वर्तमानं च भूतं च परिवर्तयन् ॥ २७ ॥
मन एव चित्प्रतिबिम्बाज्जीवः सन् जगल्लक्षणं मानसं नगरं परिवर्तयन्
रचयन् परिणमयन् विनाशयंश्च स्फुरतीत्यर्थः ॥ २७ ॥
वासनावलितं लोके स्फुरच्छक्ति मनः स्थितम् ।
करोति स्वाशयेनेमां व्यवस्थां मलिनश्चलः ॥ २८ ॥
कुतस्तथा परिवर्तयन्स्फुरति तत्राह - वासनेति । यतोऽस्य
मनोविषयसम्बन्धात्तत्तद्वासनाभिरावलितमधिष्ठानचित्सम्बन्धा##-
प्रागुक्तां रचनादिव्यवस्थां करोतीत्यर्थः ॥ २८ ॥
आत्मनः सदृशीं लीलां जीवो हृद्वनमर्कटः ।
दीर्घमाकारमादाय निमेषाद्याति ह्रस्वताम् ॥ २९ ॥
तर्हिष्टमेव कुतो न करोति अनिष्टं च कुतः करोति तत्राह - आत्मन इति ॥ २९ ॥
ग्रहीतुं च न शक्यन्ते सङ्कल्पजलवीचयः ।
मनाग्दृष्टा विवर्धन्ते ह्रसन्ति सपरिच्छदाः ॥ ३० ॥
कुतोऽस्य वृद्धिह्रासौ तत्राह - ग्रहीतुमिति । नियन्तुमित्यर्थः । दृष्टाः
विषयदर्शनोद्बुद्धः । विषयदर्शनस्मरणत्यागे तु सपरिवारा ह्रसन्ति ॥ ३० ॥
तृणमात्रेण दीप्यन्ते सङ्कल्पा वह्निशेषवत् ।
जगत्यप्रकटाकाराः प्रदीप्ताः क्षणभङ्गुराः ॥ ३१ ॥
तृणमात्रेण तृणसदृशेनाल्पेनापि विषयेणेति यावत् । वह्निशेषोऽग्निकणः ।
जगतीत्याद्युत्तरान्वयि ॥ ३१ ॥
भ्रमदा जडसंस्थानाः सङ्कल्पास्तडिदग्नयः ।
यदेवासन्मयं पुत्र तदेवाशु चिकित्सितुम् ॥ ३२ ॥
भ्रमदाः स्थाण्वादौ चोरादिभ्रान्तिहेतवः जडेषु विषयेषु
लडयोरभेदान्मेघजलेषु च संस्थानं येषाम् । इत्थं कीदृशस्तात
सङ्कल्पः इत्यादिप्रश्नानामुत्तरमुपवर्ण्य कथं चैष विनश्यति इति
चरमप्रश्नस्योत्तरं विवक्षुर्वर्णितस्य सङ्कल्पस्य सुचिकित्स्यतामाह -
यदेवेत्यादिना । असन्मयं असत्याज्ञानविकारभूतम् ॥ ३२ ॥
शक्यते नात्र सन्देहो नासत्सद्भवति क्वचित् ।
संस्थितो यदि सङ्कल्पो दुश्चिकित्स्यः स्वतो भवेत् ॥ ३३ ॥
शक्यते ज्ञानेनेति शेषः । संस्थितः परमार्थभूतो यदि भवेत् ॥ ३३ ॥
किन्त्वसद्भूत एवैष सुचिकित्स्यस्तदा भवेत् ।
अकृत्रिमं चेत्संसारमलमङ्गारकार्ष्ण्यवत् ॥ ३४ ॥
जगत्सत्यतापक्षे तु आत्मनोऽपि जगदविशेषान्मलिनस्वभावत्वापत्तौ ज्ञानेन
सत्यनिरास एव सर्वप्रमाणविरुद्ध इत्यनिर्मोक्षप्रसङ्गः ।
विरुद्धस्याप्यभ्युपगमे अङ्गारकार्ष्ण्यस्य सशेषक्षालने मलिनस्यैव
परिशेषो निःशेषक्षालने तु शून्यावसानतेतिवत्पुरुषार्थो
परिशेषश्चेत्याशयेनाह - अकृत्रिममिति । कृतिर्मिथ्याकल्पना तया
निर्वृत्तं कृत्रिमं तद्भिन्नमकृत्रिमं सत्यम् ॥ ३४ ॥
तदेतत्क्षालने साधो कः प्रवर्तेत दुर्मतिः ।
किन्त्वेतत्तण्डुलेष्वेव तुषकञ्चुकवत्स्थितम् ॥ ३५ ॥
तुषकञ्चुकं यथा अतण्डुलभूतमेव तण्डुले निरस्यते तद्वदसदेव सति
निरस्यमित्यर्थः ॥ ३५ ॥
यतस्ततः प्रयत्नेन पौरुषेण विनश्यति ।
अकृत्रिममपि प्राप्तं भृशं पुत्र तथा पुनः ॥ ३६ ॥
कृतिः कारणव्यापारस्तया निर्वृत्तं कृत्रिमं तद्भिन्नं
अनादिभूतमपीत्यर्थः । डुकृञो ङ्वितः क्रिः क्रेर्मम्नित्यम् इति निर्वृत्तार्थे
मप् ॥ ३६ ॥
सुखोच्छेद्यतया ज्ञस्य संसारमलमाततम् ।
तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा ॥ ३७ ॥
ज्ञस्य तत्त्वविदः सुखेन अनायासेनैव उच्छेद्यतया उच्छेदार्हतया आततं
विस्तीर्णम् । अनाद्यज्ञानजस्यातिविस्तीर्णस्य च रजतस्वप्नादिविभ्रमस्य
प्रबोधमात्रेणोच्छेददर्शनादिति भावः ।
असम्भावनाविपरीतभावनादिमलं तु
ज्ञानभूमिकाभ्यासलक्षणपुरुषप्रत्यत्नेनापि नश्यतीत्याशयेनाह -
तण्डुलस्येत्यादिना ॥ ३७ ॥
नश्यति क्रियया पुत्र पुरुषस्य तथा मलम् ।
नश्यत्येव न सन्देहस्तस्मादुद्यमवान्भव ॥ ३८ ॥
असत्कल्पैर्विकल्पैर्यत्संसारो न जितो मुधा ।
स्तोकेनाशु लयं याति क्वासद्वस्तु चिरं स्थितम् ॥ ३९ ॥
असत्कल्पैर्विकल्पैरुपलक्षितः संसारो यदेतावन्तं कालं त्वया न
जितस्तन्मुधैवोपायापरिज्ञानादित्यर्थः ॥ ३९ ॥
असत्यामेति संसारः स्वव्यवस्थां विचारतः ।
दीपालोकादिबान्धस्य द्विन्दुत्वं स्वीक्षितादिव ॥ ४० ॥
असत्यां स्वव्यवस्थां स्वनिष्ठां बाधामिति यावत् । अन्धस्य
तमस्तिरोभूतचक्षुषो दीपालोके सति आन्ध्यमिवेति शेषः ॥ ४० ॥
नासौ तव न चास्य त्वं भ्रान्तिं पुत्र परित्यज ।
असत्ये सत्यवद्दृष्टे भावना मा स्म हीदृशः ॥ ४१ ॥
असौ संसारः । हि यस्मादसत्ये सत्यवद्दृष्टे सति ईदृशः एतादृशस्य
भावना पुनश्चिन्ता मा स्म न खलु युक्तेति शेषः ॥ ४१ ॥
मम गुरुविभवोज्ज्वला विलासा
इति तव मास्तु वृथैव विभ्रमोऽन्तः ।
त्वमपि च वितताश्च ते विलासा
विलसति सर्वमिदं तदात्मतत्त्वम् ॥ ४२ ॥
मम संसारिस्वभावस्य एते गुरुभिर्महद्भिर्विभवैः सम्पद्भिरुज्ज्वला
दीप्यमाना भोगविलासाः सत्याः शाश्वताश्चेति विभ्रमस्तव मास्तु । त्वं
संसारी अपि च ते विलासाश्चकारादन्यदपि जननमरणादिदृश्यमात्रं
तदात्मतत्त्वमेव तथा विलसति न दृश्यरूपं सदन्यदस्तीत्यर्थः ॥ ४२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे
दाशूरो० सङ्कल्पचिकित्सा नाम चतुःपञ्चाशः सर्गः ॥ ५४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे सङ्कल्पचिकित्सा
नाम चतुःपञ्चाशः सर्गः ॥ ५४ ॥