त्रिपञ्चाशः सर्गः ५३
श्रीवसिष्ठ उवाच ।
अथापृच्छत्सुतस्तत्र जम्बूद्वीपे महानिशि ।
कदम्बाग्रावचूडस्थं पितरं पावनाशयम् ॥ १ ॥
खोत्थाख्यानस्य तात्पर्यं विस्तरेणेह वर्ण्यते ।
सङ्कल्पकथितं विश्वमित्युक्तार्थे निदर्शनम् ॥ १ ॥
कदम्बस्याग्रे अवचूड उत्तम्स इव स्थितमित्युपमितसमासः ॥ १ ॥
पुत्र उवाच ।
कोऽसौ खोत्थ इति ख्यातो भूपस्तातोत्तमाकृतिः ।
कथितं च किमेतन्मे त्वयेति ब्रूहि तत्त्वतः ॥ २ ॥
क्व भविष्यति निर्माणं वर्तमाने क्व गम्यता ।
उभयार्थविरुद्धत्वान्मन्मोहाय वचस्तव ॥ ३ ॥
यथाश्रुतार्थे तात्पर्यं नास्ति किन्तु अन्यत्र तात्पर्यमिति त्वया कुतो ज्ञातमिति चेत्
पुरं भविष्यन्निर्माणं किञ्चिद्यामीति निश्चला इत्याद्युक्तौ
भविष्यत्त्ववर्तमानत्वयोर्यौगपद्यविरोधाद्यनन्वितार्थकत्व##-
दाशूर उवाच ।
शृणु पुत्र यथाभूतमेतत्ते कथयाम्यहम् ।
येन संसारचक्रस्य तत्त्वमस्यावबुध्यसे ॥ ४ ॥
अवबुध्यसे अवभोत्स्यसे ॥ ४ ॥
असदप्युत्थितारम्भमवस्तुमयमाततम् ।
संसारसंस्थानमिदमेवमाकथितं मया ॥ ५ ॥
असतः परमार्थसत्ताशून्यादेवाज्ञानादभ्युद्यतारम्भं अत एवावस्तु
माया तन्मयम् । एवमस्यार्थस्य बोधनाय आकथितं पारोक्ष्येण वर्णितम् ॥ ५ ॥
परमान्नभसो जातः सङ्कल्पः खोत्थ उच्यते ।
जायते स्वयमेवासौ स्वयमेव विलीयते ॥ ६ ॥
सङ्कल्पः सङ्कल्पप्रधानं मनः । समष्टिव्यष्टिमनसोरेकीकारेण
खादव्यक्ताकाशादुत्थ इति व्युत्पत्त्या खोत्थ उच्यत इत्यर्थः । स्वयमेव
स्वसङ्कल्पजन्यप्रवृत्तिवासनोद्भवादेव जायते निवृत्तिवासनादार्ढ्याच्च
स्वयमेव लीयत इत्यर्थः ॥ ६ ॥
तत्स्वरूपमिदं सर्वं जगदाभोगि विद्यते ।
जायते तत्र जाते तु तस्मिन्नष्टे विनश्यति ॥ ७ ॥
तत्स्वरूपं तत्परिणामः । उक्तार्थं तदन्वयव्यतिरेकानुविधानप्रदर्शनेन
द्रढयति - जायत इति ॥ ७ ॥
ब्रह्मविष्ण्विन्द्ररुद्राद्यांस्तस्यैवावयवान्विदुः ।
विटपानिव वृक्षस्य शृङ्गाणीव महीभृतः ॥ ८ ॥
ननु ब्रह्मविष्ण्वादिभ्यः सकाशाज्जगदुत्पन्नमिति श्रुतं
तत्कथमन्यस्मादुच्यते तत्राह - ब्रह्मेति । विटपान्स्कन्धान् ॥ ८ ॥
शून्ये व्योमनि तेनेदं निर्मितं त्रिजगत्पुरम् ।
प्रतिभासानुसन्धानमात्रेणैत्य विरिञ्चिताम् ॥ ९ ॥
शून्ये त्रैकालिकजगदभाववति व्योमनि ब्रह्मणि । अचेतनस्यास्य कुतो
निर्माणशक्तिरिति चेदधिष्ठानचैतन्यानुग्रहेण
चेतनविरिञ्च्याकारताप्राप्तेरित्याह - प्रतिभासेति ॥ ९ ॥
यत्रेमे विततालोका लोककोशाश्चतुर्दश ।
वनोपवनमालाश्च यत्रोद्यानपरम्पराः ॥ १० ॥
तदेव त्रिजगत्पुरं प्राग्वर्णितमित्याह - यत्रेत्यादिना । विततालोकाः
सूर्यादिप्रभादीप्ताः । प्रसिद्धवनोपवनमाला यत्र उद्यानपरम्परा वर्णिता
इत्यर्थः ॥ १० ॥
क्रीडाशिखरिणो यत्र सह्यमन्दरमेरवः ।
शीतोष्णदीप्ती चन्द्रार्कौ दीपौ यत्रानलाकृती ॥ ११ ॥
अनलाकृती दीप्यमानौ । अनिलाक्षतौ इति पाठे स्पष्टम् ॥ ११ ॥
सूर्यांशुकचदालोलतरङ्गोत्तुङ्गमौक्तिकाः ।
वहन्ति सरितो यत्र सन्मुक्तावलयश्चलाः ॥ १२ ॥
मुक्तालताविवलितवापीसप्तकभूषितमित्युक्तेरर्थमाह [विगलित इति
पाठः] - सूर्येति । तरङ्गाणां मुक्तासाम्ये उपपत्तिः
सूर्यांशुकचदालोलत्वम् ॥ १२ ॥
इक्षुक्षीरादिसलिला मणिरत्नविसाङ्कुराः ।
और्वानलाम्बुजा यत्र वाप्यः सप्त महार्णवाः ॥ १३ ॥
मणिरत्नानि मणिश्रेष्ठा एव बिसाङ्कुरा यासु । और्वानला वडवाग्नय एव
अम्बुजानि यासु । यत्र नगरे ॥ १३ ॥
अध उर्व्यां तथोर्ध्वे खे पुण्यापुण्यधनश्रियः ।
नरामरकिराटानां यत्रान्तः क्रयविक्रयौ ॥ १४ ॥
ऊर्ध्वाधोगतिरूपेण वणिज्मार्गेण सङ्कुलमिति यदुक्तं तस्यार्थमाह -
अध इति । पुण्यान्यपुण्यानि पापानि च धनश्रियो येषां तेषां नराणां
कर्मोपासनाधिकारिणामार्याणाममराणां च देवान् भावयतानेन ते देव
भावयन्तु वः इति भगवदुक्तन्यायेन पुण्यतत्फलक्रयविक्रयौ । किराटानां
प्रत्यन्तदेशवासिनां कर्माधिकारबहिष्कृतानां
पापतत्फलस्थावरतिर्यगादिभिः परस्परोपकारबाहुल्यात्क्रयविक्रयौ बोध्यौ ॥
१४ ॥
तस्मिन्नेव जगत्यस्मिन्पुरे सङ्कल्पभूभृता ।
क्रीडार्थमात्मनश्चित्रा देहापवरकाः कृताः ॥ १५ ॥
संसारिणो विरचिता मुग्धापवरका गणा इत्युक्तेस्तात्पर्यमाह -
तस्मिन्नेवेत्यादिना ॥ १५ ॥
केचिद्गीर्वाणनामान ऊर्ध्व एव नियोजिताः ।
नरनागादयः केचिदध एव नियोजिताः ॥ १६ ॥
वातयन्त्रप्रवाहेण चलन्तो मांसमृन्मयाः ।
सितास्थिदारवश्चित्रास्त्वग्लेपमसृणामलाः ॥ १७ ॥
वातयन्त्राणि प्राणास्तत्प्रवाहेण । मांसान्येव मृदस्तद्विकाराः ।
सितान्यस्थीन्येव दारूणि यत्र । त्वचो लिप्यन्ते यैस्तैलोद्वर्तनादिभिस्ते
त्वग्लेपास्तैर्मसृणाश्चिक्कणा अमलाश्च ॥ १७ ॥
केचिच्चिरेण नश्यन्ति केचिच्छीघ्रविनाशिनः ।
केचित्केशोलपोल्लासरचिताच्छादनश्रियः ॥ १८ ॥
केशलक्षणानां उलपानां तृणविशेषाणां उल्लासेन रचिता
आच्छादनश्रीर्येषामिति असितच्छादनच्छन्ना इत्युक्तेर्विवरणम् ॥ १८ ॥
कर्णाक्षिनासाप्रमुखैर्द्वारैर्नवभिरन्विताः ।
अनारतवहत्प्राणपवनेनोष्णशीतलाः ॥ १९ ॥
नवद्वारविभूषिता इत्युक्तिं विवृणोति - कर्णेति । अनारतवहद्वाता इत्युक्तिं
विवृणोति - अनारतेति । प्राणस्योष्णत्वमपानस्य च शीतत्वं
प्रत्यक्षसिद्धम् ॥ १९ ॥
कर्णनासास्यताल्वादिवातायनगणान्विताः ।
भुजाद्यङ्गप्रतोलीकाः पञ्चेन्द्रियकुदीपकाः ॥ २० ॥
बहुवातायनान्विता इत्यादि विवृणोति - कर्णनासेत्यादिना । कुदीपकेति
विवरणेन दीपपञ्चकेत्यत्र सङ्घार्थे जातः कन् तन्त्रेण कुत्सामपि द्योतयतीति
तात्पर्यं सूचितम् ॥ २० ॥
मायया रचितास्तेषु सङ्कल्पेन महामते ।
अहङ्कारमहायक्षाः परमालोकभीरवः ॥ २१ ॥
रक्षितारो महायक्षा इत्येतद्विवृणोति - माययेति । परमालोकभीरव इत्यस्य
परमात्मदर्शनेन हृदयग्रन्थ्यात्मकाहङ्कारक्षयश्रुतेः
परमस्यालोकनाद्भीरवो बिभ्यत इति तात्पर्यमित्यर्थः ॥ २१ ॥
देहापवरकेष्वन्तर्महाहङ्कारयक्षकैः ।
सह सङ्क्रीडतेऽत्यर्थं स सदैवासदुत्थितैः ॥ २२ ॥
यथा कुसूले मार्जारो भस्त्रायां भुजगो यथा ।
मुक्ताफलं यथा वेणावहङ्कारस्तथा तनौ ॥ २३ ॥
ननु देह एवाहङ्कारो नान्यो नेत्याह - यथेति ॥ २३ ॥
क्षणमभ्युदयं यान्ति क्षणं शाम्यन्ति दीपवत् ।
देहगेहेषु सङ्कल्पतरङ्गाः सागरेष्विव ॥ २४ ॥
सङ्क्रीडनप्रकारमाह - क्षणमिति । सङ्कल्पस्य तरङ्गा वृत्तयः ॥ २४ ॥
भविष्यन्नवनिर्माणं स व्याप्नोति तदा पुरम् ।
यदा सङ्कल्पितं वस्तु क्षणादेव प्रपश्यति ॥ २५ ॥
तस्येच्छा जायते इत्यादेस्तात्पर्यं पुत्रोक्तविरोधपरिहारेण वर्णयति -
भविष्यदिति ॥ २५ ॥
असङ्कल्पनमात्रेण स्वेनैवाशु विनश्यति ।
श्रेयसे परमायस्य नाशत्वेन तु सम्भवः ॥ २६ ॥
तेनाशु स विनश्यतीत्यस्य तात्पर्यमाह - असङ्कल्पनेति ।
जाग्रत्स्वप्नावस्थयोः परं अत्यन्तं आयस्य भ्रमणप्रयुक्तमायासं प्राप्य
श्रेयसे विश्रान्तिसुखाय असङ्कल्पनमात्रेण सुषुप्तौ नाशत्वेन प्रविलयेन
कारणीभूताविद्यामात्रभावेन सम्भवः सत्तेत्यर्थः । अथवा
नानाजन्मकोटिष्वायस्य दैवान्निर्विण्णः
शास्त्राचार्यसमाध्यभ्यासादिबलादात्मतत्त्वसाक्षात्कारे सति
सङ्कल्पमूलोच्छेदादेवासङ्कल्पनमात्रेण श्रेयसे मोक्षाय सम्भवो
निर्वृतिः । परमायास्य इति पाठे तु अस्य सङ्कल्पस्य नाशत्वेन
वासनाक्षयप्रयुक्तशून्यभावेन सम्भवः अभिनिष्पत्तिः परमाय श्रेयसे
भवतीति सर्वत्र शेषः ॥ २६ ॥
स्वयं सङ्कल्पनामात्रं जायते बालयक्षवत् ।
अनन्तायात्मदुःखाय नानन्दाय कदाचन ॥ २७ ॥
पुनरुत्पद्यते इत्युक्तेस्तात्पर्यमाह - स्वयमिति ॥ २७ ॥
इदं स्फारं जगद्दुःखं प्रतनोत्यात्मसत्तया ।
असत्तया नाशयति घनमान्ध्यं यथा तमः ॥ २८ ॥
स्वयैव दुःखदायिन्या चेष्टया परिरोदिति ।
काष्ठावष्टब्धवृषणः कीलोत्पाटी कपिर्यथा ॥ २९ ॥
किं करोमित्यादिशोकोक्तेर्बीजमाह - स्वयैवेति । दुःखदायिन्यां
निषिद्धाचरणाभिमानादिरूपया । काष्ठावष्टब्धेत्युत्पत्तिप्रकरणे
व्याख्यातम् ॥ २९ ॥
सङ्कल्पितानन्दलवस्तिष्ठत्युद्धरकन्धरम् ।
अकस्मात्प्रच्युतमधुबिन्दुभुक्करभो यथा ॥ ३० ॥
करभो गर्दभः । अनेन विषयसुखमपि रासभस्य मधुलेहनवदतिदुर्लभं
किं पुनर्मोक्षसुखमिति ध्वनितम् ॥ ३० ॥
क्षणं विरतिमायाति रतिमेति क्षणं स्वयम् ।
क्षणं विकारमायाति सङ्कल्पेनैव बालवत् ॥ ३१ ॥
एनं सकलभावेभ्यः कृत्वा निर्मूलमादरात् ।
मतिरन्तःपदं याति यथा पुत्र तथा कुरु ॥ ३२ ॥
खोत्थाख्यायिकावर्णनप्रयोजनमाह - एनमिति । सकलभावेभ्यः
सर्वबाह्यवस्तुभ्यः परावृत्त्य समाध्यभ्यासेन तत्त्वज्ञानेन च निर्मूलं
निर्वासनाऽज्ञानं कृत्वा मतिः अन्तःपदं प्रत्यग्भूतं ब्रह्म यथा
यात्यवलम्ब्य विश्राम्यति तथा कुर्वित्यर्थः ॥ ३२ ॥
त्रयस्तस्या मतेर्देहा अधमोत्तममध्यमाः ।
तमःसत्त्वरजःसञ्ज्ञाः कारणं जगतः स्थितेः ॥ ३३ ॥
प्राग्ये त्रयो देहा उक्तास्तान्प्रपञ्चयति - त्रय इति । मतेः सङ्कल्पात्मनो
मनसः ॥ ३३ ॥
तमोरूपो हि सङ्कल्पो नित्यं प्राकृतचेष्टया ।
परां कृपणतामेत्य प्रयाति कृमिकीटताम् ॥ ३४ ॥
प्राकृतचेष्टया स्वाभाविकप्रवृत्त्या परां कृपणतां नरकेषु
प्रसिद्धम् । कृमिकीटग्रहणं स्थावरादीनामप्युपलक्षणम् ॥ ३४ ॥
सत्त्वरूपो हि सङ्कल्पो धर्मज्ञानपरायणः ।
अदूरकेवलीभावं स्वाराज्यमधितिष्ठति ॥ ३५ ॥
ज्ञानमत्रोपासनं शास्त्रीयप्रवृत्तिनियम इति यावत् । अदूरकेवलीभावं
सन्निहितमोक्षं स्वाराज्यं हैरण्यगर्भभावान्तदेवतापदम् ॥ ३५ ॥
रजोरूपो हि सङ्कल्पो लोकसंव्यवहारवान् ।
परितिष्ठति संसारे पुत्रदारानुरञ्जितः ॥ ३६ ॥
लोकसंव्यवहारो मनुष्यजन्मना तद्योग्यव्यवहारस्तद्वान् ॥ ३६ ॥
त्रिविधं तु परित्यज्य रूपमेतन्महामते ।
सङ्कल्पः परमायाति पदमात्मपरिक्षये ॥ ३७ ॥
परं पदं मोक्षम् । आत्मपरिक्षये आत्यन्तिकसङ्कल्पोच्छेदे सति ॥ ३७ ॥
सर्वा दृष्टीः परित्यज्य नियम्य मनसा मनः ।
सबाह्याभ्यन्तरार्थस्य सङ्कल्पस्य क्षयं कुरु ॥ ३८ ॥
तर्हि सङ्कल्पक्षये क उपायस्तमाह - सर्वा इति । दृष्टीर्बाह्यार्थदर्शनानि
बाह्येन्द्रियाणि वैराग्येण निरुध्येति यावत् ॥ ३८ ॥
यदि वर्षसहस्राणि तपश्चरसि दारुणम् ।
यदि वा विलयात्मानं शिलायां चूर्णयस्यलम् ॥ ३९ ॥
ननु सङ्कल्पक्षयो दुष्करः अन्य एवोपायो मोक्षार्थमुपदिश्यतां नेत्याह ##-
यदि वाग्निं प्रविशसि वडवाग्निमथापि वा ।
यदि वा पतसि श्वभ्रे खड्गधाराजवे तथा ॥ ४० ॥
हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा ।
अत्यन्तकरुणाक्रान्तो लोकनाथोऽथवा यतिः ॥ ४१ ॥
लोकनाथो यतिः श्रीदत्तात्रेयो दुर्वासा वा अत्यन्तकरुणाक्रान्तः सन्नुपदेष्टा
स्यात् । अथवा अत्यन्तकरुणाक्रान्त इति विशेषणस्वारस्यादात्यन्तिकाहिंसोपदेष्टा
बुद्धोऽत्र यतिः । तस्यात्र ग्रहणं त्ववैदिकमार्गेष्वपि
मोक्षप्रत्याशावारणार्थम् ॥ ४१ ॥
पातालस्थस्य भूस्थस्य स्वर्गस्थस्यापि तत्तव ।
नान्यः कश्चिदुपायोऽस्ति सङ्कल्पोपशमादृते ॥ ४२ ॥
अनाबाधेऽविकारे च सुखे परमपावने ।
सङ्कल्पोपशमे यत्नं पौरुषेण परं कुरु ॥ ४३ ॥
सच सङ्कल्पोपशमो ब्रह्मस्वरूप एवेत्याशयेन विशिनष्टि - अनाभाध
इत्यादि । परं यत्नं
साधनचतुष्टयसम्पत्तिश्रवणमनननिदिध्यासनलक्षणम् ॥ ४३ ॥
सङ्कल्पतन्तावखिला भावाः प्रोताः किलानघ ।
छिन्ने तन्तौ न जाने ते क्व यान्ति विशरारवः ॥ ४४ ॥
ननु सङ्कल्पमात्रोच्छेदेन सर्वजगद्बन्धनिवृत्तिः कुतस्तत्राह -
सङ्कल्पेति । तर्हि ते नष्टा भावाः क्व यान्ति तत्राह - न जाने इति ।
आरोपितभावानामधिष्ठाने बाधेऽन्यत्र [बोधे इति क्वचित्पठ्यते]
गमनाप्रसिद्धेरिति भावः ॥ ४४ ॥
असत्सत्सदसत्सर्वं सङ्कल्पादेव नान्यतः ।
सङ्कल्पं सदसच्चैवमिह सत्यं किमुच्यताम् ॥ ४५ ॥
नन्वियं सङ्कल्पादिसर्वभावनिवृत्तिरसती सती सदसती वा । आद्ये
मोक्षासिद्धिर्द्वितीये मोक्षेऽपि द्वैतापत्तिस्तृतीये
पाक्षिकबन्धद्वैतयोरवारणमिति न मोक्षे
निर्व्रणतासिद्धिरित्यादिदोषगणानेकोक्त्या परिहरति - असदिति । सदसत्त्वादयः
सर्वे विकल्पाः सङ्कल्पादेव सहभावैरुत्पन्नाः सङ्कल्पमेव सदसच्चेत्येवं
विकल्पितुं न शक्नुवन्ति इह परमार्थसत्यसङ्कल्पं ब्रह्म न स्पृशन्तीति किं
वाच्यम् । कार्याणां यत्र स्वसङ्गिनि कारणेऽप्यान्तरे कुण्ठीभावस्तत्र किं
वाच्यमसङ्गे परमात्मनीति भावः ॥ ४५ ॥
सङ्कल्प्यते यथा यद्यत्तत्तथा भवति क्षणात् ।
मा किञ्चिदपि तत्त्वज्ञ सङ्कल्पय कदाचन ॥ ४६ ॥
निःसङ्कल्पो यथाप्राप्तव्यवहारपरो भव ।
चिदचेत्योन्मुखत्वं हि याति सङ्कल्पसङ्क्षये ॥ ४७ ॥
उत्थाय सत्त्वरूपेण योन्या सत्यमयात्मकम् ।
न तज्जगद्दुःखमिदं व्यर्थं सदृशमात्मनः ॥ ४८ ॥
ननु मोक्षसम्पादने का क्षतिस्तत्राह - उत्थायेति । सत्यमयात्मकं
सत्यैकस्वभावं ब्रह्म असत्यमायावशात् योन्या
सुरनरतिर्यगादिचतुरशीतियोनिद्वारेण सत्त्वरूपेण तत्तत्प्राणिभेदरूपेणोत्थाय
व्यर्थमेव जगद्दुःखमनुभवति इदमात्मनः स्वस्य न सदृशं न
युक्तमित्यर्थः ॥ ४८ ॥
तेन दुःखाय महते किं मृतेन तवानघ ।
यददुःखाय तत्प्राज्ञाः संश्रयन्तीह नेतरत् ॥ ४९ ॥
तेन नानायोनिजन्मना निमित्तेन दुःखाय दुःखार्थं मृतेन
पुनःपुनर्मरणेन च तव किं फलम् ॥ ४९ ॥
अधिगतपरमार्थतामुपेत्य
प्रसभमपास्य विकल्पजालमुच्चैः ।
अधिगमय पदं तदद्वितीयं
विततसुखाय सुषुप्तचित्तवृत्तिः ॥ ५० ॥
तर्हि मया किं कार्यं तत्राह - अधिगतेति । त्वं अधिगतपरमार्थतां
तत्त्वज्ञतामुपेत्य प्राप्य प्रसभं मूलोच्छेदबलाद्विकल्पजालमपास्य
यदद्वितीयं पदं मोक्षाख्यं तद्विततसुखाय निरतिशयानन्दावाप्तये
अधिगमय स्वप्रयत्नेन साधयेत्यर्थः । मुखं व्यादाय
स्वपितीतिवत्पूर्वकालत्वारोपेण ल्यप् ॥ ५० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थिति० दाशूरो०
संसारनगरविकल्पयोगविचारो नाम त्रिपञ्चाशः सर्गः ॥ ५३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
संसारनगरविकल्पयोगविचारो नाम त्रिपञ्चाशत्तमः सर्गः ॥ ५३ ॥