द्विपञ्चाशः सर्गः ५२
श्रीवसिष्ठ उवाच ।
कदाचिदथ मार्गेण तेन कैलासवासिनीम् ।
अहं स्नातुमदृश्यात्मा व्योमवीथीगतोऽगमम् ॥ १ ॥
खोत्थस्य राज्ञश्चरितं कल्पयित्वेह वर्ण्यते ।
सङ्कल्पकल्पितं विश्वं मिथ्यैवेति विवक्षया ॥ १ ॥
तेन दाशूरकदम्बोपलक्षितेन मार्गेण । कैलासवासिनीं मन्दाकिनीमिति शेषः ॥
१ ॥
निर्गत्य नभसः सप्तमुनिमण्डलकोटरात् ।
रात्रौ प्राप्तोऽस्मि सुमते दाशूरतरुमुन्नतम् [मूलतः इति पाठः
तत्र सार्वविभक्तिकस्तसिः] ॥ २ ॥
सप्तर्षिमण्डलं कोटरमिवैकदेशो यस्य तथाविधान्नभसो द्युलोकाकाशात् ॥
२ ॥
यावच्छृणोमि विटपकुहरात्कानने वचः ।
कुड्मलाम्भोजलग्नस्य षट्पदस्येव निःस्वनम् ॥ ३ ॥
यावदिति साकल्ये निपातः ॥ ३ ॥
शृणु पुत्र महाबुद्धे वस्तुतोऽस्य समामिमाम् ।
वर्णयामि महाश्चर्यामेकामाख्यायिकां तव ॥ ४ ॥
यद्वचः श्रुतं तदेवाह - शृणु पुत्रेत्यादिना । अस्य संसारस्य
समामुपमानभूताम् ॥ ४ ॥
अस्ति राजा महावीर्यो विख्यातो भुवनत्रये ।
नाम्ना खोत्थ इति श्रीमाञ्जगदाक्रमणक्षमः ॥ ५ ॥
खात् अव्याकृताकाशात् कालत्रयेऽपि जगच्छून्याद्ब्रह्माकाशाद्वा उत्थः
उत्तरसर्गेऽस्य व्याख्या मूले स्पष्टेति न विस्तरेणात्र व्याख्यायते ॥ ५ ॥
अस्यानुशासनं सर्वे भुवनेष्वपि नायकाः ।
शिरोभिर्धारयन्त्युच्चैश्चडामणिमिवार्थिनः ॥ ६ ॥
नायका ईश्वरा ब्रह्मादयोऽपि । अर्थिनो धनिनः ॥ ६ ॥
यः साहसैकरसिको नानाश्चर्यविहारवान् ।
केनचित्त्रिषु लोकेषु न महात्मा वशीकृतः ॥ ७ ॥
यस्यारम्भसहस्राणि सुखदुःखप्रदान्यलम् ।
सङ्ख्यातुं केन शक्यन्ते कल्लोला जलधेरिव ॥ ८ ॥
यस्य वीर्यं सुवीर्यस्य न शस्त्रैर्न च पावकैः ।
केनचिद्भुवने क्रान्तमाकाशमिव मुष्टिना ॥ ९ ॥
क्रान्तमभिभूतमनुसृतं वा ॥ ९ ॥
यदीयां विततारम्भां लीलां निर्माणभासुराम् ।
न मनागनुवर्तन्ते शक्रोपेन्द्रहरा अपि ॥ १० ॥
अल्पेऽपि प्रयोजने बहुतरकल्पनासहस्रसङ्कुलत्वाद्विततारम्भाम् ।
स्वप्नमनोरथादिनिर्माणैर्भासुराम् । अनुवर्तन्ते अनुकर्तुं शक्नुवन्तीति यावत् ॥
१० ॥
त्रयस्तस्य महाबाहो देहा विहरणक्षमाः ।
जगदाक्रम्य तिष्ठन्ति ह्युत्तमाधममध्यमाः ॥ ११ ॥
सात्त्विकराजसताअमसभेदात्त्रयः । विहरणक्षमाः
सर्वव्यवहारक्रीडासमर्थाः ॥ ११ ॥
व्योमन्येवातिवितते जातोऽसौ त्रिशरीरकः ।
तत्रैव च स्थितिं यातः शब्दपातश्च पक्षिवत् ॥ १२ ॥
व्योमन्यव्याकृताकाशे । यथा पक्षी
व्योमन्येवाण्डपिण्डगरुन्मयदेहत्रयात्मकः क्रमाज्जातः सर्वतः
परिभवशङ्की निःसारपिप्पलादिफलास्वादलोलुपः शब्दमात्रादुत्पतति
नत्वर्थतत्त्वं विमृशति तद्वदयमपि स्थूलसूक्ष्मकारणात्मकत्रिशरीरको
व्योमनि ब्रह्माकाशे जातः सन् सर्वतो भीतस्तुच्छविषयासक्तो
विधिनिषेधशब्दानुपाती भ्रमतीत्यर्थः ॥ १२ ॥
तत्रैवापारगगने नगरं तेन निर्मितम् ।
चतुर्दशमहारथ्यं विभागत्रयभूषितम् ॥ १३ ॥
नगरं ब्रह्माण्डरूपं चतुर्दशलोकात्मकमहारथ्यं
चतुर्दशविद्यात्मकरथ्यामार्गविभक्तं च । एवं कर्मकरणव्युत्पत्तिभ्यां
विभागत्रयेण त्रिलोकात्मना त्रय्यात्मना च भूषितम् ॥ १३ ॥
वनोपवनमालाढ्यं क्रीडाशिखरिसुन्दरम् ।
मुक्तालताविवलितवापीसप्तकभूषितम् [विगलित इति पाठः] ॥ १४ ॥
वनानां नन्दनादीनाम् । शिखरिभिर्मेर्वादिभिः । वापीसप्तकं समुद्राः ॥ १४ ॥
शीतलोष्णात्मकाक्षीणदीपद्वयविराजितम् ।
ऊर्ध्वाधोगतिरूपेण वणिङ्मार्गेण सङ्कुलम् ॥ १५ ॥
दीपद्वयं चन्द्रसूर्यौ । शास्त्रीयैः
कर्मभिरूर्ध्वगतिरशास्त्रीयैरधोगतिरित्येवंरूपेण ॥ १५ ॥
तस्मिन्नेवातिविपुले पत्तने तेन भूभृता ।
संसारिणो विरचिता मुग्धापवरका गणाः ॥ १६ ॥
संसारिणो जङ्गमाः । मुग्धा विषयव्यामूढा
अपवरकवदात्माकाशपरिच्छेदकत्वादपवरका देवमानुषादिदेहगणाः ॥ १६
॥
ऊर्ध्वं केचिदधः केचित्केचिन्मध्ये नियोजिताः ।
केचिच्चिरेण नश्यन्तः केचिच्छीघ्रविनाशिनः ॥ १७ ॥
असितच्छादनच्छन्ना नवद्वारविभूषिताः ।
अनारतवहद्वाता बहुवातायनान्विताः ॥ १८ ॥
असितैश्छादनैः केशतृणैश्छन्नाः । बहुभिर्वातायनैरूर्ध्वच्छिद्रैः ॥
१८ ॥
दीपपञ्चकसालोकास्त्रिस्थूणाः शुक्लदारवः ।
मसृणालेपमृदवः प्रतोलीभुजसङ्कुलाः ॥ १९ ॥
दीपपञ्चकैर्ज्ञानेन्द्रियैः सालोकाः सप्रकाशाः - ऊरू कसेरुका
[कसेरुका = पृष्ठास्थि] चेति तिस्रः स्थूणाः स्तम्भा येषाम् ।
शुक्लान्यस्थीन्येव वंशदारुस्थानीयानि येषु । मसृणैः
स्निघैरालेपमृत्तिकास्थानीयैश्चर्मभिः । प्रतोल्यो रथ्यास्तद्रूपैर्भुजैः
सङ्कुलाः ॥ १९ ॥
मायया रचितास्तेन राज्ञा तेषु महात्मना ।
रक्षितारो महायक्षा नित्यमालोकभीरवः ॥ २० ॥
तेषां अपवरकाणां अभिमानेन रक्षितारो यक्षाः कार्यकरणैः पूज्याः
स्वामिभूता अहङ्काराः । आलोकादात्मविवेकाद्भीरवः । ततस्तत्क्षयादित्यर्थः ॥
२० ॥
अथापवरकौघेषु चलत्सु स महीपतिः ।
करोति विविधां क्रीडां नीडेष्विव विहङ्गमः ॥ २१ ॥
चलत्सु व्यवहारवत्सु स महीपतिः सङ्कल्पात्मा जीवः ॥ २१ ॥
त्रिशरीरशतेष्वन्तस्तैर्यक्षैः सह पुत्रक ।
लीलावशमुषित्वा तु पुनर्निर्गम्य गच्छति ॥ २२ ॥
लीलाभिरवशमस्वाधीनं यथा स्यात्तथेत्युषित्वा निर्गम्य चेत्युभयान्वयि ॥ २२
॥
तस्येच्छा जायते वत्स कदाचिच्चलचेतसः ।
पुरं भविष्यन्निर्माणं किञ्चिद्यामीति निश्चला ॥ २३ ॥
भविष्यन्निर्माणं अविद्यमानं स्वप्नादिजगत् । निश्चला यावत्तद्भोगं स्थिरा
॥ २३ ॥
भूताविष्ट इवावेगात्तत उथाय धावति ।
पुरं तदप्यथाप्नोति [तदायमाप्नोति इति पाठः] गन्धर्वैरिव
निर्मितम् ॥ २४ ॥
आवेगान्निद्राद्यावेशात् उत्थाय जाग्रद्देहाद्यभिमानं त्यक्त्वा धावति । स तत्र
बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं
प्रतियोन्याद्रवति स्वप्नान्तायैव इति श्रुतेः गन्धर्वैर्निर्मितं पुरं
गन्धर्वनगरमिव मिथ्याभूतमित्यर्थः ॥ २४ ॥
तस्येच्छा जायते पुत्र कदाचिच्चलचेतसः ।
विनाशं सम्प्रयामीति तेनाशु स विनश्यति ॥ २५ ॥
विनाशं सङ्कल्पलयावस्थां सुषुप्तिम् । विनश्यति कारणाविद्यायां
कर्मबीजसंस्कारशेषं करकवद्विलीयते ॥ २५ ॥
पुनरुत्पद्यते तूर्णं [पुर्णं इति पाठः]
स्वात्मनोर्मिरिवाम्भसः ।
व्यवहारं तनोत्युच्चैः पुनरारम्भमन्थरम् ॥ २६ ॥
स्वात्मना पूर्वस्वभावेनैव । स एवाहमिति सुषुप्तोत्थितस्य
प्रत्यभिज्ञानुभवादिति भावः ॥ २६ ॥
स्वयैव व्यवहृत्याथ कदाचित्परिभूयते ।
किङ्करोस्म्यहमज्ञओऽस्मि दुःखितोऽस्मीति शोचति ॥ २७ ॥
परिभूयते शत्रुरोगदारिद्र्यादिभिः ॥ २७ ॥
मुदमेत्य कदाचिच्च स्वयमायाति दीनताम् ।
प्रावृड्वर्षकलोल्लासपूरादिव नदीरयः ॥ २८ ॥
मुदं पूर्वानुभूतसुखमेत्य अतिक्रम्य स्मृत्वा वा ॥ २८ ॥
जयति गच्छति वल्गति जृम्भते
स्फुरति भाति न भाति च भासुरः ।
सुत महामहिमा स महीपतिः
पतिरपामिव वातरयाकुलः ॥ २९ ॥
हे सुत महात्मा स पूर्वोक्तो महीपतिः सति पराभिभवसामर्थ्ये परान् गच्छति
जयति च सम्पदः प्राप्य जृम्भत्ते स्फुरति सञ्चलति भाति च जाग्रत्स्वप्नयोः
सुषुप्तिप्रलयसमाधिमुक्तिषु न भाति च । अन्तर्गतेनात्मज्योतिषा भासुरः अत एव
महामहिमा अपां पतिः समुद्र इव ॥ २९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे
दाशूरो० खोत्थविभववर्णनं नाम द्विपञ्चाशः सर्गः ॥ ५२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
खोत्थविभववर्णनं नाम द्विपञ्चाशः सर्गः ॥ ५२ ॥