एकपञ्चाशः सर्गः ५१
श्रीवसिष्ठ उवाच ।
ततःप्रभृति तत्रासौ प्रसिद्धस्तापसाश्रमे ।
कदम्बदाशूर इति शूरस्तपसि दारुणे ॥ १ ॥
मनोयज्ञैरात्मबोधो वनदेव्यां सुतोद्भवः ।
दाशूरस्यात्र पुत्राय ज्ञानदानं च कीर्त्यते ॥ १ ॥
दारुणे तपसि शूरः अपराङ्मुखः । अदोद्युक्त इति यावत् ॥ १ ॥
तस्म्ṁल्लतादले स्थित्वा विलोक्य ककुभः क्षणात् ।
दृढपद्मासनं बद्ध्वा दिग्भ्यः प्रत्याहृतात्मना ॥ २ ॥
ककुभो दिशः । प्रत्याहृतात्मना परावर्तितेन ॥ २ ॥
अज्ञातपरमार्थेन क्रियामात्रे च तिष्ठता ।
फलकार्पण्ययुक्तेन मनसा सोऽकरोन्मखम् ॥ ३ ॥
नभोगतलतापत्रसंस्थितेनान्तरात्मना ।
सर्वाः स्वमनसा तेन कृता यज्ञक्रियाः क्रमात् ॥ ४ ॥
नभोगताया लतायाः शाखायाः पत्रेषु स्थितेन तेन सर्वा
आधानाद्यश्वमेधान्ताः ॥ ४ ॥
तत्रासौ दश वर्षाणि मनसैवायजत्सुरान् ।
गवाश्वनरमेधाद्यैर्यज्ञैर्विपुलदक्षिणैः ॥ ५ ॥
कालेनामलतां याते वितते तस्य चेतसि ।
बलादवततारान्तर्ज्ञानमात्मप्रसादजम् ॥ ६ ॥
अमलतां रागादिदोषशून्यताम् । एवं प्रतिबन्धक्षये सति बलात्
प्राग्जन्मकृतश्रवणसंस्कारोद्बोधबलात् ॥ ६ ॥
ततो विशीर्णावरणो विगलद्वासनामलः ।
स ददर्शिकदा तस्यां लतायामग्रतः स्थिताम् ॥ ७ ॥
ततो ज्ञानाद्विशीर्णाज्ञानावरणः । तदभ्यासाच्च विगलद्वासनामलो
जीवन्मुक्तः सन्नित्यर्थः ॥ ७ ॥
वनदेवीं विशालाक्षीमालोककुसुमाम्बराम् ।
कामिनीं कान्तवदनां मदगूर्णितलोचनाम् ॥ ८ ॥
नीलोत्पलामोदवतीमतीव सुमनोहराम् ।
तामुवाचानवद्याङ्गीं स मुनिर्विनताननाम् ॥ ९ ॥
भक्तिप्रणामलज्जाभिर्विनताननाम् ॥ ९ ॥
कोकिलाकुसुमापूरनतां वनलतामिव ।
का त्वमुत्पलपत्राक्षि कान्तिविक्षोभितस्मरा ॥ १० ॥
कोकिलया कुसुमापूरैश्च नताम् ॥ १० ॥
वयस्यामिव पुष्पाढ्यां लतां किमिव तिष्ठसि ।
इत्युक्ते मृगशावाक्षी गौरपीनपयोधरा ॥ ११ ॥
लतां अवष्टभ्येति शेषः ॥ ११ ॥
मुनिमाह मनोहारि मुग्धाक्षरमिदं वचः ।
यानि यानि दुरापानि वाञ्छितानि महीतले ॥ १२ ॥
प्राप्यन्ते तान्ति तान्याशु महतामेव याच्ञया ।
अहमस्मिṁल्लताकीर्णे त्वत्कदम्बाभ्यलङ्कृते ॥ १३ ॥
याञ्चया प्रार्थनया ॥ १३ ॥
लतालीलालया ब्रह्मन्विपिने वनदेवता ।
यश्चैत्रसितपक्षस्य त्रयोदश्यां स्मरोत्सवे ॥ १४ ॥
लताकुञ्जा एव लीलार्था आलया यस्याः । का त्वमिति प्रश्नस्योत्तरमुक्त्वा
स्वागमनप्रयोजनमाह - य इत्यादिना । स्मराराधनाय प्रवर्तिते
गीतवादित्रनाट्यबलिभोज्याद्युत्सवे ॥ १४ ॥
बभूव वनदेवीनां समाजो नन्दने वने ।
तत्राहमगमं नाथ त्रैलोक्यललनासदः ॥ १५ ॥
त्रैलोक्यस्थानां ललनानां वनदेवीनां सदः समाजम् ॥ १५ ॥
तत्र दृष्टा मया सर्वा वयस्या मदनोत्सवे ।
अपुत्रया पुत्रयुतास्तेनाहं दुःखिता भृशम् ॥ १६ ॥
तेनापुत्रत्वेन ॥ १६ ॥
त्वयि सर्वार्थसार्थस्य बृहत्कल्पतरौ स्थिते ।
अनाथेव कथं नाथ किल शोचाम्यपुत्रिका ॥ १७ ॥
सर्वेषामर्थानां पुरुषार्थानां सार्थस्य सङ्घस्य । अजन्तुसङ्घे
सार्थशब्दो गौणः ॥ १७ ॥
देहि मे भगवन्पुत्र नो देद्देहमिहाग्नये ।
प्रकरोम्याहुतिं पुत्र दुःखदाहोपशान्तये ॥ १८ ॥
दाहोपशान्तयैति मानसदाहापेक्षया शरीरदाहः [दाहदुःखमल्पमिति
पाठः] सुखायत इति भावः ॥ १८ ॥
तामित्युक्तवतीं तन्वीं विहस्य मुनिपुङ्गवः ।
प्राह हस्तगतं पुष्पं तस्यै दत्त्वा दयान्वितः ॥ १९ ॥
दयान्वितो नतु धैर्याच्च्युत इति भावः ॥ १९ ॥
गच्छ तन्वङ्गि मासेन पूजार्हमलिलोचनम् ।
प्रसोष्यसे सुतं कान्तं प्रसूनमिव सल्लता ॥ २० ॥
पूजार्हं जगत्पूज्यम् ॥ २० ॥
किन्त्वसौ मरणावेशयायिन्या नस्त्वया सुतः ।
याचितः कृच्छ्रं सम्प्राप्य ज्ञाता तेन भविष्यति ॥ २१ ॥
कृच्छ्रं प्राणसङ्कटं सम्प्राप्य मरणावेश आत्मघातसङ्कल्पस्तेन
यायिन्या आगतया त्वया नः अस्मत्तो याचितस्तेन हेतुना ज्ञाता तत्त्वज्ञः ।
नत्वन्यवनदेवीपुत्रवदसौ भोगलम्पट इत्यर्थः ॥ २१ ॥
इत्युक्त्वा स मुनिस्तन्वीं प्रसन्नमुखमण्डलाम् ।
परिचर्यां करोमीति प्रार्थनोत्कां व्यसर्जयत् ॥ २२ ॥
परिचर्यां सङ्गमसेवाद्युपचारम् ॥ २२ ॥
सा जगामात्मसदनं सोऽतिष्ठत्स्वात्मना सह ।
अवहत्क्रमशः काल ऋतुसंवत्सराङ्कितः ॥ २३ ॥
स्वात्मना सहेत्यसहाय इति यावत् । अवहत् अतिचक्रमे ॥ २३ ॥
अथ दीर्घेण कालेन सैवोत्पलविलोचना ।
द्वादशाब्दमुपादाय सुतं मुनिमुपाययौ ॥ २४ ॥
सा प्रणम्योपविश्याग्रे मुनिमिन्दुसमाननम् ।
उवाच कलया वाचा चूतद्रुममिवालिनी ॥ २५ ॥
अलिनी भ्रमरी ॥ २५ ॥
अयं स भगवन्भव्यः कुमारः पुत्र आवयोः ।
कृतो मया समग्राणां कलानां किल कोविदः ॥ २६ ॥
कलानां वेदादिसर्वविद्यानाम् ॥ २६ ॥
प्रभो केवलमेतेन ज्ञानं नाधिगतं शुभम् ।
येन संसारचक्रेऽस्मिन्न पुनः परिपीड्यते ॥ २७ ॥
ज्ञानं ब्रह्मविद्या ॥ २७ ॥
ज्ञानं त्वमेवास्य विभो कृपयोपदिशाधुना ।
को हि नाम कुले जातं पुत्रं मौर्ख्येण योजयेत् ॥ २८ ॥
मौर्ख्येणेति । इतरविद्यानामतत्त्वविषयत्वादविद्यात्वमेवेति न
मौर्ख्यनिस्तारस्ताभिरिति भावः ॥ २८ ॥
एवं वदन्तीं स मुनिः सच्छिष्यमबले सुतम् ।
इहैव स्थापयैनं त्वमित्युक्त्वा तां व्यसर्जयत् ॥ २९ ॥
सच्छिष्यमुत्तमशिष्यगुणसम्पन्नम् ॥ २९ ॥
तस्यां गतायां स पितुरन्तेवासितया तया ।
अतिष्ठत्संयतो धीमानर्कस्येवारुणः पुरः ॥ ३० ॥
अन्तेवासितया गुरुशुश्रूषणव्रतेन संयतः स्थिरनियमः सन् । अरुणो
गरुडाग्रजः ॥ ३० ॥
कदर्थः प्राप्य विज्ञानं ततश्चित्राभिरुक्तिभिः ।
चिरकालमसौ तत्र मुनिः पुत्रमबोधयत् ॥ ३१ ॥
कदर्थः शुश्रूषाव्रतचर्यादिक्लेशैः कदर्थितः सन् विज्ञानं
उपायभूतशास्त्रजन्यं परोक्षज्ञानं प्राप्य स्थित इति शेषः ।
ततस्तदनन्तरं तं पुत्रं चिरकालं अबोधयत् ।
अपरोक्षीभावायोपदिदेशेत्यर्थः । अथवा पिता प्राक्तपःकदर्थितः सन्
विज्ञानं प्राप्य पुत्रोऽप्येवं कदर्थितो माभूदिति स्वयमबोधयदित्यर्थः ॥
३१ ॥
आख्यायिकाख्यानशतैर्दृष्टान्तैर्दृष्टिकल्पितैः ।
तथेतिहासवृत्तान्तैर्वेदवेदान्तनिश्चयैः ॥ ३२ ॥
स्वोपलब्धार्थकथानिबन्धा आख्यायिकाः । पराख्यानादिकथानिबन्धा
आख्यानानि । तेषां शतैः । दृष्टिकल्पितैः
साम्यदर्शनकल्पितैर्भारतादीतिहासप्रसिद्धैर्वृत्तान्तैः निश्चयैः
सिद्धान्तैः ॥ ३२ ॥
अनुद्वेगितया नित्यं विस्तरेण कथाक्रमैः ।
अनुभूतिमुपारूढै रूढिमेति यथा मयि ॥ ३३ ॥
मयि प्रत्यगात्मनि रूढिं व्युत्पत्तिदार्ढ्यं यथा धिया पुत्र एति प्राप्नोति तथा
इतिहासदृष्टान्तादिभिरबोधयदिति पूर्वत्रान्वयः ॥ ३३ ॥
अनुभववशतो रसातिरिक्तै-
रलमुचितार्थवचोगणैर्महात्मा ।
जलद इव शिखण्डिनं पुरःस्थं
तनयमबोधयदम्बरे महर्षिः ॥ ३४ ॥
अनुभवः स्वात्मबोधचमत्कारस्तद्वशतः सर्वरसेभ्योऽतिरिक्तैरतिशयितैः ।
उचितः परमपुरुषार्थरूपत्वादवश्यबोधार्हः अर्थो येषां
तथाविधैर्वचोगणैः । जलदपक्षे अनुभववशतः श्रवणमात्रेण
शिखण्डिनां प्रीतिजननादन्यरसाधिकैः । उचितः शिखण्डिनीसहनृत्याद्यर्थो
येभ्यस्तथाविधैर्वचोगणैर्गर्जितसमूहैः । अम्बरे वृक्षाग्रे अन्तरिक्षे च ॥ ३४
॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे
दाशूरो० दाशूरसुतानुबोधनं नामैकपञ्चाशः सर्गः ॥ ५१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
दाशूरसुतानुबोधनं नामैकपञ्चाशत्तमः सर्गः ॥ ५१ ॥