पञ्चाशः सर्गः ५०
श्रीवसिष्ठ उवाच ।
तमथासौ तथा बुद्धिफलपल्लवशालिनम् ।
आनन्दमन्थरमनाः पुष्परूपाचलोपमम् ॥ १ ॥
तत्कदम्बाग्रसंस्थेन दाशूरेण विलोकिताः ।
दिशोऽत्र वनिताकारा वर्ण्यन्ते गुणविस्तरैः ॥ १ ॥
असौ दाशूरः । तथा प्रागुक्तप्रकारा भूम्यपवित्रताबुद्धिर्यस्य ॥ १ ॥
कदम्बं रोदसीस्तम्भमारुरोह वनस्थितम् ।
एकार्णवगतं शौरिर्वटवृक्षमिवोन्नतम् ॥ २ ॥
रोदस्योर्द्यावापृथिव्योः स्तम्भमिव वने स्थितम् ॥ २ ॥
तत्रासौ व्योमलग्नायाः शाखायाः प्रान्तपल्लवे ।
विवेश विगताशङ्कमेकाग्रं तप आस्थितः ॥ ३ ॥
विगतापावित्र्यविक्षेपाशङ्कं यथा स्यात्तथा ॥ ३ ॥
अथोपविश्य मृदुनि नवपल्लवविष्टरे ।
क्षणमालोकितास्तेन दिशः कौतुकचञ्चलम् ॥ ४ ॥
नवपल्लवकल्पिते विष्टर आसने । कौतुकेन चञ्चलं चपलेक्षणं यथा
स्यात्तथा ॥ ४ ॥
सरिदेकावलीरम्याः शैलेन्द्रस्तनकुड्मलाः ।
निर्मलाकाशकबरा लोलनीलाम्बुदालकाः ॥ ५ ॥
अत्र सर्वत्र विशेषणान्युभयत्र योज्यानि ।
सरिल्लक्षणाभिरेकावलीभिर्हारभेदैः रम्याः ॥ ५ ॥
नीलपल्लववसनाः पुष्पपूरावतंसिकाः ।
गृहीतसागरापूर्णकलशाः पुरुभूषणाः ॥ ६ ॥
पुरुभूषणा बहुभूषणाः ॥ ६ ॥
धृतप्रफुल्लपद्मिन्यः सुगन्धिमुखमारुताः ।
नीलघुङ्घुमकाकल्यो निर्झरारावनूपुराः ॥ ७ ॥
नीलानां भ्रमरकोकिलादीनां घुङ्घुमा ध्वनय एव काकल्यो
मधुराव्यक्तभाषितानि यासां ताः ॥ ७ ॥
द्युमूर्धानो महीपादा वनालीरोमराजयः ।
जङ्गलोरुनितम्बिन्यश्चन्द्रार्ककृतकुण्डलाः ॥ ८ ॥
शालिसंसारकेदाराश्चन्दनस्थालिकान्विताः ।
शिखरोरसिजालग्नहिमशुभ्राम्बुदांशुकाः ॥ ९ ॥
शाल्यादिसस्यकम्पैः संसाराः स्पन्दमानाः केदाराः क्षत्रङ्गभक्तयो
यासाम् । चन्दनस्थैश्चन्दनाश्रितैरलिकैर्ललाटैरन्विताः ।
पर्वतशिखरलक्षणेषूरसिजेषु स्तनेष्वासमन्ताल्लग्नानि हिममिव
शुभ्राण्यम्बुदांशुकानि यासाम् ॥ ९ ॥
महार्णवपयःपूरनवमण्डनदर्पणाः ।
ऋक्षौघघर्मपुलका भुवनान्तःपुरान्तराः ॥ १० ॥
महार्णवानां पयःपूरा एव नवमण्डनदर्शनार्था दर्पणा यासाम् ।
ऋक्षौघा नक्षत्रपङ्क्तय एव घर्मपुलकाः स्वेदबिन्दवो यासाम् ॥ १० ॥
आर्तवस्तनधारिण्यो लग्नसूर्यांशुकुङ्कुमाः ।
विचित्रकुसुमोपेताश्चन्द्रांशुसितचन्दनाः ॥ ११ ॥
आर्तवानि तत्तदृतूत्पन्नकुसुमपल्लवादीन्येव स्तनधारिण्यः कूर्पासका
यासाम् ॥ ११ ॥
गगनगतलतादलोपविष्टः
प्रसृतवनावनिवारिवाहवेषाः ।
त्रिभुवनवनिता ददर्श हृष्टः
कुसुमनिरन्तरमण्डिता दशाशाः ॥ १२ ॥
गगनगताया लतायाः शाखाया दलेषूपविष्टः सन् प्रसृता विस्तीर्णा वनानि
अवनयो वारिवाहाश्च वेषाः कृत्रिमाकारभेदकालङ्कारा यासां
तथाविधास्त्रिभुवनस्थजनोपभोग्यत्वात्त्रिभुवनवनिताः दश आशा दिशो
ददर्शेत्यर्थः ॥ १२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे दा०
दाशूरदिगवलोकनं नाम पञ्चाशः सर्गः ॥ ५० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
दाशूरदिगवलोकनं नाम पञ्चाशः सर्गः ॥ ५० ॥