एकोनपञ्चाशः सर्गः ४९
श्रीवसिष्ठ उवाच ।
अथ काननमध्यस्थं चुम्बिताम्बुदमण्डलम् ।
मध्याह्नखिन्नसूर्याश्वसेवितस्कन्धमण्डलम् ॥ १ ॥
शाखापल्लवपुष्पौघफलपक्षिमनोहरः ।
इहोत्प्रेक्षाद्यलङ्कारैः कदम्ब उपवर्ण्यते ॥ १ ॥
मध्याह्ने खिन्नैरिव सूर्याश्वैः सेवितानि स्कन्धमण्डलानि यस्य ॥ १ ॥
वितानमिव दिक्कुक्षिदीर्घं विटपबाहुभिः ।
आलोकयन्तं ककुभो विकासिकुसुमेक्षणैः ॥ २ ॥
वितानमिव कुर्वाणमिति शेषः । विटपवितानानावृतो देशः परिशिष्टोऽन्योऽस्ति न
वेति परितः ककुभो दिश आलोकयन्तम् ॥ २ ॥
वातावधूलितानल्पभ्रमद्भ्रमरकुन्तलम् ।
प्रमार्जयन्तमाशानां मुखं पल्लवपाणिभिः ॥ ३ ॥
वातैरवधूलिता निष्परागीकृता अनल्पा भ्रमद्भ्रमरा एव कुन्तलाः केशा
यस्य । आशानां दिक्कान्तानाम् ॥ ३ ॥
कच्छैरुरुगुडुच्छाच्छमञ्जरीपुञ्जकञ्जरैः ।
आस्यैरिव सताम्बूलैर्हसन्तं वनमालिकाः ॥ ४ ॥
कं हिमजलं छयन्ति बिन्दुभावेन परिच्छिन्दन्तीति कच्छाः
पल्लवप्रदेशास्तैः उरुभिर्गुडुच्छानां लताविशेषाणां
अच्छैर्दन्तपङ्क्तिवत्स्थितैर्मञ्जरीपुञ्जैः कञ्जरैः केसरितैः ॥ ४ ॥
लताविलसितोल्लासैः पुष्पकेसरधूलिभिः ।
आबद्धमण्डलाभोगं पूर्णेन्दुमिव दीप्तिभिः ॥ ५ ॥
लतानां विलसितेन शोभातिशयेन उल्लासैरुल्लसद्भिः
पुष्पकेसरनिविष्टपरागैराबद्धो मण्डलाकारवेषो येन ॥ ५ ॥
सङ्कटं विटपावल्या कुञ्जकूजच्चकोरया ।
छन्नया सिद्धवीथ्येव जगदुच्चतया श्रितम् ॥ ६ ॥
कुञ्जेषु लतापिहितप्रदेशेषु कूजन्तश्चकोरा यस्यां तथाविधया । विटपानां
शाखानामावल्या पङ्क्त्या सङ्कटं निबिडितम् ।
ग्रहनक्षत्रताराविमानादिच्छन्नया सिद्धवीथ्या स्वातीपथवीथ्या उच्चतया
ऊर्ध्वभावेन श्रितं जगद्ब्रह्माण्डमिव स्थितमित्यर्थः ॥ ६ ॥
स्कन्धपीठोपविष्टानां लम्बमानैः कलापिनाम् ।
कलापैः शोभितं व्योम सेन्द्रचापैरिवाम्बुदैः ॥ ७ ॥
कलापिनां मयूराणां कलापैर्वर्हैः ॥ ७ ॥
मग्नोन्मग्नैः प्रतिस्कन्धमाश्रितैश्चमरैः सितैः ।
पूर्णं मुहुर्दृष्टनष्टैः संवत्सरमिवेन्दुभिः ॥ ८ ॥
प्रतिस्कन्धं प्रतिस्कन्धकोटरमाश्रितैर्विश्रान्तैरन्तर्गतकायार्धेन
मग्नैर्बहिर्निःसृतकायार्धेनोन्मग्नैः कैश्चित्प्रविष्टैः
कैश्चिद्बहिष्ठैर्वा । अत एव
दृष्टनष्टैर्दृष्टादृष्टैश्चमरैर्मृगभेदैः । एतेन परितोऽधः
स्कन्धानां बृहत्त्वं भूसंलग्नता च गम्यते । इन्दुपक्षे
मग्नोन्मग्नैरस्तमितोदितैरत एव दृष्टनष्टैः ॥ ८ ॥
कपिञ्जलकुलालापैः कलकोकिलकूजितैः ।
जीवञ्जीवविरावैश्च प्रगायन्तमिवोच्छ्रितैः ॥ ९ ॥
जीवञ्जीवाश्चकोराः ॥ ९ ॥
कादम्बककदम्बैश्च कुलायकृतकेलिभिः ।
स्वर्गकोटरविश्रान्तैः सिद्धैर्जगदिवावृतम् ॥ १० ॥
कादम्बकाः कलहंसाः । कुलायेषु नीडेषु कृतकेलिभिः क्रीडाद्भिः
सिद्धैर्देवैरावृतं जगद्ब्रह्माण्डमिव स्थितम् ॥ १० ॥
प्रवालचलहस्ताभिरलिनेत्राभिराश्रितम् ।
अप्सरोभिरिव स्वर्गं मञ्जरीभिरितस्ततः ॥ ११ ॥
प्रवालेत्यादिविशेषणे अप्सरसां मञ्जरीणां च श्लेषात्साधारणे योज्ये ॥ ११ ॥
सेन्द्रचापविलासेन कुमुदोत्कररेणुना ।
मञ्जरीपिञ्जराश्यामं विद्युत्वन्तमिवाम्बुदम् ॥ १२ ॥
कुमुदग्रहणं
कुमुदनीलोत्पलकोकनदादिसदृशनानावर्णलतापुष्पोपलक्षणम् । अत
एवेन्द्रचापविलाससहितेन तद्रेणुना उपलक्षितं स्वमञ्जरीभिश्च पिञ्जरं
आसमन्तात् पत्रैः श्यामम् । विद्युत्वन्तमिति तसौ मत्वर्थे इति भत्वान्न जश् ॥ १२ ॥
सहस्रभुजशाखाढ्यं पूरिताकाशकोटरम् ।
विश्वरूपमिवोन्नृत्तं चन्द्रार्ककृतकुण्डलम् ॥ १३ ॥
स्वं विश्वरूपं दर्शयन्तं विष्णुमिव स्थितमित्यर्थः । अथवा विश्वरूपं
जगत्स्वरूपमिव स्थितमित्यर्थः ॥ १३ ॥
प्। ५२३)
तले निषण्णनागेन्द्रं व्योम्नि तारागणाकुलम् ।
लतापुष्पमयं मध्ये खमण्डलमिवापरम् ॥ १४ ॥
खमण्डलं ब्रह्माण्डोदराकाशम् । तदपि हि तले भूमेरधो निषण्णा
निविष्टा नागेन्द्राः शेषादयो दिग्गजाश्च यस्मिंस्तत् । शिष्टं स्पष्टम् ॥ १४ ॥
पितामहमिवाशेषशैलकाननशालिनम् ।
फलपल्लवपुष्पाणां कोशमेकमिवावनौ ॥ १५ ॥
पितामहपक्षे स्वसृष्टैरशेषैः प्राणिभिः शैलैः काननैश्च शालिनं
शोभमानम् । कदम्बपक्षे अशेषैः शैलस्य काननैः शोभमानमित्यर्थः ॥
१५ ॥
दधानं कलिकाजालं स्थगितं पुष्पधूलिभिः ।
कच्छेष्वर्ककरच्छन्नताराजालमिवाम्बरम् ॥ १६ ॥
प्रागुक्तेषु कच्छेषु पुष्पधूलिभिः स्थगितमाच्छादितं कलिकाजालं
कोरकसमूहं दधानम् ॥ १६ ॥
विलोलविहगैः स्कन्धैः कुलायकुलसङ्कुलैः ।
वलितं भूतलं लोके पूर्णैर्जनपदैरिव ॥ १७ ॥
वलितं व्याप्तम् ॥ १७ ॥
मञ्जरीसुपताकाढ्यं लतामण्डलमण्डितम् ।
पुष्पमङ्कोलधवलं पुष्पप्रकरपूरितम् ॥ १८ ॥
अन्तह्पुरसाम्यमाह - मञ्जरीत्यादित्रिभिः । मङ्कोलं गृहलेपनचूर्णम्
॥ १८ ॥
कूजच्चकोरभ्रमरशुककोकिलसारिकम् ।
घनस्तबकसञ्छन्नकुहरोग्रगवाक्षकम् ॥ १९ ॥
अन्तःपुरपक्षे घनैर्बहुभिः रत्नादिस्तबकैः सञ्छन्नकुहराः
पूरितगर्भाः । लोहार्गलवर्षवरगुप्तत्वादुग्रा अप्रधृष्या गवाक्षाः
कुड्यापवरकाणि यत्र । वृक्षपक्षे सर्पगर्भत्वादुग्राः ॥ १९ ॥
सञ्चरत्पक्षिबहुलं जनमन्थरकोटरम् ।
सर्वासां वनदेवीनामन्तःपुरमिवोत्तमम् ॥ २० ॥
वृक्षपक्षे छायोपसेविभिर्जनैर्मन्थरकोटरं विलोडिततलम् ॥ २० ॥
कूलद्भृङ्गतरङ्गौघैः पुष्पकेसरराजिभिः ।
राजमानं पतन्तीभिः सरिद्भिरिव पर्वतम् ॥ २१ ॥
भ्रमद्भिः पुष्पपत्रौघैर्मन्दवातविलासिभिः ।
वर्धमानैर्वृतस्कन्धं शुभ्राभ्रैरिव भूधरम् ॥ २२ ॥
वर्धमानैः प्रत्यहमुपचीयमानैः ॥ २२ ॥
मातङ्गकटघृष्टेन जानुस्तब्धेन पीठिना ।
आभोगिना बद्धपदं तरुणेव महाचलम् ॥ २३ ॥
इदानीं मूलबन्धं वर्णयति - मातङ्गेति ।
मातङ्गकठघृष्टेनेत्यनेन मूलबन्धस्य तावदौन्नत्यं गम्यते ।
ऊर्ध्वज्ञुजानुवत्स्तब्धेन पीठिना पीठवत्प्रसृतेन आभोगिना विस्तीर्णेन
मूलबन्धेन बद्धपदं अवष्टब्धस्थानम् । तरुणा
उपत्यकाप्ररूढतरुवृन्देन ॥ २३ ॥
विचित्रवर्णपक्षाणां स्कन्धकोटरच्चरिणाम् ।
वृतं खगानां वृन्देन भूतानामिव शार्ङ्गिणम् ॥ २४ ॥
भूतानां पार्षदानां वृन्देनेव ॥ २४ ॥
स्तबकाङ्गुलिजालेन लोलेनाभिनयक्रियाम् ।
दिशन्तमिव वल्लीनां प्रनृत्तानां वनानिलैः ॥ २५ ॥
अभिनया नाट्यशास्त्रप्रसिद्धा भावव्यञ्जककरनेत्रादिचेष्टाविशेषास्तेषां
किर्यां निष्पादनप्रकारं दिशन्तमुपदिशन्तमिव ॥ २५ ॥
कश्चिदेव निवासो मे नार्थिनामिति तुष्टितः ।
नृत्यन्तमिव बह्नाढ्यलतावलयवल्गनैः ॥ २६ ॥
मूलकोटरस्कन्धशाखापत्रपुष्पादिप्रदेशानां मध्ये मे मम कश्चिदेक
एव अर्थिनां मनुष्यमृगपक्ष्यादीनां निवासो न । अन्यः सर्वोऽपि
निवासत्वेनोपयुक्तः कदाचित्कश्चिदेकः परिशिष्यते । अहो मे परोपकारे
सर्वाङ्गसाफल्यमिति तुष्टितो हर्षपारवश्येन हेतुना ॥ २६ ॥
लताकान्तैककान्तत्वाच्छृङ्गाररसनिर्भरम् ।
काकल्येव प्रगायन्तं मत्तालिनिजनिःस्वनैः ॥ २७ ॥
लतालक्षणानां वह्वीनां कान्तानामेककान्तत्वाद्धेतोः । काकल्या
कलध्वनिना ॥ २७ ॥
आदरोन्मुक्तकुसुमं सिद्धानां व्योमचारिणाम् ।
स्वागतानीव कुर्वाणं कोकिलालिकुलारवैः ॥ २८ ॥
आदरोन्मुक्तकुसुमं यथा स्यात्तथा ॥ २८ ॥
लतापुष्पफलोल्लासं प्रान्तपञ्चमहीरुहाम् ।
विहसन्तमिवाच्छाभिः पुष्पकुड्मलदीप्तिभिः ॥ २९ ॥
प्रान्तस्थानां पञ्चमहीरुहां वटोदुम्बरप्लक्षाम्रपलाशाख्यानां
पञ्चपुण्यवृक्षाणाम् । उत्तरप्रान्तस्थानां मन्दारादिपञ्चकल्पतरूणां
वा । लताद्युल्लासं हसन्तमिव ॥ २९ ॥
पारिजातमिवाजेतुमूर्ध्वगैः खगमण्डलैः ।
व्योमान्तराभिधावन्तमलमुद्धतकन्धरम् ॥ ३० ॥
अलमत्यर्थमुद्धतकन्धरमुन्नमितग्रीवं यथा स्यात्तथा व्योमान्तरा
आकाशोदरे अभिधावन्तमिव ॥ ३० ॥
मध्यभागस्फुरत्तुङ्गैः [स्फुरद्भृङ्गैः इति पाठः]
स्तबकैर्घनपङ्क्तिभिः ।
सहस्राक्षत्वमतुलैर्जेतुमिन्द्रमिवोद्यतम् ॥ ३१ ॥
घनपङ्क्तिभिर्निबिडश्रेणिभिः । सहस्राक्षत्वं असङ्ख्यनेत्रत्वं प्राप्येति
[प्राप्तैः इति पाठः] शेषः । अतुलैः शोभया सङ्ख्यया
चेन्द्रनेत्रेभ्योऽधिकत्वात्तैस्तुलयितुमशक्यैः ॥ ३१ ॥
क्वचित्कुसुमगुच्छाच्छफणामणिगणावृतम् ।
पातालादुत्थितं शेषमिव व्योमदिदृक्षया ॥ ३२ ॥
कुसुमगुच्छलक्षणैः कुसुमगुच्छसदृशैश्च
अच्छफणामणिभिर्व्योमदिदृक्षया हेतुना पातालादुत्थितं शेषमिव स्थितम्
॥ ३२ ॥
रजसोद्धूलिताकारं द्वितीयमिव शङ्करम् ।
छायया फलशालिन्या समस्तजनशङ्करम् ॥ ३३ ॥
भगवांस्तु भक्तानामेव शङ्करः अयं तु समस्तजनशङ्कर इत्यतिशयः ॥
३३ ॥
निबिडदलनिवाहभिन्नकोशैः
कुसुमलतानवमण्डपैरुपेतम् ।
पुरमिव गगने कदम्बवृक्षं
खगकुलनागरसङ्कुलं ददर्श ॥ ३४ ॥
निबिडानां दलानां निवाहा निवहास्तेषु
भिन्नकोशैर्विकासितमुकुलैर्निबिडदलनिवहभेदेन भिन्नसंस्थानैश्च
कुसुमलतानां नवमण्डपैरुपेतं घटितम् । खगकुलक्षणैर्नागरैर्जनैः
सङ्कुलम् गगने रचितं पुरमिव स्थितं कदम्बवृक्षं ददर्शेत्यर्थः ॥ ३४
॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे
दाशूरो० दाशूरकदम्बवर्णनं नामैकोनपञ्चाशः सर्गः ॥ ४९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
दाशूर्कदम्बवर्णनं नामैकोनपञ्चाशः सर्गः ॥ ४९ ॥