४८

अष्टचत्वारिंशः सर्गः ४८

श्रीवसिष्ठ उवाच ।

क्रियाविशेषबहुला भोगैश्वर्यहताशयाः ।
नापेक्षन्ते यदा सत्यं न पश्यन्ति शठास्तदा ॥ १ ॥

भोगादिलिप्सा कुत्सात्र दाशूरस्याथ सम्भवः ।
प्रसन्नाच्चानलात्तस्य वरप्राप्त्यन्तमीर्यते [प्राप्त्यर्थं इति पाठः] ॥
१ ॥

यदि इयं संसारचक्रिका कल्पनामात्रम् यदि च ब्रह्मैव तत्त्वतोऽस्ति तर्हि तथा
किमिति मेधाप्रतिभाकौशलशालिष्वपि महाजनेषु कोऽपि न पश्यति तत्र को हेतुरिति
चेत्तदनपेक्षा तद्विरुद्धभोगैश्वर्याद्यभिनिवेशश्च हेतुरित्याह -
क्रियाविशेषेति । ऐहिकामुष्मिकभोगैश्वर्योपायभूतैर्लौकिकैर्वैदिकैश्च
क्रियाविशेषैर्बहुला उपचितकामाः शठाः स्वपरवञ्चकाः ॥ १ ॥

ये तु पारं गता बुद्धेरिन्द्रियैर्न वशीकृताः ।
त एनां जागतीं मायां पश्यन्ति करबिल्ववत् ॥ २ ॥

तर्हि के पश्यन्ति तानाह - ये त्विति । मायाग्रहणं सत्यस्याप्युपलक्षणम् ॥ २

तुच्छां तां जागतीं मायां दृष्ट्वा जीवो विचारवान् ।
अहङ्कारमयीं मायां त्यजत्यहिरिव त्वचम् ॥ ३ ॥

जागतीं बाह्यां ममेत्यभिनिवेशहेतुभूताम् ।
अहङ्कारमयीमान्तरीमहमित्यभिनिवेशहेतुभूताम् ॥ ३ ॥

असक्ततां ततोऽभ्येत्य पुना राम न जायते ।
क्षेत्रेष्वपि चिरं तिष्ठन्बीजं दग्धमिवाग्निना ॥ ४ ॥

आधिव्याधिपरीताय प्रातर्वाद्य विनाशिने ।
प्रयतन्ते शरीराय हितमज्ञास्तु नात्मने ॥ ५ ॥

भोगैश्वर्यप्रसक्तस्य कारागृहदार्ढ्यायेव देहरक्षणाय वृथानर्थाय
च प्रयासं परमपुरुषार्थोपेक्षां चात्यन्तानुचितां दृष्ट्वा तमनुशोचति

  • आधीति । प्रातः अद्य वा विनाशिने । चतुर्थी तदर्थार्थ - इति
    हितशब्दयोगे चतुर्थी ॥ ५ ॥

त्वमप्यज्ञवदज्ञस्य शरीरस्य समीहितम् ।
मा सम्पादय दुःखाय भवात्मैकपरायणः ॥ ६ ॥

श्रीराम उवाच ।

दाशूराख्यायिकेवेयं सुखसंसारचक्रिका ।
कल्पनारचिताकारा वस्तुशून्येति किं प्रभो ॥ ७ ॥

प्राक् प्रस्तुतां दाशूराख्यायिकां शुश्रूषू रामः पृच्छति - दाशूरेति
। विषयसुखार्था संसारचक्रिका वस्तुशून्या इति यत्त्वयोक्तं तत्किं कीदृशम् ।
यादृशं तथा वर्णयेत्यर्थः ॥ ७ ॥

श्रीवसिष्ठ उवाच ।

जगन्मायास्वरूपस्य वर्णनाव्यपदेशतः ।
दाशूराख्यायिकां राम वर्ण्यमानां मया शृणु ॥ ८ ॥

वर्णनाया व्यपदेशतः । उदाहरणतयेत्यर्थः ॥ ८ ॥

अस्त्यस्मिन्वसुधापीठे विचित्रकुसुमद्रुमः ।
मागधो नाम विख्यातः श्रीमाञ्जनपदो महान् ॥ ९ ॥

मगधानां निवासो जनपदो मागधः । तस्य निवासः इत्यण् ॥ ९ ॥

कदम्बवनविस्तारलीलावलितजङ्गलः ।
विचित्रविहगव्यूहसर्वाश्चर्यमनोहरः ॥ १० ॥

सस्यसङ्कटसीमान्तः पुरोपवनमण्डितः ।
कमलोत्पलकह्लारपूर्णसर्वसरित्तटः ॥ ११ ॥

सस्यैः सङ्कटा निबिडिताः सीमान्ता ग्रामसीमावधयो यस्मिन् ॥ ११ ॥

उद्यानदोलाविलसल्ललनागेयघुङ्घुमः ।
निशोपभुक्तकुसुमनीरन्ध्रविशिखावनिः ॥ १२ ॥

निशया उपभुक्तैरिव म्लानोत्सृष्टैः कुसुमैर्नीरन्ध्रा विशिखा
मन्मथशरा यस्यां तथाविधा अवनिर्यस्मिन् ॥ १२ ॥

तत्रैकस्मिन्गिरितटे कर्णिकारसमाकुले ।
कदलीखण्डनीरन्ध्रनीपगुल्मविराजिते ॥ १३ ॥

तत्र तस्मिन् जनपदे । नीपैः कदम्बैरन्यश्च गुल्मैर्विराजिते ॥ १३ ॥

पुष्पौघस्फूर्जदनिले केसरारुणधूलिनि ।
कारण्डवकृतारावे रसत्सरससारसे ॥ १४ ॥

पुष्पेषु ओघैः प्रवाहैः स्फूर्जन्तो ध्वनन्तोऽनिला यस्मिन् । रसन्तः सरसाः
सानुरागाः सारसा यस्मिन् ॥ १४ ॥

तस्मिन्नगवरे पुण्ये विचित्रविहगद्रुमे ।
कश्चित्परमधर्मात्मा मुनिरासीन्महातपाः ॥ १५ ॥

दाशूरनामा महता तपोयोगेन संयुतः ।
कदम्बपृष्ठवास्तव्यो वीतरागो महामतिः ॥ १६ ॥

तपःसहितेन योगेन । कदम्बपृष्ठे कदम्बाग्रे वसतीति वास्तव्यः ।
वसेस्तव्यत्कर्तरि णिच्च इत्यनुशासनात् ॥ १६ ॥

श्रीराम उवाच ।

असौ तपस्वी भगवन्विपिने केन हेतुना ।
कथं चाप्यवसत्पृष्ठे कदम्बस्य महातरोः ॥ १७ ॥

कथं केन प्रभावेन प्रकारेण च ॥ १७ ॥

श्रीवसिष्ठ उवाच ।

शरलोमेति विख्यातः पिता तस्य बभूव ह ।
रामाऽपर इव ब्रह्मा तस्मिन्नेवावसद्गिरौ ॥ १८ ॥

तस्यासावेकपुत्रोऽभूत्कचो देवगुरोरिव ।
तेन सार्धं स पुत्रेण नीतवाञ्जीवितं वने ॥ १९ ॥

जीवितमायुर्नीतवान् ॥ १९ ॥

अथासौ शरलोमात्र भुक्त्वा युगगणं ययौ ।
त्यक्तदेहः सुरागारं मुक्तनीडः खगो यथा ॥ २० ॥

युगगणं अयनयुगलात्मकवत्सरगणं सुखदुःखादिद्वन्द्वगणं वा
भुक्त्वा अनुभूय ॥ २० ॥

एक एव वने तस्मिन्दाशूरः प्ररुरोद ह ।
दशापनीतपितृकः करुणं कुररो यथा ॥ २१ ॥

एक एवेत्युक्त्या मातापितरमन्वगादिति गम्यते । दशया चरमभावविकारेण
ग्रहदशाविशेषेण वा अपनीतः पिता यस्य दशभिः प्राणैर्वा देहादपसृत्य
नीतः परलोकाय पिता यस्य । कुररः पक्षिभेदः ॥ २१ ॥

मातापितृवियोगेन शोकसन्तापिताशयः ।
म्लानिमभ्याययौ नूनं हेमन्त इव पङ्कजम् ॥ २२ ॥

बालोऽसावतिदीनात्मा वनदेवतया वने ।
इत्थमाश्वासितो राम तदाऽदृश्यशरीरया ॥ २३ ॥

इत्थं वक्ष्यमाणप्रकारेण । अदृश्यशरीरया अन्तर्हितयेति यावत् ॥ २३ ॥

ऋषिपुत्र महाप्राज्ञ किमज्ञ इव रोदिषि ।
संसारस्य न कस्मात्त्वं स्वरूपं वेत्सि चञ्चलम् ॥ २४ ॥

चञ्चलमशाश्वतम् ॥ २४ ॥

सर्वदैवेदृशी साधो संसारे संसृतिश्चला ।
जायते जीव्यते पश्चादवश्यं च विनश्यति ॥ २५ ॥

जीव्यते जीवति । विकरणपदव्यत्ययश्छान्दसः ॥ २५ ॥

यद्यत्किञ्चिद्दृश्यदृशि ब्रह्मादिकमिदं मुने ।
गन्तव्यस्तेन सर्वेण विनाशो नात्र संशयः ॥ २६ ॥

दृश्यदृशि व्यवहारदृष्टौ यद्यत्किञ्चित्प्रसिद्धमिति शेषः । गन्तव्यः
प्राप्तव्यः ॥ २६ ॥

तदर्थं मा कृथा व्यर्थं विषादं मरणे पितुः ।
अवश्यभाव्यस्तमयो जातस्याहर्पतेरिव ॥ २७ ॥

तदर्थं तस्माद्धेतोः । अहर्पतेः सूर्यस्य । अहरादीनां पत्यादिषु वा रेफो
वक्तव्यः इति रत्वम् ॥ २७ ॥

अशरीरामिति श्रुत्वा गिरमारक्तलोचनः ।
धैर्यमासादयामास शिखण्डी स्तनितादिव ॥ २८ ॥

स्तनितात् मेघगर्जितात् ॥ २८ ॥

उत्थायावश्यकं कृत्वा पाश्चात्यं पितुरादरात् ।
चकार तपसे बुद्धिं दृढामुत्तमसिद्धये ॥ २९ ॥

आवश्यकं पुत्रेणावश्यं कर्तव्यं पितुरौर्ध्वदेहिकम् ॥ २९ ॥

ब्राह्मेण कर्मणा तस्य विपिने चरतस्तपः ।
अनन्तसङ्कल्पमयं श्रोत्रियत्वं बभूव ह ॥ ३० ॥

अनन्तसङ्कल्पमयं बहुतरशुद्ध्यशुद्ध्यादिकल्पनाप्रचुरम् । श्रोत्रियत्वं
वेदाध्ययनतदर्थविचारानुष्ठाननिष्ठत्वम् ॥ ३० ॥

अज्ञातज्ञेयबुद्धेअस्तु श्रोत्रियस्य तया तया ।
न विशश्राम चेतोऽस्य पवित्रेऽपि धरातले ॥ ३१ ॥

न ज्ञातमवश्यज्ञेयं ब्रह्म यया तथाविधा बुद्धिर्यस्य । तया तया
शुद्ध्यशुद्ध्यादिकल्पनया ॥ ३१ ॥

केवलं सर्वमेवेदमपि शुद्धं धरातलम् ।
अशुद्धमिव पश्यन्स न रेमे क्वचिदेव हि ॥ ३२ ॥

क्वचिदेवेत्यप्यर्थे एवकारः ॥ ३२ ॥

अथ सङ्कल्पयामास स्वसङ्कल्पनयैव सः ।
वृक्षाग्रमेव संशुद्धं स्थितिस्तत्रोचिता मम ॥ ३३ ॥

तदिदानीं तपस्तप्स्ये तपसा येन शाखिषु ।
स्वगवत्स्थितिमाप्नोमि शाखासु च दलेषु च ॥ ३४ ॥

तत् तदर्थम् । खगवत्पक्षिवद्देववद्वा स्थितिमवस्थानसामर्थ्यम् ॥ ३४ ॥

इति सञ्चिन्त्य सञ्ज्वाल्य हुताशमतिभास्वरम् ।
जुहाव तस्मिन्प्रोत्कृत्त्य मांसं स्वस्कन्धभित्तितः ॥ ३५ ॥

तपस्तप्स्ये इति सङ्कल्पदर्शनात्तपोनन्तरं ततः शीघ्रं
सिद्ध्यदर्शनादयं होमसाहसारम्भ इति गम्यते ॥ ३५ ॥

अथ गीर्वाणवृन्दस्य समग्रा गलभित्तयः ।
मन्मुखत्वेन मा यान्तु विप्रमांसेन भस्मताम् ॥ ३६ ॥

अथ भगवान्सप्तार्चिः इति सञ्चिन्त्येति परेणान्वयः । चिन्ताप्रकारमेव दर्शयति

  • गीर्वाणवृन्दस्येत्यादिना । मन्मुखत्वेन अग्निमुखत्वेन । अग्निमुखा वै
    देवाः इति श्रुतेः । समग्रा ग्लभित्तयः कण्ठदेशा विप्रमांसेन जग्धेन
    भस्मतां मा यान्तु न प्राप्नुवन्त्विति सञ्चिन्त्येत्यन्वयः ॥ ३६ ॥

इति सञ्चिन्त्य भगवान्सप्तार्चिस्तस्य देवता ।
पुरो बभूव दीप्तांशुर्दीप्तांशुर्वाक्पतेरिव ॥ ३७ ॥

दीप्तांशुर्भास्वरप्रभो दीप्तांशुः सूर्योवाक्पतेर्बृहस्पतेरिव ॥ ३७ ॥

उवाच वचनं धीरं [धीरं इति द्वितीयैकवचनस्थाने धीर इति
सम्बुद्धिष्टीकाकृतोररीकरणात्सुस्वारस्याच्च स एव पाठः
समीचीनः] कुमाराभिमतं वरम् ।
गृहाण स्थापितं साधो कोशाकाशान्मणिं यथा ॥ ३८ ॥

धीरेति साहसानुरूपं सम्बोधनम् । स्थापितं त्वत्सङ्कल्पसिद्धं त्वयि
स्थितमेव गृहाण । कोशाकाशात्कोशोदरान्मणिं यथा तत्स्वामी गृह्णाति
तद्वत् ॥ ३८ ॥

इत्युक्तवन्तमनलमर्घपुष्पेण शोभिना ।
सम्पूज्य स्तुतिवादेन प्राह विप्रकुमारकः ॥ ३९ ॥

भगवन् भूतपूर्णाया भुवः पावनमण्डलम् ।
नाप्नोमि तेन वृक्षाणामुपरि स्थितिरस्तु मे ॥ ४० ॥

विशुद्धिदूषकैः शूद्रचाण्डालश्वमार्जारादिभूतैः पूर्णायाः ।
पावनमण्डलं पवित्रप्रदेशम् ॥ ४० ॥

इत्युक्ते मुनिपुत्रेण सर्वदेवमुखं शिखी ।
एवमस्तु तवेत्युक्त्वा जगामान्तर्द्धिमीश्वरः ॥ ४१ ॥

शिखी अग्निदेवः ॥ ४१ ॥

तस्मिन्नन्तर्हिते देवे क्षणात्सान्ध्य इवाम्बुजे ।
पूर्णकामः कुमारोऽसौ पूर्णेन्दुरिव चाबभौ ॥ ४२ ॥

अधिगताभिमताननमण्डल-
द्युतिभरेण जहास स तुष्टिमान् ।
शशिनमाप्तकलाकुलमम्बुजं
विकसितं च सितस्मितशोभिना ॥ ४३ ॥

तन्मुखशोभामेव वर्णयति - अधिगतेति । अधिगतेन प्राप्तेनाभिमतेन
वरेण प्रयुक्तेनाननमण्डलद्युतिभरेण स दाशूरः शशिनमम्बुजं च
जहासेत्युत्प्रेक्षा ॥ ४३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे दाशूरो०
दाशूरवरप्रदानवर्णनं नामाष्टचत्वारिंशः सर्गः ॥ ४८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
दाशूरवरप्रदानवर्णनं नामास्टचत्वारिंशः सर्गः ॥ ४८ ॥