४७

सप्तचत्वारिंशः सर्गः ४७

श्रीराम उवाच ।

भगवन्सर्वधर्मज्ञ सर्ववेदाङ्गपारग [वेदवेदाङ्गपारग इति
पाठः] ।
आश्वस्त इव तिष्ठामि शुद्धाभिर्भवदुक्तिभिः ॥ १ ॥

अतीता भाविनः सन्तो ब्रह्म ब्रह्माण्डकोटयः ।
देवाद्याश्चात्र वर्ण्यन्ते नियतानियतक्रमाः ॥ १ ॥

आश्वस्तः अपनीतभाराध्वक्षुच्छ्रमः पुरुष इव ॥ १ ॥

उदाराणि विविक्तानि पेशलान्युदितानि च ।
श्रोतुं तृप्तिं न गच्छामि वचांसि वदतस्तव ॥ २ ॥

उदाराण्युत्तमभूर्यर्थप्रदानि । विविक्तानि
वर्णपदवाक्यप्रकरणभेदैर्व्यक्तानि । पेशलानि
विचित्रकथायुक्तिसन्दर्भचतुराणि । उदितानि आत्मतत्त्वप्रकाशकत्वेन
हृदयपद्मविकासत्वेन च सूर्यादिवदुद्गतानि ॥ २ ॥

जात्या राजससात्त्विक्याः कथनावसरान्तरे ।
उत्पत्तिर्भवता प्रोक्ता शास्त्रैः कमलजन्मनः ॥ ३ ॥

एवं प्रशंसया गुरुमुत्साह्य प्रासङ्गिकं ब्रह्मादिदेवतैश्वर्यतत्त्वं
जिज्ञासुः पृच्छति - जात्या इति । राजससात्त्विक्या जात्याः जीवजातेः
कथनावसरे भवता
शास्त्रैर्नानाविधसृष्टिप्रतिपादकश्रुतिपुराणादिप्रमाणैः कमलजन्मन
उत्पत्तिर्या प्रोक्ता प्रस्तुता तां स्फुटं वर्णयेति शेषः ॥ ३ ॥

श्रीवसिष्ठ उवाच ।

बहूनि ब्रह्मलक्षाणि शङ्करेन्द्रशतानि च ।
नारायणसहस्राणि समतीतानि राघव ॥ ४ ॥

बहूनीत्यस्य सर्वत्र सम्बन्धाच्छतसहस्रादिपदान्यप्यनन्तपराणि ॥ ४ ॥

अन्येषु च विचित्रेषु ब्रह्माण्डेषु च भूरिशः ।
नानाचारविहाराणि विहरन्ति सहस्रशः ॥ ५ ॥

अन्येषु ब्रह्माण्डेषु चदस्मिन्नपि नानाचारविहाराणि सुरासुरादिशरीराणीति
शेषः ॥ ५ ॥

तुल्यकालमनन्तेषु कालान्तरभवेषु च ।
जगत्सु प्रोद्भविष्यन्ति बहून्यन्यानि भूरिशः ॥ ६ ॥

तेषामब्जोद्भवादीनां ब्रह्माण्डेषु दिवौकसाम् ।
उत्पत्तयो महाबाहो विचित्राभ्युत्थिता इव ॥ ७ ॥

विचित्रे इन्द्रजाले अभ्युत्थिता इव ॥ ७ ॥

कचाचित्सृष्टयः शार्व्यः कदाचित्पद्मजोद्भवाः ।
कदाचिदपि वैष्णव्यः कदाचिन्मुनिनिर्मिताः ॥ ८ ॥

शार्व्यो रुद्रपूर्वाः । पद्मजादेव प्रथमजादुद्भवो यासां ताः । वैष्णव्यो
विष्णुपूर्वाः । तथाचोक्तं पुराणे तपसा तोषयित्वेशं
ब्रह्मविष्णुमहेश्वराः । परस्परस्माज्जायन्ते परस्परजयैषिणः ॥ इति
मुनिनिर्मिता इत्यवान्तरसर्गाभिप्रायम् ॥ ८ ॥

कदाचित्पद्मजो ब्रह्मा कदाचित्सलिलोद्भवः ।
अण्डोद्भवः कदाचित्तु कदाचिज्जायतेऽम्बरात् ॥ ९ ॥

ब्रह्मादीनामाविर्भावस्थानान्यप्यनियतानीत्याह - कदाचिदिति । पाद्मकल्पे
पद्मजः सलिलोद्भव आपवाख्यः अण्डोद्भवः प्रसिद्धः । अम्बरादिति । तथाच
आकाशप्रभवो ब्रह्मा इति सूर्यवंशादिप्रस्तावे पूर्वरामायणे उक्तम् ॥ ९ ॥

कस्मिंश्चिदण्डे त्र्यक्षोऽर्कः कस्मिंश्चिदपि वासवः ।
कस्मिंश्चित्पुण्डरीकाक्षः कस्मिंश्चित्त्र्यक्ष एव हि ॥ १० ॥

एवमर्कादिपदाधिकारिष्वप्यनियम इत्याह - कस्मिंश्चिदिति । त्र्यक्ष एव
सर्वदेवताधिकारेष्विति एवकारबलाल्लभ्यते । हिशब्दस्तस्यैवान्यत्रापि
देवतान्तरभावकल्पना नान्यस्येति द्योतनार्थः ॥ १० ॥

कस्याञ्चिद्भूरभूत्सृष्टौ नीरन्ध्रतरुसङ्कटा ।
कस्याञ्चिन्नरनीरन्ध्रा कस्याञ्चिद्भूधरावृता ॥ ११ ॥

नीरन्ध्रतरुसङ्कटा प्रथममिति सर्वत्र शेषः ॥ ११ ॥

भूरभून्मृन्मयी काचित्काचिदासीद्दृषन्मयी ।
आसीद्धेममयी काचित्काचित्ताम्रमयी तथा ॥ १२ ॥

प्राचुर्ये मयट् ॥ १२ ॥

इहैव कानि चित्राणि जगन्त्यन्यान्यथान्यथा ।
अन्यान्येकैकलोकानि निर्महांस्यापि कानिचित् ॥ १३ ॥

इहास्मिन्ब्रह्माण्डे एव कानि कियन्ति चित्राण्याश्चर्याणि । अथ अन्यान्यपि जगन्ति
ब्रह्माण्डानि । अन्यथा अन्यैः प्रकारैः । बह्वाश्चर्याणीत्यर्थः । एकैक एव
सूर्यादिवल्लोकः आलोकः प्रकाशात्मा येषु निर्महांसि निष्प्रकाशानि ॥ १३ ॥

अनन्तानि जगन्त्यस्मिन्ब्रह्मतत्त्वमहाम्बरे ।
अम्भोधिवीचिजलवन्निमज्जन्त्युद्भवन्ति च ॥ १४ ॥

निमज्जन्ति लीयन्ते ॥ १४ ॥

यथा तरङ्गा जलधौ मृगतृष्णा मरौ यथा ।
कुसुमानि यथा चूते तथा विश्वश्रियः परे ॥ १५ ॥

भानोर्गणयितुं शक्या रश्मिषु त्रसरेणवः ।
आलोलवपुषो ब्रह्म तत्त्वेन जगतां गणाः ॥ १६ ॥

आलोल वपुषश्चञ्चलाः ॥ १६ ॥

यथा मशकजालानि वर्षादिष्वाकुलानि तु ।
उत्पत्त्योत्पत्त्य नश्यन्ति तथेमा लोकसृष्टयः ॥ १७ ॥

नच विज्ञायते कस्मात्कालात्प्रभृति चागताः ।
नित्यागमापायपरा एताः सर्गपरम्पराः ॥ १८ ॥

तेषां सर्गाणां प्रवाहानादितामाह - नचेत्यादिना । नित्यमेव
आगमापायावाविर्भावतिरोभावौ तत्पराः ॥ १८ ॥

अनादिमत्योऽविरतं प्रस्फुरन्ति तरङ्गवत् ।
पूर्वात्पूर्वं किलाभूवंस्ततः पूर्वतरं यथा ॥ १९ ॥

भूत्वा भूत्वा प्रलीयन्ते ससुरासुरमानवाः ।
सरित्तरङ्गभङ्ग्यैव समस्ता भूतजातयः ॥ २० ॥

सरित्तरङ्गाणां भङ्ग्या रीत्या ॥ २० ॥

यथेदमण्डं वैरिञ्चं तथा ब्रह्माण्डपङ्क्तयः ।
याः सहस्राः परिक्षीणा नाडिका वत्सरेष्विव ॥ २१ ॥

सहस्राः सहस्रशः । नाडिका घटिकाः ॥ २१ ॥

अन्याः सम्प्रति विद्यन्ते वर्तमानशरीरकाः ।
प्रान्ते ब्रह्मपुरस्यास्य वितते ब्रह्मणः पदे ॥ २२ ॥

सर्वेषां ब्रह्माण्डानां लीलोपाख्यानोक्तरीत्या हृदयाकाशस्थे ब्रह्मण्येव
कल्पनमित्याह - अन्या इति । अन्या ब्रह्माण्डपङ्क्तयः । सम्प्रति इदानीमपि ।
अस्य ब्रह्मोपलब्धिस्थानत्वाद्ब्रह्मपुरस्य शरीरस्य प्रान्ते
हृदयपुण्डरीकदेशे स्थिते वितते अत्यन्तविस्तीर्णे ब्रह्मणः पदे ब्रह्मणि
वर्तमानशरीरकाः परिवर्तमानमूर्तयः सत्यो विद्यन्ते । अस्मिन्द्यावापृथिवी
अन्तरेव समाहिते इति श्रुतेरिति भावः ॥ २२ ॥

ब्रह्मण्यन्या भविष्यन्ति ब्राह्यो ब्रह्मपुरश्रियः ।
पुनस्ताश्च विनङ्क्ष्यन्ति भूत्वा भूत्वा यथा गिरः ॥ २३ ॥

ब्रह्मपुरोपलक्षितहृदयाकाशस्य श्रियः शोभाभूताः ब्राह्म्यो
ब्रह्मनिर्मिता ब्रह्माण्डपङ्क्तयः । यथा गिरो ध्वनिभेदा आकाशे भूत्वा
भूत्वा नश्यन्ति तद्वत् ॥ २३ ॥

ब्रह्मण्यन्या भविष्यन्त्यः स्थिताः सर्गपरम्पराः ।
घटा इव मृदो राशावङ्कुरे पल्लवा इव ॥ २४ ॥

दृष्टान्तान्तरोक्त्यर्थमुक्तमेवाह - ब्रह्मणीति ॥ २४ ॥

यावद्ब्रह्म चिदाकाशे तथा त्रिभुवनश्रियः ।
स्फाराकारविकाराढ्याः प्रेक्ष्यमाणा न किञ्चन ॥ २५ ॥

यावत्तत्त्वज्ञानेन प्रेक्ष्यमाणा न किञ्चनेति बाधस्तावत्कालं
भविष्यन्तीत्यर्थः ॥ २५ ॥

उन्मज्जन्त्यो निमज्जन्त्यो न सत्या नाप्यसच्छ्रियः ।
जडारम्भा वितन्वन्त्यस्ता एव खलता इव ॥ २६ ॥

जडारम्भाः मूर्खैरध्यस्ताः । वितन्वन्त्यो विस्तीर्यमाणाः खलता व्योमलता
इव ॥ २६ ॥

तरङ्गसमधर्मिण्यो दृष्टनष्टशरीरकाः ।
सर्वासां सृष्टिराशीनां चित्राकारविचेष्टिताः ॥ २७ ॥

सृष्टिराशीनां स्वान्तर्गतसृष्टिसमष्टिभूतानां ब्रह्माण्डानां
सृष्टयश्चित्राकाराणि विचेष्टितानि तदन्तर्गतप्राणिचेष्टा यासां ताः ॥ २७ ॥

चित्राकारविकाराश्च चित्ररूपा हि सृष्टयः ।
व्यतिरिक्ता न सर्वेषां समस्ताः सृष्टिदृष्टयः ॥ २८ ॥

सर्वेषां ब्रह्माण्डानां समस्ताः सृष्टिदृष्टयस्तत्त्वज्ञविषये
सलिलाद्वृष्टय इव न व्यतिरिक्ता इति परेणान्वयः ॥ २८ ॥

तत्त्वज्ञविषये राम सलिलादिव वृष्टयः ।
आयान्ति सृष्टयो देवाज्जलदादिव वृष्टयः ॥ २९ ॥

अतत्त्वज्ञदृष्ट्या तु जलदाद्वृष्टय इव देवात्तटस्थेश्वरादायान्ति ॥ २९ ॥

व्यतिरिक्ता न सर्वेषां समस्ताः सृष्टिदृष्टयः ।
व्यतिरिक्ता द्रवाम्भोधिस्वाष्ठीलाः शाल्मलेरिव ॥ ३० ॥

परमार्थतस्तु अज्ञानां तत्त्वविदां च सर्वेषां न व्यतिरिक्ताः ।
मूलकृष्टानि द्रवरूपाणि भूमेरम्भासि धारयन्तीति द्रवाम्भोधयः
शिरास्ताश्च स्वाः स्वीयास्त्वक्कीनाटपत्रादयश्च अष्ठीलादारुबीजादिग्रन्थयश्च
शाल्मलेर्वृक्षाद्यथा न व्यतिरिक्तास्तद्वत् ॥ ३० ॥

इह सृष्टिषु पुष्टासु निकृष्टासु च राघव ।
परमान्नभसो जातास्तन्मात्रमलमालिका ॥ ३१ ॥

पुष्टासु स्थूलभूतारब्धासु देहादिषु निकृष्टासु
सूक्ष्मभूतारब्धास्विन्द्रियादिषु च परमान्नभसः अव्याकृताकाशाज्जाताः
भूतसूक्ष्माख्यपञ्चतन्मात्रलक्षणस्य मायामलस्य सूत्रस्थानीयस्य
स्फटिकरुद्राक्षग्रथिता मालिका इव सर्वभावा इत्यर्थः ॥ ३१ ॥

कदाचित्प्रथमं व्योम पतिष्ठामधिगच्छति ।
ततः प्रजायते ब्रह्मा व्योमजोऽसौ प्रजापतिः ॥ ३२ ॥

कदाचित्पद्मजो ब्रह्मेति यदुक्तं तत्र यथायोगं
पञ्चीकरणोत्तरभाविस्थूलव्योमादीनां प्रथमाविर्भावक्रमो नियामक
इत्याह - कदाचिदित्यादिना । प्रतिष्ठां स्थूलीभावेन स्थितिम् । एवं सर्वत्र ॥
३२ ॥

कदाचित्प्रथमं वायुः प्रतिष्ठामधिगच्छति ।
ततः प्रजायते ब्रह्मा वायुजोऽसौ प्रजापतिः ॥ ३३ ॥

कदाचित्प्रथमं तेजः प्रतिष्ठामधिगच्छति ।
ततः प्रजायते कर्ता तेजसोऽसौ प्रजापतिः ॥ ३४ ॥

कदाचित्प्रथमं वारि प्रतिष्ठामधिगच्छति ।
ततः प्रजायते ब्रह्मा वारिजोऽसौ प्रजापतिः ॥ ३५ ॥

कदाचित्प्रथमं पृथ्वी स्फारतामधिगच्छति ।
ततः प्रजायते ब्रह्मा पार्थिवोऽसौ प्रजापतिः ॥ ३६ ॥

इदं चत्वारि सम्पीड्य पञ्चमं वर्धते यदा ।
तदा तज्जात एवैष कुरुते जागतीं क्रियाम् ॥ ३७ ॥

इदानीमेकैकस्योक्तव्योमादेः प्रथममाविर्भावे युक्तिमाह - इदमिति । इदं
स्वातिरिक्तं चत्वारि भूतचतुष्टयं सम्पीड्य स्वांशोपबृंहणेन
तिरोभूतमिव कृत्वा पञ्चमं यदेव भूतं यदा वर्धते तदा तज्जात एवैष
ब्रह्मा जागतीं तदुत्तरसृष्ट्यादिक्रियां कुरुत इत्यर्थः ॥ ३७ ॥

कदाचिदप्सु वायौ वा सुस्फारे वापि तेजसि ।
स्वयं सम्पद्यतेऽकस्मात्पुमान्प्रकृतिभावितः ॥ ३८ ॥

सर्वेषां पञ्चभूतकार्यतया पञ्चात्मकत्वे सति तदुद्भवस्य प्रजापतेः
कथमेकैकजत्वव्यपदेश इति चेद्वैशेष्यादिति न्यायेनेत्याह - कदाचिदिति ।
सुस्फारे अधिकभागवति सति तदुपाधिः पुमान्प्रजापतिः प्रकृत्या
पूर्वोपासनक्रमानुसारिस्वभावेन भावितो वासितः स्वयमेव आपवो
वायुजस्तैजस इत्याद्याकारेणाकस्मात्सम्पद्यत इत्यर्थः ॥ ३८ ॥

तस्याथ शब्दो वदनात्कदाचिज्जायते पदात् ।
कदाचिदंशात्पृष्ठाद्वा कदाचिल्लोचनात्करात् ॥ ३९ ॥

तस्य देहावयवेभ्यः सर्गप्रवृत्तिं दर्शयति - तस्येति । अथानन्तरम् ।
शब्दो नामरूपयोरप्युपलक्षणम् । तथाच मुखाद्यवयवेभ्यो
ब्राह्मणादिशब्दाः सहार्थैर्यथायोगं जायन्ते । ब्राह्मणोऽस्य मुखमासीत्
इत्यादिश्रुतेरित्यर्थः । अंशात्पुरोभागात् । पृष्ठात्पश्चाद्भागात् ॥ ३९ ॥

कदाचित्पुरुषस्यास्य नाभौ पद्मं प्रजायते ।
तस्मिन्संवर्धते ब्रह्मा पद्मजोऽसौ प्रकीर्तितः ॥ ४० ॥

अस्यैव नारायणाख्यस्य पुरुषस्य । तत्र तस्यैव पद्मे
जन्मवशात्पद्मजाख्येत्याह - तस्मिन्निति ॥ ४० ॥

मायेयं स्वप्नवद्भ्रान्तिर्मिथ्यारचितचक्रिका ।
मनोराज्यमिवालोलसलिलावर्तसुन्दरी ॥ ४१ ॥

सतस्तत एव तस्य कथं जन्म घटतामिति पर्यनुजुञ्जानं रामं प्रत्याह ##-

किमिवास्यां वद ज्ञप्तौ कथं सम्भवतीह ते ।
क्वचिद्बालमनोराज्यमिदं पर्यनुयुज्यते ॥ ४२ ॥

यदि सतः पुरुषस्य स्वनाभिपद्मे जन्म न सम्भवति तर्हि अस्यां
असङ्गाद्वितीयायां ज्ञप्तौ ब्रह्मणि ते तव किमिव द्वितीयं जगद्रूपं
सम्भवति कथं च सम्भवति तद्वदेत्यर्थः । तथाच तव पर्यनुयोगो
बालमनोराज्यपर्यनुयोगसम एवेत्याह - क्वचिदिति । काकुः ॥ ४२ ॥

कदाचिदम्बरे शुद्धे मनस्तत्त्वानुरञ्जनात् ।
सौवर्णं ब्रह्मगर्भं च स्वयमण्डं प्रवर्तते ॥ ४३ ॥

पद्मजोत्पत्तिवद्व्योमजोत्पत्तिमपि मनसोऽचिन्त्यरचनाशक्तिमवलम्ब्य
समर्थयति - कदाचिदिति ॥ ४३ ॥

कदाचिदेव [एष इति पाठः] पुरुषो वीर्यं सृजति वारिणि ।
तस्मात्प्रजायते पद्मं ब्रह्माण्डमथवा महत् ॥ ४४ ॥

पद्मं भूपद्मम् ॥ ४४ ॥

तस्मात्प्रजायते ब्रह्मा कदाचिद्भास्करोऽप्यसौ ।
कदाचिद्वरुणो ब्रह्मा कदाचिद्वायुरण्डजः ॥ ४५ ॥

भास्करः प्राक्कल्पे सूर्याधिकारस्थोऽस्मिन्कल्पे ब्रह्मा भवति । एवं
वरुणादयोऽपि ॥ ४५ ॥

एवमन्तर्विहीनासु विचित्रास्विह सृष्टिषु ।
विचित्रोत्पत्तयो राम ब्रह्मणो विविधा गताः ॥ ४६ ॥

अन्तः प्रत्यगात्मनि विहीनासु असतीषु । ब्रह्मणः प्रस्तुतहिरण्यगर्भस्य विचित्रा
उत्पत्तयो गताः । ब्रह्माणः इति पाठः स्पष्टः ॥ ४६ ॥

निदर्शनार्थं सृष्टेस्तु मयैकस्य प्रजापतेः ।
भवते कथितोत्पत्तिर्न तत्र नियमः क्वचित् ॥ ४७ ॥

एकस्येदं वर्णनमन्येषामपि स्थालीपुलाकन्यायेन निदर्शनार्थमित्याह -
निदर्शनेति ॥ ४७ ॥

मनोविजृम्भणमिदं संसार इति सम्मतम् ।
सम्बोधनाय भवतः सृष्टिक्रम उदाहृतः ॥ ४८ ॥

सम्मतं सिद्धन्तः । तस्य सम्यग्बोधनाय ॥ ४८ ॥

सात्त्विकीप्रभृतयो याश्च जातयश्चेत्थमागताः ।
इति ते कथनायैष सृष्टिक्रम उदाहृतः ॥ ४९ ॥

पूर्ववर्णिता जीवजातिभेदा अपि निदर्शनार्थमेवेत्याह - सात्त्विकीति ।
सृष्टिक्रमवर्णनमपि एतदर्थमेवेत्याह - इतीति ॥ ४९ ॥

पुनः सृष्टिः पुनर्नाशः पुनर्दुःखं पुनः सुखम् ।
पुनरज्ञः पुनस्तज्ज्ञो बन्धमोक्षदृशः पुनः ॥ ५० ॥

यावदेतन्मनः समूलं नोन्मूल्यते तावत्संसारपरम्परायाः
कदाप्यनुपरम इति दर्शयति - पुनः सृष्टिरित्यादिना । मोक्षदृशो
मोक्षास्तित्वकल्पनाः ॥ ५० ॥

पुनः सृष्टिकराऽवीतवीतस्नेहदृशः पुनः ।
दीपा इव कृतालोकाः प्रशाम्यन्त्युद्भवन्ति च ॥ ५१ ॥

अवीतेषु वर्तमानागामिप्रियेषु वीतेष्वतीतप्रियेषु स्नेहदृशः ॥ ५१ ॥

देहोत्पत्तौ विनाशे च दीपानां ब्रह्मणामपि ।
कालेनाधिकतां त्यक्त्वा नाशे भेदो न कश्चन ॥ ५२ ॥

ननु दीपा अल्पकालस्थायिनो द्विपरार्धायुषां ब्रह्मादिशरीराणां
कथमुपमास्तत्राह - देहोत्पत्ताविति । दीपपक्षे
देहोत्पत्तिश्चम्पककलिकाकारसंस्थाननिष्पत्तिः । उत्पत्तिनाशौ
आद्यन्तक्षणिकभावविकारौ नाशस्त्वनाद्यन्तयोः पूर्वोत्तरकालयोरसत्त्वमिति
न पौनरुक्त्यम् ॥ ५२ ॥

पुनः कृतं पुनस्त्रेता पुनः स द्वापरः कलिः ।
पुनरावर्तते सर्वं चक्रावर्ततया जगत् ॥ ५३ ॥

चक्रमिवावर्तत इति चक्रावर्तस्तद्भावेन ॥ ५३ ॥

पुनर्मन्वन्तरारम्भाः पुनः कल्पपरम्पराः ।
पुनः पुनः कार्यदशाः प्रातः प्रातरहो यथा ॥ ५४ ॥

लोकालोककलाकालकलनाकलितान्तरम् ।
पुनःपुनरिदं सर्वं न किञ्चन पुनःपुनः ॥ ५५ ॥

लोकालोकौ दिनरात्री कलास्त्रिंशत्काष्ठात्मको मुहूर्तद्वादशभागस्य
क्षणस्य त्रिंशो भगस्तद्घटिताभिः प्राण्यायुःकालकलनाभिः कलिताः
परिच्छिन्ना आन्तराः सर्वपदार्था यस्मिन् ॥ ५५ ॥

अनाहते प्रतप्तेऽयःपिण्डेऽनलकणा इव ।
इमे भावाः स्थिता नित्यं चिदाकाशे स्वभावतः ॥ ५६ ॥

अनाहते शिलाद्याघातरहिते । स्वभावतो मायाबीजस्वभावात् ॥ ५६ ॥

कदाचिदनभिव्यक्तं कदाचिद्व्यक्तिमागतम् ।
इदमस्ति परे तत्त्वे सर्वं वृक्ष इवार्तवम् ॥ ५७ ॥

आर्तवं तत्तदृतुभवं फलपुष्पादीव ॥ ५७ ॥

चित्स्पन्द एव सर्वात्मा सर्वदैवेदृशाकृतिः ।
यदस्माज्जायते सर्गो द्विन्दुत्वमिव लोचनात् ॥ ५८ ॥

चित्स्पन्दश्चिद्विवर्तः । द्विन्दुत्वमिन्दुद्वित्वम् ॥ ५८ ॥

चितः सर्वाः समायान्ति सन्तताः सृष्टिदृष्टयः ।
तत्स्था एवाप्यतत्स्थाभाश्चन्द्रादिव मरीचयः ॥ ५९ ॥

न कदाचन संसारः किलायं राम सत्सदा ।
सर्वशक्तावसंसारशक्तिता विद्यते यतः ॥ ६० ॥

असंसारशक्तिता असंसारस्वभावता । असङ्गाद्वितीयस्वभावतेति यावत् । विद्यते
परमार्थत इति शेषः ॥ ६० ॥

न चैवेदं कदाचित्तु साधो जगदनीदृशम् ।
सर्वशक्तौ हि संसारशक्तिता विद्यते यतः ॥ ६१ ॥

संसारशक्तिता जगद्बीजमर्यादा ॥ ६१ ॥

महाकल्पावधिः कालेन संसारितयेद्धया ।
न भविष्यति संसार इदानीमिति युज्यते ॥ ६२ ॥

इद्धया अधिष्ठानचैतन्यदीप्तया संसारितया कालेन चोपलक्षितः संसारो
महाकल्पो वैज्ञानिको मोक्षाख्यः प्रलयस्तदवधिर्विद्यते अग्रे न भविष्यतीति
व्यवहार इदानीं युज्यत इत्यन्वयः ॥ ६२ ॥

ज्ञदृष्ट्या सर्वमेवेदं ब्रह्मैवेति महामते ।
नास्ति संसार इत्येतदुपपद्यत एव च ॥ ६३ ॥

संसारासत्त्वसत्त्वयोर्विरोधमाशङ्क्य दृष्टिभेदेन विरोधमाह -
ज्ञदृष्ट्येत्यादिना ॥ ६३ ॥

अज्ञदृष्ट्या त्वविच्छिन्नसंसारत्वादनारतम् ।
नित्या संसारमायेयं मिथ्यापीहोपपद्यते ॥ ६४ ॥

पुनःपुनश्च भावित्वान्न कदाचिदनीदृशम् ।
जगदित्येतदित्युक्तं न मृषा रघुनन्दन ॥ ६५ ॥

अत एव कर्ममीमांसकानां न कदाचिदनीदृशं जगदिति
जगत्प्रवाहनित्यव्यवहारोऽप्युपपन्न इत्याह - पुनरिति । इति अनया दृष्ट्या न
मृषा । तदीप्सितकर्मकाण्डप्रामाण्योपपादकत्वादित्यर्थः ॥ ६५ ॥

अनारतपतद्रूपा दिशो दृष्टा विनश्वराः ।
विनाशीदं जगत्सर्वमिति किं नोपपद्यते ॥ ६६ ॥

अज्ञदृष्टीनां विचित्रत्वाद्बुद्धादिभिः स्वस्वप्रक्रियानिर्वाहाय कल्पिताः
क्षणिकपरमाण्वादिव्यवहारा अपि तद्दृष्ट्या उपपद्यन्त एवेत्याह -
अनारतेति । दिशो दिक्षूदिता विद्युदादयः अनारतं सदा पतद्रूपाः
क्षणप्रध्वंसिस्वभावा दृष्टाः । तथैव सर्वत्र कल्पनादित्यर्थः । किमिति
काकुः ॥ ६६ ॥

सर्वत्रोदितचन्द्रार्का दिशो दृष्टाः स्थिराचलाः ।
अविनाशि जगत्सर्वमित्यप्यवितथोपमम् ॥ ६७ ॥

एवं चन्द्रार्कादिस्फीतालोकासु दिक्षु पर्वतभूम्यब्धीनां
स्थिरतादर्शनात्सदैव स्वसत्तया सदेव जगदिति साङ्ख्यादिकल्पनाप्युपपद्यत
एवेत्याह - सर्वत्रेति ॥ ६७ ॥

न तदस्ति न यत्तस्मिन्नेकस्मिन्विततात्मनि ।
सङ्कल्पकलनाजालमनाख्ये नोपपद्यते ॥ ६८ ॥

तथाच ब्रह्मणि तत्तत्सङ्कल्पितेष्वर्थेष्वनुपपन्नं किमपि नास्ति
सङ्कल्पकलनाजालमेव परं नोपपद्यत इत्याह - न तदस्तीति ॥ ६८ ॥

पुनःपुनरिदं सर्वं पुनर्मरणजन्मनी ।
पुनः सुखं पुनर्दुःखं पुनः करणकर्मणी ॥ ६९ ॥

प्रासङ्गिकं सर्वसम्भवमुपपाद्य प्रस्तुतं सर्गपौनःपुन्यमेव
वर्णयति - पुनरित्यादिना ॥ ६९ ॥

पुनराशाः पुनर्व्योम पुनरम्भोधयोऽद्रयः ।
अभ्युदेति पुनः सृष्टिः खवदर्कप्रभा यथा ॥ ७० ॥

स्ववत्सु गवाक्षच्छिद्रवत्सु गृहेषु एकैवार्कप्रभा यथा नानात्वेनोदेति तथा
॥ ७० ॥

पुनर्दैत्याः पुनर्देवाः पुनर्लोकान्तरक्रमाः ।
पुनः स्वर्गापवर्गेहाः पुनरिन्द्रः पुनः शशी ॥ ७१ ॥

पुनर्नारायणो देवः पुनर्दनुसुतादयः ।
पुनराशाचलच्चारुचन्द्रार्कवरुणानिलाः [आशाश्चलत् इति पाठः]
॥ ७२ ॥

सुमेरुकर्णिकाकान्ता सह्यकेसरशालिनी ।
पूर्णा स्फीतोदरोदेति रोदसी नलिनी पुनः ॥ ७३ ॥

पूर्णा प्राणिपुण्यामोदैर्भोगमकरन्दैश्च स्फीतोदरा विशालकुक्षिः ।
द्यावापृथिव्यौ रोदस्यौ तल्लक्षणा नलिनी ॥ ७३ ॥

व्योमकाननमाक्रम्य वल्गत्यंशुनखोत्करैः ।
तमःकरिघटा भेत्तुं पुनर्भास्करकेसरी ॥ ७४ ॥

वल्गत्युद्रच्छति ॥ ७४ ॥

पुनरिन्दुश्चलत्स्वच्छमञ्जरीसुन्दरैः करैः ।
करोत्यमृतमाह्लादि दिग्वधूमुखमण्डनम् ॥ ७५ ॥

आह्लादि सर्वप्राणिसुखकरं अमृतं करोत्युपचिनोति ॥ ७५ ॥

पुनः स्वर्गतरोः पुण्यक्षयवातसमीरिताः ।
पतन्तीह विनुन्नाङ्गाः पुण्यकृत्पुष्पराशयः ॥ ७६ ॥

पुण्यानि कृन्तन्ति भोगैश्छिन्दन्तीति पुण्यकृतः स्वर्गिणस्तल्लक्षणाः
पुष्पराशयः ॥ ७६ ॥

पुनः कार्यक्रियापक्षैः संसारारम्भनामकम् ।
किञ्चित्पटपटं कृत्वा याति कालकपिञ्जलः ॥ ७७ ॥

पटपटं कृत्वा । ननु अनुकरणं चानितिपरम् इति गतिसञ्ज्ञायां
कुगतिप्रादयः इति नित्यं समासे ल्यपा भाव्यम् । सत्यम् । किञ्चिदिति
विशेषणदर्शनात् सविशेषणानां वृत्तिर्न इति महाभाष्योक्तेर्न समासः ।
कालः सृष्टिकालस्तल्लक्षणः कपिञ्जलः पक्षिविशेषः ॥ ७७ ॥

पुनरिन्द्रादिके याते सज्जमास्थाय केवलम् ।
आयात्यपरदेवेन्द्रषट्पदः स्वर्गपङ्कजम् ॥ ७८ ॥

पूर्वेन्द्रलक्षणे अलिके क्षुद्रभ्रमरे याते निवृत्ताधिकारे सति । सज्जं
नूतनतत्तन्मन्वन्तराधिकारिदेवतागणान्तरसन्नद्धमैरावताद्यास्थाय ।
राज्यम् इति पाठे स्पष्टम् । केवलं पूर्वदेवगणशून्यम् ॥ ७८ ॥

पुनः कालं कृतापूतं [कृपापूतं इति क्वचित्] कलुषीकुरुते
कलिः ।
सचक्रिणमिवाम्भोधिं प्रवृद्धोऽवकरानिलः ॥ ७९ ॥

कृतेन युगेन आपूतं सर्वतः पूतम् । कलिरधर्मः । सचक्रिणं
स्वान्तःशयानविष्णुसहितम् । अवकिरति पांसूनित्यवकरोऽनिलः प्रलयवायुः ॥ ७९

पुनः कालकुलालेन कृतभूतशरावकम् ।
चक्रमावर्त्यते वेगादजस्रं कल्पनामकम् ॥ ८० ॥

कृताः प्राणिशरावा यस्मिन् ॥ ८० ॥

पुनर्नीरसतामेति जगदस्तशुभस्थिति ।
अभ्यासीभूतसङ्कल्पं संशुष्कमिव काननम् ॥ ८१ ॥

नीरसतां धर्मरसहीनताम् । अभ्यासीभूतसङ्कल्पं यस्य यद्विषये
पूर्वाभ्यासस्तदनुगुणीभूताः सङ्कल्पा यस्मिन् ॥ ८१ ॥

पुनरर्कगणेष्वग्निदग्धानन्तकलेवरम् ।
सर्वभूतास्थिसम्पूर्णं जगदेति श्मशानताम् ॥ ८२ ॥

पुनः कुलाचलाकारपुष्करावर्तवर्षणैः ।
नृत्यद्भववृहत्फेनां यात्येकार्णवतां जगत् ॥ ८३ ॥

नृत्यन् भवः संहाररुद्र एव शुभ्रत्वाद्वृहन् फेनो यस्याम् ॥ ८३ ॥

पुनः संशान्तवाय्वम्बुरिक्तं सकलवस्तुभिः ।
तदपूर्वमिवाकाशं जगदायाति शून्यताम् ॥ ८४ ॥

पुनः कतिपया भुक्त्वा समाः समरसाशयः ।
जीवितं जीर्णया तन्वा पुनः स्वात्मनि लीयते ॥ ८५ ॥

जीवितं भुक्त्वा अनुभूय ॥ ८५ ॥

पुनरन्येन कालेन तथैव जगतां गणान् ।
मनस्तनोति वै शून्ये गन्धर्वनगरं यथा ॥ ८६ ॥

पुनः सर्मसमारम्भः प्रलये सर्वसम्भवः ।
सर्वं पुनरिदं राम चक्रवत्परिवर्तते ॥ ८७ ॥

पुनः प्रलये सति सर्गसमारम्भः [सर्वसमारम्भः इति पाठः] ॥ ८७

किमेतस्मिन्महामायाडम्बरे दीर्घशम्बरे ।
राम सत्यमसत्यं वा निर्णेयं यदिहोच्यते ॥ ८८ ॥

दीर्घशम्बरे दीर्घभ्रमे किं निर्णेयं विचार्येत्थमिति निश्चेयं न
किञ्चिदित्यर्थः । निर्णयम् इति पाठे निर्युक्तिकमित्यर्थः ॥ ८८ ॥

दाशूराख्यायिकेवेयं राम संसारचक्रिका ।
कल्पनारचिताकारा वस्तुशून्या न वस्तुतः ॥ ८९ ॥

उक्तेऽर्थे दाशूराख्यायिकामुदाहरिष्यामीत्याशयेनाह - दाशूरेति ॥ ८९ ॥

अविरलमिदमाततं विकल्पै-
रसदुदितैरपि तैर्द्विचन्द्रकल्पैः ।
विरचितमसतानुपन्नसत्यं
जगदिह तेन विमूढता किमुत्था ॥ ९० ॥

येन हेतुना इदं जगदसतोऽज्ञानादुदितैर्विकल्पैरविरलमविच्छिन्नप्रवाहं
यथा स्यात्तथा आततं तथा असता अविद्यमानेनैव कर्त्रा
विरचितमनुत्पन्नमनुसृतमधिष्ठानब्रह्म सत्यं येन तथाविधं तेन
हेतुना ते विमूढता किमुत्था कस्मान्निमित्ताजाता । यन्निमित्तं त्वं पश्यसि
तन्नास्त्येव यत्त्वस्ति परमार्थतस्तदभयं ब्रह्मैवेति न ते निर्निमित्तो मोहोऽयं
युक्त इत्युपसंहारः ॥ ९० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे
जगद्वासनिर्णययोगोपदेशो नाम सप्तचत्वारिंशः सर्गः ॥ ४७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
जगद्वासनिर्णययोगोपदेशो नाम सप्तचत्वारिंशः सर्गः ॥ ४७ ॥