षट्चत्वारिंशः सर्गः ४६
श्रीवसिष्ठ उवाच ।
रम्ये धनेषु दारादौ शोकस्यावसरो [मूले हर्षस्यावसरो हि कः इति
पाठः । टीकायां च उभयान्वयीत्यस्यानन्तरं - दारादाविन्द्रजाले
क्षणा दुष्टे सति हर्षस्यावसरः कः तस्मिन्नष्टे वा का
परिदेवनेत्यन्वयः इति पाठोऽधिकः क्वचित्] हि कः ।
इन्द्रजालेक्षणाद्दृष्टे नष्टे का परिदेवना ॥ १ ॥
विहरन्नपि संसारे यैर्गुणैर्न निमज्जति ।
ते रामायात्र कीर्त्यन्ते जीवन्मुक्तेषु ये स्थिताः ॥ १ ॥
तत्र सर्ववस्तुष्वनास्थया नष्टोपेक्षणानागतावाञ्छनलक्षणौ गुणौ
प्रथममुपदिदिक्षु पूर्वप्रस्तावस्य तदुपयोगं दर्शयितुमाह - रम्ये
इत्यादिना । रम्ये इति पदसंस्कारपक्षे एकवचनं
वचनसर्वनामेत्यनुशासनादेकवचनं आवृत्त्योभयान्वयि ॥ १ ॥
गन्धर्वनगरस्यार्थे दूषिते भूषिते तथा ।
अविद्यांशे सुतादौ वा कः क्रमः सुखदुःखयोः ॥ २ ॥
क्रमणं क्रमः प्रसरः ॥ २ ॥
रम्ये धनेऽथ दारादौ हर्षस्यावसरो हि कः ।
वृद्धायां मृगतृष्णायां किमानन्दो जलार्थिनाम् ॥ ३ ॥
धनदारादौ च समृद्धे सतीति शेषः । आनन्दो जलक्रीडादिसुखाधिक्यं किम् ॥
३ ॥
धनदारेषु वृद्धेषु दुःखं युक्तं न तुष्टयः ।
वृद्धायं मोहमायायां कः समाश्वासवानिह ॥ ४ ॥
तद्वृद्धौ संसाररोगवृद्धिसम्भावनया दुःखमेव कर्तुमुचितं न
हर्ष इत्याह - धनेति ॥ ४ ॥
यैरेव जायते रागो मूर्खस्याधिकतागतैः ।
तैरेव भोगैः प्राज्ञस्य विराग उपजायते ॥ ५ ॥
अधिकतां अभिवृद्धिं आगतैः ॥ ५ ॥
नष्टे धनेऽथ दारादौ हर्षस्यावसरो हि कः ।
पारावलोकिनस्त्वेतैर्विरागं यान्ति साधवः ॥ ६ ॥
नष्टे नश्वरस्वभावे । पारावलोकिनः
नश्वरतानरकहेतुत्वाद्युदर्ककटुकतादर्शिनः ॥ ६ ॥
अतो राघव तत्त्वज्ञो व्यवहारेषु संसृतेः ।
नष्टं नष्टमुपेक्षस्व प्राप्तं प्राप्तमुपाहर ॥ ७ ॥
यदर्थमयं प्रस्तावस्तं दर्शयति - अत इति । उपाहर उपयुङ्क्ष्व ।
प्राप्तोपयोगोऽर्थप्राप्तत्वान्न विधेयो गुणः ॥ ७ ॥
अनागतानां भोगानामवाञ्छनमकृत्रिमम् ।
आगतानां च सम्भोग इति पण्डितलक्षणम् ॥ ८ ॥
गुणान्तरमाह - अनागतानामिति ॥ ८ ॥
संसारसम्भ्रमे ह्यसिंश्छन्नात्मन्याततायिनि ।
तथा विहर सम्बुद्धो यथा नायासि मूढताम् ॥ ९ ॥
अप्रमादलक्षणं गुणान्तरमुपदिशति - संसारेति । संसारे
सम्भ्रमयतीति संसारसम्भ्रमः कामस्तल्लक्षणे च्छन्नात्मनि जिघांसया
प्रच्छन्ने आततेन विषशस्त्राग्न्यादिना हन्तुं अयते उपगच्छतीत्याततायी
शत्रुस्तस्मिन् । तदुक्तम् उद्यतासिं विषाग्निं च शापोद्यतकरं तथा ।
आथर्वणेन हन्तारं पिशुनं राजसद्मसु । भार्यातिक्रमिणं चैव
विद्यात्सप्ताततायिनः ॥ इति । सम्बुद्धः प्रबोधे अप्रमत्तः ॥ ९ ॥
संसाराडम्बरस्यास्य प्रपञ्चरहिते क्रमे ।
सम्यग्ज्ञा नानुपश्यन्ति ये हतास्ते कुबुद्धयः ॥ १० ॥
प्रपञ्चरहिते क्रम्यत इति क्रमः परमपदं तस्मिन्सम्यग्ज्ञा अपि ये
प्रमादादस्य संसाराडम्बरस्य वञ्चनां नानुपश्यन्ति ते कुबुद्धयः ।
प्रमादेन हता इत्यर्थः । अथवा प्रपञ्चरहिते ब्रह्मणि
विवेकवैराग्यप्रबोधाप्रमादादिगुणार्जनक्रमे ये सम्यग्ज्ञास्तेऽस्य
संसाराडम्बररस्य । कर्मण एव शेषात्वविवक्षया षष्ठी । इमं
संसाराडम्बरं नानुपश्यन्ति । ये तु कुबुद्धय उक्तगुणहीनास्ते हता
इत्यर्थः ॥ १० ॥
यया कयाचिद्युक्त्यैव दृश्याद्यस्य गता रतिः ।
परिमज्जति तस्यास्था न क्वचिद्विमला मतिः ॥ ११ ॥
दृश्यदर्शनारतिलक्षणमपरं गुणमुपदिशति - ययेति ।
चित्तरञ्जनद्वैतवासनाधानस्वरूपप्रच्यावननरकाद्यनर्थहेतुत्वमिथ्यात्व्
आनामन्यतमोपपादिकया यया कयाचिद्युक्त्या । गता निवृत्ता आस्था
परमार्थाभिनिविष्टा विमला विपापा मतिर्न परिमज्जति मोहाब्धौ ॥ ११ ॥
यस्यासदिदमित्यास्था निवृत्ता सर्ववस्तुषु ।
क्रोडीकरोति सर्वज्ञं नाविद्या तमवास्तवी ॥ १२ ॥
एवं बाह्यार्थाभिनिवेशत्यागोऽपि गुण इत्याशयेनाह - यस्येति । असदिदमिति
निश्चयेनेति शेषः । आस्था अभिनिवेशः ॥ १२ ॥
अहं जगच्चैकमिदं सर्वमेवेति यस्य धीः ।
आस्थानास्थे परित्यज्य संस्थिता स न मज्जति ॥ १३ ॥
ऐक्यात्मदर्शनमपि गुण इत्याह - अहमिति । अनास्थापरित्यागो
यथाप्राप्तानुवर्तनम् ॥ १३ ॥
शुद्धं सदसतोर्मध्यं पदं बुद्ध्याऽवलम्ब्य च ।
सबाह्याभ्यन्तरं दृश्यं मा गृहाण विमुञ्च मा ॥ १४ ॥
उक्तमेव विवृणोति - शुद्धमिति । सदसतोर्व्यक्ताव्यक्तयोर्मध्यमनुगतम्
। शुद्धं सत्तामात्रम् । पदं तदेव प्रत्यगात्मेत्यवलम्ब्य ॥ १४ ॥
अत्यन्तविरतः स्वस्थः सर्ववासविवर्जितः ।
व्योमवत्तिष्ठ नीरागो राम कार्यपरोऽपि सन् ॥ १५ ॥
उपरतिसन्तोषानिकेतनत्वासङ्गत्वगुणानुपदिशति - अत्यन्तेति ॥ १५ ॥
यस्य नेच्छा न वानिच्छा ज्ञस्य कर्मणि तिष्ठतः ।
न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः ॥ १६ ॥
कथं नीरागः स्यात्कथं वा असङ्गस्तत्राह - यस्येति ॥ १६ ॥
दर्शनस्पर्शनादीनि मा करोतु करोतु च ।
तवेन्द्रियमनो गौणं त्वमनिच्छो भवात्मवान् ॥ १७ ॥
बाधितानुवृत्तिमात्रत्वेनामुख्यत्वाद्गौणं तव इन्द्रियसहितं मनो
दर्शनादीनि करोतु न करोतु वा ॥ १७ ॥
ममेदमित्यसद्भूतमिन्द्रियार्थे भवन्मनः ।
मा निमज्जत्वमग्नः सन्मा करोतु करोतु वा ॥ १८ ॥
इन्द्रियार्थे ममतात्यागलक्षणं गुणमुपदिशन्ननास्थामुपपादयति -
ममेति । अमग्नः सन्निति पुंस्त्वं छान्दसम् । त्वमज्ञः सन्निति पाठे तु त्वं
मनः मा निमज्जयेत्यर्थः ॥ १८ ॥
यदा ते नेन्द्रियार्थश्रीः स्वदते हृदि राघव ।
तदा विज्ञातविज्ञानः समुत्तीर्णभवार्णवः ॥ १९ ॥
स्वस्य जीवन्मुक्तताप्राप्तिप्रत्यये लिङ्गमाह - यदेति । न स्वदते
अनर्थहेतुत्वाप्रतिसन्धानेऽपि स्वत एव न रोचते ॥ १९ ॥
आस्वादितेन्द्रियार्थस्य सतनोरतनोरपि ।
अनिच्छतोऽपि सम्पन्ना मुक्तिरर्थवशात्तव ॥ २० ॥
आ अस्वादितेति च्छेदः । आसमन्तात् ऐहलौकिकाः पारलौकिकाश्च अस्वादिताः
अरुचिविषयीकृता इन्द्रियार्था विषया यस्य धीरस्य । सतनोर्व्युत्थाने
देहभानवतः । अतनोः समाधिना तद्रहितस्यापि । अर्थवशात् अनायासेनेति यावत्
॥ २० ॥
उच्चैःपदाय परया प्रज्ञया वासनागणात् ।
पुष्पाद्गन्धमिवोदारं चेतो राम पृथक्कुरु ॥ २१ ॥
तस्यां जीवन्मुक्तौ वासनाभ्यश्चित्तस्य निष्कर्ष एव मुख्यं साधनमित्याह
- उच्चैःपदायेति । उदारं विवेकवैराग्योत्कृष्टं चेतो मनः ॥ २१ ॥
संसाराम्बुनिधावस्मिन्वासनाम्बुपरिप्लुते ।
ये प्रज्ञा नावमारूढास्ते तीर्णा ब्रुडिताः परे ॥ २२ ॥
ब्रुडिता निमग्नाः ॥ २२ ॥
क्षुरधाराप्रमितया धिया परमधीरया ।
प्रविचार्यात्मनस्तत्त्वं ततः स्वपदमाविश ॥ २३ ॥
कीदृशी सा प्रज्ञानौस्तां दर्शयति - क्षुरधारेति ।
विवेकवैराग्यादितीक्ष्णीकृतयेत्यर्थः । धीरया द्वन्द्वसहने धैर्यवत्या ॥ २३ ॥
यथा तत्त्वविदः प्राज्ञा ज्ञानबृंहितचेतसः ।
विहरन्ति तथा राम विहर्तव्यं न मूढवत् ॥ २४ ॥
जीवन्मुक्ता महात्मानो नित्यतृप्ता महाधियः ।
आचारैरनुगन्तव्या न भोगकृपणाः शठाः ॥ २५ ॥
शठाः स्वपरवञ्चकाः ॥ २५ ॥
न त्यजन्ति न वाञ्छन्ति व्यवहारं जगद्गतम् ।
सर्वमेवानुवर्तन्ते पारावारविदो जनाः ॥ २६ ॥
पारं ब्रह्मतत्त्वमवारं जगत्तत्त्वं तद्विदः ॥ २६ ॥
प्रभावस्याभिमानस्य गुणानां यशसः श्रियः ।
न क्वचित्कृपणा लोके महान्तस्तत्त्वदर्शिनः ॥ २७ ॥
ननु विदुषामपि क्वचित्कार्पण्यं स्यान्नेत्याह - प्रभावस्येति । प्रभावो
विद्यातपःपराक्रमाद्युत्कर्षः । गुणा दाक्ष्यकुलशीलादयः । श्रियः
सम्पदः । एतेषां हि विषये लोके कार्पण्यं प्रसिद्धम् । तत्त्वदर्शिनः
प्रभावादीनां मिथयत्वादपुरुषार्थतादर्शिनः ॥ २७ ॥
सुशून्येऽपि न खिद्यन्ते देवोद्याने नसङ्गिनः ।
नियतिं च न मुञ्चन्ति महान्तो भास्करा इव ॥ २८ ॥
सुशून्ये सर्वनाशेऽपि । देवोद्याने सर्वकामसमृद्धनन्दनादावपि
नसङ्गिनो नासक्ताः । नियतिं शास्त्रमर्यादाम् । भास्करपक्षे सुशून्ये आकाशे
। नियतिं स्वमार्गमर्यादाम् ॥ २८ ॥
विगतेच्छा यथाप्राप्तव्यवहारानुवर्तिनः ।
विचरन्ति समुन्नद्धाः स्वस्था देहरथे स्थिताः ॥ २९ ॥
समुन्नद्धाः विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः
इत्यादिशुत्युक्तसाधनसन्नद्धाः ॥ २९ ॥
त्वमपि प्राप्तवान् राम विवेकमिममाततम् ।
प्रज्ञाबलेन चानेन ज्ञाने स्वस्थोऽसि सुन्दर ॥ ३० ॥
मयि तर्हि ते गुणाः सन्ति न वेति सदेहकातरं राममाश्वासयति - त्वमपीति ॥
३० ॥
स्पष्टां दृष्टिमवष्टभ्य निर्मानो गतमत्सरः ।
विहरास्मिन्भुवः पीठे परां सिद्धिमवाप्स्यसि ॥ ३१ ॥
स्वस्थः सर्वेहितत्यागी दूरालोकनवाञ्छनः ।
परां शीतलतामन्तरादाय विहरानघ ॥ ३२ ॥
दूराः आलोकनवासनाविषयकौतुकदर्शनेच्छा यस्य तथाविधो भूत्वेत्यर्थः
॥ ३२ ॥
श्रीवाल्मीकिरुवाच ।
इत्थं गिरा विमलया विमलाशयस्य
रामो मुनेः सपदि मृष्ट इवाबभासे ।
ज्ञानामृतेन मधुरेण विराजितान्तः
पूर्णः शशाङ्क इव शीतलतां जगाम ॥ ३३ ॥
उपदिष्टार्थरहस्यानां रामस्यान्तरुन्मेषादाविर्भावं वाल्मीकिराह -
इत्थमिति । विमलाशयस्य मुनेर्वसिष्ठस्येत्थमुक्तप्रकारया गिरा रामो
मृष्टः परिमार्जितो दर्पण इव आबभासे । ज्ञानामृतेन
विराजितान्तःकरणः सन् [सम्पूर्ण इति पाठः] पूर्णः शशाङ्क इव
शीतलतां तापत्रयोपशान्तिं जगाम प्राप ॥ ३३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे
जीवन्मुक्तस्थितगुणवर्णनं नाम षट्चत्वारिंशः सर्गः ॥ ४६ ॥
इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे स्थितिप्रकरणे
जीवन्मुक्तस्थितगुणवर्णनं नाम षट्चत्वारिंशः सर्गः ॥ ४६ ॥