पञ्चचत्वारिंशः सर्गः ४५
श्रीवसिष्ठ उवाच ।
जगत्सम्पन्नमेवेदं सम्पन्नं किञ्चिदेव न ।
शून्यमेव च भामात्रं मनोविलसितं स्थितम् ॥ १ ॥
मनोरथादौ दृष्टत्वान्मनः कार्यं न सत्क्वचित् ।
असत्तस्माज्जगद्रूपं सत्सदेवेति वर्ण्यते ॥ १ ॥
सम्पन्नं परिनिष्ठितमेव सन्न किञ्चिदेव सम्पन्नम् । यतो मनोविलसितं
सर्वं भामात्रं प्रतिभासमात्रं स्थितम् । तद्व्यतिरेकेण शून्यमेवेत्यर्थः
॥ १ ॥
न देशकालावेतेन ब्रह्माण्डेनावृतौ स्थितौ ।
मनागपि महारूपवताप्याकाशरूपिणा ॥ २ ॥
कुतश्च प्रतिभासव्यतिरेकेण शून्यता तस्येति तत्राह - नेति । यतः
प्रतिभासदेशकालौ एतेन परिच्छिन्नेन ब्रह्माण्डेन नावृतौ न व्याप्तौ ।
अतीतानागतबहिःस्थितब्रह्माण्डकोटीनामपि त्रसरेणूनामातपान्तरिव
प्रतिभासान्तःस्फुरणदर्शनात् । किं बहुना । महारूपवता परममहत्त्वेन
प्रसिद्धेनाप्याकाशरूपिणा प्रथमभूतेन तस्य तौ न व्याप्तौ ।
ज्यायानाकाशात् इति श्रुतेः अप्रतिभासमाने आकाशे ज्यायस्त्वे मानाभावेन
प्रतिभासान्तरेव तस्य भानस्यावश्यवाच्यत्वे
प्रतिभासमानानन्तकोटिष्वेकतमभूतस्य तस्य निरस्ता
प्रतिभासदेशकालव्यापकतेति सूचनाय मनागपीत्युक्तिरिति बोध्यम् ॥ २ ॥
एतत्सङ्कल्पमात्रात्म स्वप्नदृष्टपुरोपमम् ।
यत्रैव तत्र तच्छून्यं केवलं व्योम संस्थितम् ॥ ३ ॥
पूर्वोत्तरदेशकालाव्याप्तिरास्तां नाम स्वाश्रययोर्देशकालयोरपि
अध्यस्तेनाधिष्ठानासंस्पर्शान्न प्रतिभासव्याप्तिप्रसक्तिरित्याशयेनाह -
एतदिति । यत्रैव देशे काले च जगच्चिति भासति तत्रैव तदधिष्ठानं चित्
जगच्छून्यं केवलं व्योमेव संस्थितमित्यर्थः ॥ ३ ॥
अभित्तिरागरचनमपि दृष्टमसन्मयम् ।
अकृतं कृतमेवैतद्व्योम्नि चित्रं विचित्रकम् ॥ ४ ॥
अत एवेदं गन्धर्वनगरचित्रवदिति प्रागुक्तमित्याह - अभित्तीति ॥ ४ ॥
मनसा कल्पितं सर्वं देहादिभुवनत्रयम् ।
संस्मृतौ कारणं चैतच्चक्षुरालोकने यथा ॥ ५ ॥
किञ्च मनसः स्मृतिमात्रे हेतुत्वात्तद्रचितमिदं स्मृतितुल्यमिति न
स्वकालेऽर्थरूपं सदित्याह - मनसेति । एतत् मनः ॥ ५ ॥
आभासमात्रं हि जगद्घटावटपटभ्रमैः ।
आवर्तते न सद्रूपात्पृथक्कुड्यादयः स्थिताः ॥ ६ ॥
कुड्यादिजगतः सतः पृथक्कृत्य दर्शयितुमशक्यत्वादपि
सद्व्यतिरेकेणासत्त्वमित्याह - आभासेति ॥ ६ ॥
मनसेदं शरीरं हि वासनार्थं प्रकल्पितम् ।
कृमिकोशप्रकारेण स्वात्मकोश इव स्वयम् ॥ ७ ॥
यथा स्वात्मनः स्वयं कोश इव प्रकल्पितं तथैव इदं शरीरं स्वस्य
वासनार्थं स्थित्यर्थं कृमिकोशप्रकारेण नीडभूतं कल्पितमित्यर्थः ॥ ७
॥
न तदस्ति च यन्नाम चेतःसङ्कल्पमम्बरम् ।
न करोति न चाप्नोति दुर्गमप्यतिदुष्करम् ॥ ८ ॥
चेतसः सङ्कल्पमात्रेणासद्रचनाप्राप्तिशक्तिप्रसिद्धेरप्युक्तार्थोपपत्तिरित्याह
- न तदिति । यदिति सामान्ये नपुंसकम् । अम्बरमर्थशून्यं सङ्कल्पं
सङ्कल्परूपं यन्न करोति नाप्नोति चेत्यन्वयः । दुर्गं दुरापम् ॥ ८ ॥
सर्वशक्तिधरे देवे का नाम ननु शक्तयः ।
न सम्भवन्त्याश्रियन्ते याभिरन्तर्मनोगुहाः ॥ ९ ॥
याभिः शक्तिभिर्मनोगुहा अन्तर्नाश्रियन्ते ताः शक्तयो देवे जगदीश्वरेऽपि का
नाम सम्भवन्तीत्यन्वयः ॥ ९ ॥
सत्तासत्ते पदार्थानां सर्वेषां सर्वदैव हि ।
महाबाहो सम्भवतः सर्वशक्तौ विभौ सति ॥ १० ॥
यदि सदैव जगदसद्ब्रह्म सदैव सत्परस्परं च तयोः सदैवासंस्पर्शस्तर्हि
कथं जगति कादाचित्के सत्तासत्ते तत्राह - सत्तासत्ते इति । न कादाचित्के अपि तु
सदातने । तयोः परस्पराभिभवेन पर्यायेणावेशकल्पनमेवाचिन्त्यं
मायाशक्तिकृतमिति भावः ॥ १० ॥
पश्य भावनया प्राप्तं मनसैवात्मजं वपुः ।
तस्मात्तत्कलनां राम सर्वशक्तियुतां विदुः ॥ ११ ॥
सेयमैश्वरी सर्वशक्तिः स्वमनस्येव प्रत्यक्षं दृश्यतामित्याह -
पश्येति । जगति विचित्रपदार्थशक्तयोऽपि सर्वशक्तिमन्मनःकल्पनादेवेत्याह ##-
स्वसङ्कल्पकृताः सर्वे देवासुरनरादयः ।
स्वसङ्कल्पोपशमने शाम्यन्त्यस्नेहदीपवत् ॥ १२ ॥
अत एव न देवादिशक्तिभिरपि मुक्तिः प्रतिबद्धुं शक्येत्याशयेनाह -
स्वसङ्कल्पेति ॥ १२ ॥
आकाशसदृशं सर्वं कलनामात्रजृम्भितम् ।
जगत्पश्य महाबुद्धे सुदीर्घं स्वप्नमुत्थितम् ॥ १३ ॥
न जायते न म्रियते इह किञ्चित्कदाचन ।
परमार्थेन सुमते मिथ्या सर्वं तु विद्यते ॥ १४ ॥
न वृद्धिमेति नो ह्रासं यन्न किञ्चित्कदाचन ।
किं वा तनु भवेत्तत्र कस्य का नाम खण्डना ॥ १५ ॥
नतु खण्डनेनाल्पीकृतम् । नह्यखण्डे खण्डनमतरेण परिच्छेदप्रसक्तिः
नच खण्डनं वा सम्भवतीत्यर्थः ॥ १५ ॥
भूमभूतं स्वकायोत्थमपश्यन्निपुणं दृशा ।
राघवाऽमहता स्वान्तः किमज्ञ इव मुह्यसि ॥ १६ ॥
बहोर्भावो भूमा तथाभूतम् । अपरिच्छिन्नमिति यावत् । स्वकायादुत्थं
मुञ्जेषीकावत् पृथक्कृतमपश्यन् अमहता परिच्छिन्नात्मदर्शनेन किं
मुह्यसि ॥ १६ ॥
मृगतृष्णा यथा तापान्मनसो निश्चयात्तथा ।
असन्त इव दृश्यन्ते सर्वे ब्रह्मादयोऽप्यमी ॥ १७ ॥
तापात् मरुमयूखात् । निश्चयात् सङ्कल्पात् ॥ १७ ॥
द्विचन्द्रविभ्रमप्रख्या मनोरथवदुत्थिताः ।
मिथ्याज्ञानघनाः सर्वे जगत्याकारराशयः ॥ १८ ॥
आकारराशयो दृश्याकारसमूहाः ॥ १८ ॥
यथा नौयायिनो मिथ्या स्थाणुस्पन्दमतिस्तथा ।
असत्यैवोत्थिता नित्यमाकाराणां परम्परा ॥ १९ ॥
इन्द्रजालमिदं विद्धि मायारचितपञ्जरम् ।
मनोमनननिर्माणं न सन्नासदिव स्थितम् ॥ २० ॥
नासदिव सत्यमिव ॥ २० ॥
ब्रह्मैवेदं जगत्सर्वमन्यतायास्ततः कुतः ।
प्रसङ्गः कीदृशः कोऽसौ क्व वा सा परितिष्ठति ॥ २१ ॥
अन्यतायाः भेदस्य । चतुर्भिः किंवृत्तैः प्रमाणप्रकारस्वरूपाधाराणां
निषेधः । सा अन्यता ॥ २१ ॥
अयं गिरिरयं स्थाणुरित्याडम्बरविभ्रमः ।
मनसो भावनादार्ढ्यादसन्सन्निव लक्ष्यते ॥ २२ ॥
उपचयावधिर्गिरिरपचयावधिः स्थाणुस्ताभ्यां सर्वे
तदान्तरालिकपरिच्छेदाडम्बरविभ्रमा अप्युपलक्ष्यन्ते ॥ २२ ॥
प्रपञ्चपतनारम्भं प्रमत्तस्य इदं जगत् ।
सकामतृष्नामननं त्यक्त्वान्यद्राम भावय ॥ २३ ॥
प्रमत्तस्य विचारहीनस्य पुंसः सकामतृष्नामननमिदं जगत् प्रपञ्चे
स्वर्गनरकतिर्यगादिजन्मसु पतनमारभत इति प्रपञ्चपतनारम्भं भवतीति
शेषः । अतस्त्वं विवेकेन जगत्त्यक्त्वा अन्यत् निष्प्रपञ्चमात्मानं
भावयेत्यर्थः ॥ २३ ॥
यथा स्वप्नो महारम्भो भ्रान्तिरेव न वस्तुतः ।
दीर्घस्वप्नं तथैवेदं विद्धि चित्तोपपादितम् ॥ २४ ॥
दृश्यमानमहाभोगं गृह्यमाणमवस्तुकम् ।
कोशमाशाभुजङ्गानां संसाराडम्बरं त्यज ॥ २५ ॥
दृश्यमानावस्थं महाभोगं बहुविस्तीर्णं रमणीयमिव । तेषु
कतिपयानामेव ग्रहीतुं शक्यत्वाद्गृहीतेष्वपि
कदाचित्कस्यचिदेवोपभोगात्तदुत्तरक्षण एव क्षयाच्च अवस्तुकं तुच्छम् ।
अभुक्तेषु पूर्वदृष्टेष्वदृष्टेषु च विषयेषु
तृष्णाविषोत्कटानामाशाभुजङ्गानां कोशं वल्मीकमिव स्थितम् ॥ २५ ॥
असदेतदिति ज्ञात्वा माऽत्र भावं निवेशय ।
अनुधावति न प्राज्ञो विज्ञाय मृगत्ष्णिकाम् ॥ २६ ॥
कथं त्याज्यं तत्राह - असदिति । भावं रागम् ॥ २६ ॥
स्वसङ्कल्पात्स्वरूपाढ्यां मनोरथमयीं श्रियम् ।
योऽनुगच्छति मूढात्मा दुःखस्यैव स भाजनम् ॥ २७ ॥
तदनुधावनेऽनर्थमाह -स्वसङ्कल्पेति ॥ २७ ॥
वस्तुन्यसति लोकोऽयं यातु काममवस्तुनि ।
यस्तु वस्तु परित्यज्य यात्यवस्तु स नश्यति ॥ २८ ॥
न केवलमनर्थप्राप्तिरेव किन्त्वर्थनाशोऽपि तस्यास्तीत्याह - यस्त्विति । नश्यति
परमपुरुषार्थाद्भ्रश्यति ॥ २८ ॥
मनोव्यामोह एवेदं रज्ज्वामहिभयं यथा ।
भावनामात्रवैचित्र्याच्चिरमावर्तते जगत् ॥ २९ ॥
असद्भ्युदितैर्भावैर्जलान्तश्चन्द्रवच्चलैः ।
वञ्चयते बाल एवेह न तत्त्वज्ञो भवादृशः ॥ ३० ॥
य इमं गुणसङ्घातं भावयन्सुखमीहते ।
प्रमार्ष्टि स जडो जाड्यं वह्निभावनया स्वया ॥ ३१ ॥
गुणानां शब्दादीनां सङ्घातं देहादि भावयन्
अहम्ममेत्यभिमन्यमानः । जाड्यं शीतम् । वह्निभावनया ।
मनोरथकल्पितवह्निनेति यावत् ॥ ३१ ॥
असदेवेदमाभोगि दृश्यते जलपञ्जरम् ।
मनोमनननिर्माणहृदये नगरं यथा ॥ ३२ ॥
जलपञ्जरं लडयोरभेदाज्जडसङ्घातभूतं देहादि ॥ ३२ ॥
इदं चित्तेच्छयोदेति लीयते तदनिच्छया ।
मिथ्यैवं दृश्यते स्फीतं गन्धर्वनगरं यथा ॥ ३३ ॥
यदीदमैच्छिकसङ्कल्पवशादुदितं तर्हि ऐच्छिकनिवृत्तिसङ्कल्पादेव कुतो न
निवर्तते तत्राह - लीयत इति । तस्य चित्रस्यानिच्छया रागक्षयमात्रेण ।
एवंविधं लोके मिथ्यैव दृश्यते । गन्धर्वनगरग्रहणं
मनोरथकल्पितनगरोपलक्षणम् ॥ ३३ ॥
राम नष्टे जगत्यस्मिन्न किञ्चिदपि नश्यति ।
युक्तेऽपि च जगत्यस्मिन्न किञ्चिदपि युज्यते ॥ ३४ ॥
अतो नास्य नाशे समृद्धौ वा शोकहर्षौ कार्यावित्याशयेनाह -
रामेत्यादिना । युक्ते समृद्धे ॥ ३४ ॥
मनःप्रकल्पिते भग्ने हृदि विस्तीर्णपत्तने ।
वृद्धिं चोपगते ब्रूहि किं वृद्धं कस्य किं क्षतम् ॥ ३५ ॥
क्रीडार्थेन यथोदेति बालानां हृदि वर्तनम् ।
मनसा तद्वदेवेदमुदेत्यविरतं जगत् ॥ ३६ ॥
क्रीडार्थेन पुत्रिकादिना वर्तनं पुत्रपश्वादिव्यवहाराभासकल्पनं यथा न
शोच्यते इति शेषः ॥ ३६ ॥
न किञ्चित्कस्यचिन्नष्टमिन्द्रजालजले यथा ।
भ्रष्टे नष्टे तथैवास्मिन्संसारे वितथोत्थिते ॥ ३७ ॥
यदसत्तदसत्स्याच्चेन्न किं कस्य किल क्षतम् ।
ततो हर्षविषादानां संसारे नाम नास्पदम् ॥ ३८ ॥
यदसदलीकं तदसदविद्यमानमेव चेत्स्यात् कस्य किं क्षतम् । न किञ्चिदिति
शेषः । इवार्थे वा नकारः । अतः संसारे हर्षविषादानामास्पदं न
किञ्चिन्नामेत्यन्वयः ॥ ३८ ॥
असदेव यदत्यन्तं तस्मात्किं नाम नश्यति ।
नाशाभावे हि दुःखस्य कः प्रसङ्गो महामते ॥ ३९ ॥
इत्थं नाशाभ्युपगमेन शोकानर्हतामुक्त्वा वस्तुतो नाश एव कस्यचिन्नास्तीति
तामाह - असदेवेति । यद्यतोऽसदेव तस्मात्ततः ॥ ३९ ॥
सदेव वा यदत्यन्तं तस्य किं नाम नश्यति ।
ब्रह्मैवेदं जगत्सर्वं सुखदुःखे किमुत्थिते ॥ ४० ॥
अध्यस्तदृष्ट्या नाशासम्भवमुपपाद्य अधिष्ठानदृष्ट्यापि
तमुपपादयति - सदेवेति । सुखदुःखे किन्निमित्तमुत्थिते । नोत्थिते एवेत्यर्थः
॥ ४० ॥
असद्वापि यदत्यन्तं वृद्धिः स्यात्तस्य कीदृशी ।
वृद्धेरभावे हर्षस्य कः प्रसङ्गो महामते ॥ ४१ ॥
उत्पत्तिनिरासादेव वृद्ध्यादिविकारा अपि निरस्ता एवेति
तन्निमित्तहर्षस्याप्ययुक्ततेत्याह [प्युक्तता इति पाठः] - असदिति ।
वापी अवधारणे ॥ ४१ ॥
सर्वत्रासत्यभूतेऽस्मिन्प्रपञ्चैकान्तकारिणि ।
संसारे किमुपादेयं प्राज्ञो यदभिवाञ्छतु ॥ ४२ ॥
इष्टप्राप्तौ हि हर्षः स्यादिष्टमेव मायामये नास्तीत्याह - सर्वत्रेति ॥ ४२ ॥
सर्वत्र सत्यभूतेऽस्मिन्ब्रह्मतत्त्वमयेऽपि च ।
किं स्यात्त्रिभुवने हेयं प्राज्ञाः परिहरन्तु यत् ॥ ४३ ॥
एवं सर्वमानन्दैकरस्येन पश्यतो हेयमपि नास्तीत्याह - सर्वत्रेति ।
ब्रह्मतत्त्वमये । स्वार्थे मयट् । परिहरन्तु त्यजन्तु ॥ ४३ ॥
असत्सद्वा जगद्व्यस्य तेनासौ सुखदुःखयोः ।
अगम्य एव मूर्खस्तु तद्विनाशेन दुःखितः ॥ ४४ ॥
तस्य पक्षद्वयेऽपि विनाशानर्हस्य पुत्रमित्रादेर्विनाशेन स्वभ्रान्तिकल्पितेन
दुःखितः ॥ ४४ ॥
आदावन्ते च यन्नासित् वर्तमानेऽपि तत्तथा ।
योऽभिवाञ्छत्यसद्राम तस्यासत्तैव दृश्यते ॥ ४५ ॥
इदानीमसत्सत्पक्षयोस्तुल्ये उपपत्ति दर्शयति - आदाविति द्वाभ्याम् । असद्वा
इदमग्र आसीत् नैवेह किञ्चनाग्र आसीत्
इत्यादिश्रुतिभिर्गगनपवनभुवनादीनामाद्यन्तयोरसत्त्वं श्रूयते
घटादेश्च प्रत्यक्षमनुभूयते चिरं चोभयतश्चासत्त्वमचिरं सकृच्च
सत्त्वं प्रतिव्यक्ति प्रसिद्धम् । ते च परस्परोच्छित्तिस्वभावेन
सत्त्वासत्त्वेनैकवस्तुन्येकतरप्रहाणमन्तरेण निविशेते
इत्यवश्यमेकतरस्मिन्प्रहातव्ये
आद्यन्तयोश्चिरतरमसत्त्वप्रसिद्धेर्वर्तमानदशायामप्यसत्त्वमेव
सर्वव्यक्तीनामिति असत्त्वपक्षेच्छुना असत्त्वमेव श्रुतियुक्त्यनुभवैर्दृश्यत
इत्यर्थः ॥ ४५ ॥
आदावन्ते च यत्सत्यं वर्तमाने सदेव तत् ।
यस्य सर्वं सदेव स्यात्तस्य सत्तैव दृश्यते ॥ ४६ ॥
सदेव सोम्येदमग्र आसीत् कथमसतः सज्जायेत इत्यादिश्रुतिभिः सत्सदित्येव
प्रमाणप्रवृत्तिकाले सर्ववस्त्वनुभवादाद्यन्तकालयोः
सत्तानभिव्यक्तितिरोधानमात्रकल्पनेनापि असद्वा इदमग्र आसीत्
इत्यादिश्रुतियुक्त्योरुपपत्तेः सत्त्वश्रुतियुक्त्योरन्यथोपपादयितुमशक्यत्वाच्च
सदातनी सार्वत्रिकी च सर्ववस्तूनां सत्ता लाघवादेकैव युक्तेति सत्तैक्ये सिद्धे
आदावन्ते च कारणब्रह्मसत्तयैव सर्वस्य सत्यत्वाद्वर्तमानकाले तत्तथैवेति
सद्वादिना अखण्डब्रह्मसत्तैव सर्वत्र दृश्यत इत्यर्थः ॥ ४६ ॥
असत्यभूतं तोयान्तश्चन्द्रव्योमतलादिकम् ।
बाला एवाभिवाञ्छन्ति मनोमोहाय नोत्तमाः ॥ ४७ ॥
देशकालपरिच्छिन्नसत्ताकल्पनं पक्षद्वयबहिष्कृतं
सर्वश्रुतियुक्तिविरुद्धं मूर्खसहस्रैरन्धपरम्परया परिकल्पितं
सर्वानर्थकारीति बालिशानां तेषामेवोचितं न तवेत्याशयेनाह -
असत्यभूतमित्यादिना ॥ ४७ ॥
बालो हि वितताकारैर्वस्तुरिक्तैः प्रयोजनैः ।
सन्तोषमेत्यनन्ताय दुःखाय न सुखाय तु ॥ ४८ ॥
वस्तुरिक्तैरर्थशून्यैः । प्रयोजनैः सुखाभासैः ॥ ४८ ॥
तस्मान्मा त्वं भवो बालो राम राजीवलोचन ।
अविनाशमिहालोक्य नित्यमाश्रय सुस्थिरम् ॥ ४९ ॥
मा भवः मा भूः । लुङ्विषये व्यत्ययेन लङ् ॥ ४९ ॥
असदिदमखिलं मया समेतं
त्विति विगणय्य विषादितास्तु मा ते ।
सदिह हि सकलं मया समेतं
त्विति च विलोक्य विषादितास्तु मा ते ॥ ५० ॥
इदानीं दर्शितयोः सदसत्पक्षयोर्द्वारभेदेनैकप्रयोजनावसाने फलतः
समुच्चयं दर्शयन्नुपसंहरति - असदिति । मायामूढैरात्मत्वेन
कल्पितेनाहङ्कारेण समेतं सहितमिदमखिलं जगदसदेवेति मत्त्वा
श्रुतिगुरुयुक्तिस्वानुभवैरवधार्य पुत्रमित्रधनादिनाशे विषादिता शोकः ।
विषमिव परिणामदुःखदान्विषयानत्तुं भोक्तुं शीलमस्येति विषादी रागी
तद्भावो विषादिता रागश्च मास्तु । तथाच शोकरागादिनिरासद्वारा
ऐकात्म्यदर्शने प्रपञ्चासत्त्ववाद उपयुज्यत इति भावः ।
एवमन्यार्थेनासद्वादप्रस्तावेन निस्तत्त्वमेव जगदिति न मन्तव्यं किन्तु
सकलं सदेव । सत्त्वस्याप्रसिद्धौ तत्प्रतिक्षेपकस्यासत्त्वस्याप्रसिद्धेः ।
प्रसिद्धौ च तत्प्रतिक्षिप्तत्वादेवासत्त्वासिद्धेः । एवं सर्वत्र सत्तया
प्रतिक्षिप्तमसत्त्वं निरास्पदं न क्वचित्कस्यचित्परिच्छेदाय
प्रभवतित्यपरिच्छिन्नसदैकरस्ये सिद्धे घटपटादिपरिच्छेदकाकारस्य
पृथगनवशेषान्मया शोधितचिन्मात्रैकरसेन प्रतीचा अखण्डैक्येन
समेतं सदेव भूमाख्यमहमिति विलोक्य स्वात्मप्रतिष्ठस्य ते तव विषादिता
पुनःसांसारिकजन्ममरणादिविषादावाप्तिर्मास्तु । कालत्रयेऽपि न
सम्भावितेत्यर्थः ॥ ५० ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायन्तनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ॥ ५१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे
यथाभूतार्थयोगोपदेशो नाम पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे स्थितिप्रकरणे
यथाभूतार्थयोगोपदेशो नाम पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
॥ नवमो दिवसः ॥