४४

चतुश्चत्वारिंशः सर्गः ४४

श्रीराम उवाच ।

क्रमेणानेन येनाप्ता जीवेन स्थितिरात्मनः ।
स कथं भगवन्देहं समाधत्तेऽस्थिपञ्जरम् ॥ १ ॥

मुक्तिप्रलयसाम्येऽपि विशेषोऽत्र प्रकीर्त्यते ।
तथा विरिञ्चिजीवस्य शरीरग्रहणक्रमः ॥ १ ॥

प्रलये स्वत एव प्रदेशान्ते जीवराशयो विलयं यान्तीति यदुक्तं तत्र रामः
शङ्कते - क्रमेणेति । अनेन उत्पत्त्योत्पत्त्य कालेन भुक्त्वा देहपरम्परामिति
त्वदुक्तेन क्रमेण येन जीवेन प्रलये स्वत एव परमपदे आत्मनः स्थितिराप्ता स
मुक्त एवेति पुनः कथं देहमादत्ते । परमपदं प्राप्तस्य पुनरावृत्तौ
मुक्तावप्यनाश्वासप्रसङ्गात् । न चाज्ञानावृतस्य बीजभावकृतो विशेषः
। अबीजस्य
शिलाशकलादेरज्ञानमात्रावरणेनाङ्कुरादिबीजत्वादर्शनादित्यर्थः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

पूर्वमेव मया प्रोक्तं राम किं नावबुध्यसे ।
पूर्वापरविचारार्हा शेमुषी क्व गता तव ॥ २ ॥

स्वसमसत्ताकं बीजत्वादर्शनेऽपि आवरणसमसत्ताकसर्पादिकं प्रति
आवृतरज्ज्वादेर्बीजत्वदर्शनान्मिथ्याबीजत्वमावरणमात्रकृतं
विशेषेणानुक्तमपि स्वबुद्ध्यैव त्वयोहितुं शक्यमिति न
प्रश्नार्हमेतदित्याशयेन परिहारमाह - पूर्वमेवेति ॥ २ ॥

यदिदं हि शरीरादि जगत्स्थावरजङ्गमम् ।
आभासमात्रमेवैतदसत्स्वप्नमिवोत्थितम् ॥ ३ ॥

आभासो विवर्तस्तावन्मात्रम् ॥ ३ ॥

दीर्घस्वप्नो ह्ययं राम मिथ्यैवानघ दृश्यते ।
द्विचन्द्रविभ्रमाकारं भ्रमान्तर्भ्रान्तशैलवत् ॥ ४ ॥

चिरस्थायिनां ब्रह्माण्डभुवनादीनां कथमाभासमात्रता तत्राह -
दीर्घेति ॥ ४ ॥

प्रशान्ताज्ञाननिद्रस्तु नूनं गलितभावनः ।
प्रबुद्धचेताः संसारस्वप्नं पश्यन्न पश्यति ॥ ५ ॥

अज्ञानात्मनो बीजभावात्पुनः संसारस्वप्नदर्शनेऽपि ज्ञस्य न
तत्प्रसक्तिरित्याशयेनाह - प्रशान्तेति । जीवन्मुक्तव्यवहारार्ह पश्यन्नपि
परमार्थदृशा न पश्यति ॥ ५ ॥

स्वभावकल्पितो राम जीवानां सर्वदैव हि ।
आमोक्षपदसम्पाप्ति संसारोऽस्त्यात्मनोऽन्तरे ॥ ६ ॥

बीजभूते अज्ञानात्मनि भाविसंसारस्यामोक्षं सूक्ष्मरूपेण सत्त्वादपि
पुनर्जन्मोपपत्तिरित्याशयेनाह - स्वभावेति ॥ ६ ॥

जीवस्य तरलः काय आवर्तः पयसो यथा ।
यथा बीजेऽङ्कुरः स्फारः पल्लवः स्वाङ्कुरे यथा ॥ ७ ॥

जीवस्यान्तरे तरलः कायोऽस्ति यथा पयसोऽन्तरे आवर्त इत्यादिदृष्टान्ताः ॥ ७ ॥

पल्लवे च यथा पुष्पं पुष्पकोशे फलं यथा ।
यतः स कल्पनारूपो देहोऽस्ति मनसोऽन्तरे ॥ ८ ॥

कुतो जीवान्तः कायोऽस्ति तत्राह - यत इति । अन्तरे मध्ये ॥ ८ ॥

बहूरूपतया राम यतोऽस्त्येकतमः स्फुटः ।
स एव प्रतिभासोऽस्य मनसः किल जायते ॥ ९ ॥

तत्रापि देहः कथं सम्भाव्यते तत्राह - बहुरूपतयेति । मनसो
बहुरूपतया प्रसिद्धेर्देहरूपस्यापि वासनात्मना तत्र सम्भवादित्यर्थः ।
तर्हि बहूनि शरीराणि युगपत्कुतो न जायन्ते तत्राह - यत इति । यतो बहुषु
वासनात्मना स्थितेषु य एवैकतमः परिपक्वैः कर्मभिः स्फुटोऽभिव्यक्तः
क्रियते स एव प्रतिभासोऽस्य प्रायेण काले जायते न सर्व इत्यर्थः ॥ ९ ॥

स एवाशु भवत्येतन्मृत्पिण्डो घटकोपमः ।
आदिसर्गे पुरा कायः प्रतिभासोऽस्य चोत्तमः ॥ १० ॥

एतन्मनः स एव देहो भवति । तत्रोत्तमकर्मपरिपाके उत्तम एव देहो
भवतीत्येतदादिसर्गमारभ्य दर्शयति - आदिसर्ग इति ॥ १० ॥

यस्मादेष विभुर्ब्रह्मा पद्मकोशगृहस्थितः ।
तत्सङ्कल्पक्रमेणैव ततः स्थितिमुपागता ॥ ११ ॥

इत्यं सृष्टिरपर्यन्ता मायेव घनमायया ।

श्रीराम उवाच ।

जीवो मनःपदं प्राप्य वैरिञ्चं पदमागतः ॥ १२ ॥

यथा ब्रह्मंस्तथा सर्वं विस्तरेण वदाशु मे ।

श्रीवसिष्ठ उवाच ।

ब्रह्मे शृणु महाबाहो शरीरग्रहणे क्रमम् ॥ १३ ॥

निदर्शनेन तेनैव जागतीं ज्ञास्यसि स्थितिम् ।
दिक्कालाद्यनवच्छिन्नमात्मतत्त्वं स्वशक्तितः ॥ १४ ॥

लीलयैव यदादत्ते दिक्कालकलितं वपुः ।
तदैव जीवपर्यायं वासनावेशतत्परम् ॥ १५ ॥

मनः सम्पद्यते लोलं कलनाकलनोन्मुखम् ।
मलयन्ती मनःशक्तिरादौ भावयति क्षणात् ॥ १६ ॥

कलनाकलनोन्मुखमिति यदुक्तं तद्विवृणोति - कलयन्तीत्यादिना । पूर्वसर्गे
आकाशादिक्रमाविर्भूतहिरण्यगर्भाहङ्ग्रहोपासनसंस्कृतं
मनस्तथैवाव्याकृते लीनं मनः शक्तिरित्युच्यते सा तेनैव क्रमेण
स्वाविर्भावं कल्पयन्ती सतीत्यर्थः ॥ १६ ॥

आकाशभावनामच्छां शब्दबीजरसोन्मुखीम् ।
ततस्तां घनतां यातं घनस्पन्दक्रमान्मनः ॥ १७ ॥

शब्दानां बीजं शब्दतन्मात्रं रसः श्रोत्रेन्द्रियम् । तां
तादृशाकाशभावनां प्राप्य घनतामुपचयं यातं मनः ॥ १७ ॥

भावयत्यनिलस्पन्दं स्पर्शबीजरसोन्मुखम् ।
ताभ्यामाकाशवाताभ्यामदृष्टाभ्यां मनोदृशा ॥ १८ ॥

अनिलात्मना स्पन्दमीषच्चलनम् । स्पर्शबीजेत्यादि प्राग्वत् । अपञ्चीकृतत्वेन
सूक्ष्मतमत्वान्मनोदृशा मनोवच्छिन्न चैतन्यात्मना
जीवेनादृष्टाभ्याम् ॥ १८ ॥

शब्दस्पर्शस्वरूपाभ्यां सङ्घाताज्जन्यतेऽनलः ।
मनस्तद्घन्तां प्राप्य ततो भावयति क्षणात् ॥ १९ ॥

सङ्घातात् उपचयादभिघाताच्च । अनलो रूपबीजरसात्मकः ॥ १९ ॥

प्राकाश्यममलालोकमालोकस्तेन वर्धते ।
मनस्तावद्गुणगतं रसतन्मात्रवेदनम् ॥ २० ॥

तावद्गुणगतं तावद्भिराकाशवायुतेजोभिर्गुणनं गुण उपचयस्तं गतं
प्राप्तम् ॥ २० ॥

क्षणार्धेन त्वपां शैत्यं जलसंवित्ततो भवेत् ।
ततस्तादृग्गुणगतं मनो भावयति क्षणात् ॥ २१ ॥

अपां शैत्यं रसतन्मात्रं प्राप्य जलमिति संवेद्यत इति संवित्प्रतीत्यर्हं
भवेदित्यर्थः । तादृशामुक्तप्रकाराणां चतुर्णां गुणं
सङ्घातभावं गतम् ॥ २१ ॥

स्वरूपं गन्धवत्स्थूलं येनोदेष्यति मेदिनी ।
अथेत्थम्भूततन्मात्रवेष्टितं तनुतां जहत् ॥ २२ ॥

उदेष्यतीति पूर्वभूतजन्मकालमपेक्ष्य भविष्यत्त्वविवक्षणालॢट् ।
भूततन्मात्रवेष्टितमिदं पञ्चकं मिलितं सत्तनुतां सौक्ष्म्यं जहत्त्यजत् ॥
२२ ॥

वपुर्वह्निकणाकारं स्फुरितं व्योम्नि पश्यति ।
अहङ्कारकलायुक्तं बुद्धिबीजसमन्वितम् ॥ २३ ॥

यद्वपुः पश्यति तल्लिङ्गाख्यं पुर्यष्टकमित्यन्वयः ॥ २३ ॥

तत्पुर्यष्टकमित्युक्तं भूतहृत्पद्मषट्पदम् ।
तस्मिंस्तु तीव्रसंवेगाद्भावयद्भास्वरं वपुः ॥ २४ ॥

कर्मज्ञानेन्द्रियगणौ भूतप्राणमनोगणाः । अविद्याकामकर्माणि लिङ्गैः
[लिङ्गं इति पाठः] पुर्यष्टकं विदु । वक्ष्यमाणदेहभावनया
लिङ्गस्यैव हि पञ्चीकरणेन घनत्वे स्थूलदेहताविभावनमित्याह -
तस्मिंस्त्विति ॥ २४ ॥

स्थूलतामेति पाकेन मनो बिल्वफलं यथा ।
मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे ॥ २५ ॥

मूषा प्रतिमाकारनभोगर्भमृत्पिण्डस्तदन्तर्निषिक्तद्रुतहेमाभं बहिः
स्थूलभास्वरमन्तः सूक्ष्मभास्वरं स्थूलदेहसंवलितं
वक्ष्यमाणसन्निवेशमुपादत्ते तत्तेजो लिङ्गं कर्तृ ॥ २५ ॥

सन्निवेशमुपादत्ते तत्तेजः स्वस्वभावतः ।
तस्मिन्स्वसन्निवेशे च तेजःपुञ्जमये पुनः [मन इत्यपि पाठः] ॥
२६ ॥

तत्र मनसो विशेषकल्पनाभिनिवेशशाखोपशाखाप्रचय इत्याह -
तस्मिन्नित्यादिना ॥ २६ ॥

भजते भावनां स्फारां निश्चितामातताम्बराम् ।
ऊर्ध्वं शिरःपीठमयीमधःपादमयीं तथा ॥ २७ ॥

आतताम्बरां व्याप्ताकाशां भूयुअसीमिति यावत् । तत्र क्रमाच्छिर
आद्यवयवकल्पनामाह - ऊर्ध्वमिति ॥ २७ ॥

पार्श्वयोर्हस्तसंस्थानां मध्ये चोदरधर्मिणीम् ।
प्रकटावयवो बालो ज्वालामालामलाकृतिः ॥ २८ ॥

अङ्गुल्यादिनिष्पत्त्या प्रकटावयवः ॥ २८ ॥

मनोरथवशोपात्तवपुस्तिष्ठत्यसावथ ।
एवं स्ववासनावेशात्कलिताङ्गो मनोमुनिः ॥ २९ ॥

असौ ब्रह्मा । मुनिः पूर्वोपासितप्रकारमननशीलः ॥ २९ ॥

नयत्युपचयं देहं स्वस्वभावमृतुर्यथा ।
कालेन स्फुटतामेति भवत्यमलविग्रहः ॥ ३० ॥

बुद्धिसत्त्वबलोत्साहविज्ञानैश्वर्यसंस्थितः ।
स एव भगवान्ब्रह्मा सर्वलोकपितामहः ॥ ३१ ॥

ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च
सहसिद्धं चतुष्टयम् ॥ इति स्मृतिप्रसिद्धविशेषणसिद्धिं तस्य दर्शयति ##-

द्रवत्कनकसङ्काशः परमाकाशसम्भवः ।
यथासौ परमाकाशे तिष्ठत्यपररूपवान् ॥ ३२ ॥

परमाकाशे ब्रह्मण्यसौ यथा यादृश्या स्वसत्तया तिष्ठति तथा
तादृश्यैव व्यवहारक्षमसत्तया आत्मनो मोहमज्ञानमेव चित्तलीलया
पञ्चीकृतस्थूलव्योमादिवक्ष्यमाणरूपेण जनयतीत्यर्थः ॥ ३२ ॥

जनयत्यात्मनो मोहमात्मस्थं चित्तलीलया ।
कदाचित्केवलं व्योम परमं पारवर्जितम् ॥ ३३ ॥

तस्य कालभेदेन नानाविधाः कल्पना दर्शयति - कदाचिदिति । पारं
परावधिः आदिः पूर्वावधिः पर्यन्तौ पार्श्वतोऽवधिस्तदभावादेव
मध्यमावधिरहितं च केवलं व्योम कल्पयतीत्यर्थः ॥ ३३ ॥

अनादिमध्यपर्यन्तं कदाचिदमलं पयः ।
कदाचित्कल्पकालाग्निज्वालाभास्वरमण्डकम् ॥ ३४ ॥

दैनन्दिनप्रलयकाले तु अमलं पय एव कल्पयति । कदाचित्कल्पान्ते दाहकाले ॥ ३४

कदाचित्काननं कार्ष्ण्यं कालं कमलकुड्मलम् ।
अन्यान्यन्यान्यनेकानि प्रतिजन्मावधिः प्रभुः ॥ ३५ ॥

कदाचित्पृथिवीसर्गोत्तरं भूतसर्गात्प्राक्काले कृष्णमेव कार्ष्ण्यम् ।
चातुर्वर्ण्यमितिवत्स्वार्थे ष्यञ् । हरितवर्णं काननं वृक्षव्याप्तां
कृत्स्नां भुवमित्यर्थः । कदाचित्पाद्मे कल्पे
श्यामभूपद्मप्रकृतित्वात्कालं श्यामं विष्णुनाभ्युत्थं
कमलकुड्मलम् । अन्यान्यन्यानि भुवनार्णवजनादिरूपाण्यनेकानि संस्थानानि
कल्पयन्विष्ण्वादिरूपेण स्वयमेव पालयति ॥ ३५ ॥

कल्पयन्पालयत्येष नानारूपाणि हेलया ।
तत्रेदम्प्रथमत्वेन यदैष ब्रह्मणः पदात् ॥ ३६ ॥

तस्य प्रथमकल्पमारभ्य प्रतिदिनं सुप्तोत्थितस्य स्वदेहकल्पनाक्रमं
दर्शयति - तत्रेत्यादिना । सर्वेषां ब्रह्माण्डानां तदभिमानिब्रह्मणां
च कालानवच्छिन्नब्रह्मपदादेवाविर्भावात्तद्दृशा न पौर्वापर्यमस्तीति
प्राथम्यमेवेत्यभिप्रेत्येदम्प्रथमत्वेनेत्युच्यते ॥ ३६ ॥

अवतीर्णस्तदाऽज्ञानात्तथैव सुखमस्मृतम् ।
गर्भनिद्राव्यपगमे वपुः पश्यति भास्वरम् ॥ ३७ ॥

यदावतीर्णस्तदाप्रभृति ब्रह्माण्डगर्भे विष्णुकुक्षिगर्भे वा सुखं
सौषुप्तसुखोपलक्षितमस्मृतं प्राक्तनवास्तवरूपस्य
देहव्यवहारादेश्चास्मरणरूपं सुषुप्तमभूदिति शेषः ॥ ३७ ॥

प्राणापानप्रवाहाढ्यं द्रव्यैरिव विनिर्मितम् ।
रोमकोटिभिराकीर्णं द्वात्रिंशद्दशनान्वितम् ॥ ३८ ॥

द्रव्यैः पञ्चभूतस्वच्छभागैः ॥ ३८ ॥

त्रिस्थूणं पञ्चदैवत्यमधश्चरणलाञ्छितम् ।
पञ्चभागं नवद्वारं त्वग्लेपमसृणाङ्गकम् ॥ ३९ ॥

सक्थिपृष्ठास्थिभिस्त्रिस्थूणम् । पञ्चभिः प्राणैः पञ्चदैवस्यम् ।
पाणिपादशिरोवक्षःकुक्षिणा पञ्चभागम् ॥ ३९ ॥

युक्तमङ्गुलिर्विशत्या नखविंशतिलाञ्छितम् ।
द्विबाहुं द्विस्तनं द्व्यक्षं बह्वक्षिभुजमेव च ॥ ४० ॥

इच्छया कदाचिद्बह्वक्षिभुजमपि ॥ ४० ॥

नीडं चित्तविहङ्गस्य नीडं मन्मथभोगिनः ।
तृष्णापिशाच्या निलयं जीवकेसरिकन्दरम् ॥ ४१ ॥

अभिमानगजालानं मानसाम्भोजशोभितम् ।
अथालोच्य वपुर्ब्रह्मा कान्तमात्मीयमुत्तमम् ॥ ४२ ॥

चिन्तयामास भगवांस्त्रिकालामलदर्शनः ।
अस्मिन्नाकाशकुहरे तते मधुपलाञ्छिते ॥ ४३ ॥

मधुपपदेन तत्सदृशश्यामता लक्ष्यते तया लाञ्छिते ॥ ४३ ॥

अदृष्टपारपर्यन्ते प्रथमं किमभूदिति ।
इति चिन्तितवान्ब्रह्मा सद्यो जातोऽमलात्मदृक् ॥ ४४ ॥

प्रथमं मदुत्पत्तेः पूर्वम् । इतिशब्दद्वयं वीप्सया
सर्वपूर्वविशेषचिन्तालाभार्थम् । अमला निर्मलत्वादतीतानागतदर्शने क्षमा
आत्मदृग् यस्य ॥ ४४ ॥

अपश्यत्सर्गवृन्दानि समतीतान्यनेकशः ।
अथ सस्मार सकलान्सर्वान्धर्मगणान्क्रमात् ॥ ४५ ॥

अथ तत्कारणचिन्तानन्तरम् । सकलान् साङ्गोपाङ्गान् ।
धर्मगणग्रहणमधर्माणामप्युपलक्षणम् ॥ ४५ ॥

वसन्तः कुसुमानीव वेदानादाय संस्तुतान् ।
लीलया कल्पयामास चित्रसङ्कल्पजाः प्रजाः ॥ ४६ ॥

अत एव तस्योत्तरकाले सर्गोऽपि वेदोक्तक्रमेणैव सुकरोऽभूदित्याशयेनाह -
लीलयेति ॥ ४६ ॥

नानाचारसमाचारं गन्धर्वनगरे यथा ।
तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये ॥ ४७ ॥

अनन्तानि विचित्राणि शास्त्राणि समकल्पयत् ।
दृष्टिरेवमियं राम सर्गेऽस्मिन्स्थितिमागता ।
विरिञ्चिरूपान्मनसः पुष्पलक्ष्मीर्मधोरिव ॥ ४८ ॥

मनस एव सर्वसृष्टिरिति यत्प्रतिज्ञातं तदेवंरीत्या समर्थितमित्युपसंहरति

  • दृष्टिरिति ॥ ४८ ॥

विविधविरचनैः क्रियाविलासैः
कमलजरूपधरेण चेतसैव ।
रघुसुत परिकल्पनेन नीता
स्थितिमतुलां जगतीह सर्गलक्ष्मीः ॥ ४९ ॥

हे रघुसुत रघुसन्तते परिदृश्यमाना सर्गलक्ष्मीः कमलजरूपधरेण
चेतसा मनसैव स्वपरिकल्पनेन अतुलां सत्यतुच्छविलक्षणत्वादसदृशीं
स्थितिं नीतेत्यर्थः ॥ ४९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे
संसारावतरणप्रतिपादनोपदेशो नाम चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
संसारावतरणप्रतिपादनोपदेशो चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥