४३

त्रिचत्वारिंशः सर्गः ४३

श्रीवसिष्ठ उवाच ।

एवं जीवाश्चितो भावा भवभावनयोहिताः ।
ब्रह्मणः कल्पिताकाराल्लक्षशोऽप्यथ कोटिशः ॥ १ ॥

जीवानां कर्मगतयः प्रपञ्च्यन्तेऽत्र विस्तरात् ।
विवेकादेः सुदौर्लभ्यान्मुक्तिः केषाञ्चिदित्यपि ॥ १ ॥

एवं मनसः स्वबन्धकत्वप्रकारमुपवर्ण्य
तदुपहितचिद्रूपजीवानामामोक्षं संसारस्थितिप्रकारवैचित्र्यं
वर्णयिष्यंस्तत्सङ्गतिप्रदर्शनाय प्रागुक्तजीवोत्पत्तिं प्रकारभेदैरनुवदति

  • एवमित्यादिना । चितः भावा औपाधिका विभावरूपा जीवा भवभावनया
    संसारवासनया ऊहिताः प्रवाहिताः । इट् छान्दसः । पूर्ववासनानुसारेण
    कल्पिताकाराद्ब्रह्मणः सकाशाज्जाता इत्यादिपरेणान्वयः ॥ १ ॥

असङ्ख्याताः पुरा जाता जायन्ते चापि वाद्य भोः ।
उत्पतिष्यन्ति चैवाम्बुकणौघा इव निर्झरात् ॥ २ ॥

अद्य सम्प्रति जायन्ते । भो इति रामसम्बोधनम् ॥ २ ॥

स्ववासनादशावेशादाशाविवशतां गता ।
दशास्वतिविचित्रासु स्वयं निगडिताशयाः ॥ ३ ॥

अनारतं प्रतिदिशं देशे देशे जले स्थले ।
जायन्ते वा म्रियन्ते वा बुद्बुदा इव वारिणि ॥ ४ ॥

अनारतं सततम् । वाशब्दौ पर्यायार्थौ ॥ ४ ॥

केचित्प्रथमजन्मानः केचिज्जन्मशताधिकाः ।
केचिद्वाऽज्न्मसङ्ख्याकाः केचिद्द्वित्रिभवान्तराः ॥ ५ ॥

प्रथमजन्मानः अस्मिन्कल्पे एकमेव जन्म प्राप्ताः । न विद्यते जन्मसङ्ख्या
येषां ते अजन्मसङ्ख्याकाः ॥ ५ ॥

भविष्यज्जातयः केचित्केचिद्भूतभवोद्भवाः ।
वर्तमानभवाः केचित्केचित्त्वभवतां गताः ॥ ६ ॥

भविष्यन्ती जातिर्जन्म येषां ते भविष्यज्जातयः । अस्मिन् कल्पे अद्याप्यनुत्पन्ना
इत्यर्थः । भूता अतीता भवोद्भवा येषां जीवन्मुक्ता इति यावत् । अभवतां
विदेहमुक्तिम् ॥ ६ ॥

केचित्कल्पसहस्राणि जायमानाः पुनः पुनः ।
एकामेवास्थिता योनिं केचिद्योन्यन्तरं श्रिताः ॥ ७ ॥

योनिं देहजातिम् ॥ ७ ॥

केचिन्महादुःखसहाः केचिदल्पोदयाः स्थिताः ।
केचिदत्यन्तमुदिताः केचिदर्कादिवोदिताः ॥ ८ ॥

महादुःखसहा नारकाः । अल्पोदया अल्पसुखा मर्त्याः । अत्यन्तमुदिता देवाः ।
अर्कादिवोदिताः सत्यलोकगाः ॥ ८ ॥

केचित्किन्नरगन्धर्वविद्याधरमहोरगाः ।
केचिदर्केन्द्रवरुणास्त्र्यक्षाधोक्षजपद्मजाः ॥ ९ ॥

त्र्यक्षादिग्रहणं त्र्यक्षादिसारूप्यप्राप्तजीवाभिप्रायम् ॥ ९ ॥

केचित्कूश्माण्डवेतालयक्षरक्षःपिशाचकाः ।
केचिद्ब्राह्मणभूपाला वैश्यशूद्रगणाः स्थिताः ॥ १० ॥

केचिच्छ्वपचचाण्डालकिरातावेशपुष्कसाः ।
केचित्तृणौषधी केचित्फलमूलपतङ्गकाः ॥ ११ ॥

किरातावेशाः किरातयोनिप्रविष्टास्त एव । तृणौषधी इति जात्योर्द्विवचनम् ।
फलमूलग्रहणं तदन्तर्गतबीजावस्थजीवाभिप्रायेण ॥ ११ ॥

केचिच्चित्रलतागुल्मतृणोपलदृशोऽभितः ।
केचित्कदम्बजम्बीरशालतालतमालकाः ॥ १२ ॥

पुनस्तृणग्रहणं तदवान्तरजातिप्रपञ्चार्थम् । उपलं पश्यन्ति
स्वदेहतयेत्युपलदृशः पर्वतादयः ॥ १२ ॥

केचिद्विभवसंसारमन्त्रिसामन्तभूमिपाः ।
केचिच्चीराम्बराच्छन्ना मुनिमौनमुपस्थिताः ॥ १३ ॥

विभवैः संसरन्ति भ्रमन्तीति विभवसंसाराः । अम्बरदौर्लभ्यात्तपोर्थं
वा चीराम्बराच्छनाअः ॥ १३ ॥

केचिद्भुजङ्गगोनासकृमिकीटपिपीलिकाः ।
केचिन्मृगेन्द्रमहिषमृगाजचमरैणकाः ॥ १४ ॥

गोनासा अजगराः ॥ १४ ॥

केचित्सारसचक्राह्वबलाकाबककोकिलाः ।
केचित्कमलकह्लारकुमुदोत्पलतां गताः ॥ १५ ॥

केचित्कलभमातङ्गवराहवृषगर्दभाः ।
केचिद्द्विरेफमशकाः पुत्तिकादंशवंशजाः ॥ १६ ॥

कलभः करिशावः । पुत्तिका पतङ्गिका ॥ १६ ॥

केचिदापद्बलाक्रान्ताः केचित्सम्पदमागताः ।
केचित्स्थिताः स्वर्गपुरे केचिन्नरकमास्थिताः ॥ १७ ॥

ऋक्षचक्रगताः केचिद्वृक्षरन्ध्रगताः परे ।
वातभूताः स्थिताः केचित्केचिद्व्योमपदे स्थिताः ॥ १८ ॥

ऋक्षचक्रं नक्षत्रचक्रं तद्गताः । वातभूता
आवहप्रवहादिवाय्वधिकारं प्राप्ताः । व्योमपदे आकाशाधिकारे ॥ १८ ॥

सूर्यांशुषु स्थिताः केचित्केचिदिन्द्वंशुषु स्थिताः ।
केचित्तृणलतागुल्मरसस्वादुष्ववस्थिताः ॥ १९ ॥

सूर्यांशुषु रसादानाद्यधिकारे । इन्द्वंशुषु ओषध्याद्याप्यायनाधिकारे ।
तृणादीनां रसः स्वादुर्यत्र पश्वादियोग्ये विषयलाम्पठ्ये इति यावत् ॥ १९ ॥

जीवन्मुक्ता भ्रमन्तीह केचित्कल्याणभाजनाः ।
चिरमुक्ताः स्थिताः केचिन्नूनं परिणताः परे ॥ २० ॥

परे परमात्मनि परिणतास्तद्भावं प्राप्ता विदेहमुक्ताः ॥ २० ॥

केचिच्चिरेण कालेन भविष्यन्मुक्तयः शिवाः ।
केचिद्द्विषन्ति चिद्भावाः केवलीभावमात्मनः ॥ २१ ॥

चिद्भावा जीवा भोगलम्पटाः सन्तः केवलीभावं कैवल्यं द्विषन्ति ॥ २१ ॥

केचिद्विशालाः ककुभः केचिन्नद्यो महारयाः ।
केचित्स्त्रियः कान्तदृशः केचित्पण्डनपुंसकाः ॥ २२ ॥

ककुभो दिग्देवताः ॥ २२ ॥

केचित्प्रबुद्धमतयः केचिज्जडतराशयाः ।
केचिज्ज्ञानोपदेष्टारः केचिदात्तसमाधयः ॥ २३ ॥

एते सर्वेऽपि संसरणानर्थवासनावशादेवेति सैव
समूलमुच्छेद्येत्याशयेनोपसंहरति - जीवा इति ।
उक्तानुक्तसर्वसङ्ग्रहार्थमेतास्वेतास्विति वीप्सा ॥ २४ ॥

जीवाः स्ववासनावेशविवशाशयतां गताः ।
एतास्वेतास्ववस्थासु संस्थिता बद्धभावनाः ॥ २४ ॥

विहरन्ति भुवि । निपतन्ति नरके । उत्पतन्ति स्वर्गे । अत एव कन्दुका इव ॥ २५ ॥

विहरन्ति जगत्केचिन्निपतन्त्युत्पतन्ति च ।
कन्दुका इव हस्तेन मृत्युनाऽविरतं हताः ॥ २५ ॥

विहरन्ति भुवि । निपतन्ति नरके । उत्पतन्ति स्वर्गे । अत एव कन्दुका इव ॥ २५ ॥

आशापाशशताबद्धा वासनाभावधारिणः ।
कायात्कायमुपायान्ति वृक्षाद्वृक्षमिवाण्डजाः ॥ २६ ॥

वासनारूपान्भावान्भाविदेहादीन्धारयन्ति तच्छीलाः ॥ २६ ॥

अनन्तानन्तसङ्कल्पकल्पनोत्पादमायया ।
इन्द्रजालं वितन्वाना जगन्मयमिदं महत् ॥ २७ ॥

अनन्तेषु विषयेषु अनन्तसङ्कल्पकल्पनोत्पादनहेतुभूतया मायया अविद्यया ॥
२७ ॥

तावद्भ्रमन्ति संसारे वारिण्यावर्तराशयः ।
यावन्मूढा न पश्यन्ति स्वमात्मानमनिन्दितम् ॥ २८ ॥

आवर्तराशय इवेति शेषः ॥ २८ ॥

दृष्ट्वात्मानमसत्त्यक्त्वा सत्यामासाद्य संविदम् ।
कालेन पदमागत्य जायन्ते नेह ते पुनः ॥ २९ ॥

विवेकिनां तर्ह्यात्मदर्शनात्को लाभस्तमाह - दृष्ट्वेति । कालेन
भूमिकादार्ढ्यक्रमेण ॥ २९ ॥

भुक्त्वा जन्मसहस्राणि भूयः संसारसङ्कटे ।
पतन्ति केचिदबुधाः सम्प्राप्यापि विवेकिताम् ॥ ३० ॥

विवेकभ्रष्टानां या गतिस्तामाह - भुक्त्वेति ॥ ३० ॥

केचिच्छक्तत्वमप्युच्चैः प्राप्य तुच्छतया धिया ।
पुनस्तिर्यक्त्वमायान्ति तिर्यक्त्वान्नरकानपि ॥ ३१ ॥

शक्तत्वं प्रशस्तजन्मदेशकालप्रतिभाविनयसत्समागमादिसम्पन्नताम् ।
उच्चैर्देवगन्धर्वब्राह्मणाद्युत्कृष्टसम्पद्रूपम् । तुच्छतया
तुच्छविषयलम्पटतया धिया स्वबुद्ध्यैव । शक्रत्वम् इति पाठे नहुषः
उदाहार्यः ॥ ३१ ॥

केचिन्महाधियः सन्त उत्पद्य ब्रह्मणः पदात् ।
तदैव जन्मनैकेन तत्रैवाशु विशन्त्यलम् ॥ ३२ ॥

महाधियः सनकादयः । तदैव तस्मिन्नेव कल्पे । तत्र मोक्षाख्ये ब्रह्मपदे ॥
३२ ॥

ब्रह्माण्डेष्वितरेष्वन्ये तेष्वन्ये जीवराशयः ।
प्रयान्ति पद्मोद्भवतामन्ये च हरतामपि ॥ ३३ ॥

इतरेषु स्वोत्पत्तिब्रह्माण्डान्तरेषु यथैन्दवाः । तेषु
स्वोत्पत्तिस्थानब्रह्माण्डेषु । हरतां हरसारूप्यम् ॥ ३३ ॥

अन्ये प्रयान्ति तिर्यक्त्वमन्ये च सुरतामपि ।
अन्येऽपि जागतां राम यथैवेह तथैव हि ॥ ३४ ॥

नागतां सर्पतां जगतां वा । यथैवेह ब्रह्माण्डे तथैव
ब्रह्माण्डान्तरेऽपीति शेषः ॥ ३४ ॥

यथेदं हि जगत्स्फारं तथान्यानि जगन्त्यपि ।
विद्यन्ते समतीतानि भविष्यन्ति च भूरिशः ॥ ३५ ॥

इदं जगत् ब्रह्माण्डम् । जगन्ति ब्रह्माण्डानि ॥ ३५ ॥

अन्येनान्येन चित्रेण क्रमेणान्येन हेतुना ।
विचित्राः सृष्टयस्तेषामापतन्ति पतन्ति च ॥ ३६ ॥

आपतन्त्याविर्भवन्ति पतन्ति तिरोभवन्ति च ॥ ३६ ॥

कश्चिद्गन्धर्वतां याति कश्चिद्गच्छति यक्षताम् ।
कश्चित्प्रयाति सुरतां कश्चिदायाति दैत्यताम् ॥ ३७ ॥

अत्रैव ब्रह्माण्डान्तरेष्वपि कर्मवैचित्र्याज्जीवगतिर्विचित्रैवेत्याशयेनाह -
कश्चिदिति ॥ ३७ ॥

येनैव व्यवहारेण ब्रह्माण्डेऽस्मिन्जनाः स्थिताः ।
तेनैवान्येषु तिष्ठन्ति सन्निवेशविलक्षणाः ॥ ३८ ॥

येनैव मनुष्यादियोग्यव्यवहारेण । द्वीपान्तरीयजनवत्सन्निवेशेन
संस्थानभेदेन परं विलक्षणाः ॥ ३८ ॥

स्वस्वभाववशावेशादन्योन्यपरिघट्टनैः ।
सृष्टयः परिवर्तन्ते तरङ्गिण्या इवोर्मयः ॥ ३९ ॥

अस्त्वेवं तथापि कथं तेषामुत्तमाधमादिभावेन परस्परस्नेहविरोधादिना
च सृष्टिपरिवृत्तिस्तत्राह - स्वस्वभावेति ।
सात्त्विकराजसतामसादिस्वस्वभाववशात्तत्तदनुकूलव्यवहाराभिनिवेशात्प्रवृ
^इत्तानामेकविषये स्पर्धया अन्योन्यपरिघट्टनैः सृष्टिपरिवृत्तिरित्यर्थः ॥
३९ ॥

आविर्भावतिरोभावैरुन्मज्जननिमज्जनैः ।
सृष्टयः परिवर्तन्ते तरङ्गिण्या इवोर्मयः ॥ ४० ॥

तत्रापि तेहुमाह - आविर्भावेति । रजस आविर्भावे सृष्टेरुन्मज्जनं
सत्त्वतमसोर्निमज्जनं तमस आविर्भावेन रजसस्तिरोभावे
सृष्टेर्निमज्जनमन्तरा सत्त्वाविर्भावे तावत्कालं पालनमिति हेतुपरिवृत्त्या
परिवर्तन्त इत्यर्थः ॥ ४० ॥

निर्यान्त्यविरतं तस्मात्परस्माज्जिवराशयः ।
अनिर्देश्याः स्वसंवेद्यास्तत्रैवाशु स्फुरन्ति च ॥ ४१ ॥

गुणाधीनान्तःकरणादिषृष्ट्या
तदुपाधिकजीवनिर्मगमप्रसिद्धिरित्याशयेनाह - निर्यान्तीति । तत्र
परस्मिन्नेव स्फुरन्ति स्फुटं व्यवहरन्ति च ॥ ४१ ॥

दीपादिवालोकदृशः सूर्यादिव मरीचयः ।
कणास्तप्तायस इव स्फुलिङ्गा इव पावकात् ॥ ४२ ॥

तत्र श्रुत्यादिप्रसिद्धदृष्टान्तमाह - दीपादिति ॥ ४२ ॥

कालादिवर्तवश्चित्रा आमोदाः कुसुमादिव ।
शीतला इव वर्षाणुपूरादब्धेरिवोर्मयः ॥ ४३ ॥

शीतलास्तुषारा इव ॥ ४३ ॥

उत्पत्त्योत्पत्त्य कालेन भुक्त्वा देहपरम्पराम् ।
स्वत एव पदे यान्ति निलयं जीवराशयः ॥ ४४ ॥

प्रलये शान्ते पदे बीजभूते । निलयं निलीनताम् ॥ ४४ ॥

अविरतमियमातता तथोच्चै-
र्भवति विनश्यति वर्धते मुधैव ।
त्रिभुवनरचनादिमोहमाया
परमपदे लहरीव वारिराशौ ॥ ४५ ॥

उक्तं जीवजगत्सर्गं सङ्क्षिप्योपसंहरति - अविरतमिति । इयं
त्रिभुवनरचनाभ्रान्तिलक्षणा माया परमपदे अविरतं सन्ततं मुधैव
आतता सर्गेण विस्तृता वर्धते तथा उच्चैर्भवति विपरिणमते विनश्यति च ।
वारिराशौ लहरीवेति मुधात्वे दृष्टान्तः ॥ ४५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे
जीवनिचयस्थानोपदेशो नाम त्रिचत्वारिंशः सर्गः ॥ ४३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
जीवनिचयस्थानोपदेशो नाम त्रिचत्वारिंशः सर्गः ॥ ४३ ॥