४२

द्विचत्वारिंशः सर्गः ४२

श्रीवसिष्ठ उवाच ।

कुपितस्यासतोऽप्यस्य प्रेक्षामात्रविनाशिनः ।
अविद्याविततव्याधेरौषधं शृणु राघव ॥ १ ॥

अनन्तशक्तेश्चिद्भूम्नो वासनाघनताक्रमात् ।
वर्ण्यते विस्तरेणात्र जीवावतरणक्रमः ॥ १ ॥

एवमविद्याव्याधिमुपवर्ण्य तच्चिकित्सोपायं बहुभिः सर्गैर्वक्तुं प्रतिजानीते

  • कुपितस्येति ॥ १ ॥

यां तां कथयितुं जातिं राम राजससात्त्विकीम् ।
मनोवीर्यविचारार्थं प्रस्तुतोऽस्मीह तां शृणु ॥ २ ॥

तदर्थं जीवावतरणक्रमं वर्णयितुं चत्वारिंशे सर्गे तासां
सम्यक्प्रवक्ष्यामि तावद्राजससात्त्विकीः इति यत्प्रतिज्ञातं तच्छेषवर्णनमिति
स्मारयति - यां तामिति ॥ २ ॥

यत्तदप्यमृतं ब्रह्म सर्वव्यापि निरामयम् ।
चिदाभासमनन्ताख्यमनादि विगतभ्रमम् ॥ ३ ॥

यत्तदपीति श्लोकस्तत्रैव व्याख्यातः ॥ ३ ॥

चित्स्पन्दवपुषस्तस्य [अत्र निस्पन्दवपुष इति पाठो युक्तः स्यात्]
स्पन्दस्तस्माच्चिदेव हि ।
प्रदेशाद्धनतामेति सौम्योऽब्धिश्चलनादिव ॥ ४ ॥

स्पन्दत इति स्पन्दश्चिदाभासः । प्रदेशादौपाधिकैकदेशात् । यथा सौम्य
एवाब्धिश्चलनात्तरङ्गादिघनतामेति तद्वत् ॥ ४ ॥

अन्तरब्धेर्जलं यद्वत्स्पन्दास्पन्दवदीहते ।
सर्वशक्तिस्तथैकत्र गच्छति स्पन्दशक्तिताम् ॥ ५ ॥

शक्तिवैचित्र्याणां
सत्त्वादिगुणोपचयापचयमिश्रणतारतम्यकृतत्वादुपचयादेश्च
राजसक्रियाशक्तिमूलकत्वात्प्रथमं क्रियाशक्त्युद्भवं दर्शयति -
अन्तरब्धेरिति ॥ ५ ॥

आत्मन्येवात्मना व्योम्नि यथा सरति मारुतः ।
तथेहात्मात्मशक्त्यैव स्वात्मन्येवैति लोलताम् ॥ ६ ॥

स्वतः कूटस्थेऽप्याध्यासिकचलनाविरोधमाह - आत्मन्येवेति ॥ ६ ॥

स्वशिखास्पन्दशक्त्यैव दीपः सौम्यो यथोन्नतम् ।
एति तद्वदसावात्मा तत्स्वे वपुषि वल्गति ॥ ७ ॥

स्पन्दशक्तेरस्पन्दप्रकाशशक्त्याप्यविरोधे दृष्टान्तमाह - दीप इति ।
सौम्यो वाय्वाद्यविक्षिप्तः उन्नतमूर्ध्वदेशमेति । वल्गति चलति प्रकाशयतीति
यावत् ॥ ७ ॥

जलान्तरेऽम्बुधिर्यद्वल्लसद्वारीव चञ्चलः ।
सर्वशक्तिर्वपुष्येव तथा स्पन्दविलासवान् ॥ ८ ॥

शरदातपादिसम्पर्काल्लसति स्फुरति वारिप्रदेशे चञ्चल इव न सर्वतस्तद्वदिति
कल्पितैकदेशे चलनारोपे दृष्टान्तः ॥ ८ ॥

यथोल्लसति भाश्चक्रैः कचन्कनकसागरः ।
तथात्मनि परिस्पन्दैः स्फुरत्यक्षैश्चिदर्णवः ॥ ९ ॥

परमार्थतोऽन्यथैव सतः कल्पितरूपान्तरेण स्फुरणेऽप्ययमेव दृष्टान्त
इत्याशयेनाह - यथेति । भासां शरदातपानां चक्रैः समूहैः कचन्
दीप्यन् द्रवीभूतकनकमिव सागरः स्फुरति । अक्षैरैन्द्रियकप्रकाशैः ॥ ९ ॥

लक्ष्यते मौक्तिकस्पन्दो यथा व्योम्नि दृशोऽदृशि ।
तथा भाति लसद्रूपा चिच्छक्तिश्चिन्महाम्बरे ॥ १० ॥

अतीन्द्रिये ऐन्द्रियकरूपस्फुरणेऽपि तमाह - लक्ष्यत इति । अदृशि अतीन्द्रिये ॥ १०

किञ्चित्क्षुभितरूपा सा चिच्छक्तिश्चिन्महार्णवे ।
तन्मयी चित्स्फुरत्यच्छा तत्रैवोर्मिरिवार्णवे ॥ ११ ॥

आत्मनोऽव्यतिरिक्तैव व्यतिरिक्तेव तिष्ठति ।
आलोकश्रीरिवालोककोटरे यत्ततां गता ॥ १२ ॥

ऐन्द्रियकचिच्छक्तिः परमार्थचिदेव जन्यतारोप एव केवलमौपाधिक
इत्याशयेनाह - आत्मन इति । अव्यतिरिक्तैवेति च्छेदः । आलोककोटरे
सूचीपाशादिकल्पितालोकच्छिद्रे । यत्ततां उपाधिपारवश्यम् ॥ १२ ॥

क्षणं स्फुरति सा देवी सर्वशक्तितया तया ।
चेतति स्वां स्वयं शक्तिं कलेन्दोः शीततामिव ॥ १३ ॥

अत एव तस्याः कालिकपरिच्छेदः शक्तिशक्तिमत्तादिभेदविभावनं
चोपपन्नमित्याशयेनाह - क्षणमिति ॥ १३ ॥

उदितैषा प्रकाशाख्या चिच्छक्तिः परमात्मनः ।
देशकालक्रियाशक्तिर्वयस्याः सम्प्रकर्षति ॥ १४ ॥

शक्त्यन्तराणां चिच्छक्त्युदयाधीनैव प्रवृत्तिर्न स्वातन्त्र्येणेत्याह -
उदितेति । वयस्याः सखीः ॥ १४ ॥

स्वस्वभावं विदित्वैवमनाद्यन्तपदे स्थिता ।
रूपं परिमितेवासौ भावयत्यविभाविता ॥ १५ ॥

एवं स्वस्वभावं विदित्वा अनाद्यन्तपदे स्थिता भवति । अविभाविता सती
एवमुक्तलक्षणं कल्पितरूपं भ्रान्त्या स्वस्वभावं गृहीत्वा परिमिता
परिच्छिन्नास्मीति स्वात्मानं भावयति । दृढं वासयतीत्यर्थः ॥ १५ ॥

यदैवम्भावितं रूपं तया परमसत्तया ।
तदैवैनामनुगता नामसङ्ख्यादिका दृशः ॥ १६ ॥

नामेति । तथाच श्रुतिः प्राणन्नेव प्राणो नाम भवति
वदन्वाक्पश्यंश्चक्षुः इति । सङ्ख्या रूपभेदाः ।
आदिपदादिष्टानिष्टादिसर्वजगत्कल्पना गृह्यन्ते ॥ १६ ॥

चिदेवैतदवस्त्वेव व्यतिरिक्ता तथात्मनः ।
अनन्ता तद्गतैवाशु लहरीव महार्णवात् ॥ १७ ॥

एवञ्च चिति कल्पितस्य सर्वस्य चिन्मात्रतैव परमार्थरूपमिति फलितमित्याह ##-
शेषः ॥ १७ ॥

यथा कटककेयूरैर्भेदो हेम्नो विलक्षणः ।
तथात्मनश्चितो रूपं भावयन्त्याः स्वमांशिकम् ॥ १८ ॥

आंशिकं अंशकल्पनाधीनं सर्वजगद्रूपमित्यर्थः ॥ १८ ॥

यथा दीपेन दीपानां जातानामात्मनां तथा ।
देशकालकलामात्रभेदः स्वाभाविकश्चितेः ॥ १९ ॥

वर्तिकाद्युपाधिदेशेन देशः तत्कालेन कालस्तत्कलाभिस्तदवयवैः कलाश्चेति
तन्मात्रयुक्तो भेदो न दीपाग्निस्वरूपे तथा चितेरपि उपाधिस्वभावादागतः
स्वाभाविकः ॥ १९ ॥

देशकालपरिस्पन्दशक्तिसन्दीपिताथ चित् ।
सङ्कल्पमनुधावन्ती प्रयाति कलनापदम् ॥ २० ॥

दृष्टान्तोक्तं चित्युपपादयति - देशेति ॥ २० ॥

विकल्पकलिताकारं देशकालक्रियास्पदम् ।
चितो रूपं महाबाहो क्षेत्रज्ञ इति कथ्यते ॥ २१ ॥

अत एव क्षेत्रोपाधिकल्पनाधीनं चितः क्षेत्रज्ञत्वं प्रसिद्धमित्याह -
विकल्पेति ॥ २१ ॥

क्षेत्रं शरीरमित्याहुस्तदसौ वेत्त्यखण्डितम् ।
सबाह्याभ्यन्तरं तेन क्षेत्रज्ञ इति कथ्यते ॥ २२ ॥

वासनां कलयन्सोऽपि यात्यहङ्कारतां पुनः ।
अहङ्कारोऽपि निर्णेता कलङ्की बुद्धिरुच्यते ॥ २३ ॥

क्षेत्रकल्पनाक्रमं दर्शयति - वासनामित्यादिना । निर्णेता अध्यवसाता । अत
एव कल्पनान्तरकलङ्की ॥ २३ ॥

बुद्धिः सङ्कल्पकलिता प्रयाति मनसः पदम् ।
मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः ॥ २४ ॥

पाणिपादमयं देहमिन्द्रियाणि विदुर्बुधाः ।
देहोऽसौ ज्ञायते लोके सूयतेऽपि च जीवति ॥ २५ ॥

देहं देहतां गच्छन्तीति विपरिणम्यानुषज्जते ॥ २५ ॥

एवं जीवो हि सङ्कल्पवासनारज्जुवेष्टितः ।
दुःखजालपरीतात्मा क्रमादायाति चित्तताम् ॥ २६ ॥

चित्ततां बाह्यार्थचेतनसमर्थताम् ॥ २६ ॥

क्रमेण पाकवशतः फलमेति यथान्यताम् ।
अवस्थयैव नाकृत्या जीवो मलवशात्तथा ॥ २७ ॥

फलं बदरादि । अन्यतां वैलक्षण्यम् । अवस्थया
रूपरसपरिणामादिगुणपरावृत्त्यैव न त्वाकृत्या बदरत्वादिजात्या तथा
जीवः क्षेत्रज्ञोऽप्यविद्यामलपरिणामवशाद्वैलक्षण्यं याति
नापरिणामिचित्स्वभावेनेत्यर्थः ॥ २७ ॥

जीवोऽहङ्कारतां प्राप्तस्त्वहङ्कारश्च बुद्धिताम् ।
सङ्कल्पजालकलितां मनस्तां बुद्धिरागता ॥ २८ ॥

एवं क्षेत्रसिद्धिमुपवर्ण्य जीवस्याहङ्कारादिक्षेत्रे
तादात्म्यसंसर्गाध्यासलक्षणं बन्धं क्रमेणाह - जीव इत्यादिना ॥ २८ ॥

मनो हि सङ्कल्पमयं संस्थाग्रहणतत्परम् ।
प्रतियोगिव्यवच्छिन्नप्राप्तिसत्यैरपीहितैः ॥ २९ ॥

संस्थानं संस्था स्त्रीपुत्रादिशरीराकारस्तस्य ग्रहणे तदाकारवृत्तिद्वारा
संस्कारात्मना धारणे तत्परम् । सत्यैः सफलैः अपिशब्दाद्विफलैरपि
ईहितैर्मनोरथैः प्रतियोगिभ्यो वस्त्वन्तरेभ्यो व्यवच्छिन्ना व्यावृत्ता
प्राप्तिरर्थग्रहो यस्य । परिच्छिन्नतुच्छविषयासक्तं भवतीत्यर्थः ॥ २९ ॥

इच्छाद्याः शक्तयश्चेतो गावो वृषमिवोन्मदम् ।

तदासक्तौ तान्विषयान्पुनःपुनः स्मरच्चित्तभावापन्नं
रागद्वेषादिदोषैरास्कन्द्यत इत्याह - इच्छाद्या इति । अनुधावन्त्यनुसरन्ति ॥
३० ॥

इति शक्तिमयं चेतो घनाहङ्कारतां गतम् ।
कोशकारक्रिमिरिव स्वेच्छया याति बन्धनम् ॥ ३१ ॥

इति उक्तक्रमेण रागद्वेषादिशक्तिप्रचुरं चेतः
शाखाप्ररोहशतकोटिभिरभिमानवृद्ध्या घनाहङ्कारतां गतं सत् ॥ ३१

स्वसङ्कल्पानुसन्धानात्पाशैरिव नयन्वपुः ।
कष्टमस्मिन्स्वयं बन्धमेत्यात्मा परितप्यते ॥ ३२ ॥

पाशैर्बडिशजालादिपाशैः स्ववपुर्मृत्यवे नयन्मत्स्यादिरिव एत्य प्राप्य ।
आत्मा मनः प्रकृतत्वात् ॥ ३२ ॥

बद्धमस्मीति कल्यद्विद्यातत्त्वं जहच्छनैः ।
अविद्यां जनयत्यन्तर्जगज्जङ्गलराक्षसीम् ॥ ३३ ॥

अस्मीति कलयत् परमार्थसत्यमिति पश्यत् । विद्यातत्त्वं पारमार्थिकमात्मरूपं
जहत् त्यजत् । स्वप्नेऽप्यविचारयदिति यावत् । अविद्यां
जन्ममरणादिभ्रान्तिपरम्पराम् ॥ ३३ ॥

स्वसङ्कल्पिततन्मात्रज्वालाभ्यन्तरवर्ति च ।
परां विवशतामेति शृङ्खलाबद्धसिंहवत् ॥ ३४ ॥

तन्मात्राणि शब्दादिविषयास्तदिन्धना रागादिज्वालास्तदभ्यन्तरवर्ति मनः ।
चकारः पूर्वोक्ताविद्यान्तसमुच्चयार्थः ॥ ३४ ॥

विचित्रकार्यकर्तृत्वमाहरद्वासनावशात् ।
स्वेच्छामात्रानुरचिता दशाश्चानुपतत्तथा ॥ ३५ ॥

विचित्राणां विहितनिषिद्धनानारूपाणां कार्याणां कर्मणां
कर्तृत्वमाहरद्यत्नैः सम्पादयत् । दशाः नानायोनिनरकादिदुर्दशाः
वक्ष्यमाणमननादिदशाश्च अनुपतद्विवशतामेतीति प्राक्तनेनान्वयः ॥ ३५ ॥

क्वचिन्मनः क्वचिद्बुद्धिः क्वचिज्ज्ञानं क्वचित्क्रियाः ।
क्वचिदेतदहङ्कारः क्वचित्पुर्यष्टकं स्मृतम् ॥ ३६ ॥

तस्यैव मननादिवृत्तिभेदैर्मन आदिशब्दभाक्त्वं नान्यस्येत्याह -
क्वचिदित्यादिना ॥ ३६ ॥

क्वचित्प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम् ।
क्वचिन्मलमिति प्रोक्तं क्वचित्कर्मेति संस्थितम् ॥ ३७ ॥

क्वचिद्बन्धमिति ख्यातं क्वचिच्चित्तमिति स्फुटम् ।
प्रोक्तं क्वचिदविद्येति क्वचिदिच्छेति संस्थितम् ॥ ३८ ॥

तदेतदाबद्धमिह चित्तं राघव दुःखितम् ।
तृष्णाशोकसमाविष्टं रागायतनमाततम् ॥ ३९ ॥

तथाच बद्धत्वमपि तस्यैव नात्मन इति प्रपञ्चयति - तदेतदित्यादिना ॥ ३९ ॥

जरामरणमोहान्तर्भवभावनयाहतम् ।
ईहितानीहितैर्ग्रस्तमविद्यारागरञ्जितम् ॥ ४० ॥

इच्छासङ्क्षुभिताकारं कर्मवृक्षवनाङ्कुरम् ।
सुविस्मृतोत्पत्तिपदं कल्पितानर्थकल्पितम् ॥ ४१ ॥

सुष्ठु विस्मृतं स्वोत्पत्तिनिमित्तं परमात्मपदं येन ॥ ४१ ॥

कोशकारवदाबद्धं शोकाकारपदं गतम् ।
तन्मात्रवृन्दावयवमनन्तनरकातपम् ॥ ४२ ॥

स्वदृश्यमपि शैलेन्द्रसमभारभयावहम् ।
जरामरणशाखाढ्यं संसारविषदुर्द्रुमम् ॥ ४३ ॥

स्वस्यात्मनो दृश्यमपि अनात्मत्वेन ज्ञातुं योग्यमपि दुर्विवेकत्वेन
दुरुद्धरत्वाच्छैलेन्द्रसमेन भारेण गौरवेण भयावहम् । विषमयं
दुर्द्रुमं दुष्टवृक्षम् ॥ ४३ ॥

इमं संसारमखिलमाशापाशविधायकम् ।
दधदन्तः फलैर्हीनं वटधाना वटं यथा ॥ ४४ ॥

फलैः पुरुषार्थैर्हीनम् ॥ ४४ ॥

चिन्तानलशिखादग्धं कोपाजगरचर्वितम् ।
कामाब्धिकल्लोलहतं विस्मृतात्मपितामहम् ॥ ४५ ॥

विस्मृतः आत्मस्वरूपः पितामहो मूलकारणं येन ॥ ४५ ॥

मृगं यूथादिव भ्रष्टं शोकोपहतचेतनम् ।
पतङ्गकमिव ज्वालादग्धं विषयपावके ॥ ४६ ॥

छिन्नमूलमिवाम्भोजं परमां म्लानिमागतम् ।
छिन्नाङ्गमात्मनः स्थानाद्विशेषासङ्गदुःस्थितम् ॥ ४७ ॥

आत्मनः स्वस्य स्थानान्निवासभूताद्देहभेदान्मृत्युनापनयने
तत्तद्देहाभिमानविच्छेदाच्छिन्नाङ्गम् । अत एव
तत्तद्देहविशेषासङ्गाद्दुःस्थितम् ॥ ४७ ॥

विषयादिषु मध्यस्थं चित्ररूपेषु शत्रुषु ।
दशास्वेतास्वनन्तासु लुठितं सङ्कटास्विति ॥ ४८ ॥

विषयेन्द्रियदेहादिलक्षणेषु चित्ररूपेषु नानावैचित्र्यैः स्ववधोद्यतेषु शत्रुषु
तद्विश्वासेन तन्मध्यस्थम् । इति प्रपञ्चितप्रकारास्वित्यर्थः ॥ ४८ ॥

दुःखे निपतितं घोरे विहङ्गः सागरे यथा ।
स्वबन्धास्थं जगज्जाले शून्ये गन्धर्वपत्तने ॥ ४९ ॥

स्वस्य बन्धे बन्धनहेतौ तत्साधनदेहादौ च आस्था स्नेहातिशयो यस्य तत् ॥ ४९

उह्यमानमनास्थाब्धौ मनो विषयविद्रुतम् ।
उद्धरामरसङ्काश मातङ्गमिव कर्दमात् ॥ ५० ॥

तत्त्वज्ञानतत्साधनादावनास्थानादरस्तद्रूपेऽब्धावुह्यमानं प्लवमानं
मनस्तदास्थोपोद्बलनेनोद्धर ॥ ५० ॥

बलीवर्दवदामग्नं मनो मदनपल्वले ।
आलूनशीर्णावयवं बलाद्राम समुद्धर ॥ ५१ ॥

चिरविषयभोगप्रयुक्तपुण्यक्षये
परलोकगतिसाधनाभावादालूनशीर्णपादाद्यवयवप्रायम् । बलीवर्दपक्षे
स्पष्टम् ॥ ५१ ॥

शुभाशुभप्रसरपराहताकृतौ
ज्वलज्जरामरणविषादमूर्च्छिते ।
व्यथेह यस्य मनसि भो न जायते
नराकृतिर्जगति स राम राक्षसः ॥ ५२ ॥

प्रागुक्तानास्था परनिन्दनेनोपसंहरति - शुभाशुभेति । शुभानां
काम्यसुकृतानामशुभानां निषिद्धकर्मणां च प्रसरैः पराहता
मलिनीकृता आकृतिर्यस्य । ज्वलद्भिर्जरामरणविषादैर्मूर्च्छिते ईदृशे
स्वमनसि सति यस्य व्यथा तदुद्धारफलचिन्ताप्रयुक्तपीडा न जायते स पुमान्
नराकृतिप्रतिच्छन्नो राक्षस एवेत्यर्थः ॥ ५२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे
जीवावतरणं नाम द्विचत्वारिंशः सर्गः ॥ ४२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे जीवावतरणं
नाम द्विचत्वारिंशः सर्गः ॥ ४२ ॥