४१

एकचत्वारिंशः सर्गः ४१

श्रीराम उवाच ।

क्षीरोदकुक्षितुल्याभिः शीतलामलदीप्तिभिः ।
तवोक्तिभिर्विचित्राभिर्गम्भीराभिरिवाभितः ॥ १ ॥

कलनादिविशेषाणां माया मूलमिहोच्यते ।
दुर्वचा सा चिकित्स्यैव न विचिन्त्या मृषेत्यपि ॥ १ ॥

पूर्व सर्वत्र कलनैव मन आदिद्वैतकल्पनाया मूलमित्युक्तम् इदानीं
निर्विकारेऽद्वये कलनाया निमित्तमसम्भावयंस्तत्प्रष्टुकामो रामो
गुरोरादराय प्राक्तनोक्तीः प्रशंसमानः प्रथमं स्वव्यामोहमुद्गिरति ##-
चन्द्रतुल्याभिरित्यर्थः । अत एव शीतलामलदीप्तिभिरिति विशेषणम् । आन्ध्यं
व्यामोहतमः । प्रावृषि लोलान्यभ्राणि यस्मिन् ॥ १ ॥

क्षणमान्ध्यमिवाप्नोमि क्षणं यामि प्रकाशताम् ।
शान्तातपलवः प्रावृड्लोलाभ्र इव वासरः ॥ २ ॥

अनन्तस्याप्रमेयस्य सर्वस्यैकस्य भास्वतः ।
अनस्तमितसारस्य कलना कथमागता ॥ ३ ॥

अनन्तत्वादेवाप्रमेयस्य प्रमाणापरिच्छेद्यस्य । सर्वस्य पूर्णस्य । भास्वतः
स्वतः सदा प्रथमानस्य । न अस्तमितः सारः परमार्थस्वरूपप्रथा यस्य ।
तथाच प्रथमानेऽद्वितीयपूर्णस्वभावे परिच्छिन्नकलनात्मको विकारो वस्तुतः
कल्पनया वा न सम्भाव्य इति तत्र हेतुर्वाच्य इत्यर्थः ॥ ३ ॥

श्रीवसिष्ठ उवाच ।

यथाभूतार्थवाक्यार्थाः सर्वा एव ममोक्तयः ।
नासमर्था विरूपार्थाः पूर्वापरविरोधदाः ॥ ४ ॥

तवायं व्यामोहो न मद्वाक्यदोषात्किन्तु ते तात्पर्यानवधानदोषादेवेति
दर्शयन्वसिष्ठः समाधत्ते - यथाभूतेत्यादिना । यथाभूतो
यथास्थितोऽर्थ एव वाक्यार्थो यासाम् । असामर्थ्य
पदानामाकाङ्क्षायोग्यतासत्तिराहित्यम् । वैरूप्यं तु अवान्तरवाक्यानां
महावाक्यार्थापर्यवसानम् । विरोध उपक्रमोपसंहारयोः
परस्परव्याघातस्तैर्वर्जिता इत्यर्थः ॥ ४ ॥

ज्ञानदृष्टौ प्रसन्नायां प्रबोधे विततोदये ।
यथावज्ज्ञास्यसि स्वस्थो मद्वाग्दृष्टिबलाबलम् ॥ ५ ॥

कदा तर्हि मम तात्पर्यावधानं स्यात्तत्राह - ज्ञानदृष्टाविति ।
मद्वाचां तत्प्रयुक्ततत्त्वदृष्टेश्च इतरवाग्दृष्ट्यपेक्षया बलाबलं
प्राबल्यम् ॥ ५ ॥

उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये ।
शब्दार्थवाक्यरचनाभ्रमो मा तन्मयो भव ॥ ६ ॥

ननु यथा स्वमाता वन्ध्या स्वमुखे जिह्वा नास्ति मूकोऽहमिति वाक्यं
हेतुस्वसत्ताबाधितार्थकं तथा नेह नानास्ति किञ्चन एकमेवाद्वितीयम्
इत्यादिश्रुतिशास्त्रं तद्वाक्यानि चेति कथं विरोधपरिहार इति चेत्तत्राह -
उपदेश्येति । असत्यस्यापि स्वप्नादेः
सत्यार्थप्रतिपत्त्युपायतादर्शनान्मिथ्याभूतशब्दार्थवाक्यरचनाभ्रमोऽपि
सत्यशास्त्रार्थप्रतिपत्तिहेतुः सम्भवतीति व्यामूढतया तन्मयो भ्रममयो
मा भवेत्यर्थः ॥ ६ ॥

यदा पुरा ज्ञास्यसि तत्सत्यमत्यन्तनिर्मलम् ।
वाच्यवाचकशब्दार्थभेदं त्यक्ष्यसि वै तदा ॥ ७ ॥

कियत्कालं तर्हि शब्दार्थवाक्यरचनाभ्रमोऽनुसर्तव्यस्तत्राह - यदेति ।
यावद्वाक्यार्थापरोक्षोदयमिति भावः ॥ ७ ॥

भेदकृद्वाक्प्रपञ्चोऽयमुपदेश्येषु कल्पितः ।
उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये ॥ ८ ॥

तत्कुतस्तत्राह - भेदेति द्वाभ्याम् ॥ ८ ॥

शब्दार्थवाक्प्रपञ्चोऽयमुपदेशेषु कल्पितः ।
सदाऽज्ञेषु न तज्ज्ञेषु विद्यते पारमार्थिकः ॥ ९ ॥

कलनामलमोहादि किञ्चिन्नात्मनि विद्यते ।
नीरागं ब्रह्म परमं तदेवेदं जगत्स्थितम् ॥ १० ॥

प्रागुक्ता कलना चितश्चेत्योन्मुखता । तन्निमित्ते मले पूर्वसंस्कारकर्मणी ।
मोहोऽविद्या ॥ १० ॥

एतद्विचित्ररूपाभिर्युक्तिभिर्बहुशः पुनः ।
विस्तरेणैव वक्तव्यं सिद्धान्तावसरेऽनघ ॥ ११ ॥

सिद्धान्तावसरे असम्भावनोच्छेदानन्तरं निर्वाणप्रकरणे ॥ ११ ॥

वाक्प्रपञ्चं विना त्वेतदज्ञानमतुलं तमः ।
भेत्तुमन्योन्यमुदितं यत्नं कर्तुं न शक्यते ॥ १२ ॥

तर्हीदानीन्तनो वाक्प्रपञ्चस्ते किमर्थस्तत्राह - वाक्प्रपञ्चमिति ।
अज्ञानं साधनाज्ञानं अतुलं तमोमूलाज्ञानं चान्योन्यं
परस्परसहायेन भ्रान्तिसहस्रशाखाप्ररोहैरुदितं प्ररूढं भेत्तुं
तत्साधनेषु यत्नं कर्तुं च न शक्यत इत्यर्थः ॥ १२ ॥

अविद्ययैवोत्तमया स्वात्मनाशोद्यमेच्छया ।
विद्या सा प्रार्थ्यते राम सर्वदोषापहारिणी ॥ १३ ॥

तर्हि उपदेशवाक्प्रपञ्चस्य
तज्जन्यविद्यायाश्चाविद्याकार्यत्वाविशेषात्कथमविद्याविरोधिता
स्वविरोधिविद्यां वा कथमविद्या प्रार्थयेदिति चेत्तत्राह - अविद्ययैवेति ।
उत्तमया बहुजन्मसञ्चितसुकृतविशुद्धान्तःकरणाकारपरिणतया । तथाच
स्वशरीरविरोधेऽपि स्वात्महितत्वाद्विवेकिन्याः पतिव्रतायाः पतिचितारोहणेनेव
तत्प्रार्थनोपपत्तिरिति भावः ॥ १३ ॥

शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलः ।
शमं विषं विषेणैति रिपुणा हन्यते रिपुः ॥ १४ ॥

विरोधितामुपपादयति - शाम्यतीति । मलेन क्षारेण ॥ १४ ॥

ईदृशी राम मायेयं यां स्वनाशेन हर्षदा ।
न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैव नश्यति ॥ १५ ॥

तस्याः स्वनाशकत्वे कर्मकर्तृताविरोधमाशङ्क्य क्रियायां स विरोधो न
ज्ञानेनाज्ञानबाधे इत्याशयेनाह - ईदृशीति ॥ १५ ॥

विवेकमाच्छादयति जगन्ति जनयत्यलम् ।
नच विज्ञायते कैषा पश्याश्चर्यमिदं जगत् ॥ १६ ॥

तस्या असम्भावितानन्तकार्यदर्शनादपि न विरोधसम्भावनेत्याशयेनाह ##-

अप्रेक्ष्यमाणा स्फुरति प्रेक्षिता तु विनश्यति ।
मायेयमपरिज्ञायमानरूपैव वल्गति ॥ १७ ॥

अहो नु खलु चित्रेयं माया संसारबन्धनी ।
असत्येवातिसत्येव स्वज्ञानं विहितं तया ॥ १८ ॥

अत्यभिन्नपदे तस्मिंस्तन्वाना भेदमाततम् ।
संसारमाया येनासौ तेनासौ पुरुषोत्तमः ॥ १९ ॥

येन हेतुना असौ अक्षराख्या माया तस्मिन् अत्यभिन्नपदे आत्मनि क्षरात्मकं
आततं सर्वतो विस्तृतं तन्वाना आस्ते तेन हेतुना असौ
क्षराक्षरलक्षणपुरुषातीत आत्मा पुरुषोत्तम इत्यर्थः ॥ १९ ॥

नास्त्येषा परमार्थे न त्वेवं भावनयेद्धया ।
ज्ञो भूत्वा ज्ञेयसम्प्राप्तो ज्ञास्यस्यस्यास्त्वमाशयम् ॥ २० ॥

एषा माया परमार्थे न वस्तुवृत्या तु नास्ति एवं भावनया इद्धया
आचार्यश्रुतितर्कस्वानुभवाभ्यासप्रदीपितया त्वं ज्ञस्तत्त्वविद्भूत्वा ज्ञेयं
स्वात्मवास्तवरूपं विस्मृतकण्ठचामीकरवत् सम्प्राप्तः सन्नस्या
मदुक्तेराशयं ज्ञास्यसि सम्भावयिष्यसि ॥ २० ॥

यावत्तु न प्रबुद्धस्त्वं तावन्मद्वचसैव ते ।
निश्चयो भवतूद्दामो नास्त्यविद्येति निश्चलः ॥ २१ ॥

इदानीं तु मद्वचनविश्वासात्परोक्षकल्प एव मदुक्तोऽर्थो ग्राह्य इत्याह -
यावदिति ॥ २१ ॥

यदिदं दृश्यतां यातं मानसं मननं महत् ।
असन्मात्रमिदं यस्मान्मनोमात्रविजृम्भितम् ॥ २२ ॥

निश्चयस्य निश्चलतासम्पादने उपायमाह - यदिदमिति ॥ २२ ॥

सत्तद्ब्रह्मेति यस्यान्तर्निश्चयः सोऽपि मोक्षभाक् ।
चलाचलाकृतिर्या या दृष्टिराबद्धभावना ॥ २३ ॥

मानसं मनोवृत्तिरूपं यदिदं दृश्यतां साक्षिप्रत्ययवेद्यतां यातं
सर्वव्यवहारबीजत्वान्महत् मननं अतीतानागतानेकार्थप्रतिसन्धानं इदं
असन्मात्रं असदेवेत्यर्थः । तत्र हेतुमाह - यस्मादिति । मनननिरासे मनो
निरिन्धनाग्निवत्स्वयमेव शाम्यतीति ब्रह्मसन्मात्रपरिशेषे
प्रागुक्तनिश्चयनैश्चल्यात्पुरुषार्थसिद्धिरित्याशयेनाह - सत्तदिति ।
उक्तमर्थं स्थिरिकर्तुं बाह्यार्थमननदृष्टीनां बन्धहेतुतामाह -
चलाचलेति ॥ २३ ॥

सा समग्रजगद्भूतखगबन्धनवागुरा ।
यः स्वप्नभूमिवद्भ्रान्तमसत्सद्व्येकनिश्चयः ॥ २४ ॥

समस्ते जगति भूतखगानां जीवपक्षिणाम् । असति अनागतातीते सति वर्तमाने चेति
द्विरूपेऽपि मननविषये सदेवेदमसदेवेदमिति वा एकरूपो दृढनिश्चयो यस्य
तथाविधो योऽधिकारी जगत्स्वप्नभूमिवद्भ्रान्तिमात्रमिति पश्यति स न
निमज्जतीत्यर्थः ॥ २४ ॥

जगत्पश्यत्यसक्तात्मा न स दुःखे निमज्जति ।
यस्यैतास्वस्वरूपासु भावना स्वात्मभावना ॥ २५ ॥

कस्तर्हि निमज्जति तमाह - यस्येति । अस्वरूपासु मिथ्याभृतासु
देहेन्द्रियादिद्वैतभावनासु आत्मभावना अहमिति बुद्धिः ॥ २५ ॥

अस्वरूपस्य तस्यापि सा ह्यविद्यैव विद्यते ।
विकारितादयो दोषा न केचन महात्मनि ॥ २६ ॥

मिथ्यात्मदर्शिनस्तस्य अविद्यामज्जनमेव दण्ड इत्याशयेनाह -
अस्वरूपस्येति ॥ २६ ॥

परमात्मनि विद्यन्ते पयसीवेह पांसवः ।
भावनाशब्दशब्दार्थरञ्जनेयं जगद्गता ॥ २७ ॥

तर्हि तत्त्वविदां पूर्वापरार्थभावनाभावाद्व्यवहारासिद्धिरित्याशङ्क्याह

  • भावनेति । शब्देषु नामसु शब्दार्थेषु रूपेषु च स्फटिकवद्रञ्जना
    तात्कालिकानुषङ्गः ॥ २७ ॥

व्यवहारार्थमुत्पन्ना व्यतिरिक्ता च नात्मनः ।
अनेन व्यवहारेण विनैताः शास्त्रदृष्टयः ॥ २८ ॥

संस्थितिं नाधिगच्छन्ति पटा इव वितन्तवः ।
उह्यमानो ह्यविद्यायामात्मा नेहोपलक्ष्यते ॥ २९ ॥

यद्यविद्यादि नास्त्येव तर्हि किमर्थं शास्त्रमिति चेत्तत्राह - उह्यमान इति ।
अविद्यानद्यां उह्यमानः प्रवाह्यमाण आत्मा आत्मज्ञानादृते
नैवोपलक्ष्यते अनुभूयते ॥ २९ ॥

आत्मज्ञानादृते तच्च शास्त्रार्थात्समवाप्यते ।
अविद्यासरितः पारमात्मलाभादृते किल ॥ ३० ॥

तच्च आत्मज्ञानं तु ॥ ३० ॥

राम नासाद्यते तद्धि पदमक्षयमुच्यते ।
यतःकुतश्चिज्जातेयमविद्या मलदायिनी ॥ ३१ ॥

नन्वियमविद्या परमात्मनि कुतो जाता तत्राह - यतःकुतश्चिदिति ॥ ३१ ॥

नूनं स्थितिमुपायाता समासाद्य पदं स्थिता ।
कुतो जातेयमिति ते राम मास्तु विचारणा ॥ ३२ ॥

इमां कथमहं हन्मीत्येषा तेऽस्तु विचारणा ।
अस्तं गतायां क्षीणायामस्यां ज्ञास्यसि राघव ॥ ३३ ॥

तर्हीयमनादिरुत सादिः । आद्ये आत्मवन्नित्या स्यात् द्वितीये तु हेतुर्वाच्यः । एवं
किं सत्या उतासत्या । आद्येऽज्ञानादनिवृत्तिः द्वितीये
संवादिव्यवहारहेतुत्वानुपपत्तिरित्याद्याशङ्कासहस्रस्यापि तन्नाशादेव
निवृत्तिरित्याशयेनाह - अस्तं गतायामिति ॥ ३३ ॥

यत एषा यथा चैषा यथा नष्टेत्यखण्डितम् ।
वस्तुतः किल नास्त्येषा विभात्येषा न वेक्षिता ॥ ३४ ॥

असतो भ्रान्ततां सत्यरूपां जानातु कः कुतः ।
जातेयं प्रौढिमापन्ना दोषायैवातताकृतिः ॥ ३५ ॥

असतः सत्यवद्विमर्शः स्वाप्नपुरुषगोत्रचिन्तावद्वृथैवेत्याशयेनाह -
असत इति ॥ ३५ ॥

बलात्प्रणाशय त्वेनां परिज्ञास्यसि वै ततः ।
अपि शूरा अतिप्राज्ञास्ते न सन्ति जगत्त्रये ॥ ३६ ॥

तर्हि स्वाप्नपुरुषवधोद्योगवत्तन्निवृत्तौ यत्नातिशयो वृथेत्याशङ्क्य
तद्विलक्षणमनर्थप्राबल्यमाह - अपीति ॥ ३६ ॥

अविद्यया ये पुरुषा न नाम विवशीकृताः ।
तदस्या रोगशीलाया यत्नं कुरु विनाशने ॥ ३७ ॥

यथैषा जन्मदुःखेषु न भूयस्त्वां नियोक्ष्यति ।
सर्वापदामेकसखीमज्ञानतरुमञ्जरीम् ।
अनर्थसार्थजननीमविद्यामलमुद्धर ॥ ३८ ॥

भयविषाददुराधिविपत्प्रदां
हृदयमोहमहापटलाङ्कुराम् ।
भृशमपास्य कुदृष्टिमिमां बला-
द्भव भवार्णवपारमुपागतः ॥ ३९ ॥

उपसंहरति - भयेति । हृदयपदेन तत्स्था आत्मदृष्टिरुपलक्ष्यते । तस्या
मोहलक्षणान्ध्यहेतूनां महतां पटलत्वक्स्थानीयानां
स्थूलदेहादीनामङ्कुरवत्कारणभूतां कुदृष्टिमविद्याम् ॥ ३९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे
अविद्याकथनं नामैकचत्वारिंशः सर्गः ॥ ४१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे अविद्याकथनं
नामैकचत्वारिंशः सर्गः ॥ ४१ ॥