४०

चत्वारिंशः सर्गः ४०

श्रीराम उवाच ।

उत्पत्तिः कथमेतेषां जीवानां ब्रह्मणः पदात् ।
कियती कीदृशी चेति विस्तरेण वद प्रभो ॥ १ ॥

वर्ण्यते जीवभेदानामिहोत्पत्तिरुपाधिभिः ।
तेषां तदुपधीनां च ब्रह्मभावश्च विस्तरात् ॥ १ ॥

प्रश्नः स्पष्टः । यद्यपि जीवभेदानामुत्पत्तिरुत्पत्तिप्रकरणे विस्तरेण वर्णितेति
न पुनः प्रश्नार्हा तथापि करिष्यमाणस्याक्षेपस्योत्थानाय विशेषबुभुत्सया
च पुनः प्रश्नो बोध्यः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

उत्पद्यन्ते यथा चित्रा ब्रह्मणो भूतजातयः ।
यथा नाशं प्रयान्त्येता यथा मुक्ता भवन्ति हि ॥ २ ॥

अत एव वसिष्ठः स्ऽङ्क्षिप्य तत्समाधिं प्रतिजानीते - उत्पद्यन्ते
इत्यादिद्वाभ्याम् ॥ २ ॥

यथा च परिवर्धन्ते तिष्ठन्त्यन्तर्हिता यथा ।
सङ्क्षेपेण महाबाणो शृणु वक्ष्यामि तेऽनघ ॥ ३ ॥

ब्राह्मी चिच्छक्तिरमला कल्पयन्ती यदृच्छया ।
सर्वशक्तिः स्वयं चेत्यं भवत्याकलनात्मकम् ॥ ४ ॥

कल्पनाबीजप्राक्तनवासनोद्बोधस्यानियतरूपताप्रदर्शनाय यदृच्छयेति ।
भाविदेहाद्याकारस्येवत्स्फुरणमाकलना तदात्मकम् ॥ ४ ॥

कलनाद्धनतामेत्य यत्किञ्चिदपि सा स्वयम् ।
सङ्कल्पयति पश्चात्तत्तत्तामेति मनःपदम् ॥ ५ ॥

तस्यैव सम्यगहम्भावेन स्फुरणं घनतामेत्य प्राप्य सा घनतैव मनो
जीवोपाधिश्चेत्याशयेनाह - मन इति ॥ ५ ॥

मनःसङ्कल्पमात्रेण गन्धर्वपुरवत्क्षणात् ।
तनोतीदमसद्दृश्यं ब्राह्मीं स्थितिमिव त्यजत् ॥ ६ ॥

ब्राह्मीं स्थितिं दृग्रूपतां दृश्याहङ्कारादिकल्पनया त्यजदिव ॥ ६ ॥

चित्स्वरूपं परिकचच्छून्यमेवावतिष्ठते ।
यत्तद्दृश्यं स्थितं तत्स्याद्दृश्यमाकाशमेव तत् ॥ ७ ॥

ततः किं वृत्तं तदाह - चित्स्वरूपमिति । परितः कचत् स्वप्रकाशमपि
चित्स्वरूपं पराग्दृष्ट्या दृश्यमानं शून्यं
रिक्तघटोदरसदृशमेवावभासते । तदवस्थया स्थितं तादृग्रूपमेव
सर्वजनदृश्यं तत्प्रसिद्धमाकाशमित्युच्यत इत्यर्थः ॥ ७ ॥

कृत्वा पद्मजसङ्कल्पं रूपं पश्यति पद्मजम् ।
ततो जगत्कल्पयति सप्रजापतिपूर्वकम् ॥ ८ ॥

तस्मिन्नाकाशे चतुर्मुखादिस्थूलदेहस्य भुवनानां च कल्पनां दर्शयति ##-

चतुर्दशविधानन्तभूतजातसघुङ्घुमा ।
सृष्टिरेवमियं राम चित्तनिर्मितिमागता ॥ ९ ॥

चित्तमात्रमयी शून्या व्योममात्रशरीरिका ।
सङ्कल्पमात्रनगरी भ्रान्तिमात्रात्मिका सती ॥ १० ॥

इत्थं चोपाध्युत्पत्तेर्मिथ्यात्वे तत्प्रयुक्ता जीवोत्पत्तिः सुतरां
मिथ्येत्याशयेनाह - चित्तमात्रेति ॥ १० ॥

इह काश्चिन्महामोहा भूतानां जातयः स्थिताः ।
काश्चिदभ्युदितज्ञानाः काश्चिन्मध्ये स्खलन्ति हि ॥ ११ ॥

तत्र शास्त्राधिकारिदौर्लभ्यप्रदर्शनाय जीवांस्त्रिधा विभजते - इहेति । इह
भुवनेषु । अभ्युदितज्ञानाः सनकादयः । मध्ये आन्तरालिकदशायां स्थिता
मोक्षाय यतमाना अपि पुनःपुनर्विघ्नैः स्खलन्ति ।
वैराग्यदार्ढ्याभावादित्यर्थः ॥ ११ ॥

भुवि सम्बध्यमानानां यान्त्येनामुपदेश्यताम् ।
सर्वासां भूतजातीनां या एता नरजातयः ॥ १२ ॥

क्व तर्हि शास्त्राधिकारप्रयोजकं वैराग्यं सुलभं तानाह - भुवीति ।
निर्धारणे षष्ठ्यः । एता भरतखण्डस्थाः ॥ १२ ॥

बह्वाधयो दुःखमया मोहद्वेषभयातुराः ।
तासां सम्यक्प्रवक्ष्यामि तावद्राजससात्त्विकीः ॥ १३ ॥

तासां वैराग्यसम्भवे हेतूनाह - वह्वाधय इति । तासां नरजातीनां
मध्ये तामसीनां शास्त्रानधिकारादुपदेशयोग्या
राजससात्त्विकीर्द्विचत्वारिंशे सर्गे जीवावतरणक्रमवर्णने
प्रवक्ष्यामीत्यर्थः ॥ १३ ॥

यत्तदप्यमृतं ब्रह्म सर्वव्यापि निरामयम् ।
चिदाभासमनन्ताख्यमनादि विगतभ्रमम् ॥ १४ ॥

यदमृतं ब्रह्म तच्चिदाभासं जीवरूपं यथा जातं तदपि तत्रैव
वक्ष्यामीत्यर्थः ॥ १४ ॥

निस्पन्दवपुषस्तस्य स्पन्दः सत्तैकदेशतः ।
घनतामेति सौम्येऽब्धौ चलता चलतामिव ॥ १५ ॥

निस्पन्दवपुषस्तस्य परमात्मनः । सौम्ये निश्चलेऽब्धौ चलतां तरङ्गाणां
चलता चाञ्चल्यमिव सत्तैकदेशतो जीवभावेन स्पन्दो यथा घनतामेति तथा
तदपि तत्रैव प्रवक्ष्यामीत्यर्थः ॥ १५ ॥

श्रीराम उवाच ।

अनन्तस्यात्मतत्त्वस्य एकदेशः क उच्यते ।
कथं विकारिता वा स्यात्कथं वा द्वयविक्रमः ॥ १६ ॥

स्पन्दः सत्तैकदेशत इति यदुक्तं तदयुक्तम् । अखण्डपूर्णसत्तैकरसे
ब्रह्मणि सत्तैकदेशस्य स्पन्दस्य चासम्भाव्यत्वादिति रामः शङ्कते -
अनन्तस्येति ॥ १६ ॥

श्रीवसिष्ठ उवाच ।

तेन जातं ततो जातमितीयं रचना गिराम् ।
शास्त्रसंव्यवहारार्थं न राम परमार्थतः ॥ १७ ॥

जीवब्रह्मैक्यस्य वास्तवस्य
व्युत्पादनायायमुत्पत्त्येकदेशस्पन्दादिव्यवहारः शास्त्रे कल्पितः अतो न
वस्तुवृत्त्याश्रयेण तस्यां विरोध उद्भावनीय इत्याशयेन वसिष्ठ
उत्तरमाह - तेन जातमित्यादिना । तेन निमित्तेन । तत उपादानात् ॥ १७ ॥

विकारितावयवितादिक्सत्तादेशतादयः ।
क्रमा न सम्भवन्तीशे दृश्यमानोदया अपि ॥ १८ ॥

कुतो न परमार्थतस्तत्राह - विकारितेति । देशता एकदेशता ।
दृश्यमानोदयाः प्रत्यक्षेणोत्पद्यमानतया दृश्यमाना अपि ॥ १८ ॥

तं विना कल्पनैवान्या नास्ति नापि भविष्यति ।
कुतस्त्यौ क्रमशब्दार्थावुक्तयो व्यवहारजाः ॥ १९ ॥

यदि तत्र न सम्भवन्ति तर्हि जगतामन्यदेव मूलं कल्प्यतां तत्राह - तं
विनेति । अन्यकल्पनाया अपि चित्प्रकाशं विनाऽयोगादित्यर्थः । हेतुकार्ये
क्रमशब्दार्थौ व्यवहारजा उक्तयश्च कुतस्त्या इति विपरिणम्यते ॥ १९ ॥

या येह कलना योऽर्थो यः शब्दो यो गिरां गणः ।
तज्जत्वात्तन्मयत्वाच्च तत्तत्पदमिवेष्यते ॥ २० ॥

शब्दो नामानि । गिरां गणो वाक्यानि । तन्मयत्वात्सन्मयत्वात् । पदं सद्वस्त्विव
॥ २० ॥

तज्जः स एव भवति वह्नेर्वह्निरिवोत्थितः ।
जन्योऽयं जनकश्चायमित्युक्ता भेदकल्पना ॥ २१ ॥

एवञ्च सत्ताभेदाभावाद्भेदप्रत्ययो मिथ्यैवेत्याह - तज्ज इत्यादिना ॥ २१ ॥

अयमस्मात्समुत्पन्न इतीयं या जगत्स्थितिः ।
आधिक्यं तत्क्रियाशक्तौ जन्यं जनकमेव वा ॥ २२ ॥

कथं तर्हि दीपाद्दीपान्तरमिदमुत्पन्नमिति व्यवहारस्तत्राह - अयमिति ।
एकस्यैव दीपस्य मायया द्विधा स्वरूपनिर्माणक्रियाशक्तौ
यदाधिक्यमतिशयस्तदेव जन्यं जनकमिति द्विधा भासत इत्यर्थः ॥ २२ ॥

इदमन्यदिदं चान्यदिति शब्दार्थविक्लवः ।
उक्तावेव न देवेऽस्ति प्रमितौ भिन्नता यतः ॥ २३ ॥

शब्दार्थविक्लवो नामरूपव्यवहारश्रमः उक्तौ वाङ्मात्रेऽस्ति न देवे
परमात्मन्यस्ति । वाचारम्भणं विकारो नामधेयम् इति श्रुतेः । यतः प्रमितौ
परिच्छेदे सति भिन्नता स्यादित्यर्थः ॥ २३ ॥

तज्जयैव मनःशक्त्या स्वतः सञ्ज्ञा प्रवर्तते ।
दृढभावनया तस्मादिष्टोऽर्थः प्रतिपद्यते ॥ २४ ॥

तज्जया क्रियाशक्तिजन्ययैव मनःशक्त्या स्वतः स्वभावत एव सञ्ज्ञा
नामविभागोऽपि प्रवर्तते । इष्टोऽर्थो व्यवहारः प्रतिपद्यते सम्पद्यते ॥ २४ ॥

अग्नेः शिखाया एकस्या द्वितीया जनकेति या ।
उक्तिवैचित्र्यमेवैतन्नोक्त्यर्थेऽत्रास्ति सत्यता ॥ २५ ॥

उक्तमेवार्थमुदाहृत्य दर्शयति - अग्नेरिति ॥ २५ ॥

न जन्यजनकाद्यास्ताः सम्भवन्त्युक्तयः परे ।
एकमेव ह्यनन्तत्वात्किं कथं जनयिष्यति ॥ २६ ॥

उक्तेरेव स्वभावोऽयमुक्तेरुक्तिरनन्तरम् ।
प्रतियोगिव्यवच्छेदसङ्ख्याद्यर्थे न युज्यते ॥ २७ ॥

प्रतियोगी स्वाश्रयतादात्म्यविरोधी । व्यवच्छेदो भेदः । सङ्ख्याद्वित्वादिः ॥ २७

ऊर्मिजालमिवाम्भोधौ परे यः परिदृश्यते ।
शब्दोऽर्थकलनाकारस्तद्ब्रह्मैव विदुर्बुधाः ॥ २८ ॥

ब्रह्म चिद्ब्रह्म च मनो ब्रह्म विज्ञानवस्तु च ।
ब्रह्मार्थो ब्रह्म शब्दश्च ब्रह्म चिद्ब्रह्म धातवः ॥ २९ ॥

कस्तर्हि सिद्धान्तस्तमाह - ब्रह्मेत्यादिना । चित्प्रत्यगात्मा विज्ञानवस्तु
बुद्धिवृत्तिभेदाः । चित् ईश्वरः साक्षी अर्थप्रथा वा ॥ २९ ॥

ब्रह्म सर्वमिदं विश्वं विश्वातीतं च तत्पदम् ।
वस्तुतस्तु जगन्नास्ति सर्वं ब्रह्मैव केवलम् ॥ ३० ॥

अयमन्योऽयमन्योऽयं भाग इत्यम्बरात्मनि ।
मिथ्याज्ञानविकल्पोक्तिर्वाचि सत्यार्थतात्र का ॥ ३१ ॥

वह्नेः शिखेव जातेयं शिखेति मनसोऽभिधा ।
चापलोत्थविकल्पश्रीर्वस्तुतः स्यान्न सिद्ध्यति ॥ ३२ ॥

सिद्ध्यति नित्यसिद्धकूटस्थे ॥ ३२ ॥

असत्यैव विकल्पोक्तिः सत्यभावो विकल्पते ।
तमोपहतदृष्टित्वाद्द्विचन्द्रज्ञानदोषवत् ॥ ३३ ॥

विकल्पते भ्रान्त्या प्रथते ॥ ३३ ॥

सर्वस्मात्सर्वगात्तस्मादनन्ताद्ब्रह्मणः पदात् ।
नान्यत्किञ्चित्सम्भवति तदुत्थं यत्तदेव तत् ॥ ३४ ॥

ब्रह्मतत्त्वं विना नेह किञ्चिदेवोपपद्यते ।
सर्वं च खल्विदं ब्रह्मेत्येषैव परमार्थता ॥ ३५ ॥

एवम्प्रायश्च हे प्राज्ञ सिद्धान्तस्ते भविष्यति ।
तत्रैवोदाहरिष्यापः सिद्धान्तार्थोक्तिपञ्जरम् ॥ ३६ ॥

भविष्यति बुद्धौ प्रतिष्ठास्यति । तत्रैव तदैव । उदाहरिष्यामो
निर्वाणप्रकरणे ॥ ३६ ॥

इहाविद्यादिकाः केचिद्विद्यन्ते नेतरक्रमाः ।
ज्ञास्यस्यलमशेषार्थांस्तत्तदज्ञानसङ्क्षये ॥ ३७ ॥

इह अस्यां परमार्थतायाम् । अलं पूर्णब्रह्मभावेन । एकस्याप्यज्ञानस्य
संशयभेदैः सह बहुत्वविवक्षया तत्तदज्ञानसङ्क्षये इति वीप्सोक्तिः ॥ ३७ ॥

अवस्तुसङ्क्षये वस्तु यथावस्तु प्रसीदति ।
यथा च दृश्यते दृश्यं जगन्नैशतमःक्षये ॥ ३८ ॥

दृश्यं चक्षुषा दर्शनार्हम् । जगत्स्थाण्वादि ॥ ३८ ॥

यदिदमखिलमाततं कुदृष्ट्या
तदुपशमे तव राम निर्मलाभे ।
अवितथपदनिर्मले भविष्य-
त्यवितथमेव न संशयोऽत्र कश्चित् ॥ ३९ ॥

उक्तं सर्वमुपसंहरति - यदिति । कुदृष्ट्या अज्ञानदूषितदृष्ट्या
यदिदमखिलं जगदाततं सर्वतो विस्तृतं भाति तस्य सर्वस्य सहाज्ञानेन
नाशे सति निर्मलदर्पणाभे अवितथे परमार्थभूते परमपदे निर्मले
अवितथं तदेव भविष्यति स्थास्यति ॥ ३९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे
ब्रह्मैवेदं सर्वं जगदिति प्रतिपादनं नाम चत्वारिंशः सर्गः ॥ ४० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे ब्रह्मैवेदं
सर्व जगदिति प्रतिपादनं नाम चत्वारिंशः सर्गः ॥ ४० ॥