एकोनचत्वारिंशः सर्गः ३९
श्रीराम उवाच ।
भगवन्नेवं स्थिते परे ब्रह्मण्येव विद्यमाने कुत
एवाभित्तिचित्ररूपायाः सृष्टेरगम इति कथय महात्मन् ॥ १ ॥
ब्रह्मणः सर्वशक्तित्वं रामव्यामोहविस्तरः ।
तद्बोधाय वसिष्ठस्य विमर्शादीह कीर्त्यते ॥ १ ॥
अज्ञदृष्टावेव स्थितो रामो गुरुवचनविश्वासात्परोक्षतयैव पूर्णतास्थितिं
पर्यालोच्य विरोधं मन्यमानः शङ्कते - भगवन्निति । एवं
त्वदुक्तरीत्या बन्धमोक्षादेरसम्भवे स्थिते सति ॥ १ ॥
श्रीवसिष्ठ उवाच
राजपुत्र ब्रह्मतत्त्वमेवेदमावर्तते यस्मात्सर्वशक्ति तत्तस्मात्सर्वाः
शक्तयो ब्रह्मणि दृश्यन्ते ॥ २ ॥
किमसावज्ञदृष्टाववस्थितः शङ्कते उताभिज्ञतां
काञ्चित्प्राप्तोऽन्तरालवतीं सन्निति परीक्षितुं वसिष्ठः
सर्वशक्तितावादाभ्युपगमेन परिहरति - राजपुत्रेत्यादिना । आवर्तते
निवर्तते । दृश्यन्ते कार्यलिङ्गैरनुमीयन्ते ॥ २ ॥
सत्त्वमसत्त्वं द्वित्वमेकत्वमनेकत्वमाद्यत्वमन्तत्वमिति ॥ ३ ॥
तथाचाशक्तानामेव विरोधो न सर्वशक्तेरित्यभिप्रेत्योदाहरति -
सत्त्वमसत्त्वमित्यादि ॥ ३ ॥
तच्च नान्यत् । यथा जलराशेर्जलाशय उल्लासप्रफुल्लासेन नानाकारतां
[नानाकारतादिति पाठः] दर्शयन्प्रकटतां गच्छति ॥ ४ ॥
यथा जलराशेः समुद्रस्य जलाशयो जलपूर उल्लासेन चन्द्रोदयनिमित्तकेन
स्वाविर्भाविण प्रफुल्लतीति प्रफुल् । फुल्ल विकसने क्विप् [संहितायां हलो
यमाम् इत्यनेन मध्यवर्तिललोप इति ज्ञेयम्] । विकस्वरः सन् । लासेन
तरङ्गनृत्येन ॥ ४ ॥
तथा चिद्धनश्चित्तं चित्त्वाच्च सर्वाः शक्तीः
कर्ममयीर्वासनामयीर्मनोमयीश्चिनोति दर्शयति बिभर्ति जनयति
क्षिपयति चेति ॥ ५ ॥
चित्तं चित्तोपाधिकं जीवभावम् । तस्यापि चिदाभासरूपस्य चित्त्वाच्च ।
चिनोत्येकैकशः सञ्चिनोति । सञ्चितांश्च फलमुखेन दर्शयति -
उपभोगैर्बिभर्ति पुनस्तिरोभावेन क्षिपयति ॥ ५ ॥
सर्वेषामेव जीवानां सर्वासामभितो दृशाम् ।
समग्राणां पदार्थानामुत्पत्तिर्ब्रह्मणोऽनिशम् ॥ ६ ॥
उक्तेऽर्थे श्लोकावुदाहरति - सर्वेषामेवेति ॥ ६ ॥
लोकात्परादुपायान्ति तस्मिंश्चित्त्वाद्विशन्त्यलम् ।
तन्मया एव सततं तरङ्गा इव सागरे ॥ ७ ॥
पराल्लोकात्परमात्मनः ॥ ७ ॥
श्रीराम उवाच ।
भगवंस्तवातिगहनेयं वचनव्यक्तिर्न खल्वद्य
वाक्यार्थमवगच्छामि ॥ ८ ॥
एवं शक्तिवादेन समाधीयमानोऽपि रामो वह्नौ शैत्यशक्तिमिव जले
दहनशक्तिमिव विरुद्धां चिति जाड्यशक्तिं अदृश्ये दृश्यताशक्तिं नित्ये
अनित्यताशक्तिं च ब्रह्मण्यसम्भावयन् शङ्कते - भगवन्नित्यादिना ।
वचनव्यक्तिर्वाक्यार्थावगतिः । अतिगहना दुःसम्पादा विरोधसत्त्वादित्यर्थः ॥
८ ॥
क्व किलातीतमनःषष्ठेन्द्रियवृत्ति ब्रह्मतत्त्वं क्व भङ्गुरेयं तज्जा
पदार्थश्रीरिति वचनरचना । यदि चायमारम्भो ब्रह्मण
आपतितस्तदनेन तत्सदृशेनैव भवितव्यम् ॥ ९ ॥
विरोधानेव दर्शयति - क्व किलेति । वचनरचना नामसृष्टिः । आरम्भो
रूपसृष्टिः । सदृशेनैव भवितव्यं नतु विरुद्धेनेत्यर्थः ॥ ९ ॥
यो यस्माज्जायते स तत्सदृश एव भवति ॥ १० ॥
भवति लोके इति शेषः ॥ १० ॥
यथा दीपाद्दीपः पुरुषात्पुरुषः सस्यात्सस्यम् ॥ ११ ॥
यतो निर्विकाराद्यदागतं निर्विकारेणैवानेन भवितव्यम् ॥ १२ ॥
अथैतद्व्यतिरिक्तं चिदात्मनस्तन्निष्कलङ्कस्य परमेश्वरस्य येयं
कलङ्कापत्तिरित्याकर्ण्य भगवान् ब्रह्मर्षिरुवाच [एतदग्रे
श्रीवसिष्ठ उवाचेति क्वचित् पठ्यते] ॥ १३ ॥
अथशब्दो यदीत्यर्थे । तत्तर्हि निष्कलङ्कस्य परमेश्वरस्य या
जगद्भावापत्तिस्त्वयोक्ता इयं कलङ्कापत्तिरुक्ता स्यादित्यर्थः ॥ १३ ॥
ब्रह्मैवेदं स्थितं नाम मलमस्तीह नानघ ।
तरङ्गौघगणैरम्भः सिन्धौ स्फुरति नो रजः ॥ १४ ॥
तत्त्वदृशा वसिष्ठो जगतश्चिद्भावमेवमविकारतां च पश्यन्समाधत्ते
- ब्रह्मैवेदमिति ॥ १४ ॥
द्वितीया कल्पनैवेह न रघूद्वह विद्यते ।
ब्रह्ममात्रादृते वह्वावौष्ण्यमात्रादृते यथा ॥ १५ ॥
श्रीराम उवाच ।
निर्दुःखं ब्रह्म निर्द्वन्द्वं तज्जं दुःखमयं जगत् ।
अस्पष्टार्थमिदं ब्रह्मन्न वेद्मि वचनं तव ॥ १६ ॥
अज्ञदृष्टावेव स्थितो रामः सर्वथा आनन्दैकरसस्वभावे
तद्विरुद्धदुःखजगद्रूपता ब्रह्मणो दुर्वचैवेति प्रत्यवतिष्ठते -
निर्दुःखमिति ॥ १६ ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्ते तत्र रामेण चिन्तयामास चेतसा ।
वसिष्ठो मुनिशार्दूलो राघवस्योपदेशने ॥ १७ ॥
एवं निरुत्तरीकृतस्य वसिष्ठस्य रामप्रबोधनोपायचिन्तां वाल्मीकिर्दर्शयति
- इत्युक्ते इत्यादिना ॥ १७ ॥
परं विकासमायाता नास्य तावदियं मतिः ।
किञ्चिन्निर्मलतां प्राप्ता प्रोह्यते चेह वस्तुनि ॥ १८ ॥
यो व्युत्पन्नमनास्तस्य ज्ञातज्ञेयस्य धीमतः ।
मोक्षोपायगिरां पारं प्रयातस्य विवेकतः ॥ १९ ॥
यः पुरुषो व्युत्पन्नमना जगतो जडभावं विहाय चिदेकरसतां द्रष्टुं
समर्थ इति यावत् ॥ १९ ॥
न कश्चित्कस्यचिद्दोषो नास्ति विद्यात्मनि ह्यलम् ।
यावन्नोक्तं न विश्रान्तिं तावदेत्येष राघवः ॥ २० ॥
तस्य दृशा कस्यचिद्वस्तुनः कश्चिदपि दोषो विरोधो नास्ति । यतो
जगद्विरुद्धरूपं विद्यात्मनि क्वचिदपि नास्ति । अलं सम्यक् यावन्नोक्तं
नोपदिष्टमस्माभिस्तावदेव राघवो विश्रान्तिं नैति न प्राप्नोति ।
अतोऽवश्यमुपदेष्टव्य इत्यर्थः ॥ २० ॥
अर्धव्युत्पन्नबुद्धेस्तु नैतद्व्यक्तं हि शोभते ।
दृश्यानया भोगदृशा भावयन्नेष नश्यति ॥ २१ ॥
परन्तु अर्धव्युत्पन्नदृष्टेरेतत् प्रागुक्तं सर्वं ब्रह्मेत्युपदेशनं न
शोभते । कुतः । यत एषोऽर्धव्युत्पन्नो दृश्यान्यानयत्युपस्थापयति
सञ्जीवयतीति वा दृश्याना । अनितेः क्विपि आपं चैवं हलन्तानाम् इति टापू ।
तथाविधया भोगदृशा सदैव अर्थाद्दृश्यान्येव भावयन्सन्नश्यति ।
तत्त्वबोधाद्भ्रश्यतीति यावत् ॥ २१ ॥
परां दृष्टिं प्रयातस्य भोगेच्छा नाभिजायते ।
सर्वं ब्रह्मेति सिद्धान्तः काले नामास्य युज्यते ॥ २२ ॥
कस्य तर्हि तादृशोपदेशो युज्यते तमाह - परामिति । सिद्धान्तः
परिनिष्ठितोपदेशः ॥ २२ ॥
आदौ शमदमप्रायैर्गुणैः शिष्यं विशोधयेत् ।
पश्चात्सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् ॥ २३ ॥
कथं तर्ह्यर्धव्युत्पन्न उपदेश्यस्तत्राह - आदाविति ॥ २३ ॥
अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् ।
महानरकजालेषु स तेन विनियोजितः ॥ २४ ॥
प्रबुद्धबुद्धेः प्रक्षीणभोगेच्छस्य निराशिषः ।
नास्त्यविद्यामलमिति युक्तं वक्तुं महात्मनः ॥ २५ ॥
अपरीक्ष्य च यः शिष्यं प्रशास्त्यतिविमूढधीः ।
स एव नरकं याति यावदाभूतसम्प्लवम् ॥ २६ ॥
अत्त्वज्ञ एवानधिकार्युपदेशे प्रवर्तते तस्य शिष्यप्रतारकस्य युक्तो नरकपात
इत्याशयेनाह - अपरीक्ष्येति । एवकारो भिन्नक्रमः । स यात्येवेति ॥ २६ ॥
इति सञ्चिन्त्य भगवानज्ञानतिमिरापहः ।
तमुवाच मुनिश्रेष्ठो वसिष्ठो भूमिभास्करः ॥ २७ ॥
श्रीवसिष्ठ उवाच ।
कलङ्ककलना ब्रह्मण्यस्ति नास्तीति वानघ ।
सिद्धान्तकाले वक्तव्यं स्वयं ज्ञास्यसि राघव ॥ २८ ॥
स्वयमेव ज्ञास्यसि । यदि न ज्ञास्यसि तर्हि सिद्धान्तकाले वक्तव्यं
नाधुनेत्यर्थः ॥ २८ ॥
ब्रह्म सर्वशक्ति सर्वव्यापि सर्वगतं सर्वोहमेवेति ॥ २९ ॥
साम्प्रतमर्धव्युत्पन्नयोग्यं ब्रह्मणः प्रागुक्तसर्वशक्तित्वादि प्रतीचः
सर्वाहम्भावदर्शनं च प्रथममुपदिशति - ब्रह्म सर्वशक्तीति ॥ २९ ॥
यथेन्द्रजालिनः पश्यसि चित्रा मायया क्रिया जनयन्तः सदसत्तां
नयन्त्यसच्च सत्तां नयन्ति तथैवात्मा अमायामयोऽपि मायामय इव
परम ऐन्द्रजालिको घटं पटं करोति पटं च घटं करोति उपले
लतां जनयति मेरौ कनकतटे नन्दनवनमिव लतायामुपलमुत्पादयति
कल्पपादपेषु रत्नस्तबकमिव व्योम्नि काननमध्यारोपयति ॥ ३० ॥
माययैवास्य सर्वशक्तिता प्रतीचः सार्वात्म्यं चेति प्रपञ्चयति -
यथेन्द्रजालिन इत्यादिना । असम्भावितसम्भावनाय लोकशास्त्रप्रसिद्धं
दृष्टान्तमाह - कनकतटे इति । यद्वद्देवशक्त्या असम्भावितान्यपि
नन्दनवनरत्नस्तबकादीनि सम्भाव्यन्ते तद्वदात्मशक्त्यापि सम्भाव्यतामिति
भावः ॥ ३० ॥
गन्धर्व उद्यानमिव तस्मिन् जगति भविष्यति गगने कल्पनया नगरतां
जनयति नष्टच्छायाञ्जनमिव व्योम धरातलं नयतीति ॥ ३१ ॥
वस्तुव्यत्यय इव देशकालव्यत्ययोऽपि मायाशक्त्यैव सम्भावनीय
इत्याशयेनाह - भविष्यति गगने इति । व्योम नष्टच्छायाञ्जनं
निरस्तनैल्यकज्जलं कृत्वा धरातलं भूप्रदेशं नयति प्रापयति ।
इतिशब्दस्तत्राप्यसम्भावितसहस्रसम्भावनार्थः ॥ ३१ ॥
गन्धर्वनगरराजगृहे विपुलाङ्गनाजनमिव भूतले व्योम निवेशयति ॥
३२ ॥
तर्हि किं गगनस्याधो निवेशाय भूतलमन्यतो नयति नेत्याह -
गन्धर्वनगरेति ॥ ३२ ॥
रक्तकुट्टिमेष्वाकाशप्रतिबिम्बमिव किञ्चिदस्ति जगति भविष्यति वा बभूव
॥ ३३ ॥
जगति यत्किञ्चिदस्ति भविष्यति बभूव तत्सर्व रक्तकुट्टिमेषु
पद्मरागमणिमयसौधभावेषु आकाशप्रतिबिम्बमिवाधिष्ठानरक्तिम्ना
रक्तं स्वतोऽसदपि ब्रह्मसत्तया सदिव भवतीत्यर्थः ॥ ३३ ॥
यदीश्वरो व्यक्तरूपो विचित्रतामुपेत्य निदर्शयति ॥ ३४ ॥
तत्र हेतुमाह - यदीश्वर इति । निदर्शयति स्वात्मानमित्यर्थः ॥ ३४ ॥
सर्वमेव सर्वथा सर्वत्र यथा सम्भवत्येकमेवेह वस्तु विद्यत इति
तस्माद्धर्षामर्षविस्मयानां क्व वाऽवसरो राम ॥ ३५ ॥
एवं चैकमेव वस्तु सर्वथा सर्वं भवतीति नासम्भावना
हर्षामर्षादयश्च युक्ता इत्याह - सर्वमेवेति ॥ ३५ ॥
समतयैव सततं धृतिमता स्थातव्यम् ॥ ३६ ॥
एवमसम्भावनां रामस्य निरस्य प्रागुक्तसमतास्थितिमेव विधत्ते -
समतयैवेति ॥ ३६ ॥
विस्मयस्मयसम्मोहहर्षामर्षविकारिताम् ।
समतावलितस्तज्ज्ञो न कदाचन गच्छति ॥ ३७ ॥
तदैव हर्षादेरात्यन्तिकक्षय इत्याशयेन श्लोकमुदाहरति - विस्मयेति ॥ ३७ ॥
अपर्यवसाने देशकालवति चित्रा हि जगति युक्तयो दृश्यन्ते ॥ ३८ ॥
अपर्यवसाने समताया इति शेषः । युक्तयो दृश्यरजनात्मिका दृश्यन्ते ॥ ३८ ॥
एताश्च युक्तीर्नामासावात्मा यत्नेन रचनां करोति न चोत्पन्नां
तिरस्कारोति सागर इव वीचीः ॥ ३९ ॥
सामग्रीयुक्तावस्थायुक्तिः फलावस्थारचनेति प्रवृत्तिनिमित्तभेदाद्युक्तिः
रचनां करोतीति सामानाधिकरण्यम् । अयमात्मा न तिरस्करोति ॥ ३९ ॥
किं तर्हि क्षीर इव घृतं घट इव मृदि पट इव तन्तुषु वट इव
धानायात्मन्येव स्थिताः शक्तयः प्रकटतामागता
व्यवह्रियन्तेऽविरचितमेव तरङ्गवत् ॥ ४० ॥
किं तर्ह्यनेन प्रकटतामागताः शक्तयो व्यवह्रियन्ते इति कथञ्चिद्योज्यम् ।
इयं च व्यवहारदृष्टिः कल्पनैव परमार्थतस्तु अविरचितमेव जगत् ॥ ४० ॥
नात्र कश्चित्कर्ता न भोक्ता न विनाशमेति ॥ ४१ ॥
नात्र कर्तेत्यादि स्पष्टम् ॥ ४१ ॥
केवलमात्मतत्त्वे साक्षिणि निरामये समतयात्मनि नित्यमसङ्क्षुब्धे
तिष्ठति सत्येवं सम्पद्यते ॥ ४२ ॥
तादृशेऽपि परमार्थे सति जगत्सम्पत्तौ दृष्टान्तप्रदर्शकौ
श्लोकाववतारयति - सत्येव(?)सम्पद्यत इति ॥ ४२ ॥
सति दीप इवालोकः सत्यर्क इव वासरः ।
सति पुष्प इवामोदः स्वतः सम्पद्यते जगत् ॥ ४३ ॥
श्लोकौ स्पष्टौ ॥ ४३ ॥
आभासमात्रमेवेदं परिदृश्यत एव च ।
स्पन्दः समीरणस्येव न सन्नासदवस्थितम् ॥ ४४ ॥
न सन्नासदिति । अनिर्वचनीयमित्यर्थः ॥ ४४ ॥
निर्दोषवदेव जागतीनां दृष्टीनां परमार्थतो भगवान्स्थितो
विनष्टानां पुनः कर्ता कृतानां वा नाशयिता स केवलं
कदाचित्प्रकटाः कदाचिदल्पप्रकटाः कदाचिदप्रकटास्तारका इव
कुसुमराशयः ॥ ४५ ॥
एवं च स्वसन्निधिमात्राज्जायमानजगद्दोषैरलिप्यमान एवात्मा जगतः
कर्तेव हर्तेव नियन्तेव नभ इव तारकाकुसुमराशीनां भवतीत्याह -
निर्दोषवदेवेत्यादिना । केवले नभसि तारकाः कुसुमराशय इव
कदाचित्प्रकटास्तस्मिन्भवन्तीति सर्वत्र शेषः ॥ ४५ ॥
नश्यतीह हि तद्वस्तु नात्मभूतं यदात्मनः ।
कथं नश्यति तद्वस्तु स्वात्मभूतं यदात्मनः ॥ ४६ ॥
इत्थं चासतो जगतः असत्तात्मको नाशः स्वत एव सत्तात्मिका उत्पत्तिः स्थितिश्च
ब्रह्मसत्तैवेति विभागे फलितमाह - नश्यतीत्याविसार्धश्लोकद्वयेन ॥ ४६ ॥
जायते नैव तद्वस्तु नात्मभूतं यदात्मनः ।
जायते चैव तद्वस्तु स्वात्मभूतं यदात्मनः ॥ ४७ ॥
जायत इत्येतत्स्थितेरप्युपलक्षणम् ॥ ४७ ॥
कथं तज्जायते तस्मात्स्वात्मभूतं यदात्मनः ॥ ४८ ॥
तर्हि किमात्मा जन्यो नेत्याह - कथमिति ॥ ४८ ॥
तस्मात्सम्यग्ज्ञानवशाद्ब्रह्मणः सर्वपदार्थानामागमः ॥ ४९ ॥
आत्मसत्ताया जगत्यध्यासो जगतो जन्म नात्मनो
भेदाभावादित्याशयेनोक्तमुपसंहरति - तस्मादिति ।
सम्यग्ज्ञानवशात्परमार्थसत्यचित्स्वरूपबलात् । आगमोऽवतारः उत्पत्तिरिति
यावत् ॥ ४९ ॥
अवतीर्णानां च तेषामवतरणसमकालमेवाविद्योदेति तत्त्वज्ञानं
दृढतामेति तदनु शतसहस्रस्कन्धो
विचित्रशुभाशुभफलभरफलितो भूरिशाखः स्फारतामेति
संसारद्रुमः ॥ ५० ॥
अस्तु पदार्थानामवतारस्तैरात्मनः कथं संसारप्राप्तिरिति तद्दर्शयति -
अथतीर्णानामिति । अविद्यात्र तदभिमानः । तत्तौ अज्ञानं अभिमानलक्षणं
कालेन दृढतामेति ॥ ५० ॥
आशामञ्जरिताकृतिं विफलितं दुःखादिभिर्दारुणैर्भोगैः पल्लवितं
जराकुसुमितं तृष्णालताभासुरम् ।
संसाराभिधवृक्षमात्मनिगडं छित्त्वा विवेकासिना मुक्तस्त्वं
विहरेह वारणपतिः स्तम्भादिवोन्मोचितः ॥ ५१ ॥
संसारद्रुममेव निर्वर्ण्य तदुच्छेदोपायमाह - आशेति ।
आशाभिर्मञ्जरिता सञ्जातमञ्जरीका आकृतिर्यस्य दुःखादिभिर्विविधं
फलितम् । प्रकृत्या चारुरित्यादिवदभेदे प्रकृत्यादिभ्य उपसङ्ख्यानम् इति
तृतीया । लताः शाखाः वल्ल्यश्च । आत्मनो निगडं बन्धस्थानम् । शिष्टं
स्पष्टम् ॥ ५१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे
सर्वैकत्वप्रतिपादनं नामैकोनचत्वारिंशः सर्गः ॥ ३९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
सर्वैकत्वप्रतिपादनं नामैकोनचत्वारिंशः सर्गः ॥ ३९ ॥