३७

सप्तत्रिंशः सर्गः ३७

श्रीवसिष्ठ उवाच ।

इत्थं स्थिरतराकाराः संसारावलयोऽभितः ।
स्वभावाद्ब्रह्मणः सर्वाः पुनरायान्ति यान्ति च ॥ १ ॥

आत्मनोऽनात्मभावोऽयमविद्याकामकर्मभिः ।
बोधादकामान्नैष्कर्म्यात्स्वरूपावस्थितिस्ततः ॥ १ ॥

चित्स्वरूपस्थितिरेव जगत्स्थितिश्चित एव जगद्रूपेणावस्थानादिति वक्तुं
प्रागुक्तमनुवदति - इत्थमिति ॥ १ ॥

स्वतः सर्वमिदं जातमन्योन्यं हेतुतां गतम् ।
अन्योन्यमभिनश्यत्तत्स्वत एव विलीयते ॥ २ ॥

अन्योन्यं हेतुतां गतमिदं जगत्स्वतः स्वाधिष्ठानचैतन्यादेव जातम् ।
एवमग्रेऽपि ॥ २ ॥

स्वतोऽस्पन्दोऽपि तु स्पन्दो यथाऽगाधजलोदरे ।
तथैवेयमसत्सच्च चिदेव परिदृश्यते ॥ ३ ॥

यथा अगाधजलोदरे जलाव्याप्तदेशाभावाज्जलस्य स्पन्दोऽप्यस्पन्दस्तथेत्यर्थः
॥ ३ ॥

व्योमन्येव निराकारे निदाघात्सरितो यथा ।
लक्ष्यन्ते तद्वदेवेमाश्चित्तत्त्वे सृष्टिदृष्टयः ॥ ४ ॥

सरितो मृगतृष्णाः ॥ ४ ॥

यथा मदवशादात्मा सोऽन्यवत्प्रतिभासते ।
तथैव चित्त्वाच्चिद्धातुः स एवाऽस इव स्थितः ॥ ५ ॥

स एव स्वात्मा अन्यवत् अघूर्णमानोऽपि घूर्णमान इव । चिद्धातुश्चित्सारः । असः
अचिदिव ॥ ५ ॥

न चेदं सदसन्नेदं तत्स्थातत्स्थतया चितः ।
नातिरिक्तातिरिक्ता च कटकादिषु हेमता ॥ ६ ॥

उक्तार्थं स्थिरयितुं जगतोऽनिर्वचनीयस्वभावतां दर्शयति - न चेति ।
सतैव तद्वेषधारणादसत्त्वं दुर्वचनं बाध्यत्वाच्च सत्त्वं
दुर्वचनमित्याशयेनाह - तत्स्थातत्स्थतयेति ॥ ६ ॥

येन शब्दं रसं रूपं गन्धं जानासि राघव ।
सोऽयमात्मा परं ब्रह्म सर्वमापूर्य संस्थितः ॥ ७ ॥

ननु ब्रह्मणो जगद्विवर्तः श्रूयते न प्रत्यक्चित इत्याशङ्क्य सैव ब्रह्मेति
दर्शयति - येनेति । येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च
मैथुनान् । एतेनैव विजानाति किमत्र परिशिष्यत ॥ एतद्वै तत् इति काठकश्रुतौ
ब्रह्मण एव प्रत्यगात्मताभिधानादिति भावः ॥ ७ ॥

नानैकत्वादतीतात्तु सर्वगादमलात्मनः ।
द्वितीया कलना नास्ति काचिन्नेतरथा क्वचित् ॥ ८ ॥

ननु प्रतीचां नानात्वाद्ब्रह्मणश्चैकत्वात्कथमैक्यमित्याशङ्क्य
नानैकत्वयोर्मिथ्यात्वान्नायं दोष इत्याशयेनाह - नानैकत्वादतीतादिति ॥ ८

राम भावनादन्यस्य भावाभावाः शुभाशुभाः ।
सृष्टयः परिकल्प्यन्तेऽनात्मन्येवाथवात्मनि ॥ ९ ॥

यतोऽन्यस्य वस्तुनो भावाः सद्भावा अभावाः शुभाशुभाः सृष्टयश्च
भावनाद्वासनावशादेव परिकल्प्यन्ते । ताश्च मायिकदृशा
अनात्मभूतमायायामेव । अथवा तत्त्वदृशा आत्ममात्रत्वादात्मन्येव ॥ ९ ॥

यस्मादात्मनो व्यतिरिक्ते वस्तुनि सिद्धे सति तत्रेच्छा प्रवर्तते । यत्र
स्वात्मनो व्यतिरिक्तं न किञ्चिदपि सम्भवति तत्रात्मा किमिव
वाञ्छन्किमनुस्मरन्धावतु किमुपैतु ॥ १० ॥

अथवात्मनीति यत्पद्ये पक्षान्तरमुक्तं तद्युक्तिप्रयोजनाभ्यां
गद्यैरुपपादयति - यस्मादित्यादिना । यदा आत्मरूपा सृष्टिरात्मन्येवास्ते
इति पक्षस्तदा आत्मान्या सृष्टिर्नास्त्येवेति फलितम् । इच्छापूर्विका हि सृष्टिः ।
सोऽकामयत बहु स्यां प्रजायेय इत्यादिश्रुतेः । नचात्मन आत्मनीच्छासिद्धत्वात्
। नचात्मनोऽन्यत्प्रसिद्धमस्ति यदिच्छन्नात्मा स्रष्टुं प्रवर्तेत ।
नचाप्रवर्तमानः कश्चित्स्रष्टुं शक्नोतीत्याशयः । किमुपैतु धावनेन वा
किं फलं प्राप्नोतु ॥ १० ॥

अत इदमीहितमिदमनीहितमित्यात्मानं न स्पृशन्ति विकल्पाः । अतो
निरिच्छतायामात्मा न किञ्चिदपि करोति कर्तृकरणकर्मणामेकत्वात् न
क्वचित्तिष्ठत्याधाराधेययोरेकत्वात् नच निरिच्छस्यात्मनो [१]
नैष्कर्म्यमभिमतम् द्वितीयायाः कल्पनाया अभावात् ॥ ११ ॥

ननु नैष्कर्म्यसिद्धिस्तत्फलमस्तु तत्राह - नचेति । निरिच्छेति [निरिच्छति
इति मूले टीकायां च निरिच्छति = अनिच्छे इति क्वचित्पठ्यते] । अनिच्छे
कर्मप्रसिद्धौ नैष्कर्म्यफलं स्यान्नच सास्तीत्याशयेनाह - द्वितीयाया इति
॥ ११ ॥

नेतरा जानासि राम त्वमियं ब्रह्मसंस्थितिः ।
सर्वद्वन्द्वविनिर्मुक्तः कर्ता भव गतज्वरः ॥ १२ ॥

इतरा उक्तप्रकारेऽभ्योऽन्या साफल्यादिकल्पना न नास्त्येव । इयं हि
ब्रह्मसंस्थितिः । यद्यत्र त्वमितरां जानासि तर्हि सर्वद्वन्द्वविनिर्मुक्तो
गतज्वरोऽपि सन् कर्ता भव नाहं निवारयामीति भावः ॥ १२ ॥

अन्यच्च राघव पुनः

पुनः कृत्वा कृत्वा बहुविधमिदं कर्म तरसा
त्वया प्राप्यं किं तद्वद यदुचितं भूतकरणात् ।
अकर्तृत्वे वास्था भवतु तव चाप्यागमवतो
भव स्वस्थः स्वच्छः स्तिमित इव निर्वातजलधिः ॥ १३ ॥

अज्ञतादशायामपि भौतिकशरीरपरिग्रहणकर्तृत्वे भूतैरेव भूतानि
कृत्वा भौतिकानि फलानि प्राप्तानि नत्वसङ्गोदासीनेनात्मना किं वाच्यं तस्य
प्रबोधदशायां क्रियातत्फलयोरसम्भव इति न तत्रास्थोचितेत्याशयेन
गद्योक्तार्थसमर्थनाय पद्यमवतारयति - अन्यच्चेति । द्वितीयं
पुनःशब्दमारभ्य पद्यं बोध्यम् । हे राघव त्वया तरसा
कर्तृत्वाभिनिवेशेन पुनःपुनः कृत्वा कृत्वा भूतकरणात्
विषयभूतैर्देहभूतोपचयादेरन्यत्किं फलं प्राप्यं यत्ते तव
नित्यनिरतिशयानन्दात्मन उचितं फलं स्यादित्यर्थः । अतः
सर्वकर्तृत्वाभिनिवेशं हित्वा स्वस्वरूपोचिते अकर्तृत्व एवास्था भवतु ।
एवार्थे वाशब्दः । तदुपपत्तये हेतुगर्भ विशिनष्टि - आगमवत इति ।
श्रुतिगुरुवाक्यैरात्मप्रबोधवत इति यावत् । अपिशब्दान्मुख्याधिकारवत्तानुक्ता
समुच्चीयते । अतः स्वच्छः स्वस्थो भवेत्यर्थः ॥ १३ ॥

गत्वा सुदूरमपि यत्नवता जवेन
नासाद्यते तदिह येन सुपूर्णतैति ।
मत्वेति मा व्रज पदार्थगणान्धिया त्वं
न त्वं त्वमेव परमार्थतया चिदात्मा ॥ १४ ॥

विस्तरोक्तमर्थ सङ्क्षिप्योपसंहरति - गत्वेति । येन सुपूर्णता
अपरिच्छिन्नसुखलाभेन पूर्णकामता एति तत्साधनं सुदूरं दिशामन्तमपि
गत्वा भ्रमित्वा अत्यन्तयत्नवतापि नासाद्यत इति मत्वा निश्चित्य त्वं धिया
मनसापि बाह्यपदार्थगणान्मा व्रज । इत्थं क्रियाः सर्वास्त्याजयित्वा स्वस्थान
एव परमपुरुषार्थ दर्शयति - न त्वमिति । न त्वं निरस्तपराग्रूपस्त्वमेव
परमार्थतया दृष्टः पूर्णानन्दचिदात्मा परमपुरुष इत्यर्थः ॥ १४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे
उपशमवर्णनं नाम सप्तत्रिंशः सर्गः ॥ ३७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
उपशमवर्णनं नाम सप्तत्रिंशः सर्गः ॥ ३७ ॥

श्रीवसिष्ठ उवाच ।

एवं स्थिते तु तज्ज्ञानां यदेतत्कर्तृत्वं दृश्यते सुखदुःखादिषु
योगादिषु वा तदसन्नतु मूर्खाणाम् ॥ १ ॥

असङ्गात्मानभिज्ञस्य मनःसङ्गेन कर्तृता ।
ज्ञस्याकर्तृरभोक्तृत्वान्न बन्धोऽस्तीत्युदीर्यते ॥ १ ॥

ननु तत्त्वविदामपि लौकिकेषु शास्त्रीयेषु च कर्मसु कर्तृत्वं दृश्यते
तच्चावश्यमिष्टानिष्ठभोक्तृत्वं प्रापयिष्यतीत्यज्ञात्को विशेषस्तत्राह ##-
समाध्यभ्यासपरिपाकभूमिकाभेदेषु वा तज्ज्ञानां तत्त्वविदां
तद्दृश्यमानं कर्म असत् नास्त्येव नतु मूर्खाणां तत्तथेत्ययमेव विशेष
इत्यर्थः ॥ १ ॥

यतः कर्तृत्वं नाम किमुच्यते । यो ह्यन्तस्थाया मनोवृत्तेर्निश्चय
उपादेयताप्रत्ययो वासनाभिधानस्तत्कर्तृत्वशब्देनोच्यते ॥ २ ॥

तदुभयमुपपादयितुं कर्तृत्वरूपं विमृशति - यत इत्यादिना । यो हीति ।
शारीरक्रिया न कर्तृता । अबुद्धिपूर्वचेष्टायां करोमीति प्रत्ययादर्शनात्
किन्तु मानसी पूर्वपूर्वकर्तृता वासनारागात्मकमनोवृत्तेरुद्भूता
कार्यमिदमिति निश्चयात्मकवृत्तिरूपेण परिणता क्रियाभिधानेत्यर्थः ॥ २ ॥

चेष्टावशात्तादृक्फलभोक्तृत्वं वासनानुरूपं स्पन्दते पुरुषः
स्पन्दानुरूपं फलमनुभवति । फलभोक्तृत्वं नाम कर्तृत्वादिति
सिद्धान्तः ॥ ३ ॥

भोक्तृत्वमपि
तदधीनचेष्टावशात्तत्तद्वासनानुरूपफलास्वादगोचरोद्भूतवासनैवेत्याह

  • चेष्टावशादिति । यतो वासनानुरूपं स्पन्दते पुरुषः ॥ ३ ॥

तथाच ।

कुर्वतोऽकुर्वतो वापि स्वर्गेऽपि नरकेऽपि वा ।
यादृग्वासनमेतत्स्यान्मनस्तदनुभूयते ॥ ४ ॥

उक्तेऽर्थे श्लोकमुदाहरति - तथाचेति । स्वर्गे नरकेऽपि वा तदनुभूयत इति
सम्बन्धः ॥ ४ ॥

तस्मादज्ञाततत्वानां पुंसां कुर्वतामकुर्वतां च कर्तृता नतु
ज्ञाततत्त्वानामवासनत्वात् ॥ ५ ॥

अस्तु वासनैव कर्तृता भोक्तृता च तथापि कथं
ज्ञाज्ञयोर्विशेषसिद्धिस्तत्राह - तस्मादिति ॥ ५ ॥

ज्ञाततत्त्वो हि शिथिलीभूतवासनः कुर्वन्नपि फलं नानुसन्दधाति ।
अथच स्पन्दनमात्रं केवलं करोत्यसक्तबुद्धिः सम्प्राप्तमपि
फलमात्मैवेदं सर्वमेव कर्मफलमनुभवत्यकुर्वन्नपि करोति
मग्नमनाः ॥ ६ ॥

ज्ञे विशेषमुक्तमुपपादयति - ज्ञाततत्त्वो हीति । एवं तस्य
भोक्तृत्वमप्यसदित्येतदुपपादयति - सम्प्राप्तमपीति । मग्नमना
भोगासक्तचित्तोऽज्ञस्तु अकुर्वन्नपि करोति ॥ ६ ॥

मनो यत्करोति तत्कृतं भवति यन्न करोति तन्न कृतं भवति अतो मन
एव कर्तृ न देहः ॥ ७ ॥

चित्तादेवायं संसार आगतश्चित्तमय एव चित्तमात्रं चित्त एव स्थित इति
विज्ञातम् । विषयश्च सर्वमुपशान्तमभूद्वासनैवेति ज्ञ एवास्तीति ॥ ८ ॥

विज्ञातं विचार्य निर्धारितं प्रागिति शेषः । सर्वो विषयश्च
वृत्तिभेदश्चेत्युभयमुपशान्तं सद्वासनैवाभूत्तदा तदुपहितो ज्ञो जीव
एवास्ति ॥ ८ ॥

आत्मविदां हि तन्मनः परमुपशममागतं मृगतृणाजलमिव
वर्षति जलदे हिमकण इव चण्डातपे विलीनं तुर्यदशामुपागतं स्थितम् ॥
९ ॥

तेषु जीवेष्वात्मविदां तन्मनः वर्षति जलदे प्रावृषि
मृगतृष्णाजलमिवोपशममागतं सत् चण्डातपे हिमकण इव निलीनं
तुर्यदशामुपागतं सत्तद्भावेनैव स्थितमिति विशेष इत्यर्थः ॥ ९ ॥

नानन्दं न निरानन्दं न चलं नाचलं स्थिरम् ।
न सन्नासन्न चैतेषां मध्यं ज्ञानिमनो विदुः ॥ १० ॥

उक्तमनोदशावर्णनपरं श्लोकमुदाहरति - नानन्दमिति । आनन्दं
विषयसुखविश्रान्तं न । नापि स्वरूपानन्दशून्यम् । अचलं
शिलादिवज्जडावस्थं न । एतेषां उक्तानन्दनिरानन्दचलाचलसदसतां
मध्यं सन्ध्यवस्थारूपं च न किन्तु
परिशेषाद्भूमात्मसुखैकरसमित्यर्थः ॥ १० ॥

न वासनामये स्पन्दरसे गज इव पल्वले मज्जति तज्ज्ञो
मूर्खमनोभोगभूमिमेव पश्यति न सत्तत्त्वं ॥ ११ ॥

ज्ञाज्ञयोर्विशेषान्तरमप्याह - न वासनेत्यादिना । न सत्तत्त्वं
परमार्थतत्त्वम् ॥ ११ ॥

तथाचायमत्रापरो दृष्टान्तः । अकुर्वन्नपि श्वभ्रपतनं
शय्यासनगतोऽपि श्वभ्रपातवासनावासिते चेतसि
श्वभ्रपतनदुःखमनुभवति । अपरस्तु कुर्वन्नपि श्वभ्रपतनं
परममुपशममुपगतवति मनसि शय्यासनसुखमनुभवति ।
एवमनयोः शय्यासनश्वभ्रपातयोरेकः श्वभ्रपतनस्याकर्तापि कर्ता
सम्पन्नो द्वितीयश्च श्वभ्रपतनस्य कर्ताप्यकर्ता
सम्पन्नश्चित्तवशात्तस्माद्यच्चित्तं तन्मयो भवति पुरुष इति सिद्धान्तः
॥ १२ ॥

अज्ञमनसो दुर्वासनादुःखमज्जने स्वप्नो दृष्टान्त इत्युक्त्वोपपादयति -
तथाचेत्यादिना । तथाच श्रुतिरपि अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव
विच्छादयति गर्तमिव पतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते
इति । अपरस्तत्त्वज्ञस्तु । उक्तमुपसंहृत्य प्रकृते योजयति - तस्मादिति ॥ १२ ॥

तेन तत्र कर्तुरकर्तुर्वा नित्यमसंसक्तं भवतु चेतो नहि
किञ्चिदस्त्यात्मतत्त्वव्यतिरिक्तं यत्र संसक्तिर्भाव्यते । यत्किञ्चिदिदं
जगद्गतं तत्सर्वं शुद्धचित्तत्वादाभासमवेहि ॥ १३ ॥

भवतु चेतः । तवेति शेषः । तत्त्वदृशस्तव यत्र संसक्तिः सम्भाव्यते
तदात्मतत्त्वव्यतिरिक्तं नह्यस्ति ॥ १३ ॥

एवं चास्य ज्ञातज्ञेयस्य पुंसो नामात्मा सुखदुःखानां न गम्य इति
निश्चये जाते नात्मव्यतिरिक्ता आधाराधेयदृष्टयो विद्यन्त इति निश्चये जाते
कर्ता भोक्ता सर्वपदार्थव्यतिरिक्तो वालाग्रसहस्रभागोऽहमिति निश्चये
जाते यत्किञ्चिदिदं तत्सर्वमहमेवेति वा निश्चये जाते
सर्वसत्त्वावभासकः सर्वगस्तिष्ठाम्येवाहमिति निश्चये जाते नाहं
सुखदुःखानां गम्य इति विगतज्वरतया चित्तवृत्तिर्लीलयैव तिष्ठते
व्यवहारेषु ॥ १४ ॥

नामेत्यवधारणे निपातः । सुखदुःखानामगम्य एवेति निश्चये जाते
इत्यस्योपपादक आधाराधेयदृष्ट्यसत्त्वनिश्चयस्तदुपपादको
देहातिरिक्तवालाग्रमात्रात्मनिश्चयः सर्वाहम्भावनिश्चयो वा
तद्विशोधनफलभूतः सर्वगतात्मनिश्चयस्तद्द्वारा प्रागुक्तेनाहं
सुखदुःखानां गम्य इति निश्चये जाते
विगतेष्टानिष्टप्राप्तिपरिहारचिन्ताज्वरतया चित्तवृत्तिरात्मन्येव लीलया
प्रारब्धभोगार्थ लीलां प्रकाशयन्ती व्यवहारेषु तिष्ठते ।
प्रकाशनस्थेयाख्ययोश्च इति तङ् ॥ १४ ॥

तज्ज्ञस्य सङ्कटे च मुदितैव केवलं ज्योत्स्नेव भुवनभावमलङ्करोति
येन चित्तादृते तु ज्ञः कुर्वन्नप्यकर्ता सम्पन्नो
मनसोऽलेपकत्वान्नासौ पादपाण्यादिविक्षेपस्य यत्नकृतस्यापि कर्मणः
फलमनुभवति ॥ १५ ॥

अतस्तत्त्वज्ञस्य सङ्कटेष्वपि न दुःखभोक्तृत्वं प्रत्युतानन्द एवेत्याह ##-

एवं मनः सर्वकर्मणां सर्वेहितानां सर्वभावानां सर्वलोकानां
सर्वगतीनां बीजं तस्मिन्परिहृते सर्वकर्माणि परिहृतानि भवन्ति
सर्वदुःखानि क्षीयन्ते सर्वकर्माणि लयमुपयान्ति । मानसेनापि कर्मणा
यत्कृतेनापि ज्ञो नाक्रम्यते न विवशीक्रियते न
रञ्जनामुपैत्यव्यतिरिक्तात् ॥ १६ ॥

मनसः सर्वकार्यमनोबुद्धितद्विषयतद्गतीनां बीजत्वात्तत्त्यागे
सर्वसंसारपरिहारः सिद्ध इत्याह - एवमिति । सर्वकर्माणि सर्वाश्चेष्टाः
सर्वकर्माणि सर्वाणि पुण्यपापानि लयमुपयान्ति मानसेन साङ्कल्पिकेन कृते
शारीरेणापि कर्मणा यद्यस्मात् ज्ञो नाक्रम्यते तत्र हेतुर्न वशीक्रियत इति । तत्र
हेतुर्न रञ्जनामुपैतीति । तत्फले रक्तो हि तत्साधनक्रियया स्वसिद्ध्यै
वशीकृत्य प्रवृर्त्यते । प्रवृत्तश्च तत्कृतगुणदोषैराक्रम्यते । कुतः ।
अव्यतिरिक्तात् परमार्थतः स्वव्यतिरिक्तस्याभावात् ॥ १६ ॥

यथा बालो मनसा नगरस्य निर्माणं निर्मृष्टं च
कुर्वन्नगरनिर्माणं मनःकृतमकृतमिव लीलयानुभवति
नोपादेयतयासुखदुःखमकृत्रिममिति पश्यति नगरनिर्मथनं च
मनःकृतं कृतमिति पश्यतीति दुःखमपि लीलयानुभवन्नपि न
दुःखमिति पश्यति । एवमसौ परमार्थतः कुर्वन्नपि न लिप्यत एवेति ॥ १७ ॥

कृतस्याप्यकृतत्वे दृष्टान्तमाह - यथेत्यादिना । निर्मृष्टं
निर्मितस्य परिष्कारम् । नगरस्य निर्मथनं प्रविलापनप्रयुक्तां निवृत्तिम् ।
कृतं वास्तवम् । दार्ष्टान्तिके उक्तं योजयति - एवमिति ॥ १७ ॥

सर्वभावेषु हेयोपादेयताभ्यां जगति किं कारणं दुःखस्य न
चोपादेये किञ्चिदपि सम्भवति यदविनाशं व्यतिरिक्तं
चात्मनस्तस्मादयमात्माऽकर्ताऽभोक्ताऽतत्त्वतो यदेतत्कर्तृत्वं च
स्वध्यारोप्यते ॥ १८ ॥

इत्थं कर्तृत्वं विचार्य दुःखकारणं विमृशति - सर्वभावेष्विति ।
जगति सर्वभावेषु हेयोपादेयताभ्यां व्यवह्रियमाणेषु दुःखस्य कारणं
किम् । नच हेयं दुःखकारणम् । उपादानपूर्वकत्वाद्धानस्य ।
हेयस्योपादेयत्वाभावादेव ततो दुःखाप्रसक्तेरिति परिशेषादुपादेयं
दुःखहेतुरिति स्यात् । नच तदपि सम्भवतीत्याह - नचोपादेय इति ।
नश्वरादुपादेयाद्दुःखमविनाशिनो विनाशिनो वा । नाद्यः । विनाशिनह्
स्वरक्षणे असमर्थस्य क्वापि कारणत्वायोगात् । न द्वितीयोऽपि । नह्युपादेये जगति
तादृशं किञ्चिदपि सम्भवति यदविनाशि । अतोऽन्यदार्तम् इति श्रुत्या
आत्मव्यतिरिक्तस्य विनाशित्वोक्तेरित्याशयेन हानोपादानतायोग्यत्वादुपादेयस्य
तद्व्यतिरिक्तस्य नश्वरत्वादित्यर्थः । एवं भोग्यदुःखस्य
कारणानिरूपणादप्यात्मा अकर्ता अभोक्ता चेति सिद्धमित्याह - तस्मादिति ।
चकारो भिन्नक्रमः । एतच्च कर्तृत्वं यदनुभूयते तत् अतत्त्वतः सु
अध्यारोप्यते इत्यन्वयः ॥ १८ ॥

आवश्यकं तत्सम्यग्दर्शनमोहान्न वस्तुत इति
यथाभूतवस्तुविचारणात्कर्तृत्वभोक्तृत्वे न स्तः ।
इन्द्रियेन्द्रियार्थद्वेषाभिलाषादिका दृष्टयस्तद्दृष्टीनां दृश्यन्ते
नातद्दृष्टीनाम् ॥ १९ ॥

आवश्यकं जीवता अनिवार्यम् । नहि देहभृता शक्यं त्यक्तुं
कर्माण्यशेषतः इति न्यायादित्यर्थः । आवश्यकत्वं कुतस्तत्राह - इन्द्रियेति
। इन्द्रियैरिन्द्रियार्थेषु द्वेषाभिलाषादिकैस्तन्निमित्तैः
पुण्यपापादृष्टैश्चायस्ता विवशीक्कृता बुद्धिर्येषामज्ञानां
[मूलस्थस्यैव दृष्टिपदस्यायं पर्यायार्थः] तेषामेवेत्यर्थः ॥
१९ ॥

मोक्षोऽस्ति न संसारे स्वसंसक्तमनसामिहासंसक्तमनसां
त्वेतत्सर्वमेवास्ति ॥ २० ॥

अत एव तत्त्वविदां न मोक्षकल्पनाप्यस्तीत्याह - मोक्ष इति ।
स्वस्मिन्पूर्णात्मन्येव संसक्तं मनो येषाम् । इह
स्वात्मन्यसंसक्तमनसामभ्यासदशापन्नानां तु दृष्त्या
एतद्बन्धमोक्षादि सर्वमेवास्ति ॥ २० ॥

यथास्थितं ज्ञस्य केवलमात्मतत्त्वमेवोल्लसति तद्द्वित्वैकत्ववादिसिद्धे
द्वित्वैकत्वे करोति सत्त्वासत्त्वे करोति शक्तिजालादभिन्नां सर्वशक्तितां च
दर्शयति तस्य ॥ २१ ॥

ज्ञस्य दृशा तर्हि किमस्ति तदाह - यथास्थितमिति । कथं तर्हि तस्य
व्यवहारसिद्धिरिति
चेत्परदृष्टिप्रसिद्धद्वित्वैकत्वादेस्तात्कालिकेनाभ्युपगममात्रेणेत्याह -
तद्द्वित्वैकत्वेति । तदात्मतत्त्वमेव तस्य तत्त्वज्ञस्य जीवनादिव्यवहारसिद्धये
द्वित्वैकत्ववादिदृष्टिसिद्धे द्वित्वैकत्वे तत्कालं करोति ॥ २१ ॥

न बन्धोऽस्ति न मोक्षोऽस्ति नाबन्धोस्ति न बन्धनम् ।
अप्रबोधादिदं दुःखं प्रबोधात्प्रविलीयते ॥ २२ ॥

फलितार्थं पद्येनाह - न बन्ध इति । बन्धनं बन्धकारणं
कामकर्मादि ॥ २२ ॥

सङ्कल्पिता जगति मोक्षमतिर्मुधैव
सङ्कल्पिता जगति बन्धमतिर्मुधैव ।
सन्त्यज्य सर्वमनहङ्कृतिरात्मनिष्ठो
धीरो धिया व्यवहरन्भुवि राम तिष्ठ ॥ २३ ॥

उक्तां पूर्णात्मनिष्ठामुपसंहरन् रामायोपदिशति - सङ्कल्पितेति ।
स्पष्टोऽर्थः ॥ २३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे
उपशमवर्णनं नाम अष्टत्रिंशः सर्गः ॥ ३८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
उपशमवर्णनं नाम अष्टत्रिंशः सर्गः ॥ ३८ ॥