षट्त्रिंशः सर्गः ३६
श्रीराम उवाच ।
यथेदृशं स्थितं विश्वं विश्वातीते चिदात्मनि ।
तन्मे कथय हे ब्रह्मन् पुनर्बोधविवृद्धये ॥ १ ॥
स्वतः स्थिता ह्यसक्तैव चित्सर्वत्र स्थितोच्यते ।
चित्स्थित्या सर्वभावानां स्थितिर्न पृथगित्यपि ॥ १ ॥
इदानीं मुख्यं प्रकरणार्थ जगत्स्थितिस्वरूपं जिज्ञासुः श्रीरामः
पृच्छति - यथेति । ईदृशं प्राग्वर्णितप्रकारम् ॥ १ ॥
श्रीवसिष्ठ उवाच ।
यथोर्मयोऽनभिव्यक्ता भाविनः पयसि स्थिताः ।
न स्थिताश्चात्मनोऽन्यत्वाच्चित्तत्वे सृष्टयस्तथा ॥ २ ॥
ब्रह्मसत्तयैव जगत्स्थितिर्न पृथक् । प्राणिनां पृथक्स्वसत्तया
जगत्स्थितिप्रत्ययस्तु ब्रह्मास्वरूपस्थित्यबोधनिबन्धन इति समाधातुकामो
वसिष्ठस्तदनुरूपं दृष्टान्तमाह - यथेत्यादिना ।
सद्रूपादात्मनोऽन्यत्वात्स्वतः सत्त्वशून्यत्वाच्च न स्थिताः ॥ २ ॥
यथा सर्वगतः सौक्ष्म्यादाकाशो नोपलक्ष्यते ।
तथा निरंशश्चिद्भावः सर्वगोऽपि न लक्ष्यते ॥ ३ ॥
यद्यात्मस्थित्यैव सर्वस्थितिस्तर्हि सर्वत्रात्मा कुतो न लक्ष्यते तत्राह - यथेति
। निरम्श इति सौक्ष्म्ये उपपत्तिः ॥ ३ ॥
सुस्थितेवास्थितेवान्तः प्रतिभास्ति मणौ यथा ।
न सत्यभूता नासत्या तथेयं सृष्टिरात्मनि ॥ ४ ॥
सुस्थिते निरावरणस्थिते आस्थिते आवृतस्थिते । प्रतिभा प्रतिबिम्बः । मणौ
स्फटिकादौ । सुस्थिता इव आस्थिता इवेति प्रतिभाविशेषणे वा ॥ ४ ॥
स्वाधारैरम्बुदैः स्वस्थैर्न स्पृष्टं गगनं यथा ।
चित्स्थैः सर्गैश्चिदाधारैर्न स्पृष्टा चित्परा तथा ॥ ५ ॥
असङ्गत्वे दृष्टान्तमाह - स्वेति । अन्योन्यतादात्म्याध्यासाच्चित आधारैः
॥ ५ ॥
जलधिष्ठिततत्तेजो यथाङ्ग प्रतिबिम्बति ।
तथा पुर्यष्टकेष्वेव चिद्धि देहेषु लक्ष्यते ॥ ६ ॥
तर्हि सूक्ष्माच्चिद्घटादाविव देहेऽपि न लक्ष्येत लक्ष्यते तु तत्र को हेतुस्तत्राह
- जलधिष्ठितेति । अङ्गेति सम्बोधने । यथा जले संयुक्ताः किरणाः
सम्पृक्ततया स्फुटं न लक्ष्यन्ते प्रतिबिम्बात्मना तु स्फुटं लक्ष्यन्ते
तद्वत्पुर्यष्टकात्मकेषु देहेष्वित्यर्थः ॥ ६ ॥
सर्वसङ्कल्परहिता सर्वसञ्ज्ञाविवर्जिता ।
सैषा चिदविनाशात्मा तच्चेत्यादिकृताभिधा ॥ ७ ॥
तस्याः प्रतिबिम्बता तदधीनकामसङ्कल्पनामरूपभावत्वाच्च न
वास्तवीत्याह - सर्वेति । किङ्कृता तर्हि जीवाद्यभिधा तदाह - तदिति ।
आदिपदादाभासग्रहः ॥ ७ ॥
आकाशशतभागाच्छा ज्ञेषु निष्कलरूपिणी ।
सकलाकलसंसारस्वरूपैकात्म्यदर्शिनी ॥ ८ ॥
चित्सौक्ष्म्यस्वाच्छ्यपर्यालोचने आकाशोऽपि शतगुणस्थूलोऽस्वच्छश्च स्यादिति
विद्वदनुभवेनाह - आकाशेति । सकलमप्यकलं निष्कलं
संसारस्वरूपं यत्र तथाविधैकात्म्यदर्शनशीलेति विद्वदनुभवाभिनयः ।
अमलेति पाठे मायामलरहितमित्यर्थः ॥ ८ ॥
तरङ्गादिमयी स्फारा नानाता सलिलार्णवे ।
तस्मान्न व्यतिरेकेण यथा भावविकारिणी ॥ ९ ॥
अत एव तत्र भ्रान्तिदृष्टा भावविकारास्तद्व्यतिरेकेण न सन्तीत्याह -
तरङ्गेति द्वाभ्याम् ॥ ९ ॥
त्वत्तामत्तामयि स्फारा नानातेयं चिदर्णवे ।
चिन्मात्रव्यतिरेकेण तथा नैव प्रकाशते ॥ १० ॥
चिच्चिनोति चितं चेत्यं तेनेदं स्थितमात्मनि ।
अज्ञेऽज्ञे त्वन्यदायातमन्यदस्तीति कल्पना ॥ ११ ॥
यदि चित् चेत्यं चिनोति उपचिनोतीति मन्यसे तर्हि चिच्चितमेव चिनोतीति
मन्यस्वनचेत्यमन्यदस्तीति । एवं मनने तेन चितः स्वात्मनि व्यापारायोगेन
हेतुना इदं चित्स्वरूपमात्मन्येव स्थितं न किञ्चिच्चिनोतीति फलतीत्यर्थः । सेयं
परमार्थदृष्टिः । यस्त्वज्ञ एव सन् ज्ञोऽस्मीत्यभिमन्यते तस्यैव
चिद्व्यतिरिक्तं सर्गेष्वन्यदायातमस्तीति च कल्पनेत्यर्थः । अज्ञेऽज्ञे इति वीप्सा वा ॥
११ ॥
अज्ञेष्वसत्स्वभावोग्रसंसारगणगर्भिणी ।
ज्ञेषु प्रकाशरूपैव सकलैकात्मिका सती ॥ १२ ॥
तामेव ज्ञाज्ञयोः कल्पनया चितं पुनर्विभज्याह - अज्ञेष्विति ॥ १२ ॥
अनुभूतिवशान्नित्यमर्कादीनां प्रकाशिनी ।
स्वादिनी सर्वभूतानां भाविनी भवभोगिनाम् ॥ १३ ॥
तस्या एव चितो जगत्प्रकाशभोगजन्मनिर्वाहकतामाह - अनुभूतीति । स्वादिनी
विषयस्वादने निमित्तभूता । भवभोगिनां जीवानां भाविनी जन्मादौ
निमित्तभूता च । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते इति श्रुतेः ॥ १३ ॥
नास्तमेति न चोदेति नोत्तिष्ठति न तिष्ठति ।
न चायाति न वा याति न चेह नच नेह चित् ॥ १४ ॥
अज्ञानां जन्मादिनिमित्तभावेऽपि ज्ञदृशा कूटस्थापरिच्छिन्नैकरूपैव
सेत्याह - नास्तमेतीति ॥ १४ ॥
सैषा चिदमलाकारा स्वयमात्मनि संस्थिता ।
राघवेत्थं प्रपञ्चेन जगन्नाम्ना विजृम्भते ॥ १५ ॥
विजृम्भते विवर्तते ॥ १५ ॥
तेजःपुञ्जैर्यथा तेजः पयःपूरैर्यथा पयः ।
परिस्फुरति संस्पन्दैस्तथा चित्सर्गविभ्रमैः ॥ १६ ॥
चिद्विवर्तोऽपि परमार्थदृशा चिदेवेत्याशयेन दृष्टान्तावाह -
तेजःपुञ्जैरिति ॥ १६ ॥
तत्स्वभावेन चिन्नाम्ना सर्वगेनोदितात्मना ।
प्रकाशेनाप्रकाशेन निरंशेनांशधारिणा ॥ १७ ॥
स्वतःशुद्धस्याप्यविद्यया सर्गविभ्रमैः परिस्फुरणमेव सर्गकर्तृत्वं
नान्यादृशमिति दर्शयितुं तदुपयोगिनी द्वे रूपे आह - तदिति । स्वभावेन
चिन्नाम्ना । व्यवहारतः सर्वगेन । परमार्थतः प्रकाशेन । नाहं जानामीति
व्यवहारादप्रकाशेन । एवमग्रेऽपि ॥ १७ ॥
स्वयं स्वकलनाभोगादनन्तं पदमुज्झता ।
अहमस्मीति भावेन गच्छता ज्ञपदं शनैः ॥ १८ ॥
स्वकलना अविद्यायां स्वप्रतिबिम्बस्तल्लक्षणादाभोगात्कृत्रिमवेषात् । अनन्तं
पदमपरिच्छिन्नस्वरूपमुज्झतेवाप्रतिसन्दधानेन । अज्ञपदं जीवताम् ॥ १८ ॥
नानातायां प्ररूढायामस्यां संसृतिपूर्वकम् ।
भावाभावग्रहोत्सर्गपदे स्थितिमुपागते ॥ १९ ॥
इदमस्ति इदं नास्तीति भावाभावौ । इदं ग्राह्यमिदं
त्याज्यमितीष्टानिष्टयोर्ग्रहोत्सर्गौ च । तेषां पदे स्थाने देहात्मभावे ॥ १९ ॥
पुर्यष्टकस्पन्दशतैः करोति न करोति च ।
उत्सेधमेति भूकोशकोटरस्थोऽङ्कुरोत्करः ॥ २० ॥
अध्यस्तात्मभावपुर्यष्टकस्पन्दशतैर्विहितनिषिद्धकर्मभिर्भोग्यं
जगत्करोति न करोतीति । वस्तुतः तत्तद्वस्तुभावेन करणप्रकाशने प्रपञ्चयति
- उत्सेधमित्यादिना । उत्सेधमुपचयेनौन्नत्यम् ॥ २० ॥
व्योम सौषिर्यमादत्ते सर्वमूर्त्यविरोधि यत् ।
स्पन्दैकधर्मवान्वातो रसरूपतया जलम् ॥ २१ ॥
भुवोङ्कुरात्मनोत्सेधे भूतान्तरभावेन तदानुकूल्याचरणमाह -
व्योमेति । यदि व्योम सौषिर्यं नादद्यान्निरवकाशोऽङ्कुरो न निर्गच्छेत् । एवं
स्पन्दात्मको वायुराकर्षति येनाङ्कुरो निर्गच्छतीत्याह - स्पन्देति । एवं
जलं स्वरसेनाङ्कुरं स्नेहयतीत्याशयेनाह - रसेति ॥ २१ ॥
दृढोर्वी प्रकटं तेजः स्थितिमन्ति जगन्ति च ।
प्रतिबन्धाभ्यनुज्ञासु कालः कलनया स्थितः ॥ २२ ॥
एवमुर्वी स्वदार्ढ्यदानेनाङ्कुरमनुगृह्णातीत्याशयेनाह - दृढेति ।
तेजश्च रूपदानेन प्रकटीकरोतीत्याशयेनाह - प्रकटमिति । एवं
सर्वजगन्ति तत्तत्कार्याणां स्थित्यविघाताभ्यामनुग्राहकाणीत्याशयेनाह ##-
यवाङ्कुरोद्गमाभ्यनुज्ञानेन चानुग्राहक इत्याह - प्रतिबन्धेति ।
कलनया परिणामकतया ॥ २२ ॥
पुष्पेषु गन्धतां याति शनैः सञ्चितकेसरम् ।
मृत्कोटररसोल्लासः स्थाणुतामेति भूतले ॥ २३ ॥
पूर्वपुण्यादिभावापन्ना चिद्गन्धाद्यात्मना विवर्तत इत्याह - पुष्पेष्विति ।
मृदन्तर्गतरसभावापन्ना चित् स्थाणुतां तरूपचयेन तन्मूलदारुताम् ॥ २३ ॥
मूलस्थाः फलमायान्ति पेलवा रसलेशकाः ।
सन्निवेशं व्रजन्त्येता रेखाः पल्लवपालिषु ॥ २४ ॥
मूलस्थरसभावापन्ना च फलभावं याति । त एव रसाः पल्लवपालिषु
प्रविष्टा रेखाः शिरा भूत्वा पत्रादिसन्निवेशं व्रजन्ति ॥ २४ ॥
नवतामनुगृह्णाति शक्रबाणासनेन च ।
यो [योयो नूतनतासम्पादनपूर्वकोऽनुग्रहः] यो भवत्यविरतं
संस्थानेन वनेन च ॥ २५ ॥
शक्रबाणासनेनेन्द्रचापेन समामिति शेषः । नवतां वृक्षस्य नूतनतां च
सम्पादयन्ननुगृह्णाति ॥ २५ ॥
वसन्तमुपतिष्ठन्ति पुष्पपल्लवराशयः ।
निदाघविधिमायान्ति दैवदाहविभूतयः ॥ २६ ॥
तस्या ऋतुरूपेणापि कार्यानुग्राहकत्वं प्रपञ्चयति - वसन्तमित्यादिना ।
दैवस्य सौरस्य तेजसो दाहविभूतयस्तापशक्तयः ॥ २६ ॥
प्रावृट्समयमीहन्ते नीला जलदराशयः ।
शरदं चानुधावन्ति समग्राः फलराशयः ॥ २७ ॥
समग्राः क्षेत्रेषु प्रचुरीभूता धान्यादिफलराशयः ॥ २७ ॥
हेमन्ते हिमहासिन्यो भवन्ति ककुभो दश ।
नयन्त्युपलतामम्बु शिशिरे शीतलानिलाः ॥ २८ ॥
न जहाति स्वमर्यादां कालो युगमयीमिमाम् ।
तरङ्गिणीतरङ्गौघलीलया यान्ति सृष्टयः ॥ २९ ॥
संवत्सरयुगादिकालात्मना च तस्याः सर्गादिमर्यादानुग्राहकत्वमाह -
न जहातीति ॥ २९ ॥
नियतिः स्थितिमायाति स्थैर्यचातुर्यकारिणी ।
तिष्ठत्याप्रलयं धीरा धराधरणधर्मिणी ॥ ३० ॥
नियत्यादिरूपेणापि तस्या जगन्मर्यादाव्यवस्थापकत्वमाह - नियतिरिति ।
स्थैर्यचातुर्यकारित्वमेव धरादावुदाहृत्य दर्शयति - तिष्ठतीति -
धरणधर्मिणी सर्वजनाधारस्वभावा ॥ ३० ॥
चतुर्दशविधानीह भूतानि भुवनान्तरे ।
नानाचारविहाराणि नानाविरचनानि च ॥ ३१ ॥
चतुर्दशलोकवासित्वाच्चतुर्दशविधानि भूतानि प्राणिनः ॥ ३१ ॥
पुनःपुनर्विलीयन्ते जायन्ते च पुनःपुनः ।
धारापरम्परा याति विना वारीव बुद्बुदाः ॥ ३२ ॥
भूतानां धारा परम्परा जन्ममरणप्रवाहपरम्परा यात्यपगच्छति
तत्त्वज्ञानेनेति शेषः ॥ ३२ ॥
आयाति याति परितिष्ठति लीलयाटि-
स्वार्थानुपार्जयति धावति जन्मनाशैः ।
उन्मत्तवद्विहितभावनमाहितेहा
मुग्धा कृतान्तविवशा जनता वराकी ॥ ३३ ॥
उक्तमेवार्थं प्रपञ्चयन्नुपसंहरति - आयातीति । ब्रह्माण्डकोटिलक्षणा
तदन्तर्गतप्राणिलक्षणा च शोच्यत्वाद्वराकी जनता विहितभावनं यथा
स्यात्तथा । प्राक्तनसङ्कल्पवासनारागादिति यावत् । आहितेहा उद्भूतकामा
स्वरूपविचारवार्तानभिज्ञत्वान्मुग्धा उन्मत्तवदिह लोके जन्मभिरायाति
परलोकं याति परितश्च स्थावरादिजन्मभिस्तिष्ठति लीलया भोगकौतुकेन
अतिशयितान् ऐहिकामुष्मिकभोगोपायधनधर्मादिलक्षणान्स्वार्थानुपार्जयति
जन्मनाशैर्धावति संसारे इत्थं भ्रमतीत्यर्थः ॥ ३३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे
चिदादित्यस्वरूपवर्णनं नाम षट्त्रिंशः सर्गः ॥ ३६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
चिदादित्यस्वरूपवर्णनं नाम षट्त्रिंशः सर्गः ॥ ३६ ॥