३५

पञ्चत्रिंशः सर्गः ३५

श्रीवसिष्ठ उवाच ।

जयन्ति ते महाशूराः साधवो यैर्विनिर्जितम् ।
अविद्यामेदुरोल्लासैः स्वमनो विषयोन्मुखम् ॥ १ ॥

इह चित्तशमोपायो भोगेच्छात्याग उच्यते ।
सत्सङ्गमविवेकात्मबोधरूढसमाधियुक् ॥ १ ॥

तत्र मनोनिग्रह एव मुख्योपायोऽन्ये तदर्था इत्याशयेन तमेव प्रथमं
प्रशंसन्प्रस्तौति - जयन्तीति द्वाभ्याम् ॥ १ ॥

संसारस्यास्य दुःखस्य सर्वोपद्रवदायिनः ।
उपाय एक एवास्ति मनसः स्वस्य निग्रहः ॥ २ ॥

श्रूयतां ज्ञानसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
भोगेच्छामात्रको बन्धस्तत्त्यागो मोक्ष उच्यते ॥ ३ ॥

मनोनिग्रहोपायेषु भोगेच्छात्यागो मुख्य इत्याह - श्रूयतामिति ॥ ३ ॥

किमन्यैः शास्त्रसन्दर्भैः क्रियतामिदमेव तु ।
यद्यत्स्वाद्विह तत्सर्वं दृश्यतां विषवह्निवत् ॥ ४ ॥

तस्मिंश्च विषयेषु दोषदर्शनाद्बीभत्सा उपाया इत्याशयेनाह -
किमन्यैरिति ॥ ४ ॥

विषमा विषयाभोगाः प्रविचार्य पुनःपुनः ।
उपरिष्टात्परित्यज्य सेव्यमानाः सुखावहाः ॥ ५ ॥

तत्राविचार्य सहसा विषयत्यागो दुःखद एव विचार्य गुरुशास्त्रोक्तक्रमेण
त्यागस्त्वापातकटुकोऽप्युदर्के महासुख इत्याह - विषमा इति ।
विषयाणामभोगास्त्यागा विषमाः । विनाविचारमिति शेषः । पुनःपुनः
प्रविचार्य सहनाभ्यासादुपरिष्टात्क्रमेण भोगवासनाः परित्यज्य
सेव्यमानास्तु परिपाके सुखावहा इत्यर्थः ॥ ५ ॥

दोषान्प्रसवति स्फारान्वासनावलिता मतिः ।
कीर्णकण्टकबीजा भूः कण्टकप्रसरं यथा ॥ ६ ॥

भोगवासनासु सतीषु का हानिस्तत्राह - दोषानिति । दोषान् रागादीन् प्रसवति
पुनःपुनर्विषयस्मारणेनोत्पादयति । कीर्णानि कण्टकद्रुमबीजानि यस्याम् ॥ ६ ॥

अलग्नवासनाजाला मतिः प्रसरवर्जिता ।
अदृष्टरागद्वेषा या शममेति शनैः परम् ॥ ७ ॥

अतो या मतिरलग्नवासनाजाला अत एवादृष्टरागद्वेषा अत एव
प्रसरश्चाञ्चल्यं तद्वर्जिता सती सा शनैः शममेतीत्यर्थः ॥ ७ ॥

शुभाशुभानसद्ग्लानीन्प्रसूते सुगुणान्सदा ।
फलदानङ्कुरान्काले श्रेष्ठबीजवतीव भूः ॥ ८ ॥

शुभा मतिः असती अविद्यमाना ग्लानिर्दुःखं येभ्यस्तथाविधान्सुगुणान्
शान्तिदान्त्यादिसद्गुणयुक्तान् शुभानेव
ज्ञानसमाधिविश्रान्तिलक्षणान्मोक्षफलदानङ्कुरान्सूते । यथा शाल्यादि
श्रेष्ठबीजवती भूमिरित्यर्थः ॥ ८ ॥

शुभभावानुसन्धानात्प्रसन्ने मनसि स्थिते ।
शनैः शनैः प्रशान्ते च मिथ्याज्ञानघनाम्बुदे ॥ ९ ॥

दयादाक्षिण्यक्षमादिशुभभावाभ्यासमारभ्य समाधिपर्यन्तानि
मनोविश्रान्तिसाधनानि क्रमेणाह - शुभेत्यादिना । सर्वेषां
भावलक्षणसप्तम्यन्तानां मनो भवति निर्द्वन्द्वमित्यत्रान्वयः ॥ ९ ॥

वृद्धिं याते च सौजन्ये यक्षे शुक्ल इवोडुपे ।
विवेके प्रसृते पुण्ये नभसीवार्कतेजसि ॥ १० ॥

उडुपे चन्द्रे ॥ १० ॥

धृतावन्तर्विवृद्धायां मुक्तायामिव कीचके ।
स्थितावन्तः कृतार्थायां मधाविव निशाकरे ॥ ११ ॥

धृतौ इन्द्रियनिग्रहधैर्ये । कीचके वेणौ ।
करीन्द्रजीमूतवराहशङ्खमत्स्यादिशुक्त्युद्भववेणुजानि । मुक्ताफलानि
प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि ॥ इत्यष्टसु मुक्ताप्रकारेषु
[मुक्ताकरेषु इति पाठः] वेणूनामपि रत्नशास्त्रे परिगणितत्वात् ।
अन्तर्हृदि मनसि स्थितौ आत्मसौख्यलाभेन कृतार्थायाम् ॥ ११ ॥

फलिते शीतलच्छाये सत्सङ्गसफलद्रुमे ।
स्रवत्यानन्दसुरसे समाधिसरलद्रुमे ॥ १२ ॥

सत्सङ्गो गुर्वादिसमागमः ॥ १२ ॥

मनो भवति निर्द्वन्द्वं निष्कामं निरुपद्रवम् ।
प्रशान्तचापलानर्थशोकमोहभयामयम् ॥ १३ ॥

क्षीणशास्त्रार्थसन्देहं विगताशेषकौतुकम् ।
निरस्तकल्पनाजालं मोहमुक्तमलेपकम् ॥ १४ ॥

कौतुकं विचित्रविषयदर्शनोत्कण्ठा ॥ १४ ॥

निरीहं निरुपाक्रोशं निरपेक्षं निराधिकम् ।
संशान्तशोकनीहारमसक्तं ग्रन्थिवर्जितम् ॥ १५ ॥

कामो [त्रयोदशे श्लोके निष्काममित्युक्त्यात्र च
निरीहनिरपेक्षत्वप्रतिपादनात्प्राप्तं पौनश् *? यं परिहरति]
बीजावस्था । अपेक्षा प्रवृत्त्युन्मुखावस्था । ईहा प्रवृत्त्यवस्थेति भेदान्न
पौनरुक्त्यम् । ग्रन्थिभिरासङ्गैर्वर्जितं भवतीति सर्वत्रानुकृष्यते ॥ १५ ॥

सन्देहोग्रसुतं साग्रं सतृष्णादारपञ्जरम् ।
नाशयित्वा स्वमात्मानं साधयत्यर्थमैश्वरम् ॥ १६ ॥

एवम्भूतं मनः किं करोति तदाह - सन्देहेति । क आत्मा कीदृशो वा कैः
साधनैर्वा लभ्यः कर्मभिर्ज्ञानेन वा कीदृशं वा ज्ञानं साधनानि च
तस्य कानि स्युर्नानावादिभिरन्यथान्यथा निरूपणादित्यादिबहुविधसन्देहा एव
उग्राः सुता दुष्पुत्रा यस्य तथाविधम् । अग्रैः
शाखाप्रायैर्नानामनोरथारम्भैः सहितम् । तृष्णालक्षणा ये दाराः
पञ्जरं स्थूलशरीरं च तत्सहितं आत्मानं स्वं मनः स्वरूपं
नाशयित्वा स्वस्येश्वरो यः प्रत्यगात्मा तत्सम्बन्धिनमर्थं
जीवन्मुक्तिलक्षणं परमपुरुषार्थ साधयतीत्यर्थः ॥ १६ ॥

आत्मपीवरताहेतून्विकल्पांश्चायमुज्झति ।
संस्मृत्य प्रभुतामेषु जहाति तृणवत्तनुम् ॥ १७ ॥

मनः केन क्रमेण स्वात्मानं नाशयति तमाह - आत्मेति ।
प्रथममात्मनः स्वस्य पीवरता
पुष्टिस्तद्धेतूनरिमित्रसाध्वसाध्वादिविकल्पानुज्झति । कथम् । एषु विकल्पेषु
स्वस्य उत्पादन इव निग्रहेऽपि प्रभुतां समर्थतां संस्मृत्य विचिन्त्येत्यर्थः
। ततस्तनुं देहाकारं स्वीयं कल्पितरूपं तृणवज्जहाति । यावदेव हि
देहाहम्भावेन वासितं मनो देहाकारं भवति तावदेव
देहानुकूलप्रतिकूलविषयेषु रागद्वेषातिप्रभवैर्विकल्पसहस्रैर्वर्धते
तस्मिंस्तु क्षीणे क्षीयत इति भावः ॥ १७ ॥

मनसोऽभ्युदयो नाशो मनोनाशो महोदयः ।
ज्ञमनो नाशमभ्येति मनोऽज्ञस्य विवर्धते ॥ १८ ॥

ननु स्वनाशस्याभ्युदयत्वाभावात्प्रत्युतानर्थरूपत्वात्तत्र मनः कथं
प्रवर्ततां तत्राह - मनस इति । अयं भावः - नहि मनः
स्वातन्त्र्येणाभ्युदयमिच्छति किन्त्वात्मभूतत्वात् आत्मभूतस्य च
मनोभावोऽनर्थस्तन्नाशस्तु
सर्वानर्थप्रहाणरूपत्वान्निरतिशयानन्दस्वरूपपरिशेषाच्चाभ्युदय एवेति ।
प्रत्यगात्मनस्तु स्वरूपलाभान्महोदयत्वं निर्विवादमेवेत्याशयेनाह -
मनोनाश इति । तर्हि देहाहङ्कारत्यागमात्रं कार्यं किं
ब्रह्मात्मताज्ञानेन तत्राह - ज्ञमन इति । ज्ञस्य ब्रह्मात्मैक्यज्ञस्य ।
अज्ञस्येति । अज्ञानरूपे मलेऽनुच्छिन्ने मनो भूयः प्ररोहत्येवेति भावः ॥ १८ ॥

मनोमात्रं जगच्चक्रं मनः पर्वतमण्डलम् ।
मनो व्योम मनो देवो मनो मित्रं मनो रिपुः ॥ १९ ॥

प्ररोहतां का हानिस्तत्राह - मनोमात्रमिति । जगदनर्थप्राप्तिरेव हानिरिति
भावः ॥ १९ ॥

विकल्पकलुषा या स्याच्चित्तत्त्वस्यात्मविस्मृतिः ।
मन इत्युच्यते सेयं वासना भवभागिनी ॥ २० ॥

तर्हि तस्य मनसः किं स्वरूपं यदवश्योच्छेद्यं तदाह - विकल्पेति ।
आत्माप्रतिसन्धाननिमित्तनानाविकल्पवासना एव तत्स्वरूपमित्यर्थः ॥ २० ॥

चेत्यानुपातकलितचिन्मात्रे तिष्ठताभिधम् ।
मनाग्विकल्पकलुषं चित्तत्त्वं जीव उच्यते ॥ २१ ॥

अस्त्वेवेंविधं मनस्तेन बध्यो जीवः कस्तमाह - चेत्येति । मनसि चेत्यस्य
विषयस्य योऽनुपातो वासनात्मना प्रवेशस्तेन कलिते परिच्छिन्ने चिन्मात्रे ।
तिष्ठतीति तिष्ठस्तद्भावस्तिष्ठता । व्यत्ययेन कर्तरि शः ।
स्थितिरित्यभिधाशब्दव्यवहारयोग्यता यस्मिंस्तथाविधं
मनाग्विकल्पवासनाकलुषं ब्रह्म तदेव जीव इत्युच्यत इत्यर्थः ॥ २१ ॥

चेत्यप्रपतितं रूढसञ्ज्ञमज्ञत्वमागतम् ।
तदेवाधिकनिःसारं कल्प्यतेऽन्तर्मनस्तया ॥ २२ ॥

यतश्चेत्ये प्रपतितं तत्रैव चिराभ्यासाद्रूढा सञ्ज्ञा आत्मत्वाभिमानो यस्य
तथाविधं यदज्ञत्वं स्वरूपविस्मरणमागतं यज्जीवरूपं तदेव
विकल्पसहस्रैर्मोमुह्यमानतया सारभूतसुखस्वभावतापहाराद्यदा
अधिकनिःसारं भवति तदा जीवोपकरणमनस्तया भेदेन कल्प्यत इत्यर्थः ॥ २२

नात्मा संसारिपुरुषो न शरीरं न शोणितम् ।
जडं सर्वं शरीरादि देही खवदलेपकः ॥ २३ ॥

एवं जीवतदुपाधी प्रदर्श्य तद्विविक्तं शुद्धात्मस्वरूपं दर्शयति -
नेत्यादिना । संसारिपुरुषो जीवस्वभावो वस्तुतो न भवतीत्यर्थः ॥ २३ ॥

शरीरे कणशः कृत्ते नास्त्यन्यद्रुधिरादिकात् ।
निर्भिन्ने कदलीस्तम्भे नास्त्यन्यत्पल्लवादृते ॥ २४ ॥

जडत्वमेव स्फुटयति - शरीरे इति । कृत्ते छिन्ने ।
पल्लवात्पल्लवप्रकृतित्वक्सङ्घातात् ॥ २४ ॥

मनो जीवो नरं विद्धि तदेवाकारमागतम् ।
आत्मनात्मानमादत्ते स्वविकल्पात्मकल्पितम् ॥ २५ ॥

स्वविकल्पान्नरस्तत्र प्रसार्य रचयत्यलम् ।
जालमात्मनिबन्धाय कोशकारकृमिर्यथा ॥ २६ ॥

विकल्पान् विकल्पवासनाः । प्रसार्य उद्भाव्य । नरो जीवः ॥ २६ ॥

इमं देहभ्रमं त्यक्त्वा देशकालान्तरे पुनः ।
शरीरत्वमथादत्ते पल्लवत्वमिवाङ्कुरः ॥ २७ ॥

तद्देहात्मकत्वाभावे युक्तिमाह - इममिति । शरीरत्वं देहान्तरभावम् ॥
२७ ॥

यादृग्वासनमेतत्स्यान्मनस्तादृक्प्रजायते ।
जातं स्वपिति यच्चित्तं तत्स्वप्ने निशि तिष्ठति ॥ २८ ॥

शरीरस्य वासनामयत्वे युक्तिमाह - यादृगिति । चित्तं यज्जातं सत्स्वपिति
स्वप्ने तदेव भूत्वा तिष्ठतीत्यन्वयः ॥ २८ ॥

अम्लं मधुरसासिक्तं मधुरं मधुरञ्जितम् ।
बीजं प्रतिविषाकल्कसिक्तं च कटु जायते ॥ २९ ॥

विषयस्य वासनाधायकत्वे दृष्टान्तमाह - अम्लमिति । अम्लं
तिन्तिण्याद्यम्लं बीजं मधुरसासिक्तं चेदङ्कुरादिक्रमेण वृक्षीभूय
फलकालेऽपि मधुरञ्जितं सत् मधुरं जायते तदेव बीजं प्रतिविषायाः
विषप्रतिनिधिभूतधत्तूरकरञ्जादिवल्ल्याः कल्केन रसेन सिक्तं चेत् फलकालेऽपि
कटु जायते इति लोके आरामशास्त्रे च प्रसिद्धमित्यर्थः ॥ २९ ॥

शुभवासनया चेतो महत्या जायते महत् ।
भवतीन्द्रमनोराज्य इन्द्रता स्वप्नभाङ्नरः [स्वप्नभाङ्कुरः इति
क्वचित्] ॥ ३० ॥

क्षुद्रवासनया चेतःक्षुद्रतामपि पेलवाम् ।
पिशाचविभ्रमात्स्वप्ने पिशाचान्निशि पश्यति ॥ ३१ ॥

पेलवां पश्यतीत्यपकृष्यते ॥ ३१ ॥

सरसि स्फारनैर्मल्ये कालुष्यं याति न स्थितिम् ।
तथैव स्फारकालुष्ये प्रसादो याति न स्थितिम् ॥ ३२ ॥

नैर्मल्ये कृतेऽपि पुनर्व्युत्थाने द्वैतदर्शनात्कालुष्यप्रसक्तिमाशङ्क्याह

  • सरसीति । एतेनाल्पविवेकादिना नैर्मल्यस्थितिप्रसक्तिरपि वारितेत्याशयेनाह
  • तथैवेति ॥ ३२ ॥

मनसि स्फारकालुष्ये तद्रूपं जायते फलम् ।
तथैव स्फारनैर्मल्ये तद्रूपं जायते फलम् ॥ ३३ ॥

त्यजत्युदारां न गतिं क्षीणोऽप्यनिशमुत्तमः ।
उद्योगवानविरतं पूरणाशामिवोडुपः ॥ ३४ ॥

ननु तर्हि देशोपप्लवादिना चिरसमाधिभङ्गे पुनः कालुष्यं
स्यादित्याशङ्क्याह - त्यजतीति । क्षीणो दारिद्र्याद्युपप्लुतोऽपि । उदारां
शान्तिं समाधानादिचित्तप्रसादनगतिम् ॥ ३४ ॥

नेह बन्धो न मोक्षोऽस्ति नाबन्धोऽस्ति [न बोध्यो न च बन्धनं इति
पाठः । आद्ये न बन्धतेत्यत्र बन्धशब्दादर्श आद्यत्वि
बन्धवत्तेत्यर्थः] न बन्धता ।
मिथ्योत्थितैव मायेयमिन्द्रजाललता यथा ॥ ३५ ॥

अथवा तत्त्वबोधबाधितत्वादेव नोपप्लवसहस्रेऽपि
कालुष्यप्रसक्तिरित्याशयेनाह - नेहेति ॥ ३५ ॥

गन्धर्वनगराकारा मृगतृष्णा इवोत्थिता ।
द्विचन्द्रविभ्रमाभासा द्वैतैकत्वविवर्जिता ॥ ३६ ॥

मायामेव विशिनष्टि - गन्धर्वेति । द्वैतैकत्वविवर्जितेत्युत्तरान्वयि ॥ ३६ ॥

सर्वैव ब्रह्मसत्तेयमित्येषा परमार्थता ।
परिस्फुरति निःसारः संसारोऽयमसन्मयः ॥ ३७ ॥

का तर्हि परमार्थता तामाह - सर्वैवेति ॥ ३७ ॥

नानन्तोऽहं वराकोऽहमिति दुर्निश्चयोदितः ।
अनन्तोऽस्मीश्वरोऽस्मीति निश्चयेन विलीयते ॥ ३८ ॥

अहमनन्तोऽपरिच्छिन्नो न । अत एव वराकः क्षुद्रः ॥ ३८ ॥

सर्वगे स्वात्मनि स्वच्छे एषोऽहमिति भावना ।
एतत्तद्बन्धनं लोके स्वविकल्पोपकल्पितम् ॥ ३९ ॥

एषः एतद्देहमात्रः ॥ ३९ ॥

बन्धमोक्षदशाहीना द्वित्वैकत्वविवर्जिता ।
सर्वैव ब्रह्मसत्तेयमित्येषा परमार्थता ॥ ४० ॥

नैर्मल्यप्राप्तमरणमसक्तं सर्वदृष्टिषु ।
अमनस्त्वमिहापन्नं ब्रह्म पश्यति नान्यथा ॥ ४१ ॥

नैर्मल्यातिशयेन प्राप्तं सन्निहितं मरणं स्वनाशो यस्य तथाविधं अत
एवामनस्त्वमापन्नं मन इह अस्मिन्नधिकारिशरीर एव ब्रह्म पश्यति ॥ ४१ ॥

मनो निर्मलतां यातं शुभसन्तानवारिभिः ।
ब्राह्मीं दृष्टिमुपादत्ते रागं शुक्लपटो यथा ॥ ४२ ॥

शुभसन्तानं समाध्यभ्यासजन्यधर्मोपचयस्तल्लक्षणवारिभिः ।
ब्राह्मीं दृष्टिं सर्वत्र ब्रह्मदृष्टिम् । रागं रञ्जकद्रव्यवर्णम् ॥ ४२ ॥

सर्वमेव ममात्मेति सर्वभावनयानघ ।
हेयादेयबले क्षीणे बन्धमोक्षो विमुच्यताम् ॥ ४३ ॥

बन्धसापेक्षो मोक्षोऽपि विमुच्यताम् ॥ ४३ ॥

शुद्धस्य मनसः कायशास्त्रवैराग्यबुद्धिभिः ।
अभिजातोपलस्येव जगत्तस्येति [जगत्तस्यैवेति पाठः] विद्युतिः ॥ ४४ ॥

ननु कायादिबन्धः सत्यः किं न स्यादिति चेन्न ।
मनोविकारमात्रत्वान्मानोरथिकप्रासादादिवदित्याशयेनमाह -
शुद्धस्येति । आदावनधिकार्यधिकारिशरीराभिमानात्कायात्मना ततः
सच्छास्त्रश्रवणाभिमानाच्छास्त्रात्मना वैराग्यात्मना तत
आत्मबोधाद्बोधात्मना च । शुद्धस्य मनस एव अभिजातोपलस्य स्फटिकस्येव
इति विद्युतिर्विविधप्रतिभास एव जगत्संसार इत्यर्थः ॥ ४४ ॥

पदार्थेनैकतामेत्य मनसो नैकतानता ।
असत्यज्ञानदृष्टिं तां विद्धि क्षणविनाशिनीम् ॥ ४५ ॥

द्वैतदर्शनक्षण एव बन्धप्राप्तिमात्मदर्शनक्षण एव सद्योमोक्षप्राप्तिं
च करतलामलकवद्विविच्य दर्शयति - पदार्थेनेति श्लोकद्वयेन ॥ ४५ ॥

सबाह्याभ्यन्तरं त्यक्त्वा सर्वां दृश्यदृशं यदा ।
मनस्तिष्ठति तल्लीनं सम्प्राप्तं तत्पदं तदा ॥ ४६ ॥

दृश्यदृष्टिः स्फुटा येयं सा ह्यवश्यमसन्मयी ।
तन्मयत्वं च मनसः स्वरूपं विद्धि नेतरत् ॥ ४७ ॥

तन्मयत्वं दृश्यदृष्टिप्रचुरत्वम् ॥ ४७ ॥

आद्यन्तयोर्विनाशित्वान्मध्येऽपि तदसन्मयम् ।
अज्ञातमनसस्तेन दुःखिता हस्तसंस्थिता ॥ ४८ ॥

दृश्यदृष्टेरसन्मयत्वं कुतस्तत्राह - आद्यन्तयोरिति । विनाशित्वात्
असत्त्वात् । एवमसदित्यज्ञातं मनो येन तस्य हस्तसंस्थिता करप्राप्तेव न
दुरन्वेषेत्यर्थः ॥ ४८ ॥

आत्मैवेदं जगदिति विना भावेन दुःखदा ।
दृश्यश्रीरन्यथा त्वेषा भोगमोक्षप्रदायिनी ॥ ४९ ॥

इति भावेन बोधेन विना दृश्यश्रीर्दुःखदा । अन्यथा तादृशबोधसत्त्वे तु
भोगग्रहणमज्ञभोगवद्दुर्वासनाधानप्रयुक्तदुःखबीजत्वा##-
द्यतनार्थम् ॥ ४९ ॥

जलमन्यत्तरङ्गोऽन्य इति नानातयाऽज्ञता ।
जलमेव तरङ्गोऽयमित्येकत्वात्किल ज्ञता ॥ ५० ॥

लोकवदेव शास्त्रेऽज्ञताज्ञते बोध्ये नापूर्वे इत्याह - जलमिति ॥ ५० ॥

दुःखमायात्यसदिति हेयोपादेयरूपि यत् ।
तदभावेन तु ज्ञानादानन्त्यमवशिष्यते ॥ ५१ ॥

नानाता कुतो हेया एकता च कुत उपादेया तत्राह - दुःखमिति ।
हेयोपादेयरूपि यन्नानात्वं तदसदविद्यमानमिति हेतोर्दुःखं
जन्ममरणाद्यायाति अनुसरति अतो हेयम् । तदभावेन
त्वात्मतत्त्वज्ञानादानन्त्यमपरिच्छिन्नात्मरूपमवशिष्यते
अतस्तदुपादेयमित्यर्थः ॥ ५१ ॥

सङ्कल्पकल्पितत्वाच्च मनोरूपमसन्मयम् ।
असन्मयविनाशे तु कः शोको वद राघव ॥ ५२ ॥

ननु प्रियतममनोबुद्ध्यादिद्वैतस्य सत्यत्वादात्मोपकरणत्वाच्च तन्नाशे
धनादिनाश इव शोकः स्यात्तत्राह - सङ्कल्पेति ॥ ५२ ॥

अवत्सलो यथा बन्धुररागद्वेषया धिया ।
दृश्यते पश्य तद्वत्त्वं तत्त्वं पञ्जरमात्मनः ॥ ५३ ॥

किञ्च रागद्वेषयोः सतोरिष्टहानादनिष्टप्राप्तेश्च शोकः स्यात्तौ त्यक्त्वा
उदासीनदृशा देहत्रयपञ्जरं पश्यतो न शोकप्रसक्तिरित्याशयेनाह -
अवत्सल इति । अवत्सलो निःस्नेहः । तत्त्वं पृथिव्यादिभूततत्त्वरूपम् ॥ ५३ ॥

अवत्सलाद्यथा बन्धोः सुखदुःखैर्न लिप्यते ।
तत्त्वेन [ज्ञानेनेति पाठान्तरम्] सम्परिज्ञानात्तथा
तत्त्वचयात्मनः ॥ ५४ ॥

तत्त्वचयात्मनो भूतराशिमात्रस्वभावाद्देहद्वयपञ्जरात् ॥ ५४ ॥

तदनादि शिवं ज्ञानं यन्मध्यं द्रष्टृदृश्ययोः ।
तस्मिन्सत्ये मनः शान्तं पांसुर्वायुक्षये यथा ॥ ५५ ॥

यस्मिन्नधिष्ठाने मनःक्षयस्तत्स्वरूपमाह - तदिति । शिवं
नित्यनिरतिशयानन्दरूपम् । द्रष्टृदृश्ययोर्मध्यं दृग्रूपमित्यर्थः ॥
५५ ॥

उपशान्ते मनोवायौ देहपांसुः प्रशाम्यति ।
पुनः संसारनगरे न नीहारः प्रवर्तते ॥ ५६ ॥

मनोनाशे स्थूलदेहोऽप्यसन्भवतीत्याह - उपशान्ते इति । संसारस्य
नगरवदधिष्ठाने प्रतीचि नीहारो नीहारवदावरिका अविद्या क्षीणत्वान्न
प्रवर्तते ॥ ५६ ॥

वासनाप्रावृषि क्षीणे संस्थितौ राममागते ।
जाड्ये जनितहृत्कम्पे पङ्के शोषमुपागते ॥ ५७ ॥

तत्क्षयप्रकारमेव शरत्कालत्वेनोपपादयति - वासनेत्यादिना । क्षीणे इति
पदसंस्कारपक्षे सामान्ये नपुंसकम् । संस्थितौ स्वरूपस्थितौ रमणं
रामो विहारस्तमागते प्राप्ते मनसीति शेषः । रागमिति पाठे
ताद्रूप्यरञ्जनमित्यर्थः । जनितो हृत्कम्पो भयं येन तथाविधे जाड्ये
मौढ्ये । पक्षान्तरे शैत्ये तद्रूपे पङ्के शोषमुपागते सति ॥ ५७ ॥

शुष्के तृष्नावटे शान्ते मन्दे हृदयकानने ।
क्षीणेष्वक्षकदम्बेषु मिथ्याज्ञानघने क्षते ॥ ५८ ॥

मन्दे रागादिगुल्मविरले । अक्षकदम्बेषु इन्द्रियसमूहलक्षणकदम्बवृक्षेषु
क्षीणेषु क्षीणफलेषु ॥ ५८ ॥

क्षीयते मोहमिहिका प्रभात इव शर्वरी ।
क्वापि गच्छति तज्जाड्यं विषं मन्त्रहतं यथा ॥ ५९ ॥

देहाद्रौ न भयक्षुद्राः सरितः प्रसरन्त्यलम् ।
नोल्लसन्ति लसत्पक्षाः सङ्कल्पोग्रकलापिनः ॥ ६० ॥

भयलक्षणाः क्षुद्राः सरितः कुल्याः । कलापिनो मयूराः ॥ ६० ॥

परां निर्मलतामेति संविदाकाशगोचरः ।
राजतेऽतितरामच्छो जीवादित्यो महोदयः ॥ ६१ ॥

स्वरूपसंविल्लक्षणे आकाशे गोचरः अपरोक्षं स्फुरन् ॥ ६१ ॥

घनमोहभरोन्मुक्ता विविक्तत्वं परं गताः ।
समये ह्यतिशोभन्ते धौता आशा महादिशः ॥ ६२ ॥

विविक्तत्वं विवेकितां विभक्ततां च । समये समाध्यादिकाले
सूर्यचन्द्रोदयकाले च । धौता रजोभिरदूषिता आशास्तृष्णास्तल्लक्षणा
महादिशः ॥ ६२ ॥

भृशमाभाति विमला मुदिताकाशमञ्जरी ।
शीतलीकृतदिक्चक्रा शरद्व्योम्नीव चन्द्रिका ॥ ६३ ॥

मुदिता पुण्यफलानुशायिनी चित्तवृत्तिस्तल्लक्षणा चित्ताकाशस्य मञ्जरी ॥ ६३ ॥

सर्वसम्पत्प्रकाशेन परमानन्ददायिना ।
भृशं सफलतामेति सुविविक्ता विवेकभूः ॥ ६४ ॥

सर्वाः सम्पदो विषयानन्दलवान् स्वान्तर्भावेण प्रकाशयतीति
सर्वसम्पत्प्रकाश आत्मा तल्लक्षणेन फलेन सस्य्स्फलपक्षे तु सर्वेषां
कृषीवलादीनां भाविसम्पदः प्रकाशयतीति तेनेति योज्यम् । सुविविक्ता
सम्यक्परिशोधिता केदारभेदैर्विभक्ता च ॥ ६४ ॥

सपर्वतवनाभोगं परमालोकसुन्दरम् ।
अच्छाच्छं शितलच्छायं जायते भुवनान्तरम् ॥ ६५ ॥

परमालोकेनात्मप्रकाशेन सूर्यचन्द्रज्योतिषा च तत्त्वपक्षे शीतला
त्रिविधतापशून्या छाया चिदाभासो यस्मिन्नित्यर्थः । शरत्पक्षे स्पष्टम् ॥ ६५

विस्तारितं सुसुमतां स्फारितं स्फटिकाकृतिम् ।
उपैति हृत्सरः स्वच्छं नीरजोम्बुजकोशकम् ॥ ६६ ॥

परिच्छेदापगमाद्विस्तारितम् । विवेकजलोपचयात्स्फारितम् ।
हृन्मनस्तल्लक्षणं सरः । निर्गतरजोगुणो हृदयाम्बुजकोशो यत्र ।
शरत्पक्षे स्पष्टम् ॥ ६६ ॥

हृत्पद्मकोशान्मलिनः स्वाहङ्कारमधुव्रतः ।
अपुनर्दर्शनायैव चञ्चलः क्वापि गच्छति ॥ ६७ ॥

नीरजस्त्वं कार्यतोऽप्याह - हृदिति ॥ ६७ ॥

भवत्यपगताक्षेपः सर्वगः सर्वनायकः ।
निर्वासनः शान्तमनाः स्वदेहनगरेश्वरः ॥ ६८ ॥

अपगत आक्षेपः सङ्कोचो यस्य अत एव सर्वगः ॥ ६८ ॥

विचारणासमधिगतात्मदीपको
मनस्यलं परिगलितेव धीरधीः ।
विलोकयन्क्ष्यभवनीरसा गती-
र्गतज्वरो विलसति देहपत्तने ॥ ६९ ॥

एवं वासनाक्षयफलानि प्रपञ्च्य तैरेव जीवन्मुक्तस्थितिं दर्शयति -
विचारणेति । अवमत्य स्वदोषान् धीरा धीर्यस्य तथाविधः सन् क्षयेषु मृत्युषु
भवेषु जन्मसु च पारलौकिकीरैहलौकिकीश्च नीरसा गतीर्विलोकयन्
विचारणासमधिगतात्मदीपको भूत्वा जीवन्मुक्तो गतज्वरः सन् नेहपत्तने
स्वशरीरनगरे विलसति विराजते इत्यर्थः ॥ ६९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपाये
स्थितिप्रकरणे उपशमवर्णनं नाम पञ्चत्रिंशः सर्गः ॥ ३५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
उपशमवर्णनं नाम पञ्चत्रिंशः सर्गः ॥ ३५ ॥