३४

चतुस्त्रिंशः सर्गः ३४

श्रीवसिष्ठ उवाच ।

अत्र ते शृणु वक्ष्यामि दामादिषु गतेष्वथ ।
यद्वृत्तं शम्बरस्यैव नगरे नगसन्निभे ॥ १ ॥

भीमभासदृढैः कृत्तैर्देवैरभ्यर्थितो हरिः ।
शम्बरं निजघानात्र ते च मुक्ता विवासनाः ॥ १ ॥

ज्ञानविवेकयोरभावे सम्पन्नमपि निर्वासनत्वं दुरभ्यासेन विहन्यते ।
तयोर्दार्ढ्ये तु तस्य ह न देवाश्च नाभूत्या ईशते आत्मा ह्येषां स भवति इति
श्रुत्युक्तदिशा न देवैरपि पुनर्बन्धः कर्तुं शक्य इत्यर्थे
भीमभासदृढन्यायं निदर्शयितुमुपक्रमते - अत्रेत्यादिना । अत्र
भावादहङ्कृतिं त्यक्त्वेत्यादिवर्णितेऽर्थे । नगसन्निभे सम्पदा मेरुसदृशे
॥ १ ॥

तथा गगनविभ्रष्टे समस्ते ध्वस्तसंस्थितौ ।
विनष्टे शम्बरानीके शरदीवाब्दमण्डले ॥ २ ॥

तथा वर्णितप्रकारेण । गगनाद्विभ्रष्टे अधःपतिते सति । ध्वस्तसंस्थितौ
भिन्नमर्यादे ॥ २ ॥

देवनिर्जितसैन्योऽसौ नीत्वा कतिपयाः समाः ।
पुनर्देववधोद्युक्तश्चिन्तयामास दानवः ॥ ३ ॥

असौ दानवः शम्बरः ॥ ३ ॥

दामादयस्तु रचिता ये मया माययाऽसुराः ।
मौर्ख्यात्तैर्भाविता युद्धे मिथ्यैव दुरहङ्कृतिः ॥ ४ ॥

चिन्ताप्रकारमेवाह - दामादय इत्यादिना ॥ ४ ॥

इदानीं संसृजाम्यन्यान्दानवान्माययोदितान् ।
तानप्यध्यात्मशास्त्रज्ञान्सविवेकान्करोम्यहम् ॥ ५ ॥

तानध्यात्मशास्त्रज्ञान् सविवेकानपि करोमीत्यन्वयः ॥ ५ ॥

ततस्तत्त्वपरिज्ञानान्मिथ्याभावनयोज्झिताः ।
नाहङ्कारं प्रयास्यन्ति विजेष्यन्ति च तान्सुरान् ॥ ६ ॥

इति सञ्चिन्त्य दैत्येन्द्रस्तादृशान्दानवान्धिया ।
माययोत्पादयामास बुद्बुदानिव वारिधिः ॥ ७ ॥

वरप्राप्तिविद्याबलवशीकृताविद्यालक्षणया मायया ॥ ७ ॥

सर्वज्ञा वेद्यवेत्तारो वीतरागा गतैनसः ।
यथाप्राप्तैककर्तारो भावितात्मान उत्तमाः ॥ ८ ॥

एकविज्ञानेन सर्वविज्ञानात्सर्वज्ञाः । वेद्यात्मतत्त्ववेत्तृत्वादेव
वीतरागादिविशेषणा ॥ ८ ॥

भीमो भासो दृढ इति नामभिः परिलाञ्छिताः ।
जगत्तृणमिवाशेषं पश्यन्तः पावनाशयाः ॥ ९ ॥

ते दैत्या भुवनं प्राप्य च्छादयामासुरम्बरम् ।
गर्जन्तो हेतितडितः प्रावृषीव पयोधराः ॥ १० ॥

भुवनमूर्ध्वभुवनम् । हेतितडित इत्युपमानपक्षे इवार्थगर्भो बहुव्रीहिः ॥
१० ॥

अयुध्यन्त समं देवैरपि वर्षगणान्बहून् ।
विवेकवशतो जग्मुर्नाहङ्कारं कदाचन ॥ ११ ॥

तेषां यावदुदेत्यन्तर्ममेदमिति वासना ।
तावत्कोऽयमहं चेति विचाराद्यात्यसत्यताम् ॥ १२ ॥

असच्छरीरं विबुधाः कोऽसावहमिति स्थितिः ।
विचारादित्थमेतेषां प्रोदगुर्न भयादयः ॥ १३ ॥

येभ्यो भेतव्यं यदर्थे च तदुभयं मिथ्येति विचाराद्भयाद्यनुदय इत्याह

  • असदिति । शरीरं विबुधाश्च असत् ।
    नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् इत्येकशेषैकवद्भावः ॥ १३ ॥

असच्छरीरं नास्तीदं चिच्छुद्धैवात्मनि स्थिता ।
अहन्नाम न चान्योऽस्ति निश्चित्यैवासुरा ययुः ॥ १४ ॥

ततस्तैर्निरहङ्कारैर्जरामरणनिर्भयैः ।
प्राप्तार्थकारिभिर्धीरैर्वर्तमानानुसारिभिः ॥ १५ ॥

असक्तबुद्धिभिर्नित्यं हतान्यैरप्यहन्तृभिः ।
वासनाजालनिर्मुक्तैः कृतकार्यैरकर्तृभिः ॥ १६ ॥

हता अन्ये यैस्तथाविधैरपि हन्तृत्वाभिमानाभावादहन्तृभिः ॥ १६ ॥

प्रभोः कार्यमिदं कार्यमिति सङ्गरतत्परैः ।
वीतरागैर्गतद्वेषैः सर्वदा समदृष्टिभिः ॥ १७ ॥

तर्हि तेषां कुतः सङ्गरे प्रवृत्तिस्तत्राह - प्रभोरिति । प्रभोः शम्बरस्य
दृशा इदं कार्यम् । तस्याज्ञत्वादित्यर्थः । अथवा सेवकीभूतैः सदसद्वा
प्रभोः कार्यमवश्यं कार्यमिति नियतिरिति हेतोः सङ्गरतत्परैर्नतु
फलाभिलाषयेत्यर्थः ॥ १७ ॥

सा दैवी दानवैः सेना भीमभासदृढादिभिः ।
हता भुक्ता हृता प्लुष्टा स्वान्नश्रीरिव भोक्तृभिः ॥ १८ ॥

भुक्ता जवेन वशीकृत्य सेवादिनोपभुक्तेत्यर्थः ॥ १८ ॥

भीमभासदृढक्षुण्णा जाता गीर्वाणवाहिनी ।
परिदुद्राव वेगेन गङ्गेव हिमवच्च्युता ॥ १९ ॥

सा सुरानीकिनी देवं क्षीरोदार्णवशायिनम् ।
जगाम शरणं शैलं वातार्तेवाब्दमालिका ॥ २० ॥

सुराणां अनीकिनी सेना ॥ २० ॥

हरिराश्वासयामास तां भीतां देववाहिनीम् ।
भुजङ्गाभिवृतामेकां रमणीमिव नायकः ॥ २१ ॥

भुजङ्गैर्विटैर्बलादुपभोगायाभिवृताम् । भीतामित्यस्या अपि विशेषणम् ।
नायको भर्ता ॥ २१ ॥

अथ क्षीरोदकुहरे तावत्सा सुरवाहिनी ।
उवास यावद्भगवांस्तन्निरासार्थमुद्ययौ ॥ २२ ॥

क्षीरोदस्य कुहरे श्वेतद्वीपे । तावत् यावच्छम्बरस्यायुःक्षयस्तावत् । तस्य
शम्बरस्य निरासो वधस्तदर्थम् ॥ २२ ॥

बभूव दारुणं युद्धं शौरिशम्बरयोस्ततः ।
अकाल इव कल्पान्ते समुड्डीनकुलाचलम् ॥ २३ ॥

कल्पान्त इव अकालेऽपि समुड्डीनकुलाचलं युद्धम् ॥ २३ ॥

शशाम समरे तस्मिन्दैत्यः सबलवाहनः ।
नारायणहतो यातः शम्बरो वैष्णवीं पुरीम् ॥ २४ ॥

शशाम । मृत इति यावत् । वैष्णवीं पुरीं यातः । ये ये हताश्चक्रधरेण
दैत्यास्त्रैलोक्यनाथेन जनार्दनेन । ते ते गता विष्णुपुरं नरेन्द्र क्रोधोऽपि
देवस्य वरेण तुल्यः ॥ इति शास्त्रादित्यर्थः ॥ २४ ॥

भीमभासदृढास्ते तु तस्मिन्विषमसङ्गरे ।
विष्णुनैव शमं नीताः पवनेनेव दीपिकाः ॥ २५ ॥

शमं विदेहकैवल्यम् ॥ २५ ॥

ते हि निर्वासना एव यदा शान्तिमुपागताः ।
न तदैषां गतिर्ज्ञाता दीपानामिव शाम्यताम् ॥ २६ ॥

तेषामपि शम्बरवत्प्रसक्तां देशान्तरगतिं प्रतिषेधति - ते हीति । वासना
हि गतिकारणम् । तदेष सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य इति
श्रुतेः । निर्वासनत्वात्तेषां गत्यभावादेव गतिर्न ज्ञातेत्यर्थः ॥ २६ ॥

तस्माद्वासनया बद्धं मुक्तं निर्वासनं मनः ।
राम निर्वासनीभावमाहरस्व विवेकतः ॥ २७ ॥

उक्तां कथां प्रकृते योजयन्नुपसंहरति - तस्मादिति । आहरस्व आनय ।
अवश्यं सम्पादयेति यावत् ॥ २७ ॥

सम्यगालोकनात्सत्याद्वासना प्रविलीयते ।
वासनाविलये चेतः शममायाति दीपवत् ॥ २८ ॥

तदाहरणे क उपायस्तमाह - सम्यगिति ।
सत्याद्यथाभूतार्थगोचरात्सम्यगालोकनाद्रत्नतत्त्वसाक्षात्कारवच्चिरविचारप्र्
अणिधानजनितसाक्षात्कारादित्यर्थः । चेतो मनः । शमं नाशम् ॥ २८ ॥

न सत्यं किञ्चिदेवेह सद्भावो भावयत्यलम् ।
नास्त्येव भावना तस्मादित्येतत्सम्यगीक्षणम् ॥ २९ ॥

सम्यगालोकनप्रकारमिदानीं दर्शयति - न सत्यमिति । अलं पूर्णः
सद्भावः परमार्थसत्यश्चिदात्मा यदिदं दृश्यं भावयति तत्किञ्चिदपि
न सत्यम् । तस्मात्तस्य दृश्यस्य भावना दर्शनमपि दृश्यविशेषिताकारा
नास्त्येव इति एतत्स्वप्रकाशचिन्मात्रपरिशेषदर्शनमेव सम्यगीक्षणमित्यर्थः
॥ २९ ॥

आत्मैवेदं जगत्सर्वं कः किं भावयतु क्व वा ।
भावना नाम नास्त्येव तदेतत्सम्यगीक्षणम् ॥ ३० ॥

कः किं भावयत्विति त्रिपुटीनिषेधः । क्वेत्याधारनिषेधः । भावनेति
तत्संस्कारनिषेधः ॥ ३० ॥

वासनाचित्तनामानौ शब्दावर्थसमन्वितौ ।
सत्यावलोकनाद्यत्र विलीनौ तत्परं पदम् ॥ ३१ ॥

वासना चित्तमितिशब्दावपि राहोः शिर इतिवद्वैकल्पिकभेदकल्पनात्तन्नामानौ ॥
३१ ॥

वासनावलितं चित्तमिह स्थितिमुपागतम् ।
तदेव तद्विनिर्मुक्तं विमुक्तमिति कथ्यते ॥ ३२ ॥

विमुक्तं जीवन्मुक्तम् । विदेहकैवल्ये चित्तस्याभावात् ॥ ३२ ॥

नानाघटपटाकारैश्चेतःस्थितिमुपागतम् ।
तदेवाशु शमं नेयं मिथ्यायक्ष इवोत्थितः ॥ ३३ ॥

मिथ्यायक्षो बालवेताल इव ॥ ३३ ॥

दामव्यालकटाकारैश्चेतः परिणतं यथा ।
भीमभासदृढन्यायो राघवास्त्वचलस्तव ॥ ३४ ॥

देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् । आत्मन्येव भवेद्यस्य स
नेच्छन्नपि मुच्यते इति न्यायाद्दामव्यालकटदेहात्मभावनया यथा तेषां
चेतः परिणतं तथैव ब्रह्मात्मभावनया
भीमभासदृढन्यायस्तवाचलोऽस्त्वित्यर्थः ॥ ३४ ॥

दामव्यालकटन्यायो मा ते भवतु राघव ।
एतद्राम पुरा प्रोक्तं पित्रा कमलजेन मे ॥ ३५ ॥

स्वोक्तार्थे सादरग्रहणसिद्धये पितृप्रसादलब्धतां दर्शयन्पुनः
स्नेहातिशयात्तमेवार्थं स्थिरयन्नुपदिशति - दामेत्यादिना ॥ ३५ ॥

भवते यन्मया प्रोक्तं शिष्यायात्यन्तधीमते ।
दामव्यालकटन्यायस्तस्मान्मा तेऽस्तु राघव ।
भीमभासदृढन्यायो नित्यमस्तु तवानघ ॥ ३६ ॥

अविरलसुखदुःखसङ्कटेयं
भवपदवी भवतापनोपयाता ।
व्यवहरणवतो विभूतियातौ
सततमसक्ततयैव नश्यतीति ॥ ३७ ॥

इति उक्तप्रकारेण भीमभासदृढन्यायेन व्यवहरणवतस्तव
सर्वव्यवहारविषयेष्वसक्ततयैव
विभूतेस्तत्त्वबोधपरिपाकलक्षणस्यैश्वर्यस्य यातौ प्राप्तौ सत्यां
अविरलसुखदुःखसङ्कटा भवेषु जन्मपरम्परासु तापनाय
त्रिविधतापभोगायोपयाता भवपदवी मूलोच्छेदेन नश्यति नान्यथेत्यर्थः ॥
३७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे
दामव्यालकटोपाख्यानसमाप्तिर्नाम चतुस्त्रिंशः सर्गः ॥ ३४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
दामव्यालकटोपाख्यानसमाप्तिर्नाम चतुस्त्रिंशः सर्गः ॥ ३४ ॥