त्रयस्त्रिंशः सर्गः ३३
श्रीवसिष्ठ उवाच ।
सर्वातिशयसाफल्यात्सर्वं सर्वत्र सर्वदा ।
सम्भवत्येव तस्मात्त्वं शुभोद्योगं न सन्त्यज ॥ १ ॥
वर्ण्यतेऽत्र शुभोद्योगसाधुसच्छास्त्रवैभवम् ।
बन्धोऽहङ्कारतस्तस्य त्यागान्मुक्तिश्च विस्तरात् ॥ १ ॥
वक्ष्यमाणस्य शुभोद्योगादेः सेवनोत्कर्षे फलावश्यम्भावं दर्शयितुं
सामान्यन्यायं दर्शयति - सर्वेति । सर्वेषां साधनातिशयानां
साफल्यनियमात्सर्वत्र दृष्टकृस्।इसेवादिसाधने शास्त्रीयमोक्षसाधने
शुभोद्योगादौ च सर्व स्वस्वानुरूपं फलं सम्भवत्येव न कदापि
वैफल्यं तस्मान्मोक्षफलार्थी त्वमपि शुभोद्योगं कदापि न
सन्त्यजेत्यर्थः ॥ १ ॥
मित्रस्वजनबन्धूनां नन्दिनानन्ददायिना ।
सरसीशानमासाद्य मृत्युरप्युपनिर्जितः ॥ २ ॥
तत्र शास्त्रीयशुभोद्योगस्यासाध्यं किञ्चिन्नास्त्येवेति दर्शयितुं
नन्दीश्वरोपाख्यानादि सङ्क्षिप्योदाहरति - मित्रेत्यादिना । शिलादनामा किल
मुनिः सर्वज्ञं पुत्रं कामयमानस्तपसा भगवन्तं रुद्रं
प्रसादयामास । तस्मै चिरेण तपसा प्रसन्नो वरं दास्यन्किल स भगवानुवाच
। न मत्तोऽन्यः सर्वज्ञः सम्भवत्यतोऽहमेवांशेनावतीर्णस्ते पुत्रो
भविष्यामि स ते मदंशजः पुत्रः ॐषशवर्षे मृत्युपदं यातेति ।
तच्छ्रुत्वा शिलादस्तद्वचनं प्रतिकूलयितुमशक्नुवंस्तमेव शरणं
गतस्तथास्त्वित्यनुमेने । अथ तस्य सर्वज्ञः पुत्रो नन्दिनामा बभूव । स बाल
एव पितुः सकाशात्स्वस्य भाविमृत्युपाशबन्धनं श्रुत्वा तपसा तमेव
रुद्रमाराधयामास । अथ षोडशे वर्षे सरस्तीरे लिङ्गार्चनकाले मृत्युना
पाशैर्वध्यमानस्तत्रैवाविर्भूतेन शिवेन मृत्युं वामपादाग्रेण हत्वा
पाशांश्छित्त्वा स जरामृत्युवर्जितः स्वानुचरः कृतः इति लैङ्गे प्रसिद्धम्
॥ २ ॥
सर्वोत्कर्षेण सम्पन्ना देवा अपि विमर्दिताः ।
दानवैर्दानवार्थाढ्यैर्गजैः पद्माकरा इव ॥ ३ ॥
दानवैर्बलिप्रभृतिभिः दानवैः सैनिकैरर्थैर्घनैश्चाढ्यैः
सम्पन्नतरैः ॥ ३ ॥
मरुत्तनृपतेर्यज्ञे संवर्तेन महर्षिणा ।
ब्रह्मणेवापरः सर्गो भावितः ससुरासुरः ॥ ४ ॥
यद्यपि महाभारते मरुत्तयज्ञे विघ्नं चिकीर्षोः सुरसैन्यसहितस्येन्द्रस्य
संवर्तेन स्वसङ्कल्पमात्रेण वशीकृतस्य देवैः सह यज्ञपरिचारकत्वं
कृतमित्येवं प्रसिद्धम् तथापि पुराणान्तरे सुरासुरसर्गारम्भोऽपि
क्वचिच्छ्रुयत एवेति कल्पान्तरकथात्वान्न विरोधः ॥ ४ ॥
महातिशययुक्तेन विश्वामित्रेण विप्रता ।
भूयोभूयः प्रयुक्तेन दुष्प्रापा तपसार्जिता ॥ ५ ॥
पिष्टसेकाम्बु दुष्प्रापं रसायनवदश्नता ।
दुर्भगेनेदृशेनाप्तः क्षीरोद उपमन्युना ॥ ६ ॥
पिष्टसेकाम्बु पिष्टमिश्रितोदकं तदपि रोदनादियत्नप्राप्यत्वाद्दुष्प्रापम्
[प्राप्येति पदं क्वचिन्न पठ्यते] । ईदृशेन दुर्भगेन
भाग्यहीनेनाप्युपमन्युना क्षीरोदः क्षीरसमुद्रस्तपसा शिवप्रसादादाप्तः
प्राप्त इति भारतादौ प्रसिद्धम् ॥ ६ ॥
त्रैलोक्यमल्लांस्तृणवदश्नन्विष्ण्वब्जजादिकान् ।
भक्त्यातिशयदार्ढ्येन कालः श्वेतेन कालितः ॥ ७ ॥
त्रैलोक्यमल्लान् । अतिबलत्वेन ख्यातानिति यावत् । तथाविधानपि
विष्ण्वब्जजादिकांस्तृणवदश्रन्ग्रसन् । तथाच भार्गवाख्याने कालवचनं
संसारावलयो भुक्ताः इत्यादि । श्वेतेन श्वेताख्येन मुनिना कालो मृत्युः
कालितो निर्जितः । इदमपि लैङ्गे प्रसिद्धम् ॥ ७ ॥
प्रणयेन यमं जित्वा कृत्वा वचनसङ्गमम् ।
परलोकादुपानीतः सावित्र्या सत्यवान्पतिः ॥ ८ ॥
सावित्र्या राजकन्यया प्रणयेन भर्तृप्राणानुगमनस्तुत्यादिप्रीणनोपायेन
यमं जित्वा वशीकृत्य ऋते सत्यवतः प्राणादन्यं वरं वृणीष्वेति
यमवचनस्य स्वस्याः सत्यवतः शतपुत्रोत्पत्तिवरप्रार्थनावचनेन
सङ्गमं सम्बन्धम् । सावित्र्युपाख्यानमपि भारते प्रसिद्धमेव ॥ ८ ॥
न सोऽस्त्यतिशयो लोके यस्यास्ति न फलं स्फुटम् ।
भवितव्यं विचार्यान्तः सर्वातिशयशालिना ॥ ९ ॥
अतिशयः शास्त्रीयशुभोद्योगातिशयः । तर्हि नानाविधशुभोद्योगेषु दर्शितेषु
मादृशेन कुत्रातिशायिना भाव्यं तत्राह - भवितव्यमित्यादिना ।
अधिकारिणा न मूढवत्क्षुद्रफलप्रार्थनया फल्गुना भवितव्यं
किन्त्वन्तर्मनसि फलतारतम्यं विचार्य सर्वातिशायिफललाभेन
सर्वातिशयशालिना भवितव्यमित्यर्थः ॥ ९ ॥
आत्मज्ञानमशेषाणां सुखदुःखदशादृशाम् ।
मूलकाषकरं तस्माद्भाव्यं तत्रातिशायिना ॥ १० ॥
सर्वातिशयश्चात्मज्ञानादेव यतस्तदशेषाणां
सुखदुःखजन्ममरणादिदशाभ्रान्तिदृष्टीनां मूलोच्छेदकरं
तस्मात्तत्रैव शुभोद्योगातिशयशालिना भाव्यमित्यर्थः ॥ १० ॥
नाशायापद्गतार्थिन्या दृष्ट्या दृश्यादिदृष्टयः ।
दुःखादृते निराबाधं सुखं किं चिदवाप्यते ॥ ११ ॥
तत्रादौ भोगरागदृष्टीनां विनाशाय तत्तद्विषयदोषदृष्टयोऽन्वेष्टव्या
इत्याह - नाशायेति । क्षुत्तृष्णाकामाद्यापद्गतानर्थयति
विषयोपहारेणानुगृह्णातीत्यापद्गतार्थिन्या दृष्ट्याः
भोगदृष्टेर्नाशाय प्रथमं तद्विरोधिविषयदोषदृष्टयो दृश्या
अन्वेष्टव्याः । हिशब्दस्तदावश्यकत्वद्योतनार्थः । ननु तदन्वेषणे
विषयत्यागपर्यवसानात्सद्यो दुःखं स्यादिति चेत्तत्राह - दुःखादिति ।
वैराग्याभ्यासादिदुःखादृते निराबाधं भूमानन्दसुखं चित् किं
अवाप्यते । नावाप्यत एवेत्यर्थः । किञ्चिदिति च्छेदे तु काकुर्बोध्यः ॥ ११ ॥
अशमः परमं ब्रह्म शमश्च परमं पदम् ।
यद्यप्येवं तथाप्येनं प्रथमं विद्धि शङ्करम् ॥ १२ ॥
ननु सर्वविषयदुःखत्यागमप्यङ्गीकृत्य वैराग्येण
रागादिदोषप्रशमोऽवश्यं सम्पाद्यः स्याद्यदि प्राप्यं ब्रह्म सशममेव
पुरुषार्थः स्यात् । नतु तथा । शमस्यापि
सात्त्विकचित्तवृत्तिभेदस्यान्तःकरणधर्मस्याद्वितीये
ब्रह्मण्यभावात्सुखैकरसब्रह्मातिरिक्तस्य दृश्यतया
परमपुरुषार्थघटकत्वाभावाच्चेत्याशङ्कामर्धाङ्गीकारेण परिहरन्
शमस्यावश्यकत्वं दर्शयति - अशम इति । सत्यमशमश्चिदात्मैव
परमं ब्रह्म तथापि शमोऽपि सनिदानसंसारानर्थनिवृत्तिरूपः परमं
पदं परमपुरुषार्थो भवत्येव । यद्यप्येवं द्वयमपि सममिति प्राप्तं
तथापि एनं प्रशमं शं भूमानन्दब्रह्मसुखं करोत्यभिव्यनक्तीति
शङ्करं विद्धि । नह्यनभिव्यक्तसुखस्य पुरुषार्थतेति त्दुपयोगितास्याधिकेति
भावः ॥ १२ ॥
अभिमानं परित्यज्य शममाश्रित्य शाश्वतम् ।
विचार्य प्रज्ञयार्यत्वं कुर्यात्सज्जनसेवनम् ॥ १३ ॥
इदानीं प्रशमोपायमाह - अभिमानमिति । शाश्वतं यत्कैवल्यमविचालि
आर्यत्वं मोक्षयोग्याभ्यर्हितजन्मादिशालितां स्वस्य विचार्य परिशील्य ॥ १३ ॥
न तपांसि न तीर्थानि न शास्त्राणि जयन्ति च ।
संसारसागरोत्तारे सज्जनासेवनं विना ॥ १४ ॥
चित्तशुद्ध्यर्थं सेवितानां तप आदीनामपि सज्जनसेवनद्वारैव ज्ञानोपयोगो
नान्यथेत्याशयेनाह - नेति । जयन्ति । ज्ञानोत्पत्तये प्रभवन्तीति यावत् ॥ १४ ॥
लोभमोहरुषां यस्य तनुतानुदिनं भवेत् ।
यथाशास्त्रं विहरति स्वस्वकर्मसु सज्जनः ॥ १५ ॥
इदानीं सज्जनलक्षणमाह - लोभेति । यस्य सेवनादिति शेषः ॥ १५ ॥
अथात्मविदुषां सङ्गात्तस्य साधोः प्रवर्तते ।
अत्यन्ताभाव एवास्य यथा दृश्यस्य दृश्यते ॥ १६ ॥
सदा सज्जनसेवापरायणस्य कदाचिदात्मवित्सङ्गोऽप्यवश्यं भवति येन
ज्ञानलाभ इत्याह - अथेति ॥ १६ ॥
दृश्यात्यन्ताभावतस्तु परमेवावशिष्यते ।
अन्याभाववशादाशु जीवस्तत्रैव लीयते ॥ १७ ॥
तेन तस्य परमपुरुषार्थोऽपि सिद्ध्यतीत्याह - दृश्येति ॥ १७ ॥
नचोत्पन्नं नचैवासीद्दृश्यं नच भविष्यति ।
वर्तमानेऽपि नैवास्ति परमेवास्त्यवेधितम् ॥ १८ ॥
परमेवावशिष्यते इति यदुक्तं तद्दृश्यात्यन्ताभावोपपादनेन समर्थयति
- नचेत्यादिना । अवेधितमतोदितं अपीडितमिति यावत् ॥ १८ ॥
एवं युक्तिसहस्रेण दर्शितं दृश्यतेऽपि च ।
सर्वैरेवानुभूतं च दर्शयिष्यामि चाधुना ॥ १९ ॥
यथोत्पत्त्यादिकं न सम्भवति तथोत्पत्तिप्रकरणेऽपि
युक्तिभिरुपपादितमुपपादयिष्यते चेत्याह - एवमिति । यथा
सर्वैर्विद्वद्भिरनुभूतं च तथा ते इदं त्रिजगत्संविदम्बरं अधुना
दर्शयिष्यामि चेति परेण सहान्वयः ॥ १९ ॥
तथेदममलं शान्तं त्रिजगत्संविदम्बरम् ।
इदं तत्त्वमतत्त्वादि कुतोऽत्र स्यात्कथं च वा ॥ २० ॥
तदेव दर्शयति - इदं तत्त्वमिति । इदं संविदम्बरं तत्त्वं
परमार्थरूपम् अत्र अतत्त्वं माया तदेव आदि मूलकारणं यस्य तद्वियदादि
कुतः स्यात् । किं सत उत असत उत मायायाः । आद्ययोरविकारत्वान्माययोत्पादे
मिथ्यात्वापत्तेरनुत्पत्तिपक्षस्यैव परिशेषात् । एवं कथं वा स्यात् । अच्छिद्रे
कूटस्थनित्ये चिदात्मनि छिद्रस्वभावस्य
वियतष्टङ्कसहस्रैरप्युत्पादयितुमशक्यत्वादित्यर्थः ॥ २० ॥
चिच्चमत्कुरुते चारु चञ्चलाऽचञ्चलात्मनि ।
यत्तयैव तदेवेदं जगदित्यवबुध्यते ॥ २१ ॥
यदि नोत्पन्नमेव कथं तर्हि जगदिति सर्वैरवबुध्यते तत्राह - चिदिति ।
अचञ्चलात्मनि कल्पितचाञ्चल्येन चञ्चला मायाप्रतिबिम्बचिद्यच्चमत्कुरुते
जगद्भावमिव कल्पयति तदेव जगदिति तयैवावबुध्यत इत्यर्थः ॥ २१ ॥
त्रैलोक्यभूयोनुभवश्चिदादित्यांशुमण्डलम् ।
को वा स्वांशुमतोर्भेदो निर्विकल्पः स कथ्यताम् ॥ २२ ॥
नन्वियं जगदवबोधचित्सविकल्पा ब्रह्मचिन्निर्विकल्पेति जगद्भेदमपलपितुं
प्रवृत्तस्य ते प्रत्युत चित्यपि भेदः प्रसक्त इत्याशङ्क्याह - त्रैलोक्येति ।
त्रैलोक्ये यावान्भूयाननुभवः स सर्वोऽपि ब्रह्मचिदादित्यस्यांशुमण्डलं
किरणसमूह इव वस्तुतो न भिद्यत इत्यर्थः ।
स्वस्यांशुमण्डलस्यांशुमतश्च को वा भेदः । विकल्पानां मिथ्यात्वे स
त्रैलोक्यभूयोनुभवोऽपि निर्विकल्पक एव कथ्यतामित्यर्थः ॥ २२ ॥
स्वाभावतोऽस्याश्चिद्दृष्टेर्ये [चिद्वृत्तेरिति पाठश्चेत्तर्हि
व्याख्यानुकूलः स्यात्] उन्मेषनिमेषणे ।
जगद्रूपानुभूतेस्तावेतावस्तमयोदयौ ॥ २३ ॥
अस्याः सविकल्पायाश्चिद्वृत्तेश्चिदाभासस्य उन्मेषो जगदनुभूतेरुदयो
निमेषोऽस्तमय इत्यार्थक्रमप्राबल्यात्पाठव्युत्क्रमेण योज्यम् । अथवास्या
निर्विकल्परूपायाश्चिद्वृत्तेश्चरमसाक्षात्कारस्य उन्मेषो
जगद्रूपानुभूतेरस्तमयो निमेषोऽनाविर्भावस्तूदय इति पाठक्रमेणैव
योज्यम् ॥ २३ ॥
अहमर्थोऽपरिज्ञातः परमार्थाम्बरे मलम् ।
परिज्ञातोऽहमर्थस्तु परमात्माम्बरं भवेत् ॥ २४ ॥
तस्मान्निमेष एव प्रतीचोऽविद्यामल उन्मेषश्च नैर्मल्यलक्षणो मोक्ष
इत्याशयेनाह - अहमर्थ इति ॥ २४ ॥
अहम्भावः परिज्ञातो नाहम्भावो भवत्यलम् ।
एकतामम्बुनेवाम्बु याति चिन्नभसात्मना ॥ २५ ॥
नन्वहमर्थोऽहङ्कारः स कथं परिज्ञातोऽपि परमात्माम्बरं स्यात्तत्राह
- अहमर्थ इति । यावत्तत्त्वतो न परिज्ञातस्तावदेवाहङ्कारः सः परिज्ञाते
तु न तथेत्यर्थः ॥ २५ ॥
अहमादिजगद्दृश्यं किल नास्त्येव वस्तुतः ।
अवश्यमेव तत्तस्माच्छिष्यतेऽहंविचारतः ॥ २६ ॥
परिज्ञातो बाध्येत तर्हि किं शिष्यते तदाह - अवश्यमेवेति । तच्चिन्नभः
शिष्यते परिशिष्यते । विचारतः कोऽयमहम्पदार्थः स्यादिति
प्रमाणपूर्वकविचारजन्यज्ञानात् ॥ २६ ॥
बाध्यते चामलधियामपिशाचे पिशाचधीः ।
शिशूनां तावदाध्वान्तःकरणानां विचारणा ॥ २७ ॥
अपिशाचे पिशाचधीः अमलधियां प्रौढबुद्धीनां बाध्यते ।
आध्वान्तःकरणानां ईषन्मार्गप्रवृत्तबुद्धीनां तु शतशो नायं पिशाच
इत्युपदिष्टेऽपि विचारणा संशय एव भवति नतु बाध्यत इत्यर्थः ॥ २७ ॥
चिज्ज्योत्स्ना यावदेवान्तरहङ्कारघनावृता ।
विकासयति नो तावत्परमार्थकुमुद्वतीम् ॥ २८ ॥
यथा बालानां मोहो बोधनिरोधी तद्वत्प्रौढानामभिमानोऽपि
तन्निरोधीत्याशयेनाह - चिज्ज्योत्स्नेति ॥ २८ ॥
प्रमार्जितेऽहमित्यस्मिन्पदे स्वार्थे स्वयं विना ।
नरकस्वर्गमोक्षादितृष्णायाः कल्पनैव का ॥ २९ ॥
अहमभिमानापाये
भयरागमुमुक्षाहेतुकद्वेषरागगोचरनरकस्वर्गमोक्षतृष्णाप्यपैतीत्याह
- प्रमार्जिते इति ॥ २९ ॥
हृदि यावदहम्भावो वारिदः प्रविजृम्भते ।
तावद्विकासमायाति तृष्णाकुटजमञ्जरी ॥ ३० ॥
आक्रम्य चेतनां नित्यमहङ्काराम्बुदे स्थिते ।
जाड्यमेव स्थितिं याति न प्रकाशः कदाचन ॥ ३१ ॥
असन्नयमहङ्कारः स्वयं मिथ्या प्रकल्पितः ।
दुःखायैव न हर्षाय बालसम्भ्रमयक्षवत् ॥ ३२ ॥
मुधैव कल्पितो मोहमहम्भावः प्रयच्छति ।
अनन्तसंसारकरं दामादिष्विव दुर्मतौ ॥ ३३ ॥
मोहं भ्रमम् । दुर्मतौ अभिमानदूषितान्तःकरणे ॥ ३३ ॥
अयं सोऽहमिति स्फारान्मोहादन्यतरत्तमः ।
अनर्थभूतं संसारे न भूतं न भविष्यति ॥ ३४ ॥
तत्राप्ययं देहोऽहमिति भ्रमः सर्वानर्थनिदानमित्याह - अयमिति ॥ ३४ ॥
यत्किञ्चिदिदमायाति सुखदुःखमलं भवे ।
तदहङ्कारचक्रस्य प्रविकारो विजृम्भते ॥ ३५ ॥
प्रविकारो मुख्यः परिणामस्तदर्थत्वात्परिणामान्तराणाम् ॥ ३५ ॥
अहङ्काराङ्कुरः कृष्टो हृदयेनावरोपितः ।
सहस्रशाखं दुश्छेदं तस्य संसृतिनाशनम् ॥ ३६ ॥
येन अहङ्कारलक्षणो दुर्वृक्षाङ्कुरो हृदयेन विचारपरिष्कृतमनसैव
हलेन कृष्टः कर्षणेन मूलशैथिल्यमापादितः सन्नवरोपित उत्खाय
निरस्तस्तस्यार्थादात्मक्षेत्रे संसृतिनाशनं ज्ञानसस्यं सहस्रशाखं
प्रवृद्धं फलतीति शेषः ॥ ३६ ॥
अहम्भावोऽङ्कुरो जन्म वृक्षाणामक्षयात्मनाम् ।
ममेदमिति विस्तीर्णास्तेषां शाखाः सहस्रशः ॥ ३७ ॥
तदनुच्छेदेऽनर्थमाह - अहम्भाव इति । अक्षयात्मनां
ज्ञानकुठारमन्तरेणानुच्छेद्यस्वभावानाम् ॥ ३७ ॥
करटापातविस्फोटा भान्त्यर्था वासनादयः ।
विचार्यचारुरववत्तरङ्गवरपङ्क्तिवत् ॥ ३८ ॥
ज्ञानमात्रोच्छेद्यत्वादतिनिःसाराश्च ते इत्याह - करटापातेति । करटानां
काकानामापात ईषत्पतनं तेनापि विस्फुटन्ति विशीर्यन्ते इति
करटापातविस्फोटाः । विचार्यो विमृश्यश्चारुः रवो विस्फोटनशब्दो यस्य
तथाविधपक्वशाल्मलीफलादिवत् । तरङ्गाणां वरा रम्या याः
पङ्क्तयस्तद्वच्चापातभङ्गुराः फल्गव इत्यर्थः ॥ ३८ ॥
अहम्भावनया भाति त्वमहम्भाववर्जितः ।
संसारचक्रवहनमात्मनः परिरोधया ॥ ३९ ॥
वस्तुतस्त्वहम्भाववर्जित एवात्मा आत्मनः परिरोधया
तिरोधात्र्याहम्भावनया स्वयमेव संसारचक्रे वहनं भ्रमणमिव
भातीत्यर्थः ॥ ३९ ॥
अहम्भावतमो यावज्जन्मारण्ये विजृम्भते ।
तावदेता विवल्गन्ति चिन्तामत्ताः पिशाचिकाः ॥ ४० ॥
चिन्तालक्षणा मत्ताः पिशाचिका विवल्गन्ति विधावन्ति ॥ ४० ॥
अहङ्कारपिशाचेन गृहीतो यो नराधमः ।
न शास्त्राणि न मन्त्राश्च तस्याभावस्य सिद्धये ॥ ४१ ॥
तस्याहङ्कारपिशाचस्याभावस्य निवृत्तेः सिद्धये प्रभवन्तीति शेषः ॥ ४१ ॥
श्रीराम उवाच ।
केनोपायेन भगवन्नहङ्कारो न वर्धते ।
तं त्वं कथय मे ब्रह्मन्संसारभयशान्तये ॥ ४२ ॥
तं उपायम् ॥ ४२ ॥
श्रीवसिष्ठ उवाच ।
चिन्मात्रदर्पणाकारे निर्मले स्वात्मनि स्थिते ।
इति भावानुसन्धानादहङ्कारो न वर्धते ॥ ४३ ॥
इति उक्तप्रकारस्य भावस्य स्वात्मस्वभावस्यानुसन्धानात् सदा
स्मरणात्स्वात्मनि चिन्मात्रदर्पणाकारे निर्मले स्थिते सति अहङ्कारो न वर्धते ॥
४३ ॥
मिथ्येयमिन्द्रजालश्रीः किं मे स्नेहविरागयोः ।
इत्यन्तरानुसन्धानादहङ्कारो न जायते ॥ ४४ ॥
स्नेहविरागयोः रागद्वेषाभ्यां किं न
किञ्चित्प्रयोजनमित्यन्तर्मनस्यनुसन्धानात् ॥ ४४ ॥
नाहमात्मनि नो यस्य दृश्यश्रिय इति स्वयम् ।
शान्तेन व्यवहारेण नाहङ्कारः प्रवर्धते ॥ ४५ ॥
यस्य पुम्स आत्मनि नाहं अहङ्कारो नास्ति दृश्यश्रियश्च नो सन्ति इति स्थित्या
स्वयमेव शान्तेन ॥ ४५ ॥
अहं हि जगदित्यन्तर्हेयादेयदृशोः क्षये ।
समतायां प्रसन्नायां [प्रपन्नायां क्त्युभयत्र पाठः
क्वचित्] नाहम्भावः प्रवर्धते ॥ ४६ ॥
अन्तरहमिति बहिर्जगदिति हेयादेयव्य्वहारनिमित्तयोर्दृशोः क्षये सति
समतायामवैषम्यलक्षणायां प्रसन्नायाम् ॥ ४६ ॥
अहं चिज्जगदित्यन्तर्हेयादेयदृशोः क्षये ।
समतायां प्रसन्नायां [प्रपन्नायां क्त्युभयत्र पाठः
क्वचित्] नाहम्भावः प्रवर्धते ॥ ४७ ॥
अहं द्रष्टा चिद्दर्शनं जगद्दृश्यं इति त्रिपुटीप्रत्यये तत्रापीदं हेयं
शत्रुभूतमिदमादेयं मित्रभूतमिति दृशोः क्षये समतायां
सर्वात्मतालक्षणायाम् ॥ ४७ ॥
श्रीराम उवाच ।
किमाकृतिरहङ्कारः कथं सन्त्यज्यते प्रभो ।
सशरीरोऽशरीरश्च त्यक्ते तस्मिंश्च किं भवेत् ॥ ४८ ॥
सशरीरो जाग्रदहङ्कारः । अशरीरः स्वाप्नमानोरथिकाहङ्कारश्च । अथवा
सशरीरो देहमात्राहम्भावलक्षणः । अशरीरो
देहव्यतिरिक्तबुद्धिमात्रोपाधिकाहम्भावलक्षणः
सर्वाहम्भावलक्षणश्चेत्यर्थः । कथं केनोपायेन सन्त्यज्यते ॥ ४८ ॥
श्रीवसिष्ठ उवाच ।
त्रिविधो राघवास्तीह त्वहङ्कारो जगत्त्रये ।
द्वौ श्रेष्ठावितरस्त्याज्यः शृणु त्वं कथयामि ते ॥ ४९ ॥
अशास्त्रीयस्याहङ्कारस्य त्याजनार्थं शास्त्रीयौ द्वावहङ्कारौ विहितौ
सूक्ष्मात्मविषयः सार्वात्म्यविषयश्च
तयोस्तत्त्वदर्शनाप्रतिकूलत्वात्साम्प्रतिकत्वेन
सुत्यजत्वादपरिच्छिन्नात्मदर्शनद्वारत्वाच्च श्रेष्ठता । इतरस्य
देहमात्राहम्भावरूपस्यानर्थरूपत्वात्त्याज्यता चेत्यर्थः ॥ ४९ ॥
अहं सर्वमिदं विश्वं परमात्माहमच्युतः ।
नान्यदस्तीति परमा विज्ञेया सा ह्यहङ्कृतिः ॥ ५० ॥
अहं सर्वमिदं विश्वमिति कार्यब्रह्मविषया परमात्माहमच्युत इति
कारणविषया तत्पदवाच्यार्थलक्ष्यार्थविषया वा । अन्यदनहम्भूतं जगति
नास्तीत्यर्थः ॥ ५० ॥
मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते ।
सर्वस्माद्व्यतिरिक्तोऽहं वालाग्रशतकल्पितः ॥ ५१ ॥
जीवन्मुक्तस्य चतुर्थपञ्चमभूमिकास्थस्य ।
यद्यपीयमभ्यासदशापन्नस्यापि [यं तृतीयेत्यपि पाठः] भवति
तथापि जीवन्मुक्तेषु पक्वेति भावः । बालाग्रस्य केशाग्रभागस्य
शततमभाग इति कल्पितः । शोधनेन निरवयवः समर्थित इति यावत् ।
स्थौल्यविरहे बुद्धिसौक्ष्म्योपाधिकसौक्ष्म्यकाष्ठायां वाऽयं दृष्टान्तो
नत्वणुपरिमाणत्वे । तस्यावैदिकत्वात् । स चानन्त्याय कल्पत इति श्रुतिविरोधाच्चेति
बोध्यम् ॥ ५१ ॥
इति या संविदेषासौ द्वितीयाहङ्कृतिः शुभा ।
मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते ॥ ५२ ॥
अत एवाह - जीवन्मुक्तस्येति । षष्ठभूमिकास्थस्येत्याशयः ॥ ५२ ॥
अहङ्काराभिधा या सा कल्प्यते नतु वास्तवी ।
पाणिपादादिमात्रोऽयमहमित्येष निश्चयः ॥ ५३ ॥
ये तु सप्तमभूमिकारूढास्तेषु जीवनान्यथानुपपत्त्या या कल्प्यते नतु वास्तवी
सा कल्पना । कल्पयित्रा वेदित्रा वा प्रत्यक्षमननुभवात् ।
अतोऽत्यन्तासत्त्वादहङ्कार इति
नाममात्रपरिशेषादहङ्काराभिधामात्रमित्याह - अहङ्काराभिधेति ।
तृतीयं दर्शयति - पाणिपादादीति । अयं देह एवाहमित्येष निश्चयो
मिथ्याभिमानः ॥ ५३ ॥
अहङ्कारस्तृतीयोऽसौ लौकिकस्तुच्छ एव सः ।
वर्ज्य एव दुरात्मासौ शत्रुरेव [कन्दः संसारसन्ततेः इति
पाठः] परः स्मृतः ॥ ५४ ॥
अनेनाभिहतो जन्तुर्न भूयः परिरोहति ।
रिपुणानेन बलिना विविधाधिप्रदायिना ॥ ५५ ॥
न परिरोहति नापरिच्छिन्नस्वभावेनाविर्भवति । आधिग्रहणं
प्राधान्याद्दुःखमात्रोपलक्षणम् ॥ ५५ ॥
कष्टीकृतमतिर्लोकः सङ्कटेष्वेव मज्जति ।
अनया दुरहङ्कृत्या भावात्संसक्तया चिरम् ॥ ५६ ॥
भावात्स्वभावादेव चिरमनादिकालादारभ्य संसक्तया
कष्टीकृतमतिर्दुर्वासनाप्रचयदुष्प्रवृत्त्याद्यापादनेन पीडितचित्तः ॥ ५६ ॥
शिष्टाहङ्कारवाञ्जन्तुर्भगवान्याति मुक्तताम् ।
लोकाहङ्कारवद्दोषवपुरस्मिन्निरूपणः ॥ ५७ ॥
केन तर्हि तस्माज्जन्तुर्मुच्यते तदाह - शिष्टेति । शिष्टौ प्रागुक्तौ यौ
शुद्धाहङ्कारौ तद्वान्सन् दोषान्ममताप्रयुक्तरागादीन्वपति
सर्वतश्छिनत्तीति दोषवपुः सन् अस्मिन्सर्वात्मभावाहङ्कारेऽपि
लोकप्रसिद्धदेहात्मभावाहङ्कारवन्निरूपयतीति निरूपणो दृढीभूतः सन्
भगवान् हिरण्यगर्भ ईश्वरो वा स्वयमेव भावनया सम्पन्नो
देहाहम्भावाहङ्कारमुक्ततां यातीत्यर्थः ॥ ५७ ॥
न देहोऽस्मीति निर्णीय वर्जनं महतां मतम् ।
प्रथमं द्वावहङ्कारावङ्गीकृत्यान्त्यलौकिकौ ॥ ५८ ॥
अयमेव प्रकारोऽन्येषां ब्रह्मनिष्ठानां सम्मत इत्याह - न देह इति ।
अन्त्यो देहात्मभावाहङ्कार इव लौकिकौ निरूढतमौ आद्यौ द्वावहङ्कारौ
प्रथममङ्गीकृत्य न देहोऽस्मीति विचारतोऽपि निर्णीय तदहङ्कारवर्जनं
कार्यमिति महतां पूर्वेषामपि मतमित्यर्थः ॥ ५८ ॥
प्रथमं द्वावहङ्कारावङ्गीकृत्यान्त्यलौकिकौ ।
तृतीयाहङ्कृतिस्त्याज्या लौकिकी दुःखदायिनी ॥ ५९ ॥
उक्तमेवार्थ पुनरनूद्योपसंहरति - प्रथममिति ॥ ५९ ॥
अनया दुरहङ्कृत्या दामव्यालकटाः किल ।
तां दशां समनुप्राप्ता या कथास्वपि खेददा ॥ ६० ॥
तत्रोक्तोपाख्यानमपि निदर्शनमित्याह - अनयेति ॥ ६० ॥
श्रीराम उवाच ।
तृतीयां लौकिकीमेतां त्यक्त्वा चित्तादहङ्कृतिम् ।
किम्भावः पुरुषो ब्रह्मन्प्राप्नुयादात्मनो हितम् ॥ ६१ ॥
प्रश्नद्वये समाहिते रामस्तृतीयं
प्रश्नमर्थात्तृतीयाहङ्कारनिवृत्तिफलप्रश्नतया
पर्यवसन्नमध्यवस्यंस्तादृशपुरुषस्थितिप्रकारभेदान्पृच्छति -
तृतीयामिति । के भावाः स्थितिप्रकारा यस्य स किम्भावः ॥ ६१ ॥
श्रीवसिष्ठ उवाच ।
एषा तावत्परित्याज्या त्यक्त्वैतां दुःखदायिनीम् ।
यथा यथा पुमांस्तिष्ठेत्परमेति तथा तथा ॥ ६२ ॥
यथा यथा सर्वाहम्भावेन शुद्धाहम्भावेन
श्रवणगुरुशुश्रूषादिपरतया सप्तभूमिकाभेदेषु वा येन येन प्रकारेण
स्थातुं शक्नोति तथा तथा स्वरूपसुखाभिव्यक्त्युत्कर्षलाभात्परमेतीत्यर्थः
॥ ६२ ॥
अहङ्कारदृशावेते पूर्वोक्ते भावयन्यदि ।
तिष्ठेदुपैति परमं तत्पदं पुरुषऽनघ ॥ ६३ ॥
तदेव प्रपञ्चयति - अहङ्कारेत्यादिना । पूर्वोक्ते आद्ये द्वे ॥ ६३ ॥
अथ ते अपि सन्त्यज्य सर्वाहङ्कृतिवर्जितः ।
सन्तिष्ठेत तथात्युच्चैः पदमेवाधिरोहति ॥ ६४ ॥
सर्वदा सर्वयत्नेन लौकिकी दुरहङ्कृतिः ।
परमानन्दबोधाय वर्जनीयाऽनया धिया ॥ ६५ ॥
शतकृत्वोऽपि पथ्यं वक्तव्यमिति
न्यायात्पुनर्देहात्मभावनात्यागगुणान्कीर्तयंस्तदावश्यकत्वं दर्शयति
- सर्वदेत्यादिना ॥ ६५ ॥
शरीरास्थामयापुण्यदुरहङ्कारवर्जनम् ।
अत्यन्तपरमं श्रेय एतदेव परं पदम् ॥ ६६ ॥
शरीरास्थामयः अपुण्यः पापरूपो यो दुरहङ्कारस्तस्य वर्जनम् ॥ ६६ ॥
भावादहङ्कृतिं त्यक्त्वा स्थूलामेतां हि लौकिकीम् ।
तिष्ठन्व्यवहरन्वापि न नरः प्रपतत्यधः ॥ ६७ ॥
भावनं भावो विचारस्तस्मात् ॥ ६७ ॥
संशान्ताहङ्कृतेर्जन्तोर्भोगा रोगा महामते ।
न स्वदन्ते सुतृप्तस्य यथा प्रतिविषा रसाः ॥ ६८ ॥
प्रतिपन्नविषाः प्रतिविषाः । विषसम्पृक्ता इति यावत् ॥ ६८ ॥
भोगेष्वस्वदमानेषु पुंसः श्रेयः पुरो गतम् ।
क्षीणेऽन्धकारे किं नाम मनसोऽन्यत्प्रवर्तते ॥ ६९ ॥
प्रतिबन्धनिरासात्पुरोगतमिव भवतीति शेषः । मनसः अन्धकारे
अन्धकारवदग्रहणान्यथाग्रहणनिमित्तेऽहङ्कारे क्षीणे सत्यन्यत्किं
प्रतिबन्धकं प्रवर्तते येन श्रेयःप्राप्तिविघातः स्यात् । न किञ्चिदित्यर्थः ॥ ६९
॥
अहङ्कारानुसन्धानवर्जनादेव राघव ।
पौरुषेण प्रयत्नाच्च तीर्यते भवसागरः ॥ ७० ॥
पौरुषेण धैर्येण श्रवणादिप्रयत्नाच्च ॥ ७० ॥
नाहं न तेन मम किञ्चिदपीति मत्वा
सर्वं च मे सकलमप्यहमेव चेति ।
लब्धास्पदं मनसि संविदमेवमीड्यां
नीत्वा स्थितिं परमुपैति पदं महात्मा ॥ ७१ ॥
प्रथमं सकलमप्यहमेव तेन सर्वं च मे इति मत्वा तेन देहादि नाहं
तत्सम्बन्धि च किञ्चिदपि मम न इति मत्वा तेन सर्वप्रतिबन्धक्षयान्मनसि
लब्धास्पदं यथा स्यात्तथा ईड्यां पूज्यां एवं प्राग्विस्तरोक्तप्रकारां
शुद्धात्मसंविदं नीत्वा प्रापय्य क्रमेण सप्तभूमिकास्थितिं प्राप्य
महानपरिच्छिन्न आत्मा स्वयं सन् परं पदं विदेहकैवल्यमुपैति
प्राप्नोतीत्यर्थः ॥ ७१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे
दामव्यालकटोपाख्यानेऽहङ्कारविचारो नाम त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे अहङ्कारविचारो
नाम त्रयस्त्रिंशः सर्गः ॥ ३३ ॥