द्वात्रिंशः सर्गः ३२
श्रीराम उवाच ।
सतामप्यसतामेव बालयक्षपिशाचवत् ।
दामव्यालकटादीनां दुःखस्यान्तः कथं भवेत् ॥ १ ॥
मत्स्यसारसजन्माप्त्या वियुक्ता राजसद्मनि ।
मशकादितनुष्वाप्तज्ञानास्ते मुक्तिमाययुः ॥ १ ॥
अज्ञबुद्ध्या सतामपि परमार्थतोऽसतामेव दुःखस्यान्तो मोक्षः कथं
भवेत् । कदा भविष्यतीति यावत् ॥ १ ॥
श्रीवसिष्ठ उवाच ।
दामव्यालकुटुम्बैस्तैस्तदैव यमकिङ्करैः ।
प्रार्थितेन यमेनोक्तमिदं शृणु रघूद्वह ॥ २ ॥
दामव्यालकटानां कुटुम्बैर्बान्धवभूतैर्यमकिङ्करैः ॥ २ ॥
यदा वियोगमेष्यन्ति श्रोष्यन्ति च निजां कथाम् ।
दामादयस्तदा मुक्ता भविष्यन्तीत्यसंशयम् ॥ ३ ॥
निजां स्वीयां
शम्बरमायाकल्पितजीवभावनिर्वासनाद्वयचिन्मात्रस्वस्वाभाव्यकथाम् ।
तदा स्वतत्त्वं बुद्ध्वा मुक्ता भविष्यन्तीति असंशयं निःसंशयं
यमेनोक्तमित्यर्थः ॥ ३ ॥
श्रीराम उवाच ।
स्ववृत्तान्तमिमं कुत्र कदा कथयते कथम् ।
श्रोष्यन्ति भगवंस्ते वा वर्णयेदं यथाक्रमम् ॥ ४ ॥
ते दामादयः । त्वर्थे वाशब्दः । कथयते कथयतः सकाशात् । व्यत्ययेन
पञ्चम्यर्थे चतुर्थी ॥ ४ ॥
श्रीवसिष्ठ उवाच ।
काश्मीरेषु महापद्मसरसीतीरपल्वले ।
भूयोभूयोऽनुभूयैव मत्स्ययोनिपरम्पराम् ॥ ५ ॥
आलोलिताशया लोलाः कालेन लयमागताः ।
तत्रैव पद्मसरसि ते भविष्यन्ति सारसाः ॥ ६ ॥
आलोलितः ग्रीष्मे महिषसूकरादिभिरालोडित आशयः पल्वलं येषां तथाविधाः
सन्तः ॥ ६ ॥
तत्र ख्लारमालासु सरोजपटलीषु च ।
शैवालवरवल्लिषु तरङ्गवलनासु च ॥ ७ ॥
चलत्कुसुमदोलासु नीलोत्पललतासु च ।
सीकरौघाभ्रलेखासु शीतलावर्तवर्तिषु ॥ ८ ॥
सारसाः सरसम्भोगान्भुक्त्वा भुवनभूषणाः ।
विहृत्य सुचिरं कालमलमागतशुद्धयः ॥ ९ ॥
ते वियुक्ता भविष्यन्ति मुक्तये लब्धबुद्धयः ।
रजःसत्त्वतमांसीव भेदं प्राप्य यदृच्छया ॥ १० ॥
लब्धबुद्धयः प्राप्तविचारबुद्धयः । यथा रजःसत्त्वतमांसि विवेकदृशा
पर्यालोच्यमानानि मुक्तये भेदं विवेकं प्राप्नुवन्ति तद्वत् ॥ १० ॥
काश्मीरमण्डलस्यान्तर्नगरं नगशोभितम् ।
नाम्नाधिष्ठानमित्येव श्रीमत्तस्य भविष्यति ॥ ११ ॥
नगैर्वृक्षैरद्रिभिश्च शोभितम् ॥ ११ ॥
प्रद्युम्नशिखरं नाम तस्य मध्ये भविष्यति ।
शृङ्गं लघु सरोजस्य कोशचक्रमिवोदरे ॥ १२ ॥
लघु लङ्घनार्हं स्वारोहमिति यावत् । कोशचक्रं कर्णिकेव ॥ १२ ॥
तस्य मूर्ध्नि गिरेर्गेहं कश्चिद्राजा भविष्यति ।
अभ्रङ्कषमहाशालं शृङ्गे [शालशृङ्गे इति टिकानुगुणः
पाठः] शृङ्गमिवापरम् ॥ १३ ॥
तस्य गिरेर्मूर्ध्नि कश्चित्किञ्चिद्गेहं अन्येषां गृहाणां राजेव राजा
भविष्यति । अभ्रमाकाशं कषति च्छिद्रीकरोतीवेत्यभ्रङ्कषे महति
शालवृक्षस्य शृङ्गे मध्यमशाखाग्रे । अभ्रङ्कषा महत्यः शालाः
प्रासादा यत्र तथाविधे गिरिशृङ्गे अपरं शृङ्गमिवेत्युत्प्रेक्षा वा ॥ १३ ॥
गृहस्येशानकोणेऽस्ति शिरोभित्तिव्रणोदरे ।
तस्यानिशमविश्रान्तवाताधूततृणान्तिके ॥ १४ ॥
शिरोभित्तेरूर्ध्वकुड्यस्य व्रणो विदीर्णशिलासन्धिभागस्तस्योदरे अस्ति नीडमिति
शेषः ॥ १४ ॥
आलये दानवो व्यालः कलविङ्को भविष्यति ।
प्रथमाल्पश्रुतशास्त्र इवार्थरहितारवः ॥ १५ ॥
आलये तस्मिन्नीडे कलविङ्कश्चटकः । प्रथममल्पं श्रुतं शास्त्रं येन
तथाविधो द्विज इव अर्थरहितो निरर्थक आरवो यस्य । चीचीकूचीत्यव्यक्तवाशित इति
यावत् ॥ १५ ॥
तस्मिन्नेव तदा काले तत्र राजा भविष्यति ।
श्रीयशस्करदेवाख्यः शक्रः स्वर्ग इवापरः ॥ १६ ॥
दानवो दामनामात्र मशकस्तस्य सद्मनि ।
भविष्यति बृहत्स्तम्भपृष्ठच्छिद्रे मृदुध्वनिः ॥ १७ ॥
अधिष्ठानाभिधे तस्मिन्नेवान्तर्नगरे तदा ।
रत्नावलीविहाराख्यो विहारोऽपि भविष्यति ॥ १८ ॥
विहरन्त्यस्मिञ्जना इति विहारः क्रीडागृहम् ॥ १८ ॥
तस्मिंस्तद्भूमिपामात्यो नरसिम्ह इति श्रुतः ।
करामलकवद्दृष्टबन्धमोक्षो निवत्स्त्यति ॥ १९ ॥
करामलकवत् दृष्टौ श्रुतियुक्तिगुरूपदेशस्वानुभवैः परीक्ष्य
रत्नतत्त्वमिव निश्चितौ बन्धमोक्षौ येन ॥ १९ ॥
भविष्यति गृहे तस्य क्रीडनः क्रकरः खगः ।
कटो मायासुरो नाम कृतराजतपञ्जरः ॥ २० ॥
तस्यामात्यस्य क्रीडनः क्रीडासाधनभूतः क्रकरः शारिकाभेदः कटो नाम
मायासुर इत्यन्वयः ॥ २० ॥
स नृसिंहो नृपामात्यश्लोकैर्विरचितामिमाम् ।
दामव्यालकटादीनां कथयिष्यति सत्कथाम् ॥ २१ ॥
सकटः क्रकरः श्रुत्वा तत्कथासंस्मृतात्मभूः ।
शान्तमित्थं महाशान्तं परं निर्वाणमेष्यति ॥ २२ ॥
संस्मृत आत्मैव सर्वतः सर्वदा भवतीत्यात्मभूरपरिच्छिन्नात्मा येन ।
शान्तं बाधितशम्बरकलितजीवरूपम् । इत्थमेव महाशान्तं मूलतः
शान्तं संसाररूपं यत्र तथाविधं परं मोक्षम् ॥ २२ ॥
प्रद्यिम्नशिखरप्रान्तवास्तव्यः कलविङ्ककः ।
तत्रत्यैश्च कथां श्रुत्वा परं निर्वाणमेष्यति ॥ २३ ॥
प्रद्युम्नस्य गिरेः शिखरप्रान्ते वसतीति वास्तव्यः । वसेस्तव्यत्कर्तरि णिच्च इति
तव्यत्प्रत्ययः । तत्रत्यैश्चादन्यैश्च वर्ण्यमानामिति शेषः । कथां
स्वपूर्ववृत्तान्तघटितब्रह्मकथम् ॥ २३ ॥
राजमन्दिरदार्वन्तर्व्रणवास्तव्यतां गतः ।
मशकोऽपि प्रसङ्गेन श्रुत्वा शान्तिमुपैष्यति ॥ २४ ॥
दार्वन्तः स्तम्भपृष्ठे । शान्तिं मोक्षम् ॥ २४ ॥
प्रद्युम्नशृङ्गाच्चटको मशको राजमन्दिरात् ।
विहारात्क्रकरश्चेति मोक्षमेष्यन्ति राघव ॥ २५ ॥
एष ते कथितः सर्वो दामव्यालकथाक्रमः ।
मायैवमेव संसारशून्यैवात्यन्तभासुरा ॥ २६ ॥
भ्रमयत्यपरिज्ञानान्मृगतृष्णाम्बुधीरिव ।
महतोऽपि पदादेवं नानाज्ञानवशादधः ॥ २७ ॥
इतरपदेभ्यो महतोऽपि पदात् अपरिपक्वज्ञानदशातः ॥ २७ ॥
पतन्ति मोहिता मूढा दामव्यालकटा इव ।
क्व भ्रूक्षेपविनिष्पिष्टमेरुमन्दरसद्मता ॥ २८ ॥
निर्वासनत्वप्रयुक्तप्राक्तनोत्कर्षस्य पश्चात्तनमशकादिजन्मनश्च
महदन्तरं दर्शयति - क्वेत्यादिना ॥ २८ ॥
क्व राजगृहदार्वन्तर्व्रणे मशकरूपता ।
क्व चपेटभुजामात्रपातितार्केन्दुबिम्बता ॥ २९ ॥
चपेटः करतलेन प्रहारस्तेन भुजामात्रेण बाहुमात्रेण । विनैव प्रहरणानीति
यावत् ॥ २९ ॥
क्व प्रद्युम्नगिरौ गेहे भित्तिव्रणविहङ्गता ।
क्व पुष्पलीलया लोलकरतोलितमेरुता ॥ ३० ॥
पुष्पलीलया पुष्पवल्लोलेन करेण तोलितो भारेयत्तयावधारितो मेरुर्यैस्तद्भावः
क्व ॥ ३० ॥
क्व वा शृङ्गे नृसिंहस्य गृहे क्रकरपोतता ।
चिदाकाशोऽहमित्येव रजसा रञ्जितप्रभः ॥ ३१ ॥
नृसिंहस्य मन्त्रिणः । इदानीं राजसाहङ्काररञ्जनेन चिदाकाशस्य
देहाद्याकाराभिमानावतारप्रकारं दर्शयति - चिदाकाश इति ॥ ३१ ॥
स्वरूपमत्यजन्नेव विरूपमपि बुध्यते ।
स्वयैव वासनाभ्रान्त्या सत्ययेवाप्यसत्यया ॥ ३२ ॥
स्वरूपं स्वाभाविकस्वप्रकाशताम् । विरूपं
अहङ्कारप्राणदेहेन्द्रियादिरूपम् ॥ ३२ ॥
मृगतृष्णाम्बुबुद्ध्येव याति जन्तुरिवान्तरम् ।
तरन्ति ते भवाम्भोधिं स्वप्रवाहधियैव ये ॥ ३३ ॥
अन्तरं चिद्रूपाद्भेदमिव याति । इदानीं तत्तरणोपायमाह - तरन्तीति ।
स्वप्रवाहधिया प्रत्यक्प्रवणबुद्ध्या ॥ ३३ ॥
शास्त्रेणासादितं दृश्यमिति निर्वाणसंस्थिताः ।
नानादुःखविकाराणि शुष्कतर्कमतानि ये ॥ ३४ ॥
शास्त्रेण महावाक्यादिलक्षणेन । किमिति महावाक्यावलम्बस्तर्कैरेव
तन्निर्णयः कुतो न स्यात्तत्राह - नानेति ॥ ३४ ॥
यान्ति श्वभ्रं [स्वभ्रं इत्यपि पाठः] जलानीव स्वलाभं
नाशयन्ति ते ।
स्वानुभूतिप्रसिद्धेन मार्गेणागमगामिना ॥ ३५ ॥
स्वलाभं पारमार्थिकात्मभावस्थितिलक्षणपरमपुरुषार्थलाभम् ।
औपनिषदमार्गमनुभूतिरपि संवदति न तार्किकमित्याशयेनाह -
स्वानुभूतीति । आगमगामिना श्रुत्यनुसारिणा ॥ ३५ ॥
न विनाशो भवत्यङ्ग गच्छतां परमां गतिम् ।
इदं मे स्यादिदं मे स्यादितिबुद्धेर्महामते [बुद्धेरित्यत्र
वृद्धैरिति क्वचित्पठ्यते] ॥ ३६ ॥
अङ्गेत्यामन्त्रणे । केन तर्हि पुरुषार्थविनाशस्तदाह - इदमिति । इतिबुद्धेः
पुरुषस्य ॥ ३६ ॥
स्वेन दौर्भाग्यदैन्येन न भस्माप्युपतिष्ठते ।
वेत्ति नित्यमुदारात्मा त्रैलोक्यमपि यस्तृणम् ॥ ३७ ॥
दौर्भाग्यप्रयुक्तदैन्येनेत्यर्थः । नष्टस्य च पुरुषार्थस्य भस्मापि
नोपतिष्ठत इति सर्वथा नैराश्यमित्यर्थः । एवं स्पृहाया अनर्थत्वमुक्त्वा
वैराग्यस्य सर्वानर्थनिवर्तकत्वमाह - वेत्तीति ॥ ३७ ॥
तं त्यजन्त्यापदः सर्वाः सर्पा इव जरत्त्वचम् ।
परिस्फुरति यस्यान्तर्नित्यं सत्त्वचमत्कृतिः ॥ ३८ ॥
विरक्तस्य चेज्ज्ञानकलापि स्यात्तर्हि तस्य दूरे आपच्छङ्का प्रत्युत सर्वे देवाः
स्वोपजीव्यं स्वाधारं ब्रह्माण्डमिव सदा तं पालयन्त्यपीत्याह -
परिस्फुरतीति ॥ ३८ ॥
ब्राह्ममण्डमिवाखण्डं लोकेशाः पालयन्ति तम् ।
अप्यापदि दुरन्तायां नैव गन्तव्यमक्रमे ॥ ३९ ॥
न क्रम्यत इत्यक्रमेऽसन्मार्गे ॥ ३९ ॥
राहुरप्यक्रमेणैवं पबन्नप्यमृतं मृतः ।
सच्छास्त्रसाधुसम्पर्कमर्कमुग्रप्रकाशदम् ॥ ४० ॥
कस्तर्हि मार्गस्तमाह - सच्छास्त्रेति ।
सच्छास्त्रमुपनिषदस्तदुपबृंहणानि च तदर्थनिष्ठाः
साधवस्तदुभयेन सम्पर्कः सदा तन्निषेवणं तमेवार्क सूर्य निर्दयं
निःशेषसंसारसंहारकत्वादुग्रः शिवः परमात्मा तस्य प्रकाशदं
साक्षात्कारहेतुं तमोनभिभवनीयं प्रकाशदं च ॥ ४० ॥
ये श्रयन्ते न ते यान्ति मोहान्ध्यस्य पुनर्वशम् ।
अवश्या वश्यतां यान्ति यान्ति सर्वापदः क्षयम् ॥ ४१ ॥
मोहलक्षणस्यान्ध्यस्यान्धकारस्य । इदानीं वैराग्यादिगुणान्पुनः
प्रशंसति - अवश्या इति ॥ ४१ ॥
अक्षयं भवति श्रेयः कृतं येन गुणैर्यशः ।
येषां गुणेष्वसन्तोषो रागो येषां श्रुतं प्रति ॥ ४२ ॥
येन पुरुषश्रेष्ठेन वैराग्यशमदमादिगुणैर्यशः सत्स्वग्रगण्यत्वेन
विख्यातिः । उक्तगुणेषु येषामसन्तोषः अनलम्बुद्धिः ।
श्रुतमध्यास्मशास्त्रश्रवणाभ्यासादि प्रति येषां सदा राग इच्छा ॥ ४२ ॥
सत्यव्यसनिनो ये च ते नराः पशवोऽपरे ।
यशश्चन्द्रिकया येषां भासितं जन्तुहृत्सरः ॥ ४३ ॥
ये च सत्यं सत्यवाक्यं ब्रह्म च तयोर्व्यसनिनस्त एव
नरजन्मसार्थकीकरणान्नराः अपरे तु नरा अपि पशुवद्व्यर्थजन्मत्वात्पशव
इत्यर्थः । येषां यशोलक्षणस्य चन्द्रस्य चन्द्रिकया जन्तूनां प्राणिनां हृत्
हृदयलक्षणं सरो भासितं आह्लादकैरवोन्मेषैः प्रकाशितम् ॥ ४३ ॥
तेषां क्षीरसमुद्राणां नूनं मूर्तौ स्थितो हरिः ।
भुक्तं भोक्तव्यमखिलं दृष्टा द्रष्टव्यदृष्टयः ॥ ४४ ॥
त एव क्षीरसमुद्रा अत एव तेषां मूर्तौ हरिर्विष्णुः परमात्मा स्फुटं स्थित
इत्यर्थः । इदानीं जगतो हितैषी पितृमातृभ्योऽप्याप्ततमः श्रीवसिष्ठः
सर्वैरनादौ संसारे पुनःपुनः सहानर्थपरम्पराफलैरनुभूतेषु
विषयेषु दृश्यकौतुकविशेषेषु च नापूर्वं किञ्चिदवशिष्टमिति
दर्शयन्वैराग्यशास्त्राचारनिष्ठामेव प्रशंसमानः प्ररोचयति -
भुक्तमित्यादिना ॥ ४४ ॥
किमन्यद्भवभङ्गाय भूयो भोगेषु लुब्धता ।
यथाक्रमं यथाशास्त्रं यथाचारं यथास्थिति ॥ ४५ ॥
अन्यद्भवेषु भाविजन्मपरम्परासु भङ्गाय स्वात्मविनाशाय भूयोऽपि
भोगेषु लुब्धता किं युक्ता । सर्वथा न युक्तेत्यर्थः । अन्यद्भवेत्यत्र दुक्
छान्दसः । यथाक्रमं स्वस्वाधिकारानुरूपम् । यथाशास्त्रं
तादृशाधिकारिकचित्तशुद्ध्याद्यनुकूलशास्त्रानुरूपम् । तत्रापि यथाचारं
पूर्वपूर्वाचार्यप्रवर्तितसम्प्रदायानुरूपम् । यथास्थिति
तत्राप्येकैकभूमिकायां यावत्परिपाकं स्थितिमनतिक्रम्येत्यर्थः ॥ ४५ ॥
स्थीयतां मुच्यतामन्तर्भोगजालमवास्तवम् ।
संस्तवः क्रियतां कीर्त्या गुणैर्गगनगामिभिः ॥ ४६ ॥
संस्तवः साधुजनमुखेषु स्वसाधुवादः । गगनगामिभिः
स्वर्गपर्यन्तप्रख्यातैः ॥ ४६ ॥
त्रायेते मृत्युतो ह्येते न कदाचन भोगकाः ।
गायन्ति सिद्धसुन्दर्यो येषामिन्दुसितं यशः ॥ ४७ ॥
एते संस्तवकीर्ती । स्त्रीशेषश्छान्दसः सामान्ये नपुंसकं वा ॥ ४७ ॥
गीतिभिर्गगनाभोगैस्ते जीवन्ति मृताः परे ।
परमं पौरुषं यत्नमास्थायादाय सूद्यमम् ॥ ४८ ॥
गगनाभोगैर्गगनवत्सर्वदेशकालव्यापिभिः । यशः कथं सम्पादयितुं
शक्यते तत्राह - परममिति ॥ ४८ ॥
यथाशास्त्रमनुद्वेगमाचरन्को न सिद्धिभाक् ।
यथाशास्त्रं विहरता त्वरा कार्या न सिद्धिषु ॥ ४९ ॥
आचरन् साधनानीति शेषः ॥ ४९ ॥
चिरकालपरिपक्वा सिद्धिः पुष्टफला भवेत् ।
वीतशोकभयायासमगर्वमपयन्त्रणम् ॥ ५० ॥
अपयन्त्रणं शीघ्रतानिर्बन्धरहितम् ॥ ५० ॥
व्यवहारो यथाशास्त्रं क्रियतां मा विनश्यताम् ।
जीवो जीर्णान्धकूपेषु भवेष्वन्तमिवागतः ॥ ५१ ॥
भवतां भूरिसङ्गानामधुनेन्द्रियदामतः ।
इतःप्रभृति मा भूयो गम्यतामधमादधः ॥ ५२ ॥
भूरिसङ्गानां भवतां जीव इन्द्रियदामतः अन्तं मृत्युमिवागतः सन्
भवलक्षणेषु जीर्णान्धकूपेषु मा विनश्यतामिति पूर्वत्रान्वयः ॥ ५२ ॥
इदं विचार्यतां शास्त्रमस्त्रमापन्निवारणम् ।
रणे शितशरश्रेणिशतनिर्लूनवारणे ॥ ५३ ॥
शितैस्तीक्ष्णिः शरश्रेणिशतैर्निर्लूनाश्छिन्ना वारणा गजा यत्र तथाविधेऽपि
रणे सद्यः प्रसक्तमहाभयमृत्य्वाद्यापदामपि
निवारणमजरामरनित्यनिरतिशयानन्दात्मप्रदर्शकमिदं शास्त्रमवश्यं
विचार्यतामित्यर्थः ॥ ५३ ॥
जीवमुद्रा च किं पङ्के भोगगन्धो निरस्यताम् ।
किमर्थमात्रया कार्यमार्याः शास्त्रमवेक्ष्यताम् ॥ ५४ ॥
किं पङ्के ग्रीष्मोष्मसन्तप्तपल्वलदुर्गन्धिपङ्कसदृशे संसारे पुनः
पुनर्मृतोज्जीवितजरन्मण्डूकवज्जीवमुद्रा जीविताशेति यावत् । किं
अतितुच्छेत्यर्थः । मुह्यसि इति पाठे स्पष्टम् । अतो भोगगन्धो भोगवासना
हृदयादपनीयताम् । तदर्थया अर्थमात्रया द्रव्यलेशेन किं कार्यम् । हे
आर्याः सर्व परित्यज्य मोक्षशास्त्रमेवावेक्ष्यतामित्यर्थः ॥ ५४ ॥
इदं बिम्बमिदं बिम्बमिति सत्यं विचार्यताम् ।
धिया परप्रेरणया यातमापशवो यथा ॥ ५५ ॥
विषयाकारवृत्तिप्रतिफलितचिदाभासानामन्तःकरणावच्छिन्नं चैतन्यं
बिम्बम् । अन्तःकरणोपहितचिदाभासस्य तु शुद्धं ब्रह्मचैतन्यमेव बिम्बम् ।
प्रतिबिम्बतदुपाधी असत्ये बिम्बं तु सत्यम् । तत्रान्तःकरणोपाध्यसत्यत्वे
तदवच्छिन्नबिम्बचैतन्यस्य तत्समनियतचिदाभासबिम्बभूतब्रह्मचैतन्यस्य
च भेदो मिथ्यैवेत्यखण्डं सत्यं प्रत्यगभिन्नं ब्रह्मचैतन्यमेव
परिशिष्यत इति विचार्यतामित्यर्थः । ननु परे
साङ्ख्यपातञ्जलगौतमकणादबुद्धार्हदादयो
नोक्तप्रतिबिम्बताप्रक्रियामिच्छन्ति किन्त्वन्यथान्यथैव निरूपयन्तस्तत्रैव
जनान्प्रेरयन्ति तत्प्रेरणापि किमुपादेया नेत्याह - धियेति । यथा ह्ययं
ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन्
इत्यादिस्वतन्त्रश्रुतिप्रमाणानुसारिणां पशुवत्परप्रेरणया
यानमनुचितमेवेति भावः ॥ ५५ ॥
दौर्भाग्यदायिनी दीना शुभहीना विचारणा ।
घनदीर्घमहानिद्रा त्यज्यतां सम्प्रबुध्यताम् ॥ ५६ ॥
एवं शास्त्रार्थविचारणां विधाय सम्प्रति
जीवनधनपशुपुत्रादिसांसारिकविचारणां दर्शनान्तरविचारणां च
त्याजयितुं निन्दति - दौर्भाग्येति । उदर्के दौर्भाग्यदायिनी स्वकाले
कार्पण्यहेतुत्वाद्दीना तुच्छफलत्वात्फलहीना
गाढतमओमात्रनिवेशाद्धनदीर्घमहानिद्रा त्यज्यताम् ॥ ५६ ॥
सुप्तं मास्थीयतां वृद्धकच्छपेनेव पल्वले ।
उत्थानमङ्गीक्रियतां जरामरणशान्तये ॥ ५७ ॥
अनर्थायार्थसम्पत्तिर्भोगौघो भवरोगदः ।
आपदः सम्पदः सर्वाः सर्वत्रानादरो जयः ॥ ५८ ॥
पूर्वोत्तरार्धयोराद्यवाक्यार्थयोः प्रथमौ विधेयौ
द्वितीयवाक्यार्थयोस्तद्वैपरीत्यम् ॥ ५८ ॥
लोकतन्त्रानुसारेण विचाराद्व्यवहारिणाम् ।
शास्त्राचारानुसारेण कर्मणा सत्फलाय च ॥ ५९ ॥
लोकतन्त्रं जनवृत्तं तदनुसारेण तदविरोधिना । शास्त्राचारौ अनुसरति
तथाविधेन कर्मणा तत्फलाय चोत्थानमङ्गीक्रियतामिति व्यवहितानुषङ्गः ॥
५९ ॥
आचारचारुचरितस्य विविक्तवृत्तेः
संसारसौख्यफलदुःखदशास्त्रगृध्नोः [दशास्वगृध्रोः इति
पाठष्टीकानुगुणः सुसमीचीनश्चेति प्रतीयते अन्यथा
मूलेऽनर्थापातष्टीकाननुगुणत्वं चापतेत] ।
आयुर्यशांसि च गुणाश्च सहैव लक्ष्म्या
फुल्लन्ति माधवलता इव सत्फलाय ॥ ६० ॥
उक्तमर्थ सङ्क्षिप्योपसंहरति - आचारेति । विविक्तबुद्धेर्विवेकिबुद्धेः ।
अगृध्नोरनभिलाषस्य । फुल्लन्ति विकसन्ति । माधवलता वसन्तकालपल्लवितलता
इव । सत्फलाय उत्तमफलाय ॥ ६० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे
दामव्यालकटोपाख्याने सदाचारनिरूपणं नाम द्वात्रिंशः सर्गः ॥
३२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
सदाचारनिरूपणं नाम द्वात्रिंशः सर्गः ॥ ३२ ॥